रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
अष्टमः सर्गः २४३
अष्टमः सर्गः २४३
चिह्न धारी अज को देखकर लोगों ने यह समझा कि मोक्ष एवं ऐश्वर्य देने वाला धर्म दो रूपों में पृथ्वी पर अवतीर्ण है ॥ १६ ॥
अजिताधिगमाय मन्त्रिभिर्युयुजे नीतिविशारदैरजः ।
अनपायिपदोपलब्धये रघुराप्तैः समियाय योगिभिः ॥ १७ ॥
**अन्वयः—**अजः अजिताधिगमाय नीतिविशारदैः मन्त्रिभिः युयुजे, रघुः अनपायिपदोपलब्धये आप्तैः योगिभिः समियाय ।
अजितेति । अजोऽजिताधिगमायाजितपदलाभाय नीतिविशारदैर्नीतिज्ञैर्मन्त्रिभिर्युयुजे संगतः । रघुरप्यनपायिपदस्योपलब्धये मोक्षस्य प्राप्तये यथार्थदर्शिनो यथार्थवादिनश्चाप्ताः तैर्योगिभिः समियाय संगतः । उभयत्राप्युपायचिन्तार्थमिति शेषः ।
**भाषार्थ—**एक ओर अज जीते हुए देशों को जीतने के लिए नीति विशारद मन्त्रियों के साथ दिग्विजय का विचार करने लगे । दूसरी ओर रघु अविनश्वर मोक्षपद पाने के लिए तत्त्वदर्शी योगियों से मोक्ष मार्ग की चर्चा करने लगे ।
नृपतिः प्रकृतीरवेक्षितुं व्यवहारासनमाददे युवा ।
परिचेतुमुपांशु धारणां कुशपूतं प्रवयास्तु विष्टरम् ॥ १८ ॥
**अन्वयः—**युवा नृपतिः प्रकृतिः अवेक्षितुं व्यवहारासनम आददे प्रवयाः तु धारणां परिचेतुम् उपांशु कुशपूतम् विष्टरम् आददे ।
नृपतिरिति । युवा नृपतिरजः प्रकृतिः प्रजाः कार्यार्थिनीरवेक्षितुम् । दुष्टादुष्टपरिज्ञानार्थमित्यर्थः । व्यवहारासनं धर्मासनमाददे स्वीचकार । 'व्यवहारान्नृपः पश्येत्' इति याज्ञवल्क्यस्मरणात् । प्रवयाः स्थविरो नृपतिः रघुस्तु । 'प्रवयाः स्थविरो वृद्ध' इत्यमरः । धारणां चित्तस्यैकाग्रतां परिचेतुमभ्यसितुमुपांशु विजने । 'उपांशु विजने प्रोक्तम्' इति हलायुधः । कुशैः पूतं विष्टरमासनमाददे । 'यमादिगुणसंयुक्ते मनसः स्थितिरात्मनि । धारणा प्रोच्यते सद्भिर्योगशास्त्रविशारदैः ॥' इति वसिष्ठः ।
**भाषार्थ—**इधर युवक राजा अज प्रजाओं के कार्यों को देखने के लिए न्याय के आसन पर बैठे थे उधर वृद्ध रघु अपने मन को साधने का अभ्यास करने के लिए एकान्त में पवित्र कुश के आसन पर बैठे थे ॥ १८ ॥
अनयत् प्रभुशक्तिसम्पदा वशमेको नृपतीननन्तरान् ।
अपरः प्रणिधानयोग्यया मरुतः पञ्च शरीरगोचरान् ॥ १६ ॥
| २४८ | रघुवंशमहाकाव्ये |
|---|
अन्वयः—एकः अनन्तरान् नृपतीन् प्रभुशक्तिसम्पदा वशम् अनयत् अपरः शरीरगोचरान् पञ्च मरुतः प्रणिधानयोग्यया वशम् अनयत् ।
अनयदिन्ति । एकोऽन्यतरः अज इत्यर्थः । अनन्तरान्स्वभूम्यनन्तरा नृपतीन्त्स्यात व्यपार्ष्णिग्राहादीन्प्रभुशक्तिसंपदा कोशदण्डमहिम्ना वशं स्वायत्ततामनयत् 'कोशो दण्डो बलं चैव प्रभुशक्तिः प्रकीर्तिता' इति मिताक्षरायाम् । अपरो रघुः प्रणिधानयोग्यया समाध्यभ्यासेन 'योग्यभ्यासाकयोोषितोः' इति विश्वः । शरीरगोचरान्देहाश्रयान्पञ्च मरुतः प्राणादीन्वशमनयत् । 'प्राणोऽपानः समानश्चोदानव्यानौ न वायवः । शरीरस्थाः' इत्यमरः ।
भाषार्थ—अज ने प्रभु शक्ति से (कोशदण्ड आदि महिमा से) अपने राज्य की सीमा पर रहने वाले शत्रुओं को अपने वश में कर लिया और रघु ने योग बल से अपने शरीर के अन्दर रहने वाले प्राण, अपान, समान, उदान और व्यान नामक पांचों पवनों को अपने वश में कर लिया ॥ १९ ॥
अकरोदचिहेश्वरः क्षितौ द्विषदारम्भफलानि भस्मसात् ।
इतरो दहने स्वकर्मणां ववृते ज्ञानमयेन वह्निना ॥ २० ॥
अन्वयः—अचिरेश्वरः क्षितौ द्विषदारम्भफलानि भस्मसात् अकरोत् इतरः ज्ञानमयेन वह्निना स्वकर्मणाम् दहने ववृते ।
अकरोदिति । अचिरेश्वरोऽजः क्षितौ द्विषतामारम्भाः कर्माणि तेषां फलानि भस्मसादकरोत्कात्स्न्र्येन भस्मीकृतवान् । “विभाषा साति कात्स्न्र्ये” इति सति-प्रत्ययः । इतरो रघुर्ज्ञानमयेन तत्त्वज्ञानप्रचुरेण वह्निना पावकेन करणेन स्वकर्मणां भवबीजभूतानां दहने भस्मीकरणे ववृते । स्वकर्माणि दग्धुं प्रवृत्त इत्यर्थः । 'ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन' इति गीतावचनात् ।
भाषार्थ—नये राजा अज ने पृथ्वी पर शत्रुओं की सभी चालों को नष्ट कर दिया और पुराने राजा रघु ने ज्ञानमय अग्नि से संसार के कारण भूत अपने कर्मों को भस्म कर डाला ॥ २० ॥
पणबन्धमुखान्गुणानजः षडुपायुङ्क्त समीक्ष्य तत्फलम् ।
रघुरप्यजयद्गुणत्रयं प्रकृतिस्थं समलोष्ठकाञ्चनः ॥ २१ ॥
अन्वयः—अजः पणबन्धमुखान् षट् गुणान् तत्फलं समीक्ष्य उपायुङ्क्त समलोष्टकाञ्चनः रघुः अपि गुणत्रयं । प्रकृतिस्थम् अजयत् ।
पणबन्धेति । 'पणबन्धः संधिः' इति कौटिल्यः । अजः पणबन्धमुखान्त्संध्यादीन्षड्गुणान् । 'संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः । षड्गुणाः' इत्यमरः ।