सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

९ अध्याये ] पुरुषोपसृप्तप्रकरणम् । १४३

९ अध्याये ] पुरुषोपसृप्तप्रकरणम् । १४३

चापलं कुत्सयन्तीवेति । ईदृशस्त्वं चपलो यदूरुस्पर्शमात्रेण स्तब्धलिङ्गोऽसीति निन्दयन्ती स्वाभिप्रायख्यापनार्थं हसेन्न तु रुष्यात् ॥ ७ ॥

कृतलक्षणेनाप्युपलब्धवैकृतेनापि न चोद्यत इति चेत् ? स्वयमुपक्रमेत पुरुषेण च चोद्यमाना विवदेत कृच्छ्रेण चाभ्युपगच्छेत् ॥८॥

कृतलक्षणेनापीति । स्तब्धलिङ्गत्वं रागस्य लक्षणं तत्कृतं यस्य नायकस्य, उपलब्धवैकृतेनेति । ज्ञातमुखचापलेन यदि न चोद्यते कुरु मुखचापलमिति, तदा तस्मिन्स्वयमेव विना चोदनयोपक्रमेत, पुरुषेण तूपलब्धवैकृतेनानुपलब्धवैकृतेन वा चोद्यमाना नाहमेवंविधकर्मेति सहसाऽङ्गीकारप्रतिषेधार्थं विवदेत, तदेव स्फुटयति—कृच्छ्रेण चेति । स्त्रीरूपिणी तु प्रकटकामत्वाच्चोदिताऽप्यादित एवोपक्रमेत ॥ ८ ॥

तस्य क्रियाभेदाद् भेदमाह—

तत्र कर्माष्टविधं समुच्चयप्रयोज्यं निमितं पार्श्वतो दष्टं बहिःसन्दंशोऽन्तःसन्दंशश्चुम्बितकं परिमृष्टकमाम्म्रचूषितकं सङ्गर इति ॥९॥

तत्रेति । औपरिष्टके, समुच्चयप्रयोज्यमिति । क्रमेण सर्वं समुच्चयेन योज्यमित्यर्थः ॥ ९ ॥

तत्रापि नात्माभिप्रायेणेत्याह—

तेष्वेकैकमभ्युपगम्य विरामाभीप्सां दर्शयेत् ॥ १० ॥

तेष्विति । निमितादिषु, एकैकं प्रथमात्प्रभृत्यभ्युपगम्य कृत्वा; परित्यागेच्छां दर्शयेत्, कौतुकजननार्थमभ्यर्थनयाऽपरं प्रयोक्ष्यामीति ॥ १०॥

नायकेऽस्मिन्नभ्युपगते किं प्रतिपद्यत इत्याह—

इतरश्च पूर्वस्मिन्नभ्युपगते तदुत्तरमेवापरं निर्दिशेत् तस्मिन्नपि सिद्धे तदुत्तरमिति ॥ ११ ॥

इतरश्चेति । नायकः, पूर्वस्मिन्निति । निमिते, तदुत्तरमिति । तस्मान्निमितादन्तरं पार्श्वतो दष्टं, निर्दिशेदिदं च कुर्विति, तस्मिन्नपि पार्श्वतो दष्टे क्रियया सिद्धे तदुत्तरं बहिःसन्दंशमिति, अनेन क्रमेण सर्वं समुच्चयेन निर्दिशेत्, स्वरागपरिसमाप्त्यर्थं, तस्माच्चाभिमानिकसुखजननार्थं नायिकाऽपि तथैव प्रयुञ्जीतेत्ययं चोदनायां विधिः, स्वयमुपक्रमे तु स्वाभिप्रायेणैव समुच्चयप्रयोज्यम् ॥ ११ ॥

तत्कर्म द्विविधम्—बाह्यमाभ्यन्तरं च, तत्र बाह्यमाह—

करावलम्बितमोष्ठयोरुपरि विन्यस्तमपविध्य मुखं विधुनुयात् तन्निमितम् ॥ १२ ॥

१५४ सटीके कामसूत्रे [२ अधिकरणे,

करावम्बितमिति। अवनमनवारणार्थं करेण गृहीतम्, ओष्ठयोरुपरि विन्यस्तमग्रभागेनापविध्योष्ठेन वर्तुलकृतेनावष्टभ्य; मुखं स्वं विधुनुयात्कम्पयेद्, ओष्ठयोरुपरि विन्यस्तत्वाच्चिम्मितम् ॥ १२ ॥

हस्तेनाग्रमवच्छाद्य पार्श्वतो निर्दशनमोष्ठाभ्यामवपीड्य भवत्वेतावदिति सान्त्वयेत् तत्पार्श्वतो दष्टम् ॥ १३ ॥

हस्तेनावच्छाद्य मुष्टिग्रहणेन, ततः पार्श्वतो लिङ्गमॊष्ठाभ्यामवपीड्य, निर्दशनमिति। क्रियाविशेषं, दन्तवर्जमित्यर्थः, दन्तैस्तु ग्रहणमस्ति, यदाह—भवत्वेतावदिति । एतावदेवास्तु यद् ग्रहणं, नापरं खण्डनमिति सान्त्वयेत् ॥ १३ ॥

भूयश्चोदिता संमीलितौष्ठी तस्याग्रं निष्पीड्य कर्षयन्तीव मुञ्चेदिति बहिःसन्दंशः ॥ १४ ॥

भूयश्चोदितेति। पार्श्वतो दष्टे सञ्चोदिता पुनरन्यत्र चोदिता, स्वयमुपक्रमे त्वचोदितैव संमीलितौष्ठी लिङ्गस्याग्रमन्तः प्रवेश्य; मीलितावोष्ठौ यया सा, ताभ्यामेव निष्पीड्य कर्षयन्तीव मुञ्चेदिति । ओष्ठाभ्यामेवास्य कर्षणं कुर्वाणेव त्यजेदित्यर्थः, बहिःसन्दंशश्चभ्र्मणो बहिःसन्दंशनात् ॥ १४ ॥

आभ्यन्तरमाह—

तस्मिन्नेवाभ्यर्थनया किञ्चिदधिकं प्रवेशयेत् साऽपि चाग्रमोष्ठाभ्यां निष्पीड्य निष्ठीवेदित्यन्तःसन्दंशः ॥ १५ ॥

तस्मिन्निति। बहिःसन्दंशे क्रियमाणे, अभ्यर्थनया याचनया, किञ्चिदधिकमिति । निष्कास्य ग्रन्थि यावन्नायकः प्रवेशयेदित्ययं चोदनापक्षः, स्वयमुपक्रमे तु किञ्चिदधिकं प्रवेश्याग्रं मणिबन्धमोष्ठाभ्यां निष्पीड्य; निष्ठीवेद्=निरस्येद्, अन्तःसन्दंशो निष्कोशितस्य संदंशनात्॥१५॥

करालम्बितस्यौष्ठवद्ग्रहणं चुम्बितकम् ॥ १६ ॥

ओष्ठवदिति । यथाऽधरोष्ठस्यौष्ठाभ्यां ग्रहणं, तथा निष्कोशितस्येति चुम्बितकं, समग्रग्रहणांख्यम् ॥ १६ ॥

तत्कृत्वा जिह्वाऽग्रेण सर्वतो घट्टनमग्रे च व्यधनमिति परिमृष्टकम् ॥ १७ ॥

तदिति । चुम्बितकं कृत्वा, अन्यथा ह्ययोगाद् जिह्वाऽग्रेणान्तः परिभ्रमता सर्वतो घट्टयेत्स्पृशेद् , अग्रे च व्यधनं स्रोतःस्थाने ताडनं जिह्वाऽग्रेणैव, परिमृष्टकं समन्तात् स्पर्शनात् ॥ १७ ॥

९ अध्याये ] औपरिष्टकप्रकरणम् । १४५

तथाभूतमेव रागवशादर्धप्रविष्टं निर्दयमवपीड्यावपीड्य मुखे-
दिश्याग्रचूषितकम् ॥ १८ ॥

तथाभूतमेवेति । निष्कोशितमेव, रागवशादिति । नायकस्य रागा-
धिक्यात्, तदर्धप्रविष्टं ग्रन्थमतीत्य प्रविष्टं, निर्दयमत्यन्तम्, अवपीड्या-
वपीड्येति । जिह्वौष्ठपुटेन द्वित्रिरवपीड्यावपीड्य मुखेऽभ्यन्तर एव,
तदाम्रस्येव चूषितकम् ॥ १८ ॥

पुरुषाभिप्रायादेव गिरेत्पीडयेच्चापरिसमाप्तेरिति संगरः ॥ १९ ॥

पुरुषाभिप्रायादेवेति । पुरुषाभिप्रायमेव बुद्ध्वा; प्रत्यासन्नाऽस्य
रतिरिति, गिरेत् पीडयेच्चेति । जिह्नाव्यापारेण पीडयित्वा गिरेद्,
ओष्ठव्यापारेण पीडयेद्, आसमाप्तेरिति । शुक्रविसृष्टिं यावत्, सङ्गरः-
समन्ताद् गिरणात् ॥ १९ ॥

यथार्थं चात्र स्तननप्रहणनयोः प्रयोग इत्यौपरिष्टकम् ॥२०॥

यथार्थमिति । यथा रागो निमितादिषु मृदुमध्याधिमात्रादिभेदेन
स्थितस्तथा स्तननप्रहणनयोः प्रयोगः, आलिङ्गनादीनामत्रासम्भवाद्,
इत्यौपरिष्टकमिति। एवं विषयस्वरूपफलवृत्तिप्रकारैरोपरिष्टकमुक्तम्॥२०॥

देशसात्म्यवशाद्विषयेऽप्यस्य वृत्तिरिति दर्शयन्नाह—

कुलटाः स्वैरिण्यः परिचारिकाः संवाहिकाश्चाप्येतत्प्रयोजयन्ति॥२१॥

कुलटा इति । यः स्वकुलादन्यद्देशसदृशमटन्त्यो भ्रष्टशीलास्ताः-
कुलटाः, याः सदृशमसदृशं वा कुलमविचार्य, स्वच्छन्दचारिण्यस्ताः-
स्वैरिण्यः, या अन्यपूर्वा वा मुक्तप्रग्रहा नायकमुपचरन्ति ताः परिचा-
रिकाः, याः संवाहनकर्मणा जीवन्ति ताः संवाहिकाः, एतत्प्रयोजय-
न्तीत्यौपरिष्टकं कारयन्ति, न केवलं तृतीया प्रकृतिरित्यपिशब्दार्थः ॥२१॥

तदेतत्तु न कार्यं समयविरोधादसभ्यत्वाच्च पुनरपि ह्यासां
वदनसंसर्गे स्वयमेवार्तिं प्रपद्येतेत्याचार्याः ॥ २२ ॥

तदेतत्तु न कार्यमिति । प्रयोज्यमानमपि, समयविरोधादिति । धर्म-
शास्त्रे प्रतिषिद्धमेतद्, 'न मुखे मेहेत' इति, असभ्यत्वाच्चेति । सद्भि-
र्विगर्हितत्वादसभ्यत्वं, तस्मादसभ्यत्वात्, प्रयोक्तुरप्यसभ्यत्वं दृष्ट एव
दोषः, अयं चापर इत्याह—पुनरपि हीति । यदि हि कुलटाऽऽदीनां मुखे
जघनकर्म कुर्यात्तदा पुनरपि जघनकर्मकाले रागवशाद्वदनस्य संसर्गे
संस्पर्शे सत्यर्तिं प्रतिपद्येत दुःखमधिगच्छेद्, विचलितोऽस्मीति,
स्वयमेवेति । न तत्र नायिकाऽपि ॥ २२ ॥

१९ का० सू०

१४६ सटीके कामसूत्रे [ २ अधिकरणे,

वेश्याकामिनोऽयमदोषोऽन्यतोऽपि परिहार्यः स्यादिति वात्स्यायनः ॥ २३ ॥

वेश्याकामिन इति । कुलटाऽऽदयोऽपि वेश्याविशेषाः, तत्कामिनो-नायकस्यादोषोऽयमिति, समयविरोधादित्ययं दोषो न भवतीत्यर्थः; पत्न्यानाने चौपरिष्टकादौ दोषः, ‘न मुखे मेहेत’ इति, यदाह वसिष्ठः—

‘यस्तु पाणिगृहीतायां मुखे मैथुनमाचरेत् ।
पितरस्तस्य नाश्नन्ति दशवर्षाणि पञ्च च’ ॥ इति,

अन्यतोऽपि परिहार्य इति । असभ्यत्वाद्वदनसंसर्गाच्च, असभ्यत्व-मतिश्चेत्ययं दोषः परिहार्यः, गुप्त्यो वक्त्रसंरक्षणाच्च, कस्य चिद्देशप्र-वृत्तेरदोषत्वादपरिहार्य इत्यपिशब्दात् ॥ २३ ॥

उभयमपि देशप्रवृत्त्या दर्शयन्नाह—

तस्माद्यास्त्वौपरिष्टकमाचरन्ति न ताभिः सह संसृज्यन्ते प्राच्याः ॥ २४ ॥

तस्मादिति । यतश्चैवं तस्मान्न संसृज्यन्त इति संबन्धः, यास्त्वि-ति । या वेश्यास्त्वौपरिष्टकमाचरन्ति मुखे जघनकर्म कुर्वन्ति, न ता-भिः सह संसृज्यन्ते संप्रयुज्यन्ते, मा भूत्तद्वदनसंसर्ग इति, अन्याभिर-दृष्टदोषत्वात्संसृज्यन्त एवेत्यर्थोक्तम्, प्राच्या अङ्गात्पूर्वेण ॥ २४ ॥

वेश्याभिरेव न संसृज्यन्त आहिच्छत्रिकाः संसृष्टा अपि मुखकर्म तासां परिहरन्ति ॥ २५ ॥

आहिच्छत्रिकाः = अहिच्छत्रभवाः, न संसृज्यन्ते, अदृष्टमश्रुतमप्यौप-रिष्टकं तासु संभाव्यत इति, संसृष्टा अपि त एव कथं चिद्रागवशाद्, मुखकर्म चुम्बनम् ॥ २६ ॥

निरपेक्षाः साकेताः संसृज्यन्ते ॥ २६ ॥

साकेताः = आयोध्याकाः, ते निरपेक्षाः, वेश्यानां संप्रयोगे मुखकर्म-णि च शौचाशौचविकल्पाभावात् ॥ २६ ॥

न तु स्वयमौपरिष्टकमाचरन्ति नागरकाः ॥ २७ ॥

नागरकाः = पाटलिपुत्रकाः, संप्रयुज्यन्ते वेश्याभिः न तु स्वयं तासां-मुखे जघनकर्म कुर्वन्ति, मा भूद्वदनसंसर्ग इति, प्रयोजितास्त्वाचरन्ति वदनसंसर्गवर्जम् ॥ २७ ॥

सर्वमविशङ्कया प्रयोजयन्ति सौरसेनाः ॥ २८ ॥

सर्वमिति । संप्रयोगमौपरिष्टकं मुखकर्म च, अविशङ्कयेति । सर्वं शुची-

९ अध्याये ] औपरिष्टकप्रकरणम् । १४७

स्थभिप्रायेणेत्यर्थः, सौरसेनाः कौशाम्ब्या दक्षिणतः कूले ये निवसन्ति ॥२८॥
शङ्कायां हि स्वभार्यास्वप्यनाश्वासतामेव दर्शयन्नाह—

एवं ह्याहुः को हि योषितां शीलं शौचमाचारं चरित्रं प्रत्ययं वचनं वा श्रद्धातुमर्हति, निसर्गादेव हि मलिनदृष्टयो भवन्त्येता न परित्याज्याः, तस्मादासाम् स्मृतित एव शौचमन्वेष्टव्यम् ॥२९॥

एवं ह्याह—

'वत्सः प्रस्स्रवने मेध्यः श्वा मृगग्रहणे शुचिः ।
शकुनिः फलपाते तु स्त्रीमुखं रतिसंगमे ॥ इति ॥

एवं हीति। शीलं = स्वभावं, शौचम् = अशुचिद्रव्यविश्लेषणम्, आचारं = त्रयीकर्मानुष्ठानं, चरित्रं = कुलक्रमा गतां स्थितिं, प्रत्ययं = विश्वासं, वचनं = वलिगतकं, कः श्रद्धातुमर्हति, परमार्थतः प्रत्येतुं नवेत्यर्थः, कुत इत्याह-निसर्गादेवेति । आत्मलाभादेव नान्यस्माद्, मलिनदृष्टयः = मलिनबुद्धयः, यल्लोकशास्त्रविरुद्धमप्याचरन्ति, न च परित्याज्या एवंभूता अपि, पुरुषार्थहेतुत्वात्, तस्माद्व्रतविधौ स्मृतित एव शौचमन्वेष्टव्यं-लोके स्मृतेः प्रामाण्यात्, तां स्मृतिमाह—एवं हीति। आह-स्मृतिकारः, मुखवर्जं गौः सर्वतो मेध्येत्युक्तं, प्रस्नवनकाले तु मुखं शुचि तत्स्पृष्टं-क्षीरमपि, श्वपच्युच्छिष्टं त्यजेदित्युकम्, मृगग्रहणे फलपातकाले च मुखस्य शुचित्वान्मांसं फलं च शुचि, तथा, रतिसङ्गमे = रत्यर्थसङ्गमे, स्त्रीमुखं कृतौपरिष्टकमन्यद्वा मेध्यं, नान्यदा सर्वाशुचिनिधानत्वादिति, अस्मिन्स्मृत्यर्थे सर्वत्र चुम्बनप्रसङ्ग इति ॥ २९ ॥

स्वमतं दर्शयन्नाह—

शिष्टविप्रतिपत्तेः स्मृतिवाक्यस्य च सावकाशत्वाद्देशस्थितेरात्मनश्च वृत्तिप्रत्ययानुरूपं प्रवर्तेतेति वात्स्यायनः ॥ ३० ॥

शिष्टविप्रतिपत्तेरिति । शिष्टानां प्राच्याहिच्छत्रिकनागरकाणां विप्रतिपत्तिर्दृश्यते, यथोक्तम्प्राक् , तस्माद्रतिसङ्गमेऽपि स्त्रीमुखन्न मेध्यं, शिष्टाचारस्य प्रामाण्याद्, यद्येवं विगीता स्मृतिरप्रामाणिका स्याद्, यथोक्तम्—

'विरुद्धा च विगीता च दृष्टार्था दृष्टकारणा ।
स्मृतिर्न श्रुतिमूला स्याद्या चैषा भवनश्रुतिः' इति ।

अत्रोत्तरमाह—सावकाशत्वादिति । पत्नीमेवाधिकृत्यत्युक्तम्—'स्त्रीमुखं रतिसङ्गमे' इति, यद्येवं वेश्यासु चुम्बनविकल्पानर्थक्यमित्यत्र

१४८ सटीक कामसूत्रे [ २ अधिकरणे,

पाक्षिकमभ्यनुज्ञानमाह—देशस्थितेरिति । यो यस्मिन्देश आचारस्तदनुरूपं प्रवर्तेत, देशाचारस्य तत्रत्यानां प्रामाण्याद्, वृत्तिप्रत्ययानुरूपमिति । यथा सौमनस्यं यथा च विश्वासस्तथा प्रवर्तेत न शास्त्रेणैव केवलेनेति ॥ ३० ॥

इदं स्त्रीविषयमसाधारणमौपरिष्टिकमुक्तं स्त्रिया एव कर्तृत्वात्, पुरुषविषयमाह—

भवन्ति चात्र श्लोकाः—

प्रमृष्टकुण्डलाश्चापि युवानः परिचारकाः ।
केषाञ्चिदेव कुर्वन्ति नराणामौपरिष्टकम् ॥ ३१ ॥

प्रमृष्टकुण्डला इति । उज्ज्वले कुण्डले येषामिति, नेपथ्योपलक्षणं गृहीतनेपथ्या इत्यर्थः, युवानः प्राप्तरागत्वात्कर्तुं कुशला नटस्वरूपाः, नान्ये दोषाद् , यथोक्तम्—

'अजातश्मश्रवश्चेटा विश्वास्या मुखकर्मणि :
योज्या गृहीतनेपथ्या नेतरे श्मश्रुदोषतः' इति ।

केषां चिदिति । ये मन्दरागा गतवयसोऽतिव्यायता ये च स्त्रीष्वलब्धवृत्तयः ॥ ३१ ॥

इदमप्यसाधारणम् एकस्यैव कर्तृत्वात्, द्वयोः कर्तृत्वे साधारणं, यदाह—

तथा नागरकाः के चिदन्योन्यस्य हितैषिणः ।
कुर्वन्ति रूढविश्वासाः परस्परपरिग्रहम् ॥ ३२ ॥

तथेति । नागरका ये नागरवृत्तावधिकृताः, के चिदिति । योषाप्रायाः, हितैषिणः, विस्रष्टिसुखकारित्वाद्, रूढविश्वासा मैत्र्या, परस्परपरिग्रहमिति । मम तावत्कुरु पश्चात्तवापि करिष्यामीति, युगपद्वा देहव्यत्यासेन रागात्कालमनपेक्षमाणाविति द्विविधं साधारणं नागरका इत्युपलक्षणं, स्त्रियोऽपि कुर्वन्ति, यथोक्तम्—

'अन्तःपुरगताः काश्चित् स्त्रियश्चाप्राप्तभाण्डकाः ।
भगे ह्यन्योन्यविश्वासात्कुर्वन्ति मुखचापलं' इति ॥ ३२ ॥

पुरुषाश्च तथा स्त्रीषु कर्मैतत्किल कुर्वते ।
व्यासस्तस्य च विज्ञेयो मुखचुम्बनवद्विधिः ॥ ३३ ॥

तथा स्त्रीष्विति । यथा स्त्रियः पुरुषेषु तथा स्त्रीषु पुरुषाः परिचारका नायका वा के चिद्रगे मुखेन कर्म कुर्वन्ति, किलेति । संभावना-

९ अध्याये ] औपरिष्टकप्रकरणम् १४९

यां, तस्य चेति । पुरुषकर्तृकस्य, व्यासः प्रकारः, मुखचुम्बनवदिति । कन्याचुम्बने निमितादिना, अन्यत्र समादिग्रहणेन यो विधिः सोऽस्यापि यथासम्भवं विज्ञेयः ॥ ३३ ॥
... तत्र परिचारके कर्तर्यसाधारणं नायके तु साधारणमपि संभवति, यच्च युगपत्परिपाट्या वा, तत्र युगपत्कथमित्याह—

परिवर्त्तितदेहौ तु स्त्रीपुंसौ यत्परस्परम् ।
युगपत्सम्प्रयुज्येते स कामः काकिलः स्मृतः ॥ ३४ ॥

परिवर्तितदेहाविति । पार्श्वसम्पुटे पुमान् स्त्रिया ऊर्वोः शिरो निधत्ते स्त्री च पुंस इति युगत्संप्रयुज्येते, एकस्मिन्काले मुखेन परस्परोपस्थेन्द्रिय-ग्रहणात्, काकिलः स्मृत इति । स्त्री पुमांश्च काक इव काकः, मुखेना-मेध्यग्रहणात्, तौ विद्येते यस्मिन्, काम इति । पिच्छादिषु द्रष्टव्यं, ककनं वा काको लौल्यं, 'कक लौल्ये' इति धातुपाठात्, तद्विद्यते ययोः स्त्रीपुंसयोरीतिनिप्रत्ययः, तौ लात्यादत्त इति ॥ ३४ ॥

एतेन नरयोर्योषितोश्च परिवर्तितदेहयोर्व्याख्यातः, तत्र साधारणा-साधारणयोरसाधारणं श्रेयः, ततोऽपि परिचारकविषयं वेश्याविषयं हि खलसंसर्गादपरिशुद्धमिति दर्शयन्नाह—

तस्माद् गुणवतस्त्यक्त्वा चतुरांस्त्यागिनो वरान् ।
वेश्याः खलेषु रज्यन्ते दासहस्तिपकादिषु ॥ ३५ ॥

तस्मादिति । गुणवतः = नायकगुणयुक्तान्, चतुरान् = लोकयात्राकु-शलान्, त्यागिनः = दानशूरान्, वरान् = अभिजनाद्युपेतान्, खलेषु = नी-चेषु, तानेव दर्शयति—दासहस्तिपकादिष्विति । रज्यन्त इति । स्वभावा-ख्यानम्, अशिष्टधर्माचरणाद्वा, तेषु च रक्ता अपरचरितमपि प्रकाश-यन्ति ॥ ३५ ॥

न त्वेतद्ब्राह्मणो विद्वान्मन्त्री वा राजधूर्धरः ।
गृहीतप्रत्ययो वाऽपि कारयेदौपरिष्टकम् ॥ ३६ ॥

न त्वेतदिति । नैवं वेश्याभिः कारयेद्, ब्राह्मणो विद्वान्, श्रुतिस्मृत्य-र्थतत्त्वज्ञः, मन्त्री राजधूर्धरः प्राधान्येन यो राज्यं संवाहयति, समा-सान्तोऽत्रानित्यत्वान्न भवति, अन्यो वा कश्चिद् गृहीतप्रत्ययो-लोके विश्वास्यः, तासु क्रियमाणं लोके लब्धसमाख्यानं गौरवं व्या-वर्तयति, अतो मा भूद्वदनसंस्पर्शदोषः, असभ्यत्वदोषस्तु दुर्निवारो-नेतरेषामविवक्षितत्वात् ॥ ३६ ॥

ननु च व्यासस्तन्मुखचुम्बनवद्विधिरिति शास्त्रेऽभिहितत्वात्साधा-

१५० सटीक कामसूत्रे [ २ अधिकरणे,

रणस्यापि प्रयोगप्रसङ्ग इत्याह—

न शास्त्रमस्तीत्येतावत्प्रयोगे कारणं भवेत् ।
शास्त्रार्थान्व्यापिनो विद्यात्प्रयोगांस्त्वेकदेशिकान् ॥ ३७ ॥

न शास्त्रमिति । अभिधायकं शास्त्रमस्तीति नैतावत्प्रयोगे कारणं,·
शास्त्रार्थान्व्यापिन इति । आलिङ्गनादेरर्थस्य रत्यौपयिकत्वात्, सर्वा-
नेव कामिनोऽधिकृत्य प्रवृत्तत्वात्, प्रयोगानेकदेशिकान्, कस्य चिदे-
वार्थस्य शिष्टैः प्रवर्तनात् ॥ ३७ ॥

अयं च न्यायोऽन्यत्रापीत्याह—

रसवीर्यविपाका हि श्वमांसस्यापि वैद्यके ।
कीर्तिता इति तत्किं स्याद्भक्षणीयं विचक्षणैः ॥ ३८ ॥

रसवीर्यविपाका इति । रसो मधुरादिः, वीर्यं सामर्थ्यम्, पाक उ-
पयुक्तस्य परिणामो मधुरादिः, श्वमांसस्यापि कीर्तिता इति व्यापित्वं-
रसादीनां, किम् भक्षणीयं विचक्षणैरित्येकदेशित्वम् ॥ ३८ ॥

यद्येवं शिष्टपरिहृतत्वादयहोपदेशानर्थक्यमित्याह—

सन्त्येव पुरुषाः के चित्सन्ति देशास्तथाविधाः ।
सन्ति कालाश्च तेष्वेते योगा न स्युर्निरर्थकाः ॥ ३९ ॥

सन्त्येवेति । सन्ति तादृशाः पुरुषा ये शुच्यशुचिषु निर्विकल्पाः, देशा-
स्तथाविधा लाटसिन्धुविषयादयः, काला औपरिष्टकसात्म्याः, स्त्रयायत्ता
यदायत्तजीवितादयः, योगा इति । मुखचुम्बनवद्विधयः ॥ ३९ ॥

तस्माद्देशं च कालं च प्रयोगं शास्त्रमेव च ।
आत्मानं चापि संप्रेक्ष्य योगान्युञ्जीत वा न वा ॥ ४० ॥

तस्मादिति । यतश्चैवं तस्मात्साधारणस्य वा यथास्वं देशकालौ
संवीक्ष्य, प्रयोगमुपायं च प्रयुज्यतेऽनेनेति, शास्त्रमभिधायकम्, आत्मानं-
च, कतरन्मे युक्तमिति, न वा प्रयुञ्जीतोभयमपि विद्वान् स्वमात्मानं-
संवीक्ष्य ॥ ४० ॥

अथ वा नायं पुरुषादिनियम इत्याह—

अर्थस्यास्य रहस्यत्वाच्चलत्वान्मनसस्तथा ।
कः कदा किं कुतः कुर्यादिति को ज्ञातुमर्हति ॥ ४१ ॥

इति श्रीवात्स्यायनीये कामसूत्रे साम्प्रयोगिके द्वितीयेऽधिकरण-
औपरिष्टकं नवमोऽध्यायः ।
आदितश्चतुर्दशः ।