कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
५ अध्याये ] नायकसहायदूतकर्मविमर्शप्रकरणम् । ५६
५ अध्याये ] नायकसहायदूतकर्मविमर्शप्रकरणम् । ५६
चौपरिष्टिककर्मणा सुखलाभात्, तेन रूपव्यापारभेदात्पञ्चमीत्येके, अन्यथा सुखकार्यत्वाद्देश्याविशेष एव ॥ २७ ॥
नायकविमर्शमाह—
एक एव तु सार्वलौकिको नायकः ॥ २८ ॥
एक एवेति । नायिकावद् भेदाभावादेक एव सार्वलौकिको नायकः कन्यापुनर्भूवेश्यासु प्रवर्तमानः सर्वलोकविदितः ॥ २८ ॥
प्रच्छन्नस्तु द्वितीयः विशेषलाभात् ॥ २९ ॥
प्रच्छन्नेति । स एव परपरिगृहीतासु सुखव्यतिरेकेण कार्यविशेषलाभाद् गुप्त्या च प्रवर्तमानः प्रच्छन्नो द्वितीयः ॥ २९ ॥
गुणद्वारेण स त्रिविध इत्याह—
उत्तममध्यमाधमतां तु गुणागुणतो विद्यात् ॥ ३० ॥
गुणागुणत इति । गुणसमुदायादुत्तमः, गुणपादद्वयाभावान्मध्यमः, पादत्रयाभावादधमः, सर्वगुणाभावादनायक इति ॥ ३० ॥
ताँस्तूभयोरपि गुणागुणान् वैशिके वक्ष्यामः ॥ ३१ ॥
उभयोरिति । नायकस्य नायिकायाश्च ॥ ३१ ॥
कन्याऽऽदीनां विशेषानभिधानात्पुनरगम्यतया विमर्शमाह—
अगम्यास्त्वेवैताः, कुष्ठिन्युन्मत्ता पतिता भिन्नरहस्या प्रकाशप्रार्थिनी गतप्राययौवनाऽतिश्वेताऽतिकृष्णा दुर्गन्धा संबन्धिनी सखी प्रव्रजिता संबन्धिसखिश्रोत्रियराजदाराश्च ॥ ३२ ॥
नायकस्य तु कन्याऽऽदिविधावगम्यात्वं सूचयति, तुशब्दो विशेषणार्थः, एवकारो नियमार्थः, सत्स्वपि कार्येष्वेता अगम्या इत्यर्थः, कुष्ठिनीति । जुगुप्सितव्याध्युपलक्षणार्थम्, उन्मत्ता यत्किञ्चनकारिणी न सुखावहा, पतिता स्वजात्यपेक्षया महापातकाचरणात् तत्सम्पर्कात्पतितः स्याद्, भिन्नरहस्या लोके रहस्यं प्रकाशयन्ती नायकं लज्जयति, प्रकाशप्रार्थिनी प्रकटं नायकमभिलषन्ती त्रपयत्यनर्थञ्च करोति, गतप्राययौवना तत्सेवाायामायुस्तेजश्च हीयते, अतिश्वेता, अतिकृष्णा चाप्रशस्ता, कन्या पुनर्भूश्च ज्ञेया, निन्द्यत्वादन्या अपि यथासंभवं योज्या, दुर्गन्धा गुह्ये वक्त्रे च दुष्टगन्धा, संयोगे वैमुख्यं जनयति, सम्बन्धिनी भ्रातुरपत्यस्य भगिन्या वा सङ्गिनी या परिणयसम्बन्धबाह्येन सम्बद्धा, सखी भार्यावयस्या तदनुरोधात् , प्रव्रजिता क्व चिच्छासने गृहीतव्रता धर्मार्थयोर्वैलोम्यात् , सम्बन्धिसखिश्रोत्रियराजदाराश्चेति, विद्यासंबन्धेन राजसम्बन्धेन वा सम्बद्धाः सम्बन्धिनस्तेषां दाराः, आ-
६० सटीके कामसूत्रे [ १ अधिकरणे,
चार्याणां शिष्यभार्या भ्रातृभार्या, इत्यादयोऽपि धर्मवैलोम्यात्, सखिदारा मित्रभार्या, अधर्मद्रोहादिभयात्, तथा चोक्तम्—
'रेतःसेकः स्वयोनिषु कुमारीष्वन्त्यजासु च ।
सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः' ॥
श्रोत्रियदारा ज्वलदग्निप्रख्याः, धर्मवैलोम्याद्, राजदाराश्च चतुराश्रमगुरुभार्याः, दृष्टादृष्टविरोधात्, इत्येतदाचार्याणां मतमनुक्तमपि ज्ञेयम्, अत्र च यथोक्तव्यतिरेकेण परपरिगृहीताः सर्वा एवागम्याः स्युरिति ॥ ३२॥
बाभ्रव्यमतमाह—
दृष्टपञ्चपुरुषा नागम्या का चिदस्तीति बाभ्रवीयाः ॥ ३३ ॥
स्वपतिव्यतिरेकेण दृष्टाः पञ्च पुरुषाः पतित्वेन यया सा स्वैरिणी कारणवशात्सप्तवरेव गम्या, तथा च पञ्चातीता बन्धकीति पराशरः, एकद्व्यादिदर्शने तु सत्स्वपि कारणेषु नैवेत्यर्थोक्तम्, द्रौपदी तु युधिष्ठिरादीनां स्वपतित्वादन्येषामगम्या, कथमेका सत्यनेकपतिरिति चैतिहासिकाः प्रष्टव्याः, बाभ्रवीया इति । बाभ्रव्यशिष्याः, बाभ्रव्यमतानुसारिणएवमाहुः ॥ ३३ ॥
तत्रापि गोणिकापुत्रो विशिष्यः वक्तव्यमित्याह—
संबन्धिसखिश्रोत्रियराजदारवर्जमिति गोणिकापुत्रः ॥ ३४ ॥
दृष्टपञ्चपुरुषा नागम्येति वर्तते, अयमभिप्रायः–सम्बन्धिभार्या स्वैरिण्यपि विद्यायोनिसम्बन्धेनान्तरेण सम्बन्धेन सम्बद्धत्वादगम्या, सम्बन्धिनी तु बाह्येनेति गम्यैव, सखिभार्याऽप्यन्यस्य गम्या, न नायकस्य, सखी त्वस्य भार्यावयस्या स्वतो मैत्रीव्यवहारस्याप्रस्तुतत्वाद् गम्यैव, श्रोत्रियस्य क्रियावत्त्वाद् दाराः खण्डितशीला अपि दृष्टादृष्टविरोधादगम्याः ॥ ३४ ॥
सहायविमर्शस्त्रिधा–स्नेहतो गुणतो जातितश्च। तत्राद्यमधिकृत्याह—
सहपांसुक्रीडितमुपकारसम्बद्धं समानशीलव्यसनं सहाध्यायिनं यश्चास्य मर्माणि रहस्यानि च विद्याद् यस्य चायं विद्याद्धात्रपत्यं सहसंवृद्धं मित्रम् ॥ ३५ ॥
मिद्यति स्निह्यतीति मित्रं नवप्रकारम्, तत्र सहपांसुक्रीडितमेकत्रानुभूतबाल्यत्वात्स्निह्यति, उपकारसम्बद्धमर्थेन जीवितरक्षया चोपकृतत्वान्मैत्र्या वर्तते, समानशीलव्यसनं, समानं शीलं व्यसनञ्च दैवम्मानुषं यस्य तत्तुल्यगुणदोषत्वात् सख्यमाधत्ते, सहाध्यायी एकत्र कृताध्ययनत्वान्मैत्रीमनुवर्तते, यश्चास्य नायकस्य मर्माण्यकार्याणि यश्च रहसि
५ अध्याये ] नायकसहायदूतकर्मविमर्शप्रकरणम् । ६१
भवानि विद्यात्तदुभयं मर्मज्ञं रहस्यधरं च नायकप्रतीतेरास्पदत्वात्प्रति-
स्निह्यति, यस्य चेति । यस्य नायको मर्माणि रहस्यानि च विद्यात्तदुभयं·
तत्सम्मानितस्नेहत्वात्प्रीत्या वर्तते, सहसंवृद्धं धात्रीक्रोडे नायकेन सह
स्तन्यपानादिना संवृद्धं, धात्रपत्यं सहपांसुक्रीडितत्वेऽप्यत्यर्थं स्निह्य-
तीति प्रकर्षार्थं वचनम्, यदेकस्मिन्ग्रामे वा सह संवृद्धं तत्सहपांसुक्री-
डितं द्रष्टव्यम् , इति नवधा मित्रम् ॥ ३५ ॥
गुणतो विमर्शमाह—
पितृपैतामहमविसंवादकमदृष्टवैकृतं वश्यं ध्रुवमलोभशीलमप-
रिहार्यममन्त्रविस्रावीति मित्रसंपत् ॥ ३६ ॥
पितृपैतामहम्, पितामहादागतं पैतामहं पितुः पैतामहम्, नायक-
स्य तु प्रपितामहम्, यथाऽनयोर्मैत्री तथा पित्रोः पितामहयोश्चासीदिति,
अविसंवादकं, यथादृष्टश्रुताधिकारिणम्, अदृष्टवैकृतं तदात्मककार्यस्या-
दिमध्यावसानेष्वदृष्टव्यभिचारं, वश्यं=यथोक्तकारिणं, ध्रुवं न त्यजति,
अलोभशीलं न तृष्णया प्रवर्तते, अपरिहार्यं, न परेण ह्रियते; अनुरक्तत्वाद् ,
अमन्त्रविस्रावि, गूढमन्त्रम् , इति मित्रसंपत् ॥ ३६ ॥
मित्रसंबन्धाद् मित्रगुणा धर्मद्वारेणोक्ता जातितो विमृश्यन्ते—
रजकनापितमालाकारगान्धिकसौरिकभिक्षुकगोपालकताम्बू-
लिकसौवर्णिकपीठमर्दविटविदूषकादयो मित्राणि ॥ ३७ ॥
रजकादयो नायकं स्वकर्मभिरुपकुर्वन्तः परभवनं च विशन्ति, तत्र
गान्धिको गन्धद्रव्यस्य विक्रेता, गन्धः पण्यमस्येति, तथा सौरिकः=
शौण्डिकः, भिक्षुकः=भिक्षणशीलः, पश्चात्कुत्सायां कः ॥ ३७ ॥
तद्योषिन्मित्राश्च नागरकाः स्युरिति वात्स्यायनः ॥ ३८ ॥
तद्योषिन्मित्राश्चेति । न तथा पुरुषा यथा योषितः परभवनं विश-
न्ति विश्वासयन्ति च स्त्रियः ॥ ३८ ॥
दूतस्य यत्कर्म तत्कुर्यादित्याधारतो विमृश्यते—
यदुभयोः साधारणमुभयत्रोदारं विशेषतो नायिकायाः सु-
विस्रब्धं तत्र दूतक र्म ॥ ३९ ॥
यदिति । मित्रम्, उभयोरिति । नायकस्य नायिकायाश्च, मैत्र्या व-
र्तमानत्वात्साधारणं यथोक्तमभिधत्ते, उभयत्रोदारम् आप्तभूतङ्कार्यकारि-
त्वात् , विशेषत इति। नायिकाया विशेषतः सुष्ठु, विस्रब्धं=विश्वस्तम् ,
तस्याः साध्यमानत्वात् , तत्र=मित्रे, दूतक र्म=दूतक्रिया, सिद्धिहेतुत्वाद्,
नान्यत्रेति ॥ ३९ ॥