कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
१० अध्याये ] रतारम्भावसानिकप्रकरणम् । १९६
१० अध्याये ] रतारम्भावसानिकप्रकरणम् । १९६
स्यास्यमुन्नमय्य पादेन बाहौ शिरसि वक्षसि पृष्ठे वा सकृद्विस्त्रिर-
वहन्यात् ॥ ४३ ॥
द्वारदेशं गच्छेत्तत्रचोपविश्याश्रुकरणमिति ॥ ४४ ॥
अतिक्रुद्धाऽपि तु न द्वारदेशाद् भूयो गच्छेद दोषवत्त्वादिति दत्तकः ॥ ४५ ॥
तस्य चेति । अनुनयतः, वचनमुत्तरेण योजयन्ती तत्कालोचितेन, विवृद्धक्रोधा पुनःपुनरपराधस्मरणात्, सकचग्रहमस्यास्यं मुखमुन्नमय्य, किंचिद्भावितचेष्टितो नेति ज्ञातुं सकृदवहृत्य, द्विस्त्रिरिति । क्रोधवशात्, तदानीं शिरसि पादताडनमपि न दोषाय, सौभाग्यचिह्नं तदिति नागरकवृद्धाः, तत्र चेति । द्वारदेशे, अश्रुकरणमश्रुविमोचनं, न भूयो न बहिः, दोषवत्त्वाद् भूयोगमनस्य कोपव्याजेनान्यत्र गमनाशङ्कोत्पत्तेः, दत्तकग्रहणं पूजार्थं, तन्मतस्याप्रतिषिद्धत्वात् ॥ ४३ ॥ ४४ ॥ ४५ ॥
तत्र युक्तितोऽनुनीयमाना प्रसादमाकाङ्केत प्रसन्नाऽपि तु सकषायैरेव वाक्यैरेनं तुदतीव प्रसन्ना रतिकाङ्क्षिणी नायकेन परिरभ्येत ॥ ४६ ॥
तत्रेति । अश्रुकरणे पादताडनं क्रोधस्यावधिरिति मन्यमानो नायकः पुनस्तां युक्त्याऽनुनयेत्, सा तेन युक्तितोऽनुनीयमाना पादपतनंप्रसादनोपायस्यावधिरिति मन्यमाना प्रसादमाकाङ्क्षेत, ततः प्रसन्ना नायकेनालिङ्ग्यते तत्रापि सकलुषैः सासूयैर्वाक्यैरेनं नायकं तुदती व्यथयन्ती, प्रसन्ना रतिकाङ्क्षिणी प्रसन्ना रतिमाकाङ्क्षमाणा, अन्यथा न यदि परिरभ्येत तदाऽतिभूमिं गतात्कोपान्नायकोऽप्यप्रसन्न इति मतोऽयं कुलयुवत्याः पुनर्भ्वाश्च विधिः ॥ ४६ ॥
वेश्यायाः परपरिगृहीतायाश्च विशेषमाह—
स्वभवनस्था तु निमित्तात्कलहिता तथाविधचेष्टैव नायकमभिगच्छेत् ॥ ४७ ॥
स्वभवनस्था त्विति । निमित्तात्पूर्वोक्तात्, कलहितेति । कलहः संजातो यस्याः, कृतकलहेत्यर्थः, वाचिकममर्षणमेतत्, कायिकमाह—तथाविधचेष्टैवेति । असूयासूचकैर्दुरीक्षणभ्रूभङ्गादिभिः, नायकमभिगच्छेदिति, तस्य समीपे ढौकेतेत्यर्थः ॥ ४७ ॥
तत्र पीठमर्दविटविदूषकैर्नायकप्रयुक्तैरुपशमितरोषा तैरेवा-
१६० सटीक कामसूत्रे [ २ अधिकरणे,
नुनीता तैः सहैव तद्भवनमधिगच्छेत्तत्र च वसेदिति प्रणय-
कलहः ॥ ४८
तत्र तस्मिन्कोपानुष्ठाने, नायकप्रयुक्तैस्तस्याः प्रत्यानयने, उपशमि-
तरोषा साङ्गा तैरैवानुनीता, अपादपतनेन नायकेन बहिः स्त्रीषु पादप-
तनस्य प्रतिषिद्धत्वात्, सहैव गच्छेत् स्वगौरवोत्पादनार्थं, तत्रैव च
वसेद् नायकभवने तां रात्रिं रागसंधुक्षणार्थम् ॥ ४८ ॥
अधिकरणार्थमुपसंहरति—
भवन्ति चात्र श्लोकाः
एवमेतां चतुःषष्टिं बाभ्रव्येण प्रकीर्तिताम् ।
प्रयुञ्जानो वरस्त्रीषु सिद्धिं गच्छति नायकः ॥ ४९ ॥
एवमिति । चतुःषष्टिमालिङ्गनादिकाम्, बाभ्रव्येण पाञ्चालेन, वर-
स्त्रीषु तद्विज्ञासु, सिद्धिं गच्छति सौभाग्यमाप्नोति, तस्माच्चतुःषष्टिरा-
लिङ्गनादीनां ज्ञातव्या, अन्यथा ह्यपरिज्ञानेऽन्यशास्त्रपरिज्ञानेऽपि न केव-
लं सिद्धिं नाधिगच्छति, अन्यत्रापि नात्यर्थं पूज्यते ॥ ४९ ॥
अस्यास्तु परिज्ञानेऽन्यशास्त्रापरिज्ञानेऽपि केवलं सिद्धः पूज्यश्चान्य-
त्राप्यग्रणीः स्यादिति दर्शयन्नाह—
ब्रुवन्नप्यन्यशास्त्राणि चतुःषष्टिविवर्जितः ।
विद्वत्संसदि नात्यर्थं कथासु परिपूज्यते ॥ ५० ॥
ब्रुवन्नपीति । अर्थतः प्रयोगतश्च कथयन्, विद्वत्संसदीति । त्रिवर्गप्र-
तिपत्तौ येऽधिकृतास्ते विद्वांसः, तत्सभायां, कथासु त्रिवर्गस्य ॥ ५० ॥
वर्जितोऽप्यन्यविज्ञानैरेतया यस्त्वलंकृतः ।
स गोष्ठ्यां नरनारीणां कथास्वग्रं विगाहते ॥ ५१ ॥
अन्यविज्ञानैर्व्याकरणादिशास्त्रपरिज्ञानैः, एतयेति । चतुःषष्ट्या,
अलंकृतः प्रयोगतोऽर्थतश्च ज्ञातत्वाद्, गोष्ठ्यां नरनारीणामासनबन्धे-
ऽन्यशास्त्रं नाधिक्रियते, कथासु कामसूत्रस्य, अग्रं विगाहते, अग्र-
णीर्भवतीत्यर्थः ॥ ५१ ॥
ननु चतुःषष्टेरपूज्यत्वात्कथं ज्ञाता विद्वत्संसदि पूज्यत इति चेदाह—
विद्वद्भिः पूजितामेनां खलैरपि सुपूजिताम् ।
पूजितां गणिकासङ्घैर्नन्दिनीं को न पूजयेत् ॥ ५२ ॥
विद्वद्भिरिति । त्रिवर्गवेदिभिः स्त्रीसंरक्षणोपायत्वात्पूजितां, खलैरपि
सुपूजितां, वस्तुतस्तथाविधत्वात्, पूजितां गणिकासङ्घैः, जीविकोपा-