सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

रतारम्भावसानिकमेकोनविंशं प्रकरणम् ॥

१० अध्याये ] रतारम्भावसानिकप्रकरणम् । १५५

सृष्टिलक्षणां परामुत्कृष्टां जनयते, कारणस्य तथाविधत्वात्, तत्र विस्रम्भ-
योगमधिकृत्याह—परस्परप्रीतिकरिति। स्त्रीपुंसयोस्तदन्ते सुखकरैः,
कैरित्याह-आत्मभावानुवर्तनैरिति। आत्माभिप्रayeण यान्यनुवर्तनान्या-
लिङ्गनादीनि, अनुवर्त्यन्ते एभिरिति कृत्वा, क्षणात्क्रोधपरावृत्तैः क्षणात्प्री-
तिविलोकनैरिति
। अन्तरा प्रणयकलहात्क्षणक्रोधेन यानि परावर्तनानि
पुनः प्रसादात्क्षणं प्रीत्या यानि विलोकनानि तैः, स्नेहो विवर्धत इति प्र-
तिपदं योज्यं, हल्लीसकक्रीडनकैरिति। हल्लीसकक्रीडनं येषु गीतेषु, य-
थोक्तम्।

'मण्डलेन च यत्स्त्रीणां नृत्तं हल्लीसकं तु तत् ।
नेता तत्र भवेदेको गोपस्त्रीणां यथा हरिः ॥'

नाट्यरासकैरन्योन्यदेशीयैः, तेषां श्राव्यत्वाद्रीतविशेषणमेतद्, राग-
लोलार्द्रनयनैरिति
। रागेण चञ्चलानि सबाष्पाणि च नयनानि येषु गी-
तकेषु, अनेन रक्तकण्ठत्वं दर्शयति, चन्द्रमण्डलवीक्षणैरिति। मनोहरित्व-
स्तूपलक्षणम्, एतेऽनुवर्तनादयो विस्रम्भयोगाः, विश्वासेन प्रयुज्यमान-
त्वाद्, विस्रम्भकथामधिकृत्याह—आद्य इति। प्रथमे मनोरथाः कदाऽ-
नेन वा सङ्गमोऽस्त्वित्यादयः, पुनर्वियोगे सन्तप्तयोर्दुःखमस्वास्थ्यं की-
र्तनान्ते चेति। पुनर्विस्रम्भयोगस्यावर्तनमिति दर्शयति, तैस्तैरिति। अ-
न्यैरपि विस्रम्भयोगैर्भावसंयुक्तैः
, यून इत्येकशेषनिर्देशाद्, यूनो युवत्याश्च
॥ २३ ॥ २४ ॥ २५ ॥ २६ ॥ २७ ॥

रतारम्भावसानिकमेकोनविंशं प्रकरणम् ॥

आरम्भावसानयो रतावयवत्वात्तद्ग्रहणे यथा रतं त्र्यवस्थं तथा
व्यवस्था स्वाभाविकादिरागभेदादपि विशिष्यत इत्यतो रतविशेषा उ-
च्यन्ते—

रागवदाहार्यरागं कृत्रिमरागं व्यवहितरागं पोटारतं खलरत-
मयन्त्रितरतमिति रतविशेषाः ॥ २८ ॥

रागवदित्यादिना स्वभाविक आहार्यः कृत्रिमो दर्पजो विस्रम्भज-
श्चेति रागविशेषाः, तद्भेदाद्रागवदाद्यंाऽपि रतविशेषाः ॥ २८ ॥

एषां लक्षणमुपचारं चाह—

संदर्शनात्प्रभृत्युभयोरपि प्रबुद्धरागयोः प्रयत्नकृते समागमे
प्रवासप्रत्यागमने वा कलहवियोगयोगे तद्रागवत् ॥ २९ ॥

सन्दर्शनादिति। प्रथमदर्शनात्प्रभृति चक्षुःप्रीत्याद्यवस्थावशात्प्र-
बुद्धरागयोर्दू तसम्प्रेषणादिप्रयत्नात्कृते समागमे यद्रतं, यच्च प्रवा-

१५६ सटीक कामसूत्रे [ २ अधिकरणे,

सात्प्रत्यागमने विरहिणोरुत्कण्ठितयोः, यच्च प्रणयकलहे प्रशान्ते प्रसन्नयो रतं तद्रागवत्, स्वाभाविकस्य रागस्यातिशयेन योगात् ॥ २९ ॥

तत्रात्माभिप्रायाद्यावदर्थं च प्रवृत्तिः ॥ ३० ॥

यावदर्थमिति । प्रवृद्धरागत्वान्न किञ्चित्क्षमते, केवलं स्वाभिप्रायवशात्तयोर्यावद्रति प्रवृत्तिः ॥ ३० ॥

मध्यस्थरागयोरारब्धं यदनुरज्यते तदाहार्यरागम् ॥ ३१ ॥

मध्यस्थरागयोरिति । इच्छामात्रस्योत्पन्नत्वाच्चक्षुःप्रीतिरेव न मनःसम्प्रयोगादयोऽवस्था इत्यतो मध्यस्थो रागः, तयोर्यदारब्धरतमारम्भकेण विधिनाऽनुरज्यत इति पश्चाद्रागेण संश्लिष्यते कारणेन कार्योपचारान्मिथुनमेव रतमित्युक्तम्, आहार्यरागं तत्र रागस्योत्पाद्यमानत्वात् ॥ ३१ ॥

तत्र चतुःषष्टिकैर्योगैः सात्म्यानुविद्धैः संधुक्ष्य संधुक्ष्य रागं प्रवर्तेत तत्कार्यहेतोरन्यत्र सक्तयोर्वा कृत्रिमरागम् ॥ ३२ ॥

तत्र चतुःषष्टिकैरिति । आलिङ्गनादिभिर्योगैः, सात्म्यानुविद्धैर्यस्य यैः सात्म्यं तद्युक्तैः, रागमिच्छामात्रमात्मनः स्त्रियाश्च सन्दीष्य प्रवर्तेत, कार्यहेतोरिति । अर्थदानादनर्थप्रतीकाराद्वा न रागाद्, अन्यत्र सक्तयोर्वेति । अन्यस्मिन्पुंसि स्त्री सक्ता, पुमानप्यन्यस्यां स्त्रियां तयोर्यदनुरोधाद्रतं कृत्रिमरागम्, उभयत्रापि स्वाभाविकरागस्यानुत्पत्तेः ॥ ३२ ॥

तत्र समुच्चयेन योगाञ्शास्त्रतः पश्येत् ॥ ३३ ॥

समुच्चयेनेति । न विकल्पेन द्वयोर्योगयोरन्यतरयोगे स्वाभाविकरागस्यानुत्पत्तेः, यस्मात्समुच्चयेन सर्वानैवालिङ्गनादिप्रयोगान् प्रयागकाले पश्येत्, तत्रापि शास्त्रतः, तत्रापि स्थानकालस्वभावानामपेक्ष्येत्यर्थः ॥ ३३ ॥

पुरुषस्तु हृदयप्रियामन्यां मनसि निधाय व्यवहरेत् संप्रयोगात्प्रभृति रतिं यावदतस्तद्व्यवहितरागम् ॥ ३४ ॥

पुरुष इति । योऽन्यप्रसक्तोऽप्यभावितसन्तानस्तस्यापरस्यामपि राग उत्पद्यत एवास्वाभाविकत्वात्कृत्रिम इत्युच्यते, यस्तु सम्भावितसन्तानः सोऽन्यस्यां न रमते रागाभावाद्, यदा तु तामेव हृदयप्रियामिष्टां मनसाऽभिध्याय, चेतसि रागमुत्पाद्य, सम्प्रयोगात्प्रभृति रतिं यावद्व्यवहरेत्प्रवर्त्तेत तदा तद्व्यवहितरागमित्युच्यते हृदयप्रियया रागस्य व्यवहितत्वाद्, एवं योषिदपि हृदये प्रियं निधायेति योज्यम्, अत्र स-

१० अध्याये ] रतारम्भावसानिकप्रकरणम् । १५७

मुच्चयेन योगानित्ययमेवोपचारः ॥ ३४ ॥

स्वाभाविकाहार्य्यकृत्रिमभेदात्त्रयो नायका नायिकाश्च, तत्र सदृश-संयोगे त्रीणि शुद्धानि, विपर्यये षट् सङ्कीर्णानि, तत्र सङ्कीर्णैनेवोपचा-रान्योजयेद्, एतत् सर्वं समानप्रतिपत्त्योः स्त्रीपुंसयोः, हीनाधिकयोई-पंज्ञाद्विशेषमाह—

न्यूनायां कुम्भदास्यां परिचारिकायां वा यावदर्थं सम्प्रयो-गस्तत्पोटारतम् ॥ ३५ ॥

न्यूनायां कुम्भदास्यामिति । अधमायां परिचारिकायां वा न्यूना-यां न समायां चन्द्रापीडस्येव पत्रलेखायां यावद्रति, पोटारतमिति । उभयव्यञ्जना पोटा नपुंसकम् ॥ ३५ ॥

तत्रोपचारान्नाद्रियेत ॥ ३६ ॥

तस्यामुपचारानालिङ्गनादोन्नाद्रियेत, अरञ्जनीयत्वात्, केवलं दर्पा-दुत्पन्नो रागोऽपनेयः ॥ ३७ ॥

तथा वेश्याया ग्रामीणेन सह यावदर्थं खलरतम् ॥ ३७ ॥

तथेति । यथा नायकस्यासादृश्यात् सम्प्रयोगः, वेश्याया इति । गणि-काया रूपाजीवायाः न कुम्भदास्याः, अभिप्रेतमलभमानाया दर्पाद्ग्रामी-णेन कर्षकादिना सम्प्रयोगः खलरतं, ग्रामीणस्य खलत्वेन विगोपन-करत्वात् ॥ ३७ ॥

ग्रामव्रजप्रत्यन्तयोषिद्भिश्च नागरकस्य ॥ ३८ ॥

तथा ग्रामादियोषिद्भिर्नागरकस्य पत्तनवासिनो दर्पाद्यावदर्थं सम्प्र-योगः खलरतं, न पोटारतं विगोपनस्यापि तत्र सम्भवात्, तत्र, ग्रामयोषितः = कर्षकादित्रियः, व्रजयोषितः गोप्यः, प्रत्यन्तयोषितः=श-बर्यादयः ॥ ३८ ॥

विस्रम्भरागाद्विशेषमाह—

उत्पन्नविस्रम्भयोश्च परस्परानुकूल्यादयन्त्रितरतमिति रतानि ॥ ३९ ॥

उत्पन्नविस्रम्भयोश्चेति । चिरकालसम्प्रयोगाज्जातविश्वासयोः पर-स्परानुकूल्यादिति । स्त्रिया आनुकूल्येन पुमानारभेत, तदानुकूल्येन च स्त्री, अयन्त्रितरतं यन्त्रणाऽभावात्, तच्च चित्ररतं पुरुषायितादिभेदाद-नेकविधमिति बहुवचनेन दर्शयति — रतानीति ॥ ३९ ॥

इति रतविशेषा एकविंशतितमं प्रकरणम् ।

प्रणयकलहं वक्ष्यामः —

१५८ सटीक कामसूत्रे [ २ अधिकरणे,

यथा जातविस्रम्भयोरयन्त्रितरतं तथा प्रणयात्कलहोऽपीति प्रणयकलह उच्यते, तत्र कलहकारणमाह—

वर्धमानप्रणया तु नायिका सपत्नीनामग्रहणं तदाश्रयमालापं-
वा गोत्रस्खलितं वा न मर्षयेद् नायकव्यलीकं च ॥ ४० ॥

वर्धमानप्रणया त्विति । यथा यथा विश्वासो वर्धते तथा तथा मृदुमध्याधिमात्रेण न मर्षयेदित्यर्थः, प्रायशश्च नायको विप्रियकारी तन्मूलश्च कलह इति दर्शयन्नाह—नायिकेति । नायकस्य विप्रियकरणं-वाचा क्रियया वा, तत्र वाचा सपत्नीनामग्रहणं, तदाश्रयमिति । अगृहीतैव नाम सपत्नीसम्बद्धं गुणसूचकमालापं गोत्रस्खलितं-तन्नाम्ना नायिकाऽऽह्वानं, नायकव्यलीकमिति । सपत्न्या गृहगमनं ताम्बूलादिप्रेषणं संयोगादिकं नायकस्यापराधं न मर्षयेत्, क्रियया विप्रियकरणमेतत् ॥ ४० ॥

अमर्षेण वाऽनुष्ठानादित्याह —

तत्र सुभृशः कलहो रुदितमायासाः शिरोरुहाणामवक्षोदनं-
प्रहणनमासनाच्छयनाद्वा मह्यां पतनं माल्यभूषणावमोक्षो भूमौ
शय्या च ॥ ४१ ॥

तत्रेति । सपत्नीनामग्रहणादिषु, अनुष्ठानं वाचा क्रियया च, तत्र वाचा कलहः सुभृशोऽतीव महान् पुनर्नैवं कार्षीरिति, क्रियया रुदितादि, आयासः शरीरवेदना कम्पादिजः, अवक्षोदनं विधूननम्, प्रहणनमात्मनः, अन्ये नायकस्य शिरोरुहावलम्बनं प्रहणनं चेत्याहुः, मह्यामिति । आसनादिति । यतः पतिताया न दुःखोत्पत्तिः, माल्यभूषणयोरपिनद्धयोर्मोक्षणं त्यागः, भूमौ शय्या, न तेन सह शयनम् ॥ ४१ ॥

स नायकोऽपि सापराधत्वात्किं प्रतिपद्येतेत्याह—

तत्र युक्तरूपेण साम्ना पादपतनेन वा प्रसन्नमनास्तामनुनय-
न्नुपक्रम्य शयनमारोहयेत् ॥ ४२ ॥

तत्रेति । तस्मिन्ननुष्ठाने, साम्नेति । प्रियंवचनेन; तस्य युक्तरूपताऽपराधविशेषात्, पादपतनं नायकविशेषात् , प्रसन्नमना इति । अप्रदर्शितविकारः, मा मूर्च्छते क्षार इति, तामिति । भूमौ सुप्ताम् , अनुनयन् प्रसादयन् , उपक्रम्योत्थापयितुं , शयनमारोहयेत् , प्रिये ! प्रसीदोत्तिष्ठ शयनमध्यास्यतामिति ॥ ४२ ॥

तस्य च वचनमुत्तरेण योजयन्ती विवृद्धक्रोधा सकचग्रहम-