सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

प्रणयकलहो द्वाविंशं प्रकरणम् ।

१० अध्याये ] प्रणयकलहप्रकरणम् । १६१

यत्वाह, एवं च कृत्वा नन्दिनीत्युच्यत इत्याह-नन्दिनीमिति । नन्दनं-
नन्दः पूजा, सा विद्यते यस्या इति ॥ ५२ ॥
यथेयमनुगतार्था संज्ञा तथाऽन्याऽपीत्याह—

नन्दिनी सुभगा सिद्धा सुभगङ्करणीति च ।
नारीप्रियेति चाचार्यैः शास्त्रेष्वेषा निरुच्यते ॥ ५३ ॥

नन्दिनीति । सुभगा सर्वैर्गृहिभिरनुष्ठीयमानत्वात्, सिद्धा विद्येव
वशङ्करणी, सुभगङ्करणी स्त्रीपुंसयोः सौभाग्यकरणाद्, नारीप्रिया
विशेषतस्तत्सुखकरणाद्, एवमनेकार्थसाधिका, कस्तां न पूज-
येत् ॥ ५३ ॥

अतो ज्ञाताऽपि तद्योगात्पूज्यः, विशेषतो नायिकानामित्याह—

कन्याभिः परयोषिद्भिर्गणिकाभिश्च भावतः ।
वीक्ष्यते बहुमानेन चतुःषष्टिविचक्षणः ॥ ५४ ॥

इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे रता-
रम्भावसानिकं रतविशेषाः प्रणयकलहश्च दशमोऽध्यायः ।

आदितः पञ्चदश ।

कन्याभिरिति । पुनर्भूः परयोषित्त्येवान्तर्भूता, सैव हि विधवा पुन-
र्भवतीति, वेश्येति वक्तव्ये गणिकाग्रहणं योषिदपि चतुःषष्टिविचक्षणेति
दर्शनार्थम् , भावत इति । भावेन हेतुना, बहुमानेन गौरवेण ॥ ५४ ॥

प्रणयकलहो द्वाविंशं प्रकरणम् ।

इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां सांप्रयोगिके
द्वितीयेऽधिकरणे रतारम्भावसानिकं रतविशेषाः प्रणयकलहश्च दशमोऽध्यायः ।

समाप्तमिदं सांप्रयोगिकं द्वितीयमधिकरणम्।

२१ का० सू०

कन्यासम्प्रयुक्तकं नाम तृतीयमधिकरणम् ।

प्रथमोऽध्यायः।

चतुःषष्टिविचक्षणः कन्याभिर्भावतो वीक्ष्यमाणोऽपि न समागमं विना सम्प्रयुज्यत इति तत्समागमोपाय आवाप उच्यते, समन्तादावाप्यन्ते स्त्रियोऽनेनेति, तत्र कन्यायाः प्रधानत्वात्कन्यासम्प्रयुक्तकमुच्यते, तत्रोद्वापा अष्टौ विवाहाः—ब्राह्मः प्राजापत्य आर्षो दैवो गान्धर्व आसुरः पैशाचो राक्षस इति, तत्र पूर्वे चत्वारो धर्म्या इति तदर्थं वरणसंविधानं प्रकरणमुच्यते, किमर्थमेवमनुष्ठीयत इति चेद् ? आह—

सवर्णायामनन्यपूर्वायां शास्त्रतोऽधिगतायां धर्मोऽर्थः पुत्राः सम्बन्धः पक्षवृद्धिरनुपस्कृता रतिश्च ॥ १ ॥

सवर्णायामिति । ब्राह्मणादीनां यथास्वं सवर्णायाम् , अनन्यपूर्वायामिति । मनसा कर्मणा वचसा वाऽन्यस्मै या न दत्ता, तत्र हि प्रगूढमपत्यं तदस्यैवेति स्मृत्यर्थः, शास्त्रत इति । शास्त्रोक्तेन वरणपूर्वेण परिणयविधिनाऽधिगतायां स्वीकृतायां सत्यां धर्मः पत्नीसंयोगाद्य इत्यादिप्रवर्तनं च, अर्थो यौतुकलाभाद् गार्हस्थ्यानुष्ठानाच्च, पुत्रा दृष्टादृष्टार्थाः, सम्बन्धः सहैकभोजनादिहेतुः, पक्षवृद्धिरिति । स्वपक्षस्य वृद्धिः पक्षान्तरलाभाद्, अनुपस्कृता रतिरकृत्रिमा विश्वासातिशययोगात् ॥ १ ॥

यतश्चैवम्—

तस्मात्कन्यामभिजनोपेतां मातापितृमतीं त्रिवर्षात्प्रभृति न्यूनवयसं श्लाघ्याचारे धनवति पक्षवति कुले सम्बन्धिप्रिये सम्बन्धिभिराकुले प्रसूतां प्रभूतमातापितृपक्षां रूपशीललक्षणसम्पन्नामन्यूनानधिकाविनष्टदन्तनखकर्णकेशाक्षिकस्तनीमरोगिप्रकृतिशरीरां तथाविध एव श्रुतवाञ्छीलयेत् ॥ २ ॥

तस्मात्कन्यां शीलयेदिति सम्बन्धः, अशीलितायां वरणासम्भवात् , तत्र शीलनमभिजनतः सनाथतो वयसः कुलाचारतो द्रव्यतोऽनुरागतो रूपतः शीलतो बाह्यलक्षणत आरोग्यतश्चेति, यथाक्रममाह–अभिजनः कुलम् , मातापितृमतीं सनाथत्वात् , त्रिवर्षादिति । वर्षत्रयात्प्रभृति न्यूनवयसं, नैकेन द्वाभ्यां वाऽपि समवयसमधिकव-