सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

देश्या उपचारा द्वादशं प्रकरणम् ।

५ अध्याये ] देश्योपचारप्रकरणम् । ११५

स्थाने कण्ठिकामिव, यच्चान्यदपि लक्षितं दशनच्छेद्यं मनोहारि, अत्रा-
पि वैचित्र्यापेक्षेति सूचयति ॥ ४० ॥

प्रकाशे चेष्टितमाह—

दिवाऽपि जनसंबाधे नायकेन प्रदर्शितम् ।
उद्दिश्य स्वकृतं चिह्नं हसेदन्यैरलक्षिता ॥ ४१ ॥

दिवाऽपीति । रात्रौ नायिकया यत्कृतं सिद्धं तद्दिवाऽपि नायकेन क-
थमस्मिञ्जनसमूहे प्रच्छाद्यमिति भावमाकारं ग्राहयेत्प्रदर्शयेद्, उद्दिश्य
स्वयं कृतं चिह्नमिति दुष्टस्यायमेव निग्रहो युक्त इति भावं ग्राहयन्ती
हसेद्, अन्यैरलक्षितेति । नायकेनाप्यलक्षितेति योज्यम्, अन्यथा द्वा-
वप्यनागरकौ जनसम्बाधे स्यातामिति ॥ ४१ ॥

साऽपि तत्कृतानि चिह्नानि प्रदर्शयेदित्याह—

विकूणन्तीव मुखं कुत्सयन्तीव नायकम् ।
स्वगात्रस्थानि चिह्नानि सास्रूयेव प्रदर्शयेत् ॥ ४२ ॥

विकूणन्तीव । व्यर्थचुम्बनार्थं सङ्कोचयन्तीव सङ्कोचस्येष्टत्वात्,
कुत्सयन्तीव भ्रूनयनविकारैर्धिग्धिग्दुर्विदग्धमिति, 'तर्जयन्ती' इति
पाठान्तरं, फलमस्य प्राप्स्यसीति तर्जनं, सासूयेवाक्षममाणेव ॥ ४२ ॥

परस्परा नुकूल्येन तदेवं लज्जमानयोः ।
संवत्सरशतेनापि प्रीतिर्न परिहीयते ॥ ४३ ॥

इति श्रीवात्स्यायनीये कामसूत्रे साम्प्रयोगिके द्वितीयेऽधिकरणे
दशनच्छेद्यविधयो देश्याश्चोपचाराः पञ्चमोऽध्यायः ।
आदितो दशमः ।

तदिति । तस्मात् संवत्सरशतेन पुरुषायुः प्रमाणेनेत्यर्थः, प्रीतिर्न
परिहीयते स्थिरीभवतीत्यर्थः, भोजनमपि ह्येकरसमुपसेव्यमानं विरा-
गं जनयति ॥ ४३ ॥

देश्या उपचारा द्वादशं प्रकरणम् ।

इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां सांप्रयोगिके
द्वितीयेऽधिकरणे दशनच्छेद्यविधयो देश्या उपचाराश्च पञ्चमोऽध्यायः ।

११६सटीके कामसूत्रे[ २ अधिकरणे,

षष्ठोऽध्यायः ।

एवं देशप्रकृतिसात्म्यापेक्षयाऽऽलिङ्गनाद्युपचाराज्जातरागयोः संवेशनयोग्यत्वात्संवेशनप्रकाराः, तथा संवेशनविशेषत्वाच्चित्ररतानीति प्रकरणद्वयमत्राध्याये।

यदाह—

रागकाले विशालयन्त्येव जघनं मृगी संविशेदुच्चरते ॥ १ ॥

रागकाल इति । रागकालो यत्र स्तब्धलिङ्गता, साधनसद्भावयोः संयोगार्थं संवेशनं, तच्च तदानीमेव युज्यते, तेन प्रमाणतो रतमधिकृत्य; संवेशनप्रकाराः, तेनात्र विषमरतेषु प्रमाणान्तरासङ्क्रान्तिर्द्रष्टव्या, विशालयन्त्येवेति । ऊर्वोर्विश्लेषणात् प्रसारयन्ती तत्प्रसारणादस्य बर्धनं, केवलं जघनं विवृतमुखम्भवति, उच्चरत इति । वृषेण सम्प्रयुज्यमाना मृगी संविशेच्छयीत, तस्याः संवृतरन्ध्रत्वाद्, उपलक्षणं चैतद्, उच्चतररते चाश्वेन सम्प्रयोक्ष्यमाणा जघनं विशालयन्तीव संविशेद्, अत्रातिदेशं वक्ष्यति ॥ १ ॥

अवह्रासयन्तीव हस्तिनी नीचरते ॥ २ ॥

अवह्रासयन्तीवेति । ऊर्वोः संश्लेषणात्सङ्कोचयन्तीव, यथा संवृतमुखं भवति, हस्तिनी नीचरते वृषेण सम्प्रयोक्ष्यमाणा संविशेदित्येव, तस्या बहलरन्ध्रत्वाद्, शशेन तु नीचतररतेऽवह्रासयन्तीव, अत्राप्यतिदेशं वक्ष्यति ॥ २ ॥

न्याय्यो यत्र योगस्तत्र समपृष्ठम् ॥ ३ ॥

यत्र यस्मिन््रते न्यायादनपेतो योगः स्वभावसिद्धत्वात् समरतइत्यर्थः, तत्र समपृष्ठं संविशेदित्येव क्रियाविशेषणमेतत्, सङ्कोचनप्रसारणाभावात्समं जघनपृष्ठं यस्यां क्रियायामिति ॥ ३ ॥

आभ्यां बडवा व्याख्याता ॥ ४ ॥

साऽप्युच्चरतेऽश्वेन संप्रयोक्ष्यमाणा विशालयन्तीव, शशेनावह्रासयन्तीव, न्याय्यो यत्र वृषेण तत्र समपृष्ठं संविशेदिति, आभ्यां=मृगीहस्तिनीभ्यां, व्याख्याता, यथा चोक्तम्—

‘विवृतोरुकमुच्चं तु नीचं स्यात्संवृतोरुकम् ।
तथा स्थितोरुकं चापि समपृष्ठं समे रते’ ॥ ४ ॥

संवेशनस्य प्रतिग्रहफलत्वात्प्रतिग्रहमाह—

तत्र जघनेन नायकं प्रतिगृह्णीयात् ॥ ५ ॥

तत्रेति । संकोचनप्रसारणभेदात्समपृष्ठाच्च त्रिविधे संवेशने जघ-

६ अध्याये ] संवेशनप्रकरणम् । ११७

नेन स्वेन नायकं प्रतिगृह्णीयात्, स्तब्धलिङ्गं प्रतीच्छेदित्यर्थः ॥ ५ ॥

अपद्रव्याणि च सविशेषं नीचरते ॥ ६ ॥

अपद्रव्याणि चेति । वृषेण शशेन वा प्रयुज्यमानानि कृत्रिमसा-
धनानि वडवा हस्तिनी वा प्रतिगृह्णीयादित्येव, तत्रापि विशेषः-यदि
समरतं साधनसदृशं कृत्रिमं तदा नावह्वासयन्ती विशालयन्ती वा, त-
तोऽप्यधिकं चेद्विशालयन्तीव प्रतिगृह्णीयादित्यर्थः, नीचरत इति। उच्च-
रतेऽपद्रव्यप्रयोगासम्भवात् ॥ ६ ॥

यया युक्त्या विवृतं संवृतं वा जघनं स्यात्तद्यथाक्रममाह-

उत्फुल्लकं विजृम्भितकमिन्द्राणिकं चेति त्रितयं मृग्याः प्रायेण॥७॥

उत्फुल्लकमिति । समरते लौकिकी युक्तिरुक्ता न शास्त्रीया, लोके
हि ग्राम्यनागरभेदादुत्तानायाः संवेशनद्वयं प्रतीत पार्श्वे च संपुटकं,-
तत्त्रितयमपि समपृष्ठं घटयतीति, यथा चोक्तम्-

'ग्राम्यमासीनकान्तोरुविन्यस्तप्रमदोरुकम् ।
नागरं च नरोरुस्थं स्त्रीपादाम्भोरुहद्वयम् ॥'

त्रितयमिति । त्र्यवयवं संवेशनम्, प्रायेणेत्येकान्तेन ॥ ७ ॥

शिरो विनिपात्योर्ध्वं जघनमूत्फुल्लकम् ॥ ८ ॥

शिर इति । शिरोभागमधस्ताच्छय्यायां विनिपात्योत्तानमूर्ध्वं ज-
घनं कुर्यादितिभेदमेवंरूपं पश्चाद्भागेनेत्यर्थः, यद्यपि तत्स्वतो भवति
तथाऽप्यतिविस्तारणार्थमुपर्युपरिस्थितपृष्ठे त्रिकभागं विनिवेशयेत्,
पादपाणीं च स्फिचोर्बाह्यतः, एवं जघनस्योर्ध्वं विवृतत्वादुत्फुल्ल-
मिवोत्फुल्लकम् ॥ ८ ॥

तत्रापसारं दद्यात् ॥ ९ ॥

तत्रेति । उत्फुल्लके, अपसारं दद्यादिति । नायकेन यन्त्रेण संयोज्य-
माना कटिभागेनापसरेद्, नायको वा शनैः शनैः संयोज्यापसरेद्, या-
वदार्द्रसंबाधता न भवति, सहसोपसृताया हि पीडा, नायकस्य च लि-
ङ्गचर्मोद्वर्तनं, यदवपादिकेति वैद्यैरुच्यते ॥ ९ ॥

अनीचे सक्थिनी तिर्यगवसज्य प्रतीच्छेदिति विजृम्भितकम्॥१०॥

अनीचे इति । सक्थिनी=ऊरू, तिर्यगवसज्येति । तिरश्चीने कृत्वा,
तत्रापि शय्यायां पादयोरुत्तानविन्यासादपि तिरश्चीने भवतः, किं तु
नीचैरित्याह-अनीचेति । प्रतीच्छेन्नायकमित्यर्थः, जृम्भितमिवेति ।
जघनमिति, विवृतास्यत्वाज्जृम्भितमिव ॥ १० ॥

१९८ सटीके कामसूत्रे [ २ अधिकरणे,

पार्श्वयोः सममूरू विन्यस्य पार्श्वयोर्जानुनी निदध्यादित्य-
भ्यासयोगादिन्द्राणी ॥ ११ ॥

पार्श्वयोरिति । जङ्घासंश्लिष्टावूरू पार्श्वयोः सममनुकार्यं विन्य-
स्य पार्श्वयोर्जानुनी निदध्यात्, कक्षावहिर्भागयोरित्यर्थः, एवं च बाहु-
मूलाभ्यामवष्टभ्य गृहीतत्वात्पूर्वस्माद्विवृततरं भवति, अभ्यासयोगादि-
ति । सहसा निष्पादयितुमशक्यत्वादस्याः, इन्द्राणीति । शचीप्रोक्तत्वा-
त्तत्संज्ञया व्यपदेशः, तत्राप्यपसारं दद्यादिति योज्यम् ॥ ११ ॥

तयोच्चतररतस्यापि परिग्रहः ॥ १२ ॥

तयेति । इन्द्राण्या, उच्चतररतस्यापीति । न केवलमिन्द्राण्या मृगी
वृषं प्रतीच्छेत् प्रतिगृह्णीयाद्, अश्वमपि, तस्या धृतरागत्वाद्विवृतराग-
हेतुत्वात्, तत उच्चतररतेति । विशालयन्तीवेति सिद्धं भवति, तदुत्फुल्ल-
कजृम्भितकाभ्यां तु मृगी वृषमेव, बडवाऽपि ताभ्यामेवाश्वमित्यर्थो-
क्तम्, पूर्वमतिदिष्टत्वात् ॥ १२ ॥

संपुटेन प्रतिग्रहो नीचरते ॥ १३ ॥

संपुटेनेति । हस्तिनी संपुटेन वक्ष्यमाणलक्षणेन वृषं प्रतिगृह्णी-
यादित्यर्थः ॥ १३ ॥

एतेन नीचतररतेऽपि संपुटकं पीडितकं वेष्टितकं वाडवक-
मिति हस्तिन्याः ॥ १४ ॥

नीचतररतेऽपीति । शशमपि प्रतिगृह्णीयादित्यर्थः, तस्य संवृतहेतु-
त्वात्, तेन च प्रतिगृहीते पीडितकादि प्रयोक्तव्यं, तेनाप्यवहासयन्ती-
वेति सिद्धं, बडवाऽपि संपुटकेन शशं प्रतिगृह्णीयादित्यर्थोक्तम्, पूर्व-
मतिदिष्टत्वात् ॥ १४ ॥

संपुटकयुक्तिमाह—

ऋजुप्रसारितावुभावप्युभयोश्चरणाविति संपुटः ॥ १५ ॥

ऋज्विति । प्रगुणं प्रसारितौ यथा यन्त्रयोगः स्याद् , उभयोरिति ।
स्त्रीपुंसयोः, संपुट इति । संपुट इवोभयोरेकत्र संश्लेषात् ॥ १५ ॥

स द्विविधः पार्श्वसंपुट उत्तानसंपुटश्च तथा कर्मयोगात् ॥ १६॥

तथा कर्मयोगादिति । तेन प्रकारेण रतानुष्ठानयोगादित्यर्थः, तत्र
पार्श्वसंविष्टयोः पार्श्वसंपुटः, उत्तानसंविष्टाया उपर्यर्वाक् संविष्टस्यैकः,
विपर्ययेण द्वितीय इति द्विविध उत्तानसंपुटकोऽन्यतरेण व्यपदिश्यते,
कथमत्र यन्त्रयोग इति नाशङ्कनीयं सुकरत्वात्, पार्श्वसंपुटके तु ना-