सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

इत्यान्तःपुरिकावृत्तमष्टचत्वारिंशं प्रकरणम् ॥

६ अध्याये ] दाररक्षकप्रकरणम् । २६९

अन्येऽपि तद्रूपा येऽनिषिद्धसंचाराः, उपयुज्यन्त इत्यर्थकत्वाद्द्विभक्तिवि-
परिणामेन संबन्धः, सैन्धवानामिति । सिन्धुनामा नदस्तस्य पश्चिमेन
सिन्धुदेशस्तत्र भवानाम् ॥ ३९ ॥

अर्थेन रक्षिणमुपगृह्य साहसिकाः संहताः प्रविशन्ति हैमवता-
नाम् ॥ ४० ॥

अर्थेनोपगृह्य रक्षिणां लुब्धत्वात्, साहसिका निर्भया नान्ये, संहताः
एकीभूय, हैमवतानामिति । हिमवद्द्रोणीभवानाम् ॥ ४० ॥

पुष्पदाननियोगान्नगरब्राह्मणा राजविदितमन्तःपुराणि गच्छ-
न्ति पटान्तरितश्चैषामालापः, तेन प्रसङ्गेन व्यतिकरो भवति
वङ्गाङ्गकलिङ्गकानाम् ॥ ४१ ॥

नगरब्राह्मणा इति । तत्रैव नगरे ये ब्राह्मणास्ते पुष्पाणि दातुमन्तःपुरं-
गच्छन्ति, राजविदितमिति । राजप्रज्ञातम् , पटान्तरितश्चैषामालापो-
न ताभिः साक्षाद् दृश्यमानाभिरिति देशस्थितिः, तेनेति । पुष्पदानप्र-
सङ्गेन, व्यतिकरः = संप्रयोगः, वङ्गाः तिरुहितात् पूर्वेण, अङ्गा महानद्याः-
पूर्वेण, कलिङ्गा गौडविषयाद्दक्षिणेन ॥ ४१ ॥

संहत्य नव दशेत्येकैकं युवानं प्रच्छादयन्ति प्राच्यानामित्येवं-
परस्त्रियः प्रकुर्वीत ॥ ४२ ॥
इत्यान्तःपुरिकावृत्तम् ॥

संहत्य नव दशेतीति । अत्रेतिशब्दः प्रकारे, एकैकं युवानं व्यवायक्ष-
मं प्रच्छादयन्ति न यथा दृश्यते, एवमित्युक्तेन पारदारिकेण विधिना प्र-
कुर्वीताभिगच्छेत् ॥ ४२ ॥

इत्यान्तःपुरिकावृत्तमष्टचत्वारिंशं प्रकरणम् ॥

यथा परस्त्रियमेभिरुपायैरभिगच्छेत्तथा तद्दारानपरोऽपीति, दार-
रक्षकमुच्यते, दाररक्षा प्रयोजनमस्येति, यदाह—

एभ्य एव च कारणेभ्यः स्वदारान्रक्षेत् ॥ ४३ ॥

एभ्य एवेति । कारणेभ्य इति । निमित्तेभ्यः, तत्र व्यावत्र्तनकारणब-
र्धनेन तदुच्छेदनकारणेभ्यो रक्षेत्, तथा सिद्धपुरुषेभ्यः, यैश्च द्वारदे-
शावस्थानादिभिः कारणैरभियोगमात्रसाध्यत्वं, यानि च परिचयकार-
णानि, अभियोगदूतीकर्माणि, ईश्वरकामितोपाय आन्तःपुरिकावृत्तं च
तेभ्यो रक्षेत्, तत्रायं प्रथमो रक्षणोपायो यद्रक्षानिवेशनम् ॥ ४३ ॥

यदाह—

कामोपधाशुद्धान्रक्षिणोऽन्तःपुरे स्थापयेदित्याचार्याः ॥४४॥

२७०सटीके कामसूत्रे[ ५ अधिकरणे,

कामोपधेति । कामविषये या परीक्षा तया शुद्धान् ॥ ४४ ॥

ते हि भयेन चार्थेन चान्यं प्रयोजयेयुस्तस्मात्कामभयार्थोपधाशुद्धानिति गोणिकापुत्रः ॥ ४५ ॥

ते हीति । यद्यपि स्वयं कामोपधाशुद्धा नाभिगच्छन्ति, तथाऽपि भयेन लोभेन वाऽन्यं प्रयोजयेयुस्तदशुद्धिसंभवात्तस्मात् कामभयार्थोपधाशुद्धान् स्थापयेदिति गोणिकापुत्रः ॥ ४५ ॥

अद्रोहो धर्मस्तमपि भयाज्जह्यादतो धर्मभयोपधाशुद्धानिति वात्स्यायनः ॥ ४६ ॥

धर्मभयोपधाशुद्धानिति । वात्स्यायन एवं मन्यते धर्मोपधाशुद्धो न परदारानभिगच्छति, नार्थलोभात्स्वामिद्रोहमाचरति, भयात्तु धर्मं परित्यजेदिति ॥ ४६ ॥

स्वदारेषु परीक्षणमपि रक्षणोपाय इति के चिदित्याह—

परवाक्याभिधायिनीभिश्च गूढाकाराभिः प्रमदाभिरात्मदारानुपदध्याच्छौचाशौचपरिज्ञानार्थमिति बाभ्रवीयाः ॥ ४७ ॥

परवाक्येति । अमुकस्त्वय्यनुरक्तः स एवमाह-मम प्राणा धार्यन्तामिति । गूढाकाराभिरिति । यथा सा न जानाति पत्या प्रयुक्तेति, तयोपद्ध्यात्परीक्षेत, तथा ह्यप्रतिपन्नायाः शौचं, प्रतिपन्नायाश्चाशौचं ज्ञातं भवति ॥ ४७ ॥

दुष्टानां युवतिषु सिद्धत्वान्नाकस्माददुष्टदूषणमाचरेदिति वात्स्यायनः ॥ ४८ ॥

दुष्टानामिति । विनाशकारणानामित्यर्थः, एवं मन्यते विनाशकारणेषु सत्स्वसत्सु वा परीक्षावान्स्यात्, तत्र पूर्वस्मिन्पक्षे दुष्टानां युवतिषु प्रत्यक्षेण सिद्धत्वात् किं परीक्षया, द्वितीयेऽप्यकस्मात् कारणेन विना, नादुष्टानाभविद्यमानविनाशकारणानां दूषणमाचरेद्, शुद्धशोधनस्य दोषवत्त्वाद्, यथाक्तम्—

न शोधनमदुष्टस्य विशेषेणाभसश्चरेत् ।
कदा विद्धि प्रदुष्टस्य नाधिगम्येत भेषजम् ॥ ४८ ॥

तस्माद्विनाशकारणान्येव निरूप्यानि, येभ्यो व्यावर्तनेनोपदध्यादित्याह—

अतिगोष्ठी, निरङ्कुशत्वं, भर्तुः स्वैरता, पुरुषैः सहानियन्त्रणता, प्रवासेऽवस्थानं, विदेशे निवासः, स्वतन्त्र्युपवातः, स्वैरिणीसंसर्गः, पत्युरीर्ष्याळुता, चेति स्त्रीणां विनाशकारणानि ॥ ४९ ॥