कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
इति विवाहयोगा एकत्रिंशं प्रकरणम् ॥
५ अध्याये ] विवाहयोगप्रकरणम् । १९९
के चिद् 'आसुरोऽपि पैशाचात्तथा धर्मत्वात्, पैशाचोऽधम्मोऽपि राक्षसात्प्रधानं राक्षसस्य साहसाकर्मत्वाद्, यो य उत्तर उत्तर इति । अन्यगत्या अन्य इत्याहुः ॥ २८ ॥
गान्धर्व एव प्रधानमित्याह—
व्यूढानां हि विवाहानामनुरागः फलं यतः ।
मध्यमोऽपि हि सद्योगो गान्धर्वस्तेन पूजितः ॥ २९ ॥
व्यूढानामिति । कृतानामनुरागः फलम्, अन्यथाऽनुरागाभावे निष्फलः स्याद्, मध्यमोऽपि हि षडित्येकस्मिन्पक्षे, सद्योग इति । शोभनोऽनुरागात्मको योगोऽस्येति, तेन च सद्योगेन गान्धर्व इत्युच्यते ॥ २९ ॥
एवं च कृत्वाऽस्य प्राधान्यमित्याह—
सुखत्वादबहुक्लेशादपि चावरणादिह ।
अनुरागात्मकत्वाच्च गान्धर्वः प्रवरो मतः ॥ ३० ॥
इति श्रीवात्स्यायनीये कामसूत्रे कन्यासंप्रयुक्तके तृतीयेऽधिकरणे विवाहयोगाः पञ्चमोऽध्यायः ।
सुखत्वादिति । सुखहेतुत्वाद्, अबहुक्लेशात्, प्रायेणेति, प्रायशो न यत्नसाध्य इत्यर्थः, अवरणाद् = वरणसंविधानाभावात् ॥ ३० ॥
इति विवाहयोगा एकत्रिंशं प्रकरणम् ॥
इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां-
कन्यासंप्रयुक्तके तृतीयेऽधिकरणे विवाहयोगाः पञ्चमोऽध्यायः ।
[ समाप्तं चेदं कन्यासंप्रयुक्तकं नाम तृतीयमधिकरणम् ]
भार्याधिकारिकं नाम चतुर्थमधिकरणम्।
प्रथमोऽध्यायः।
कन्या पुरुषेण संयुक्ता भार्या संवृत्ता तया पुंसि कथं ? वर्तितव्यमि-
त्यतो भार्याऽधिकारिकमुच्यते, तच्च कन्यासं प्रयुक्तकशेषभूतम्, अन्यथा
विशेषाधिकाननुष्ठानात्संयुक्ताऽप्यसंयुक्तकल्पैव स्याद्, भार्या च
द्विविधा—एकचारिणी सपत्निका च, तत्र प्राधान्येनैकचारिणी वृ-
त्तमुच्यते—
भार्यैकचारिणी गूढविश्रम्भा देववत्पतिमानुकूल्येन वर्तेत ॥१॥
भार्येति । गूढविश्रम्भा, इतरस्याः कपटव्यवहारः सम्भावितत्वा-
द्देववद्, 'भर्ता तु देवता स्त्रीणाम्' इति न्यायाद्, आनुकूल्येन चित्तानुवि-
धानेनैव, वर्तेतेत्यन्तर्भावितो ण्यथैः, शरीरस्थितिविषयमेतत् ॥ १ ॥
वृत्तं सूचयति—
तन्मतेन कुटुम्बचिन्तामात्मनि संनिवेशयेत् ॥ २ ॥
तन्मतेनेति । यदा तु नायकेनानुज्ञाता, कुटुम्बचिन्तां गृहचिन्ताम्,
बाह्यवस्तुविषयमेतद्, आत्मनि संनिवेशयेद् आत्माधीनां कुर्याद्, वृत्त-
मुभयमुत्तरत्र यथायोगं योज्यम् ॥ २ ॥
तत्र गृहप्रतिबद्धत्वाद् वृत्तस्य गृहचिन्तामाह—
वेश्म च शुचि सुसंमृष्टस्थानविरचितविविधकुसुमं संश्लक्ष्ण-
भूमितलं हृद्यदर्शनं त्रिपवणाचरितबलिकर्म पूजितदेवायतनं
कुर्यात् ॥ ३ ॥
वेश्म चेति । कुर्यादित्यनेन सम्बन्धः, सुसंमृष्टं सुशोधितं स्थानेषु
भोग्येषु विरचितानि विप्रकीर्णानि विविधानि कुसुमानि यस्य, संश्ल-
क्ष्णभूमितलमिति । मसृणभूतलं, हृद्यं = हृदयप्रियं, दर्शनं यस्य, त्रिपवणं-
त्रिसंध्यमाचरितं कारितं बलिकर्म यत्र, देवताऽऽयतनं देवगृहं तत्पूजितं-
यस्मिन् ॥ ३ ॥
न ह्यतोऽन्यद् गृहस्थानां चित्तग्राहकमस्तीति गोनर्दीयः ॥४॥
अतोऽन्यदिति । यथोपवर्णितवेश्मनः, चित्तग्राहकं = मनोहारि,
गोनर्दीय इति । पुजाऽर्थमधिकरणेऽधिकृतत्वात् ॥ ४ ॥
१ अध्याये ] एकचारिणीवृत्तप्रकरणम् । २०१
तत्र वृत्तद्वयं दर्शयन्नाह—
गुरुषु मन्त्रवर्ग्येषु भृत्यवर्गेषु नायकभगिनीषु तत्पतिषु च यथाऽर्हं प्रतिपत्तिः ॥ ५ ॥
गुरुष्विति । श्वशुरादिषु, नायकभगिनीषु, ननान्दृषु, तत्पतिषु = ननान्दृपतिषु, यथाऽर्हं प्रतिपत्तिरिति । यथा यस्यां प्रतिपत्तिर्वाक्कायाभ्यामनुष्ठानम् ॥ ५ ॥
परिपूतेषु च हरितशाकवप्रानिक्षुस्तम्बाञ्जीरकसर्षपाजमोदशतपुष्पात्तमालगुल्मांश्च कारयेत् ॥ ६ ॥
परिपूतेषु चेति । पवित्रेषु, हरितं धान्याकार्द्रकादि, शाकं पालङ्क्यादि च, एषां वप्रान्केदारान्, इक्षुस्तम्बानिक्षुविटपान्, जीरकादीञ्शतपुष्पापर्यन्तान् कारयेत्, तत्राजमोदोऽनेनैव नाम्ना प्रतीतः, तमालगुल्मांस्तमालविटपान् ॥ ६ ॥
कुब्जकामलकमल्लिकाजातीकुरण्टकनवमालिकातगरनन्द्यावर्तजपागुल्मानन्यांश्च बहुपुष्पान्बालकोशीरकपातालिकांश्च वृक्षवाटिकायां च स्थण्डिलानि मनोज्ञानि कारयेत् ॥ ७ ॥
यत्र कुब्जकादीनां गुल्मान्, तगरः = पिण्डीतगरः, जपा = ओड्रपुष्पम्, बहुपुष्पा ये निर्भरं पुष्प्यन्ति, बालकोशीरयोः, पातालिका = केदारः, स्थण्डिलान्यवपट्टकानि ॥ ७ ॥
मध्ये कूपं वापीं दीर्घिकां वा खानयेत् ॥ ८ ॥
वापीं समचतुरस्रां पुष्करिणीं, दीर्घिकामायतचतुरस्रां, खानयेद्वास्तुवशात् ॥ ८ ॥
भिक्षुकीश्रमणाक्षपणाकुलटाकुहकेक्षणिकामूलकारिकाभिर्न संसृज्येत ॥ ९ ॥
भिक्षुकी = भिक्षणशीला, श्रमणा क्षपणा प्रव्रजिता रक्तपटिका च, कुलटा = प्रच्छन्नं खण्डितचारित्रा, कुहका = कौतुककारिका, ईक्षणिका = विप्रश्निका, मूलकारिका वशीकरणेन मूलेन या कर्म करोति, ताभिर्न संसृज्येत, भर्तृविकल्यहेतुत्वात् ॥ ९ ॥
भोजने रुचितमिदमस्मै द्वेष्यमिदं पथ्यमिदमपथ्यमिदमिति च विद्यात् त्यागोपादानार्थम् ॥ १० ॥
भोजने चेति । भोजनकाले रुचितादीन विद्यात् ॥ १० ॥
२६ का० सू०
२०२ सटीके कामसूत्रे [ ४ अधिकरणे,
स्वरं बहिरुपश्रुत्य भवनमागच्छतः किं कृत्यमिति ब्रुवती सज्जा भवनमध्ये तिष्ठेत् ॥ ११ ॥
किं कृत्यमिति । आदिश्यमानकार्यस्यानुष्ठानबुद्ध्या, सज्जा=सावधाना भवनमध्येऽङ्गनके ॥ ११ ॥
परिचारिकामपनुद्य स्वयं पादौ प्रक्षालयेत् ॥ १२ ॥
परिचारिकामिति । पादप्रक्षालनोद्यतामपनुद्यापास्य ॥ १२ ॥
नायकस्य च न विमुक्तभूषणं विजने संदर्शने तिष्ठेत् ॥१३॥
संदर्शन इति । अग्रतो न तिष्ठेद्, अकृतशरीरसंस्कारां दृष्ट्वा वैराग्यमपि स्यात् ॥ १३ ॥
अतिव्ययमसद्व्ययं वा कुर्वाणं रहसि बोधयेत् ॥ १४ ॥
अतिव्ययमुचितव्ययादधिकम्, असद्व्ययं यदनर्थिजने प्रतिपाद्यते, रहसि बोधयेद्, लोकमध्ये हि लज्जित एव स्यात् ॥ १४ ॥
आवाहे विवाहे यज्ञे गमने सखीभिः सह गोष्ठीं देवताऽभिगमनमित्यनुज्ञाता कुर्यात् ॥ १५ ॥
आवाहे=वरगृहे, विवाहे,=कन्यागृहे, गोष्ठीं सम्भूय पानभोजनं, देवताऽभिगमनं, द्रष्टुमनुज्ञाता कुर्याद्, अन्यथा स्वैरिणीत्याशङ्क्येत ॥ १२ ॥
सर्वक्रीडासु च तदानुलोम्येन प्रवृत्तिः ॥ १६ ॥
सर्वक्रीडासु चेति । यक्षरात्र्यादिषु लोके वृत्तासु तच्चित्तानुविधानेन प्रवृत्तिः ॥ १६ ॥
पश्चात्संवेशनं पूर्वमुत्थानमनवबोधनं च सुप्तस्य ॥ १७ ॥
पश्चात्संवेशनं, शयितस्य नायकस्य, पूर्वमुत्थानमनुत्थितान्नायकादहनि यावन्न प्रतिबुध्येत ॥ १७ ॥
महानसं च सुगुप्तं स्याद्दर्शनीयं च ॥ १८ ॥
महानसं सुगुप्तं स्याद्, यथाऽन्योऽत्र परकीयो न विशेद्, दर्शनीयं- चान्धकाराभावात् ॥ १८ ॥
नायकापचारेषु किं चित्कलुषिता नात्यर्थं निर्वदेत् ॥ १९ ॥
नायकापचारेष्विति । नायकापराधेसु, किञ्चित्कलुषिता धीरात्व-ख्यापनार्थं निर्वदेत्, पुनर्मा कार्षीरिति, तत्रापि नात्यर्थं मा भूद्वैलक्ष्य-मस्येति ॥ १९ ॥