कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
इति विरक्तप्रतिपत्तिश्चतुःपञ्चाशत्तमं प्रकरणम् ॥
३ अध्याये ] निष्कासनक्रमप्रकरणम् । २९७
तानि चेति । सारद्रव्याणि, अस्या इति । नायिकाया हस्ताद्, उत्तमर्ण इति । यस्मादुत्तमर्णानायकार्थमृणमाहृतं गृहीतवती स तया कृतसंकेतः प्रसह्याभिभूय गृह्णीयात् ॥ ३७ ॥
विवदमानेन सह धर्मस्थेषु व्यवहरेदिति विरक्तप्रतिपत्तिः ॥ ३८ ॥
विवदमानेनेति । मदीयमेतत्स्वं किं गृह्णासीति विवादं कुर्वता नायकेन सह, धर्मस्थेषु प्राङ्विवाकादिषु च, व्यवहरेदुत्तमर्णः, यदि तु न विवदेत सिद्धं कार्यम् ॥ ३८ ॥
इति विरक्तप्रतिपत्तिश्चतुःपञ्चाशत्तमं प्रकरणम् ॥
विरक्तस्य स्वयमेव निष्कासितत्वान्न निष्कासनं, यस्तु सक्तत्वात्स्वयं न निष्कसति, तस्य निष्कासनक्रमा उच्यन्ते, तत्रायं प्रथमः कल्पो यदस्यानुपालनं, यदाह—
सक्तं तु पूर्वोपकारिणमप्यल्पफलं व्यलीकेनानुपालयेत् ॥ ३९ ॥
सक्तमिति । अल्पं ददतमपि, व्यलीकेनापराधेनानुपालयेत्, तस्य सक्तत्वात्, पूर्वं बहुधा कृतोपकारोऽपि परामिच्छति यदा तदा निष्कासयेदित्यर्थः ॥ ३९ ॥
असारं तु निष्प्रतिपत्तिकमुपायतोऽपवाहयेदन्यमवष्टभ्य ॥ ४० ॥
असारं = निर्द्रव्यम्, अपवाहयेद् = निष्कासयेद्, यद्यपि तदात्वे नास्ति, तथाऽपि भविष्यतीति चेदाह—निष्प्रतिपत्तिकमिति । निरनुष्ठानमित्यर्थः, ननु रतिफलत्वात्कथं निष्कास्य इति-चेन्न, अन्यमवष्टभ्येति । अन्यस्मादुभयोपपत्तेः, वर्तमानादन्यं पूर्वसंसृष्टं विशीर्णम्, अन्यं वाऽऽसृत्यापवाहयेदिति योज्यम्, अन्यथा विपक्षस्याभावात् सत्यप्युपायप्रयोगे सक्तस्यानिष्कासनात् ॥ ४० ॥
ते च निष्कासनोपायाः प्रकाशे रहसि वा स्थितस्य, तत्र पूर्वमधिकृत्याह—
तदनिष्टसेवा, निन्दिताभ्यासः, ओष्ठनिर्भोगः, पादेन भूमेरभिघातः, अविज्ञातविषयस्य संकथा, तद्विज्ञातेष्वविस्मयः, कुत्सा च, दर्पविघातः, अधिकैः सह संवासः, अनपेक्षणं, समानदोषाणां निन्दा, रहसि चावस्थानम् ॥ ४१ ॥
तदनिष्टसेवेति । तस्य नायकस्य यदनिष्टं तस्य सेवा कर्तव्या, येनायं प्रागेवेयं मम च्छन्दानुवर्तिनी संप्रति कामं परीवादयुक्ता विरक्तेति व्यावर्तते, निन्दितं = तृणच्छेदलोष्टमर्दनादि तस्याभ्यासः पुनः पुनः करणं तदग्रतो, येनायं ममाशुभं काङ्क्षत इति जानाति, ओष्ठनिर्भोगः, तं दृष्ट्वा
३८ का० सू०
२९८ सटीक कामसूत्रे [ ६ अधिकरणे,
स्वमोष्ठं च क्रोडीकृत्य बहिर्निष्कासयेत्, पादेन भूमेरभिघातः, भूमौ पादास्फालनं, तदुभयं नित्यक्रुद्धताख्यापनार्थम्, अविज्ञातविषयस्य संकथेति । यस्मिन्विषये नायकस्य परिज्ञानं नास्ति, तस्मिन् तस्य संबन्धिनः- शोभनमिदं जानातीति संकथा कर्तव्या, यथाऽस्य लोकमध्ये वैलक्ष्यं भवति, विज्ञातेष्वविस्मयो वैराग्यख्यापनार्थं, कुत्सा च, दुःशिक्षितमस्यैतदिति, दर्पविघातः शौर्यादिजनितदर्पस्यापनयनम्, अन्यं प्रोत्साह्य येनायं विलक्षीभवति, अधिकैः सह संवासः, येन तेभ्यो बिभ्यन्न ढौकते, अनपेक्षणमिष्टानिष्टवस्तुष्ववज्ञाख्यापनार्थं, समानदोषाणां निन्दा, यथाऽयं तद्द्वारेण मां कुत्सयतीति जानाति, रहसि चावस्थानं, रताऽर्थं संकथाऽर्थं वा ॥ ४१ ॥
तत्र रतमधिकृत्याह—
रतोपचारेषूद्वेगः, मुखस्यादानं, जघनस्य रक्षणं, नखदशनक्षतेभ्यो जुगुप्सा, परिष्वङ्गे भुजमध्यया सूच्या व्यवधानं, स्तब्धता गात्राणां, सक्थ्नोर्व्यत्यासः, निद्रापरत्वं च, श्रान्तमुपलभ्य चोदना, अशक्तौ हासः, शक्तावनभिनन्दनं, दिवाऽपि भावमुपलभ्य महाजनाभिगमनम् ॥ ४२ ॥
रतोपचारेष्विति । रतार्थं सरकताम्बूलादिषूपचारेषु, उद्वेग इत्यप्रतिग्रहणम्, प्रतिग्रहणे वाऽसौमनस्यम्, मुखस्यादानं मुखं चुम्बितुं न देयं, जघनस्य रक्षणं द्रष्टुं स्प्रष्टुं वा न देयं, नखदशनक्षतेभ्यस्तत्कृतेभ्यः जुगुप्सा = निन्दा, भुजमध्येति । भुजौ व्यत्यस्य स्तनस्कन्धयोर्निदध्यात्, ततो भुजावेकीकृत्य सूचीव सूची तया व्यवधानं परिष्वङ्गस्य, स्तब्धता गात्राणां कर्तव्या नाक्रष्टुं दद्यादित्यर्थः, सक्थ्नोर्व्यत्यासः, सक्थिनी व्यत्यस्येद् यन्त्रयोगे प्रतिषेधार्थमूरू व्यत्यस्येदित्यर्थः, निद्रापरत्वं चात्मनः ख्याप्यं, श्रान्तमुपलभ्येति । यदि कथं चिद्रन्तुं प्रवृत्तस्तत्र श्रान्तं चोदयेत्प्रवर्तयितुं न पुरुषायितेन साहाय्यं दद्यात्, तत्र चोदितस्याशक्तौ हासः कर्तव्यः, पाण्याऽभिहत्य यथाऽयं विरक्तीभवति, शक्तावनभिनन्दनं वैराग्यख्यापनार्थं, दिवाऽपीति । अस्त्येव कश्चित्कामगर्दभो यः प्रतिषिद्धमपि दिवा मैथुनमाचरति, भावमुत्कण्ठां संप्रयोगेच्छामुपलभ्य, चेङ्गिताकाराभ्यां महाजनाभिगमनं, रतिगृहान्निर्गत्य तदिच्छाव्याघातार्थम् ॥ ४२ ॥
संकथामधिकृत्याह—
वाक्येषु च्छलग्रहणम्, अनर्मणि हासः, नर्मणि चान्यमपदिश्य