सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

कॉपीराइट समस्या बताएँ

DevanagariSanskritpublished804 पृष्ठ

इस ग्रन्थ के बारे में

पूर्वमीमांसा दर्शन महर्षि जैमिनि के मीमांसासूत्रों पर आधारित है, जो वैदिक वाक्यों के अर्थ-निर्णय और यज्ञ-कर्म के नियमों की विवेचना करता है। लगभग बारह अध्यायों में फैले इन सूत्रों पर शबरस्वामी का शाबरभाष्य सबसे प्राचीन उपलब्ध भाष्य है, और उस पर कुमारिल भट्ट का तन्त्रवार्तिक मीमांसा की भाट्ट परम्परा का आधार बना।

यह प्राच्यभारती ग्रन्थमाला (16) का संस्करण है, जिसे तारा प्रिंटिंग वर्क्स, वाराणसी ने 1984 में प्रथम संस्करण के रूप में प्रकाशित किया। मुखपृष्ठ के अनुसार इसमें पाँच टीकाएँ एक साथ हैं: शाबरभाष्य, कुमारिल भट्ट का तन्त्रवार्तिक, उस पर सोमेश्वर भट्ट की न्यायसुधा, गोविन्दामृतमुनि का भाष्यविवरण, और सम्पादक डॉ. महाप्रभुलाल गोस्वामी की 'भावप्रकाशिका'। डॉ. गोस्वामी सम्पूर्णानन्द संस्कृत विश्वविद्यालय में दर्शन विभाग के अध्यक्ष थे; पुस्तक की प्रस्तावना पद्मभूषण पण्डितराज पट्टाभिराम शास्त्री ने लिखी है।

ग्रन्थ में प्रमाण, धर्म के लक्षण, विधि-अर्थवाद, प्रकरण और श्रुति-लिंग जैसे विषयों पर सूत्र-दर-सूत्र चर्चा है, और भूमिका में मीमांसा के भाष्यकारों की परम्परा का परिचय है। लगभग 804 पृष्ठों का यह खण्ड मीमांसा के गम्भीर अध्येताओं के लिए है।

पृष्ठ 486 स्कैन

४३२ मीमांसादर्शनम् [ सू०
बलवत्या शास्त्रस्थप्रसिद्ध्या बाध्या उत स्वयमेव बलवतीति तस्या बाधिकेत्ययं
विचारस्संभवतीति तमेव योग्यायोग्यत्वविचारं सूचयितुमयमपक्षिप्त इत्यवगन्त-
व्यम् । प्रयोजनं तु विचारस्य पिकादिशब्दानां व्यवस्थितार्थविषयत्वं सिद्धं
स्वयमेव वक्ष्यति, तत्र पूर्वाधिकरणसिद्धान्तन्यायेन पूर्वपक्षमाह—शिष्टाचार-
स्येति । आचारशब्दः शब्दप्रयोगविषयः । स्मृतिशब्दोऽपि तत्पूर्वप्रयोगपरः, यद्यपि
शास्त्रस्थप्रसिद्धिः कल्प्या, तथापि शास्त्रमूलत्वादेव प्रमाणम् । म्लेच्छप्रसिद्धिस्तु
कॢप्तापि निर्मूला न

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 487 स्कैन

१० ] प्रथमाध्याये तृतीयपादः ४३३
ननु भवतु अव्यवस्थैव को दोषस्तत्राह—पिक इति । कोकिलादीनामेव
कर्माङ्गत्वेनाभ्युपगमादिति भावः ॥ १० ॥
त० वा०—ये शब्दा न प्रसिद्धाः स्युरार्यावर्तनिवासिनाम् ।
तेषां म्लेच्छप्रसिद्धोऽर्थो ग्राह्यो नेति विचिन्त्यते ॥ ४६३
तथा—निरुक्तव्याक्रियाद्वारा प्रसिद्धिः किं

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 488 स्कैन

४१४ मीमांसादर्शनम् [ सू०
द्वित्रेष्वहःसु बाध्येत प्रयोगानम्लेच्छचोदितात् ।
म्लेच्छाचाराप्रमाणत्वमथ त्वध्यवसीयते ॥ ४७५
आर्यावर्ते ततः शक्या प्रसिद्धयन्वेषणक्रिया ।
तस्याश्चाल्पेन कालेन सदसद्भावनिर्णयः ॥ ४७६
ततश्च निगमादीनां सुज्ञातः स्वार्थगोचरः ।
तस्मात्तदर्थवत्त्वाय म्लेच्छाचाराप्रमाणता ॥ ४७७
धर्मे चानादरात्तेषां

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 489 स्कैन

१० ] प्रथमाध्याये तृतीयपादः ४३५
सिद्धान्तः
एवं प्राप्ते
वदामोऽत्र पदं निपुणदृष्टिभिः ।
विज्ञायेताऽविनष्टं यत्तत्तदर्थं भविष्यति ॥ ४८३
देशभाषापभ्रंशपदानि हि विप्लुतिभूयिष्ठानि न शक्यन्ते विवेक्तुम् ।
यत्तु वेदतदङ्गेषु पदं दृष्टमविप्लुतम् ।
म्लेच्छभाषासु तद्रूपमर्थे क्वचन चोदितम् ॥ ४८४
तत्तथैव प्रतीयेत प्रमाणेनाविरोधतः ।

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 490 स्कैन

४३६ मीमांसादर्शनम् [ सू०
प्रसिद्धौ विद्यमानायां तद्वलीयस्त्वमिष्यते ।
असत्यां तु बलीयस्त्वं बन्ध्यासुतबलोपमम् ॥ ४९१
अष्टकादिषु ह्यदृष्टार्थेषु समूलकेषु स्मर्यमाणेषु गवादिपदस्वरूपतदर्थज्ञानेषु
च सत्यमार्याणामाप्ततरत्वाभियुक्ततरत्वे विद्येते । पिकादिषु त्वार्यबलेनैवावगतस्व-
रूपमात्रवाचकत्वेषु वाच्यविशेषज्ञानरहितत्वेनाऽऽर्येषु

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 491 स्कैन

१० ] प्रथमाध्याये तृतीयपादः ४३७
यस्य चान्विष्यमाणाऽपि प्रसिद्धिर्न भविष्यति ।
कामं प्रदर्शितद्वारा तत्र कल्प्याऽऽश्रयिष्यते ॥ ४९७
विविक्ता बहुरूपा च या संदेहप्रदायिनी ।
अनन्योपायतामात्रे क्वचिदेव ग्रहीष्यते ॥ ४९८
न चार्थप्रत्ययान्न ङ्गन्निरुक्ताद्यनर्थकम् ।
षडङ्गवेदविज्ञानपूर्वकर्मक्रियाफलात् ॥ ४९९.
यथा महाभारतनिर्वचनान्वाख्याने द्वैपायनेनोक्तम् ।
महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते ।
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥ इति ॥ ५००

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 492 स्कैन

४३८ मीमांसादर्शनम् [ सू०
ये यजामहे, यच्चागूर्याज्यादिरित्याद्युत्सर्गवदनुयाजवजंमित्याद्यपवादवद्वक्ष्येयुरिति
गाणगारितत्संस्कारत्वादित्यादिहेतुमत्सम्प्रैषवदादेशान्पशुवत् (निपातानिति यथान्वयंः
सम्प्रैषं दद्यात्तद्वद्धोता आदेशान् द्रव्यादेशान् कुर्यात् । छागपदेन प्रैषे छागपदेनादेशाः ।
आज्येन चाज्यपदेन भेद उद्धृतं पार्श्वतः श्रोणित इत्यादयः शब्दा पश्ववयववाचिनः निपाता
इत्युच्यन्ते । तान् पशुवत्क्रियायां पशुवद् द्वयाम्नान्येत्यर्थः । यस्मिन् क्रतावग्नीषोमीयस्थाने
सवनीयस्थाने वा पश्वैकादशिनी कृता, तत्र शालामुखीयै त्वाष्ट्रेण पशुना यजेत ।

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें

पादयति—काममिति । शाक्यादिचोरः स्वागमप्रामाण्यग्रामं प्रत्यक्षादिमूलत्वेन, वेद-

पृष्ठ 493 स्कैन

१० ] प्रथमाध्याये तृतीयपाद। ४३९
परमार्थतस्तु कल्पसूत्राणामपि विप्रकीर्णानैकशाखागतश्रुत्यर्थनिबन्धनेन स्मृतितुल्य-
त्वात्स्मृत्यधिकरणविषयत्वमस्त्येवेत्यपरितोषात्स्वमतेन सर्वेषां वेदातिरिक्तविद्यास्थानानां
स्मृत्यधिकरणप्रतिपादितवेदमूलत्वमाक्षिप्येह समाधीयत इति परिहारमाह—यद्वेति ।
स्वातन्त्र्यलक्षणेनातिशयेन प्रामाण्यम्-अतिप्रामाण्यम्, ननु स्मृतीनां प्रत्यक्षवेदार्थोपनिबन्धना-
भावेन वेदवैलक्षण्यात्कथं स्वतःप्रामाण्याशङ्केत्यपेक्षायां पौरुषेयत्वाङ्गीकरणेन प्रामाण्या-
भ्युपगमे

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 494 स्कैन

४४० मीमांसादर्शनम् [ सू०
पुरुषतन्मूलप्रमाणवेदतन्नित्यत्वकल्पनेन गौरवापत्तेरपौरुषेयत्वेन प्रामाण्योपपादनायंतया
व्याचष्टे—वेदनेवेति ।
ननु मशकादिसमाख्या पौरुषेयावगमात्तेषां वेदत्वम्, वेदतुल्यत्वं वा न युक्तमित्या-
शङ्कते—ननु चेति । प्रवचनयोगेनापि समाख्योपपत्तेर्न तद्बलेन पौरुषेयत्वसिद्धिरिति
परिहरति---नैतेषामिति । वेददृष्टान्तसूचितमर्थं प्रकटयति - माशकादीति । ननु कल्पादि-
शब्दानां (चरणशब्दोऽध्येतृपुरुषवाची) चरणविशेषवाचित्वाच्चरणानां चानादित्वात्तन्निमित्त-
तादिसमाख्या युक्ता । मशकादिशब्दानां

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 495 स्कैन

स्तोत्रसाधनसामविशेषापेक्षायां यद्ब्राह्मणेनाग्निष्टोमसाधनत्वेन जराबोधीयं विहितम् ।
तत्कात्यायनेनार्मभवपवमानाख्यस्तोत्रान्तरसाधनेषु सत्सु सामसु लक्ष्यमाणेषु तद्गोयात्रप्रथमा-
द्गायत्राख्यात्साम्नस्तृतीयत्वेन लक्षितं 'जरासादिति' सूत्रेणेत्यर्थः । कथमनेन सूत्रेण
जराबोधीयमार्मर्वीयगायत्रतृतीयत्वेन लक्षितमित्यपेक्षायामाह-आर्भवयेति । माध्यन्दिन-
पवमानेऽपि गायत्रसद्भावात्तद्व्यावृत्त्यर्थमार्मर्वीयविशेषणं प्रकृतार्मभवपवमाने संहितस्य
गायत्रान्तरत्वात्तस्यैव सर्वत्र समिति संज्ञा माभूदिति गायत्रेणोपलक्षणं यद्यत्रार्मभवपवमाने
गायत्रानन्तरं साम, तत्र

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 496 स्कैन

४४२ मीमांसादर्शनम् [ सू०
निक्षिप्य तत्तद्वेदभागपरीक्षाकाले तान्याकृष्याकृष्टलेखयच्चिह्नितं वेदं पठत्यध्येतारो न
युञ्जत इति घटिकामार्गवर्त्तिनोऽनुयोगाः तस्मादित्यपसंहारभाष्यं व्याचष्टे—
तस्मादिति ।
एतमेव न्यायं विद्यास्थानान्तरेष्वतिदिशति—एतेनेति । स्मृतीनां च धर्मशास्त्रव्यपदे-
शादपि स्वातन्त्र्यलक्षणा प्रयोगशास्त्रताऽवसोयत इत्याह---धर्मेति । तुल्यवच्च विद्यास्थानत्व-
व्यपदेशात्सर्वेषां तुल्यतेत्याह—अपि चेति । वैदिकमन्त्रप्रकाश्यप्रकाशकत्वादप्येषां वेदत्वम-
वसीयत इत्याह -- किं चेति । नन्ववेदत्वेऽपि स्मृतीनां वेदमूलत्वेन

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 497 स्कैन

१० ] प्रथमाध्याये तृतीयपादः ४४३
यत इति यत्कल्पनम् तद्रूपानुपपत्त्येत्यर्थः । विद्यास्थानान्तरेषु पूर्वपक्षमुक्तमर्थमुप-
संहरति—तस्मादिति ।
शाक्यादिग्रन्थानां वा नित्यत्वमनेन सूत्रेणोच्यत इत्याह—शाक्यादीति । शाक्यादि-
ग्रन्थनिष्टत्वे को न्याय इत्यपेक्षायामाह—येनैवेति । नन्वेवं सत्यासत्वलक्षणाभावात्कथं
प्रामाण्यसिद्धिरित्याशङ्क्य, स्वतस्त्ववाङ्गीकरणेन परिहरति—बोधकत्वादिति । कथमकृत-
कमित्यपेक्षायाङ्कर्तृस्मरणवर्जनादित्युक्तम् । ननु सामाख्यानिकं कर्तृस्मरणमस्तीत्याशङ्कयाह—
बुद्धेति । यथाक्रमं

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 498 स्कैन

४४४ मीमांसादर्शनम् [ सू०
कारणगुणाभावापादकत्वेन वेदप्रामाण्यबाधकत्वादभ्युपगन्तव्यं वेदत्वाभिधानेन नित्यत्वा-
भिधानेन वा स्वागमाप्रामाण्यं विमोहाय इत्याशङ्कयाह—यादृशेति । यादृशं परेणोक्तं
तादृशमविचार्यैव ये मन्यन्ते यादृशतादृशा-अनिपुणाः । तैरप्यतीन्द्रियविषये पुरुषवचन-
प्रामाण्यस्य निराकत्तुं शक्यत्वान्निरुत्तरीकृताः परवाक्यान्यनुकुर्वन्तः स्वागमनित्यत्वमाहु-
रित्यन्वयः ।
ननु चक्षुरादीनामतीन्द्रियार्थग्रहणासामर्थ्येऽपि भावनादेरतीन्द्रियार्थग्रहणसामर्थ्यस्य
तैरुपपादितत्वात्कथं निरुत्तरत्वमपोत्याशङ्क्य—वालेत्याद्युक्तम् । अनेन चोपपत्तिवाक्येन

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 499 स्कैन

१० ] प्रथमाध्याये तृतीयपादः ४४५
पाटलिपुत्रेऽप्युपलम्भापत्तेर्न युज्यते इति शाक्यग्रन्थार्थः । ननु पदार्थानित्यत्वेऽप्यागमनित्य-
त्वमवद्यस्मरणादिना सेत्स्यतीत्याशङ्क्याह—यस्तन्तून्विति । पदसङ्घातात्मकस्यागमस्य
पदाश्रितत्वात्तदनित्यत्वे नित्यत्वं न युज्यत इत्याशयः । आगमनित्यत्वसिद्धयर्थं चोपकल्पिते
पदादिनित्यत्वे शाक्यैर्निराकृतमागमनित्यत्वमिति रूपकद्वारेणाह—यावदिति । आगम-
नित्यत्ववेश्मार्थं यावत्पदानित्यत्वादिदारूपकल्पितं तस्मिञ्छाक्योक्तैर्हेत्वाभासाग्निभिर्दग्धे
तदागमनित्यत्वरूपं वेश्म दुष्करमित्यर्थः ।
ननु कूटस्थनित्यत्वासम्भवेऽपि

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 500
स्थायी लिंक
पृष्ठ 500 स्कैन

४४६ मीमांसादर्शनम् [ सू०
आदिमात्रदर्शनेनाप्यृग्वेदस्यापौरुषेयत्वन्निश्चीयत इत्याह—अग्निमिति । कथमस्य
पौरुषेयत्वं न सम्भवतीत्याशङ्क्याह—किमालोच्येति ।
यजुर्वेदस्याप्यादिमात्रदर्शनेनापौरुषेयत्वं निश्चीयत इत्याह—इषे त्वेति । प्रसङ्गादेत-
न्मन्त्रविनियोजकस्य ब्राह्मणस्यापि विनियोगरूपदर्शनादेवापौरुषेयत्वं निश्चीयत इत्याह -
शाखेति । द्वितीयमन्त्रविनियोजकस्याप्यपौरुषेयत्वनिश्चयमाह—एवमिति । ऊर्जयितव्यमिति-
वक्तव्ये श्लोकाक्षरातिरेकापत्ति भीत्या ज्ञातारः सन्ति मेत्युक्त्वेति मानवीयश्लोकवद्विकारो
न युक्तः । तृतीयमन्त्रविनियोजकस्याप्याह—वायवस्थेति । एकशो विनियोगे कानुपपत्ति-
रित्याशङ्क्याह—वायुशब्देनेति ।
सामवेदस्याप्यादिमात्रश्रवणेनापौरुषेयत्वनिश्चय इत्याह—सामवेद इति । कथं पौरुषे-
यत्वे निरभिप्रायत्वापत्तिरित्याशङ्क्याह—को नाथेति । अर्थाभिधानपराणामृगक्षराणा-
मित्यनादरे षष्ठ्यौ । अनवगतपूर्वं विकुर्यादिति क्रियाविशेषणम् । अक्षरान्तरेष्वपि विकारः
पौरुषेयत्वेन युज्यत इत्याह—तथेति । वेदे पुरुषदर्शनमात्रेणापौरुषेयत्वनिश्चयमुप-
संहरति—तेनेति ।
ननु लौकिकवाक्ये विलक्षणरूपदर्शनाद्वेदस्यापौरुषेयत्वे 'सूर्यं एकाकी चरतीत्या' दीनां
तत्सादृश्यात्पौरुषेयत्वापत्तिरित्याशङ्क्य, तत्रापि स्वरादिनियमाद्वैलक्षण्यमाह—किं-
चिदिति । अतो निरपवादसिद्धं वेदस्य रूपदर्शनेनापौरुषेयत्वमित्युपसंहरति—एवं चेति ।
ननु रूपदर्शनमात्रेणापौरुषेयत्वनिश्चये, मीमांसकानां न्यायप्रतिपादनक्लेशोऽनर्थकः स्यादित्या-
शङ्क्याह—तावता त्विति । सानुमवरूपा दृढा प्रतीतिरनवच्छिन्नप्रतीतिप्रवाहवाचकत्वा-
द्द्वावनेत्युच्यते । इतिकरणो हेतौ । बाह्यतार्किकपरामर्शी तच्छब्दः ।
शाक्यादिग्रन्थेषु रूपदर्शनमात्रेण पौरुषेयत्वनिश्चयो भवतीति व्यतिरेकमाह—शाक्या-
दीति । प्रज्ञप्तिविज्ञप्तिशब्दयोर्जनातेर्णिजन्तत्वाभावे युगागमस्यासाधुत्वम्, णिजन्तत्वे तु
'ण्यासश्रन्थो युजिति (पा० सू० ३।३।१०४) विशेषविहितेन युच्प्रत्ययेन स्त्रियां क्तिन्निति
सामान्यविहितस्य क्तिन्प्रत्ययस्य बाधादसाधुत्वम् शिति प्रत्यये परभूते दृशेः पश्यादेश-
विधानात्पश्यनाशब्दस्यासाधुत्वम् ।
ननु भिक्षुशब्दगतस्य क्षकारस्य प्राकृतव्याकरणे स्तुर्वक्खार इति खकारादेशविधाना-
त्तस्य च शेषादेशयोर्द्वित्वमनादाविति द्वित्वविधानात्कथमत्र दृष्टतरत्वमित्याशङ्क्याह—
द्वितीयेति । इदुद्भ्यां शसणो पा. सू. इति स्मरणाद्भिक्षूनित्यस्य स्थाने भिक्षुणो इति प्राप्ते
रेकान्तत्वाप्रयोगाद्भिक्षणं भिक्षुशब्दाद् द्वितीयाबहुवचनस्य शसोण इति णेकारादेशविधाना-
द्द्रुक्ष इति भिक्षइति घवन्तं मिक्षशब्दं व्युत्पाद्य भिक्षुं वाति गच्छति प्राप्नोतीत्यस्मिन्नर्थे
वा गतिगन्धनयोरित्यस्माद्धातोरतोऽनुपसर्गे कः पा. सू. ३।२।३ इति कप्रत्ययोत्पादनेना-
कारान्तभिक्षुशब्दमभ्युपेत्याकारांन्तम्—दृष्टमित्युक्तम् । आदिशब्दोक्तं शब्दान्तरापभ्रष्टतरत्वं
दर्शयति—संस्कृतेति । स्वयमेव च शाक्येनात्र डकारापत्तिर्निषिद्धेत्याह—सोऽयमिति ।
नासन्नियमादिति सूत्रस्यासाधुशब्दनिबन्धनोऽभिप्रायं व्याख्यानमुपसंहरति—इतीति ।

पृष्ठ 501
स्थायी लिंक
पृष्ठ 501 स्कैन

१० ] प्रथमाध्याये तृतीयपादः ४४७
व्याकरणानुगतशब्दनियमाभावादिति तृतीयं व्याख्यानं कर्तुमर्थं तावदाह—
यावांश्चेति । उक्तेऽर्थे सूत्रं व्याचष्टे—असन्नियमादिति वेति । प्रागविद्यमानस्य ग्रन्थस्य
निबन्धनादिति चतुर्थं व्याख्यानमाह-क्षणिकत्वेति । स्वसिद्धान्तप्रसिद्धसर्वक्षणिकत्वनिरा-
कृतेन स्थितैवेयं धर्मनित्यतेत्युक्तेन धर्मप्रतिपादकागममनित्यत्वेन सिद्धमनित्यत्वं यस्य
ग्रन्थस्य, स तथोक्तः । अत एव निबन्धनात्प्रागत्यन्ताविद्यमानस्य निबन्धनाभ्युपगमादित्य-
भिप्रायेणेति योज्यम् । अविद्यमानानां क्षणभङ्गादीनां निबन्धनादिति पञ्चमं व्याख्यान-
माह—असतो वेति । असाधुभिर्हेतुभिर्निबन्धनादिति षष्ठं व्याख्यानमाह—असद्धेतुभिश्चेति ।
ननु क्षणभङ्गादीनामविद्यमानानां हेत्वाभासैर्निबन्धनेऽपि धर्माधर्मनिबन्धनानां कथमप्रामा-
ण्यमित्याशङ्कयाह—तदेककर्तृकेति ।
एवं तावदसाधारणैर्हेतुभिः शाक्याद्यागमानां पौरुषेयत्वमुपपादितम् इदानीं वेदाति-
रिक्तविद्यास्थानसाधारणेन कर्तृस्मृतिदाढर्येनोपपादयति-कश्चिदिति । अनेनैव हेतुना
वेदातिरिक्तविद्यास्थानानामपि सर्वेषां पौरुषेयत्वमित्याह—एवमिति । अनेन चापौरुषेयत्व-
हेतोः कर्तृस्मरणस्य धर्मशास्त्रेष्वभावाद्द्वेदत्वबुद्धिर्न जायत इत्यभिधानादजातापि त्वन्येति
श्लोकावयवो व्याख्यातः ।
ननु कल्पसूत्रेष्वितरेषु च वेदाङ्गेषु च वैदिकार्थप्रबन्धात्षडङ्गमेके इति च स्मृते-
र्वेदत्वबुद्धिर्जाता, केन हेतुना बाध्यते इत्याशङ्कयाह—तेनेति । अङ्गत्वविशेषेऽपि कल्पसूत्रेषु
वैदिकार्थप्रबन्धाधिक्यात् कल्पसूत्रग्रहणे प्रतीयमानापि स्वतन्त्रता कर्तृस्मरणेन प्रत्याख्यातेति
वदताऽन्या भ्रान्तिरिति श्लोकावयवो व्याख्यातः ।
ननूभयत्र हेतुसद्भावे कथं पौरुषेयत्वस्यैव निश्चय इत्याशङ्कयाह—येनेति । स्मर्त्त-
व्यास्मरणमेव दृश्यादर्शनवत्कर्त्रभावे प्रमाणम् । तच्च कल्पसूत्रे नास्ति, वैदिकार्थप्रबन्धस्तु
वेदमूलत्वेनाप्युपपत्तेर्न वेदत्वसाधनायालम् । अध्येतॄणां चाङ्गेषु वेदत्वस्मृत्यभावात्
'षडङ्गमेके' इत्यपस्मृतिरित्याशयः ।
नन्वीश्वरप्रणीतो वेद इति तार्किकाणां कर्तृस्मरणे सत्यपि वेदस्य नित्यत्वमुक्तम्,
तथाङ्गेष्वपि भविष्यतीत्याशङ्कयाह-यथैव हीति । अनध्येतृस्मृतेरनभियुक्तगतत्वेना-
प्रामाण्यान्न वेदे कर्तृसिद्धिः । कल्पादिषु त्वध्येतॄणामेव कर्तृस्मृतेः पौरुषेयत्वमित्याशयः ।
अत्रापि प्रागसतां वेदातिरिक्तविद्यास्थानानां निबन्धनादित्येवं सूत्रं योजयति—ततश्चेति ।
नन्वत्र माशकादिसमाख्यानिमित्ताऽध्येतॄणां कर्तृस्मृतिर्वाच्या । सा च प्रवचनयोगेनाप्युपपत्तेर्न
कर्तृसाधनमित्याशङ्कयाह-न चेति । मशकादिशब्दानां च कठादिशब्दवदनादिचरणाभि-
धायित्वाज्ज्ञानादिसमाख्याव्युत्पत्तिनिमित्तत्वं सम्भवतीत्याह—यथा चेति ।
अत्राप्यर्थे मशकादिसमाख्यायाः प्रागविद्यमानग्रन्थविषयत्वादित्येवं सूत्रं योज-
यति—अतश्चेति । स्वसंवेद्यालौकिकरूपाभावादिति तृतीयं व्याख्यानमाह—वेदेति ।
अनध्यायनियमाभावादिति चतुर्थं व्याख्यानमाह—कामं त्विति । भाष्यकृता तत्सूत्रं
स्वरनियमाभावाभिप्रायेण व्याख्यातवद्विधविघातकारित्वादयुक्तमित्याह—यस्त्विति । समा-

पृष्ठ 502
स्थायी लिंक
पृष्ठ 502 स्कैन

धत्ते—तस्मादिति । प्रपाठकचतुःषष्ठीत्यादिना यत्स्वसम्वेद्यमलौकिकं वेदरूपमुक्तम्, तस्य
कल्पसूत्रेष्वभावोऽत्र भाष्ये प्रयोगशास्त्रत्वाभावाकारणं विवक्षितम् । स्वरग्रहणरूप-
लक्षणार्थमित्यर्थः ।
अवाक्यशेषात् । अनेन सूत्रेणार्थवादरहितत्वात्कल्पसूत्राणामवेदत्वमुक्तमिति प्रतिभाति,
तदप्यरुणपराशरशाखाब्राह्मणस्य, वसन्ताय कपिञ्जलानालभेत इत्यादीनां चार्थवादरहित-
त्वेनावेदत्वापत्तेरयुक्तमित्याशङ्कद्यालौकिकवेदरूपाभावोपलक्षणार्थत्वेन व्याचष्टे—अत-
श्चेति । तच्छब्देन स्वसम्वेद्यरूपाभावः परामृष्टः वाक्यशेषाणामलौकिकरूपत्वमुपपादयति—
बहव इति । श्लोकं व्याचष्टे—बृहस्पतिरिति । नन्वर्थवादानामपि विध्येकवाक्यत्वेना-
नुष्ठानोपयोगित्वात्प्रणयनमर्थवदित्याशङ्कयाह—नित्यत्वे सतीति । नित्यत्वे पर्य्यनुयोगा-
सम्भवात्कथंचिद्गतिः कार्य्या । प्रणयनं तु क्लिष्टार्थस्य मूढतामापादयतीत्यर्थः ।
वाक्यशेषाणामलौकिकरूपत्वमुपपाद्य, कल्पादिषु तदभावान्नापौरुषेयत्वमिति सूत्रार्थं-
सिद्धिमाह—न चेति । भाष्यकृता तु विधानायाच्छिष्यैः शिष्यते विधीयतेऽनेनेत्यस्मिन्नर्थे
घञुत्पत्तेर्विधायकवचनं शेषशब्दमङ्गीकृत्य विधायकवाक्यरहितत्वादित्येवं तावत्प्रथमं सूत्रं
व्याख्यातम् । तस्य साध्यप्रयोगशास्त्रत्वाभावोपयोगितामाह—विधोति । ननु वर्त्तमाना-
पदेशस्यापि ‘समिधो यजती’त्यादेर्विधित्वाङ्गीकरणान्न तेन विध्यभावः शक्यो वक्तुम्, वचना-
नामित्याशङ्क्य, वाक्यशेषान्वयान्यथानुपपत्त्या तत्र विधिपरत्वं कल्प्यते न तु कल्पादिष्व-
सावस्तीत्येवं परतया पुनरेतत्सूत्रव्याख्यानार्थं न चात्रेति भाष्यं व्याचष्टे—वर्त्तमानेति ।
विधित्वेऽङ्गीकृते तत्प्ररोचकत्वेनार्थवादान्वयोपपत्तेस्तदुपपादकत्वेन विधिकल्पनमभि-
प्रेत्यार्थवादप्ररोचित इत्युक्तम् ।
ननु विध्येकवाक्यत्वं विना लाक्षणिकप्ररोचनार्थत्वं युक्तमिति प्रागेवोपपादितम् । ननु-
वसन्ताय कपिञ्जलानालभेत इत्यादी वाक्यशेषाभावेऽपि वर्त्तमानापदेशस्य विधित्वदर्शनात्
कल्पादिष्वपि तथा भविष्यतीत्याशङ्कयाह--पञ्चमेनेति । छन्दसोत्यधिकृत्य, लिङर्थे
लेडिति स्मृतेर्नान्यत्र पञ्चमलकारोऽस्तीत्याशयः ।
ननु छन्दःशब्दस्य वेदविषयत्वात्पूर्वपक्षे च कल्पादीनामपि वेदत्वाम्युपगमात्पञ्चमल-
कारो युज्यत इवेत्याशङ्कयाह—यद्यपीति । यथैव छन्दःशब्दस्य गायत्र्यादिच्छन्दोयोगा-
दङ्गमात्रविषयत्वप्रतीतावपि मन्त्रान्तरेषु ब्राह्मणोऽपि छन्दोनिमित्ता यस्य पादादिविधिदर्श-
नात्तद्विषयताप्यवसीयते, तथैव मन्त्रब्राह्मणव्यतिरेकेण वेदशब्दाभिलप्येऽपि तर्के छन्दो-
निमित्तविध्यदर्शनान्मन्त्रब्राह्मणमात्रविषयत्वावसायान्न वेदमात्रविषयश्छन्दःशब्द इत्याशयः ।
एतदेव विवृणोति—यथैव हीति । विधिर्ब्राह्मणम्, विधेयो मन्त्रः । तर्को मीमांसा ।
यद्यप्यध्येतृभिर्मीमांसायां वेदशब्दाप्रयोगात्तदनपेक्षया चैतया स्मृत्या विध्यादीनां वेदत्वोक्ता
श्रुत्या विध्युद्देशस्यैव विधिशब्दवाच्यत्वे नार्थवादमन्त्रोपनिषदामवेदत्वांपत्तेर्विषयत्वतकं-
त्वाभ्यां चाग्निहोत्रादिन्यायविस्तरादीनामपि वेदत्वापत्तेर्नार्नया स्मृत्या तर्कस्य वेदत्व-

पृष्ठ 503
स्थायी लिंक
पृष्ठ 503 स्कैन

१० ] प्रथमाध्याये तृतीयपादः ४४९
मुच्यते, किं तु कश्चिद्वेदभागो विधायकः, कश्चिद्विधेयः, कश्चिच्च स एष नेति नेत्यादिर-
नित्यशरीरादिव्यतिरेकेण नित्यात्मप्रतिपादनादिरूपतर्कानुरूपत्वात्तर्कं इति त्रैविध्यं वेद-
स्योच्यते, तथापि विध्यादित्रयस्य वेदत्वप्रतिपादनार्थेयं स्मृतिरिति परमताम्युपगमेनायं
दृष्टान्त इति सूचनार्थमेतस्मिन्दर्शने सतीत्युक्तम् ।
भाष्यकृता कल्पसूत्राणां वेदवाक्यैस्तुल्यादरत्वं पूर्वोक्तम् । यश्चादर इत्यनुभाष्य स
नान्तरीयकत्वादिति परिहारमुक्त्वा कथं नान्तरीयकत्वमित्यपेक्षायां शाखान्तरगतकर्माङ्ग-
भूतमन्त्ररूपवेदवाक्यमिश्राणां कल्पसूत्राणां पाठान्मन्त्रकौशलार्थं घटिकादिष्वादरे नान्त-
रीयकः कल्पसूत्रादर इत्युक्तम् । तदतिस्पष्टत्वान्न व्याख्यातम् ।
ब्रह्मयज्ञविधिविषयत्वतुल्यताभिप्रायेण तुल्यादरभाष्यव्याख्याने स्वयमनुभाषणपूर्वकं
परिहारमाह—यच्चेति । कल्पसूत्राण्येवात्रोदाहरणमित्यभिमानेनानैकान्तिकत्वोपन्यासः ।
अतोऽनैकान्तिकत्वान्न विधेयत्वमात्रेणाकृतकत्वनिश्चय इत्याह—तस्मादिति । प्रवाहनित्य-
त्वाच्च नित्यानित्यसंयोगविरोधपरिहार इत्याह—वेदार्थेति । ननु प्रवाहनित्यत्वेऽप्य-
पूर्वस्य ग्रन्थस्य कल्पसंज्ञाकरणान्नित्यसंयोगविरोधः प्रसज्येतेत्याशङ्क्याह—वेदार्थेति ।
यौगिकेयं संज्ञा, न ग्रन्थव्यक्तिनिबन्धनेत्यर्थः । प्रयोगप्रांशुभावोपयोगिकर्मानुसन्धानप्रयो-
जनत्वाच्चास्य विधेस्तस्य च येन केनचित्प्रयोगकल्पनात्मकेन शब्देनोपपत्तेर्ग्रन्थविशेषस्य
विधिविषयत्वाभावान्न नित्यतापत्तिरित्याह—कर्मेति । कर्मणोऽभ्यासेनानुसन्धानं विधि-
प्रयोजनमित्यर्थः । प्रयोजनवचनोऽर्थशब्दः ।
यद्वा नात्र कल्पाख्यग्रन्थाध्ययनं विधेयम्, किं त्विकस्मरण इत्यस्य धातोरधीत इति
रूपमङ्गीकृत्य कर्मणो वेदार्थस्याहरहरभ्यासेन स्मरणं विधेयमिति । परिहारान्तरमने-
नोच्यते चशब्दो वाशब्दार्थः । ऋक्षादौ वेदाध्ययन इत्येतद्धात्वर्थत्वेनावधारितस्याधीत
इत्यस्य कल्पानित्यत्रानुपक्तस्य धात्वन्तररूपत्वायोगादन्वाचयोपपत्तिसूचनार्थः । वैदिकार्थ-
प्रबन्धस्य वेदत्वहेतोर्भाष्यकारेणापरिहृतत्वात्स्वयमनुभाषणपूर्वकं परिहारमाह—पुनरिति ।
अत एव स्वातन्त्र्यमपि न संवादात्सिध्यतीत्याह—तदर्थेति । ननु 'षडङ्गमेके' इति
कल्पादीनां वेदत्वस्मृतेः किमित्यन्यथा संवादो नीयत इत्याह—वेदेति । षडङ्गेऽध्येतृभि-
र्वेदशब्दाप्रयोगादपस्मृतिरेषेत्यर्थः । ततश्चैतन्न सिद्धान्तभाषितमित्येवं चशब्दो योज्यः ।
यच्च कल्पसूत्राणां वैदिकार्थानुवादत्वं तदर्थानुगमान्नेत्यनेनोक्तम्,, तदुपपादयति—
संवादे चेति । ननु शाखान्तरन्यायेनैषामपि विधित्वमविरुद्धमित्याशङ्क्याह—न चेति ।
एतदेव विवृणोति—सर्वेति । किं च होतृवषट्कारे चमसा नीयन्ते उद्गातृब्रह्मणो
यजमानस्येति भक्षणार्थं नयनमुक्त्वा केनादौ भक्षणीयमित्यपेक्षायां तेषां होताग्रे भक्षयेदिति
प्रतिज्ञाय, तस्य वषट्कारान्वयत्वादित्यादिभिर्वषट्कर्तुः प्रथमभक्ष इत्यादिव्राह्मणोत्थहेतु-
भिर्व्याख्यानदर्शनात्कल्पसूत्राणां ब्राह्माणोक्तार्थानुवादकतावसीयत इत्याह—विवृण्वन्तश्चेति ।
२९

पृष्ठ 504
स्थायी लिंक
पृष्ठ 504 स्कैन

तथा प्राश्य घृतं शंसेद्य चाह वा इदमनो वा रथो वाऽक्तो वर्त्तंत, एवं हैवाक्तो
इत्यादिभिर्घृतप्राशनादिविधिशेषभूतैर्ब्राह्मणैर्नाचामेद्विशदिति विवायते देवरथो वा यज्ञेोता,
नाक्षमञ्जिः करवाणीत्यादिवाक्यैराचमनामावाद्ज्ञापनानुवादकत्वनिश्चय इत्याह—अन्यार्थे-
रिति । उपसंहरति — अर्थेति ।
आचार्यवचःप्रामाण्यं श्रुत्यैवोक्तमिति पूर्वोक्तस्य यत्त्वित्याद्यनुभाषणपूर्वकं परिहार-
भाष्यं व्याचष्टे—आचार्येति । वेदवचः प्रमाणमित्येवमन्यार्थताभाष्यकृतोदितेत्यर्थः ।
अव्युत्पन्नो वाऽयमाचार्यशब्दो व्याख्यातृव्यापयितृविषयः, न तु कल्पसूत्रकारविषय इति
परिहारान्तरं (यद्वेति) भाष्येणोक्तं तद्वद्याचष्टे—व्याचक्षाणस्येति । शिष्याणां स्वप्रत्यये
संवादनिरपेक्षप्रदर्शनार्थं स्वयम्प्रमाणतेत्युक्तम् । अयमेव परिहारः स्मृत्यानुगुण्याद्युक्त
इत्याह—आचार्येति ।
नन्वाप्तवाक्यप्रामाण्यस्य लोकप्रसिद्धत्वाद्धचनमनर्थकमित्याशङ्क्याह—वेदेति । अनेन
भाष्येण यत्प्रमाणमाचार्यवचनम्, तदपेक्षेयं श्रुतिरित्युक्त्वा कतरदितिपृष्टे यत्प्रमाणगम्य-
मित्यभिधानात् व्याख्यातृवचनमध्यापकवचनमपि वा सम्भवन्मूलप्रमाणकमेव सत्यं न सर्व-
मित्युक्तम् । तदुपपादयति—न चेति । 'अनृतवादिनी वागि'तिश्रुतेः प्रायोभिप्रायत्वेन
रूपात्प्रायादित्यत्र व्याख्यातत्वात्प्रायादित्युकम् । श्रुत्यन्तरमुदाहरति—अन्यत्रापीति ।
यदि च वेदसंवादकल्पसूत्राणां वेदत्वम्, वेदतुल्यत्वं वोच्यते, ततः क्वचिद्विसंवादा-
द्वैपरीत्यमपि शक्यं वक्तुमित्येतदर्थत्वेन सर्वत्र च प्रयुक्तत्वात्सन्निधानवशाच्चेति सूत्रं
'यच्चोक्तमिति भाष्येणावतारितम् । तद्व्याचष्टे—वेदादेवेति । यज्ञायज्ञीयमेव प्रयणीयाग्नि-
ष्टोमसामकार्यमित्यादेः पञ्चविंशब्राह्मणे जराबोधीययज्ञायज्ञीययोः प्रायणीयाग्निष्टोमसाम-
वैकल्पिकविधानेन साक्षाद्वेदेन विसंवाददर्शनात् अपि वा नानागोत्राः स्युरित्यादेस्तनून्-
पात्नाराशंसकल्पाद्यवैगुण्याय समानकल्पानामेव सूत्रेष्वधिकार इति, वेदोत्थेन न्यायेन विसं
वाददर्शनात्कल्पसूत्रकारवाचां वेदादेवानुक्तत्वावगतिरित्यर्थः । इह च यच्चोक्तमिति
सूत्रावतारणार्थानुभाषणभाष्ये च शब्दप्रयोगात्तुल्यादराचार्यवचः प्रामाण्यश्रुत्योः परिहारो
सर्वत्र चेति सौत्रेण चशब्देन सूचितौ कल्प्येते ।
यद्वा पूर्वमेव सूत्रं नवमपनीय व्यवधारणकल्पनया वा अस्मिन्परिहारद्वये योज्यम् ।
शेषस्य शेषिमिश्रत्वेन लक्षणया वेदवाक्यमिश्रत्वप्रतीतेरर्थवादे च वाक्यशेषशब्दस्य प्रसिद्ध-
त्वाद्यद्ययं न वाक्यशेषः स्यादेतच्छङ्काद्वयमपि च व्यवधारणकल्पनयापि व्याहृतोपप-
त्तेर्नोत्सूत्रत्वाशङ्का ।
उक्तेऽर्थे सूत्रं योजयति—सर्वत्र चेति । पूर्वेण सूत्रावयवेन विसंवादविषयोदाहरणे,
उत्तरेण विसंवादाभिधानमित्यर्थः । अतिशयार्थोऽभ्यासः । अत्र भाष्यकृता सर्वत्र तिथिषु
कल्पसूत्रकारैः पौर्णमास्यामावास्याख्यकर्मणः प्रयुक्तत्वादनुष्ठापितत्वादित्येवं सूत्रावयवं
व्याचक्षाणेन शुक्लपक्षे यस्यां कस्यांचत्तिथावमावास्याख्यं कर्म कार्यमिति कल्पसूत्रकार-
वचनत्वेनोदाहृतम् । तद् दूषयति—तत्रेति ।

पृष्ठ 505
स्थायी लिंक
पृष्ठ 505 स्कैन

१० ] प्रथमाध्याये तृतीयपादः ४५१
यद्वृत्तिकारेणोदाहरणं दत्तं तदनादृत्य इत्यन्वयः। अत्यन्तासिद्धस्याध्यारोपेण कल्प-
सूत्रकाराणामभिभवः कार्यं इत्यभिप्रायेण युक्तत्वादिति हेतुः। किमत्यन्ताभूतमध्यारो-
पितमित्यपेक्षायां दर्शोत्युक्तं दर्शपूर्णमासयोश्चरकं गमकं तद्विषयं कल्पसूत्रकारवचनं चेत्यसदे-
वाध्यारोपितमित्यर्थः। नन्वमावास्यापौर्णमासीशब्दयोर्दर्शनात् कथं तद्विषयस्यासत्त्वमित्या-
शङ्क्य-पार्वणेत्युक्तम्। गृह्यकारवचनत्वेन श्रवणादित तद्विषयत्वे हेतुः। गृह्यशब्दस्योपास-
नाग्न्यधिकरणकर्मविषयत्वेन तत्प्रतिपादनाधिकृतानां वैतानिककर्मप्रतिपादनस्यानुचितत्वा-
दिति भावः। एतदेव दृष्टान्तेनोपपादयति—गृह्येति। प्रदोषान्तो होमकालः, सङ्गवान्तः
प्रातः तमतिनीय चतुर्गृहीतमाज्यं जुहुयादित्यग्निहोत्रस्य स्वकालातिक्रमे प्रायश्चित्तस्मरणाद-
पस्मृतेस्तद्विषयत्वाभावनिश्चयाद् दृष्टान्तत्वम्। गृह्यकारवचनत्वेन स्वयंदृष्टत्वाद्भाष्यकारो-
दाहृतसमानविषयमुदाहरणान्तरमुक्तम्। किं तर्ह्यत्रोदाहरणमित्यपेक्षायामाह--तस्मादिति।
सर्वाणि हवींषि पर्यग्निकरोतीति कल्पसूत्रकारैः पर्यग्निकरणस्य सर्वत्र हविःषु प्रयुक्त-
त्वात्तद्विरुद्धस्य च पुरोडाशं पर्यग्निकरोतीति शास्त्रस्य सन्निधानादित्येवं व्याख्येय-
मित्यर्थः॥ १० ॥
॥ इति षष्ठं कल्पसूत्राधिकरणम् ॥
मा० प्र०—म्लेच्छों की प्रसिद्धि से आर्यों की प्रसिद्धि बलवती है—यह पूर्व सूत्र के
व्याख्यान से सिद्ध है। प्रस्तुत प्रसङ्ग में यह आशङ्का होती है कि वेद आदि में पिक,
तामरस, नेम, क्लोम, आदि का किसी विशेष अर्थ में प्रयोग प्रसिद्ध नहीं है, किन्तु
म्लेच्छों ने क्रमशः कोकिल, पद्म, अर्द्ध, देह के अभ्यन्तर स्थित अवयव विशेष में
प्रयोग किया है। म्लेच्छों के द्वारा स्वीकृत इन अर्थों का ग्रहण करना उचित है या
नहीं ? पूर्वपक्षियों का कहना है कि पूर्व अधिकरण में म्लेच्छों की प्रसिद्धि को अशास्त्रीय
माना गया है, अतः उनकी प्रसिद्धि अनादरणीय है, इसलिए प्रदर्शित अर्थ ग्राह्य नहीं हैं।
इसके समाधान में सिद्धान्ती ने कहा है कि आर्यों की प्रसिद्धि के साथ म्लेच्छों का
विरोध रहने पर पूर्वोक्त नियम स्वीकार किया गया है। किन्तु, प्रकृत में आर्यों की इन
शब्दों के अर्थों की प्रसिद्धि नहीं है, अतः म्लेच्छों की प्रसिद्धि ही आदरणीय है। निरुक्त
आदि में इन शब्दों के अन्य अर्थों की कल्पना उचित नहीं है, क्योंकि (१) यौगिक
अर्थ की अपेक्षा रूढ़ अर्थात् प्रसिद्ध अर्थ बलवान् होता है। (२) निरुक्त के द्वारा एक ही
शब्द के अनेक अर्थों की कल्पना की जा सकती है, ऐसी स्थिति में कौन अर्थ ग्राह्य है,
कौन अर्थ ग्राह्य नहीं है—इसकी व्यवस्था सम्भव नहीं है। (३) पशु-पक्षी आदि के
पालने में, वृक्ष, पुष्प आदि की वृद्धि में, पशुओं के छेदन-भेदन आदि कार्यों में आर्यों की
अपेक्षा म्लेच्छ अधिक पटु हैं, अतः, इन विषयों में उनको ही अभियुक्त मानना होगा,
फलतः, पिक, तामरस आदि वैदिक शब्दों का अर्थ उन लोगों की प्रसिद्धि के अनुसार
ही मानना होगा। अर्थ प्रसिद्धि के साथ विरोध न होने से इन स्थलों में म्लेच्छों की