सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 487, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 487

१० ] प्रथमाध्याये तृतीयपादः ४३३
ननु भवतु अव्यवस्थैव को दोषस्तत्राह—पिक इति । कोकिलादीनामेव
कर्माङ्गत्वेनाभ्युपगमादिति भावः ॥ १० ॥
त० वा०—ये शब्दा न प्रसिद्धाः स्युरार्यावर्तनिवासिनाम् ।
तेषां म्लेच्छप्रसिद्धोऽर्थो ग्राह्यो नेति विचिन्त्यते ॥ ४६३
तथा—निरुक्तव्याक्रियाद्वारा प्रसिद्धिः किं बलीयसी ।
समुदायप्रसिद्धिर्वा म्लेच्छस्यैवाथ वा भवेत् ॥ ४६४
म्लेच्छप्रसिद्धिर्व्यवहर्तृदौर्बल्येऽपि, समुदायरूढिबलेन स्वरूपगतेन ज्यायसी
प्रतिभाति ।
तत्र प्रयोक्तृदौर्बल्य-स्वरूपबलवत्तयोः ।
किन्तु न्याय्यतरं युक्तं ज्ञातुमित्यत्र चिन्त्यते ॥ ४६५
तथा—निरुक्तव्याक्रियाद्वारा किं शास्त्रस्था बलीयसी ।
किं वाऽवयवविक्षेपजननात्सैव दुर्बला ॥ ४६६
एवं नानोपपत्तित्वात्संदेहे तावदुच्यते ।
निरुक्तव्याक्रियाद्वारा प्रतिपत्तिर्बलीयसी ॥ ४६७
शास्त्रस्था वेत्यनेनासौ कल्प्याऽपि हि बलीयसी ।
सन्मूलस्य प्रमाणत्वं साध्यस्यापि वरं श्रितम् ॥ ४६८
न सिद्धमप्यसन्मूलमाश्रयेण हि दूषितम् ।
कथं वेदगतैः शब्दैर्म्लेच्छस्थोऽर्थः¹ प्रतीयते ॥ ४६९
येषां दर्शनमात्रेऽपि वेद एव न पठ्यते ।
संभाषाऽपि च न म्लेच्छैः सहाऽऽर्यावर्तवासिनाम् ॥ ४७०
तत्र तेषु प्रसिद्धोऽर्थः कथमार्थैः प्रतीयताम् ।
एवं च सति यस्यापि प्रसिद्धिर्नोपलभ्यते ॥ ४७१
तस्यापि म्लेच्छदेशेषु सर्वेष्वन्वेष्यतां व्रजेत् ।
ततश्च निगमादीनां न कश्चिद्विषयो भवेत् ॥ ४७२
अनन्तम्लेच्छदेशांश्च कः सर्वोऽनुपलप्स्यते² ।
य एव स्यादनन्विष्टस्तत्र शङ्का प्रसज्यते ॥ ४७३
अनन्तेषु हि देशेषु कः सिद्धः क्वेति गम्यताम् ।
निगमादिवशाच्चाद्य धातुतोऽर्थः प्रकल्पितः ॥ ४७४
१ क. म्लेच्छस्याऽर्थः । २ क. सर्वानुपलप्स्यत इति पाठः ।
२८