मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पादायापि व्यापारं शब्देन प्रयोजकव्यापारः सिद्ध्यतीत्येतदप्युत्तरं सम्भवति,
३५ ] प्रथमाध्याये द्वितीयपादः २१९
करणमन्त्राभिहितत्वात्फलं कल्प्येत, तथाऽपि ब्राह्मणे तावत्तत्संकीर्तनमेकान्तेन
स्तावकम्। मन्त्रोऽपि तु लिङ्गविनियोज्यो न फलकल्पनायै प्रभवति। करण-
विभक्तिविनियुक्तानां हि सकलोपयोगान्यथानुपत्त्या फलसाधनता युक्ता, लिङ्गा-
नुमिता पुनः श्रुतिराकाङ्क्षावशेन क्रियाप्रकाशनमात्रविनियोगायैव ज्ञायते।
तेनैवंजातीयको मन्त्रोऽपि प्रधानफलसंकीर्तनात्मिका स्तुतिरेवाभ्युपगन्तव्या।
कथमसति प्रथन इति। कस्यायं प्रश्नः किं विध्युद्देशवर्तिनः पुरोडाशप्रथन-
स्य, अथ वाऽर्थवादगतस्य यज्ञपतिप्रथनस्येति। द्विधाऽपि चायुक्तं पुरोडाशप्रथनं
तावद् विधीयमानत्वादेव न प्रष्टव्यम्। न च मन्त्राभिधानात्तस्यास्तित्वम्, किं
तर्हि ? स्वरूपसद्भावादित्युत्तरमप्यसम्बद्धम्। अथ पुनरितरार्थवादन्यायेन कथ-
मरुदतीतिवत्प्रश्नः। तथाऽप्युत्तरमसम्बद्धम्। मन्त्रेणाध्वर्युः पुरोडाशमिति
पुरोडाशेन सम्बध्यते, न यजमानेन। तस्मादग्रन्थ इति केचित्।
उभयथाऽपि त्विदमदुष्टम्। अस्तु तावत्पुरोडाशप्रथने। तत्र हि याज्ञिकानां
केषाञ्चिदय मन्त्रः कृत्वा प्रथनम्, अभिमर्शने प्रयुज्यते। सोऽयं स्वसिद्धान्तेन
पृच्छति कथमसति वृत्ते प्रथने प्रयुज्यमानेनानेन प्रथयतीति।
तत्राभ्युपेत्यवादेनोत्तरं मन्त्राभिधानादिति। यद्यपि प्रथनं प्रथमकृतत्वा-
न्नास्ति, मन्त्रेण नु सत्तयोच्यत इत्युपपन्नः शब्दार्थः। अथ वा सर्वप्रयोजकव्यापा-
राणां प्रयोज्यव्यापारपूर्वकत्वमर्थरूपेण स्थितमिति शब्दैरपि तथैव प्रवर्तितव्यम्।
इह च स्तुतिविषयसिद्धयर्थं प्रथयतीत्येतद्विधीयत इत्युक्तम्।
तत्राऽऽह नायं विधिः सम्भवति, विषयानुपपत्तेः। प्रयोजकव्यापारो हि
प्रतीयमानस्तद्गोचरः स्यात्। स चानुपान्तप्रयोज्यव्यापारत्वान्न प्रतीयते, तेन
यथा यजेतेत्यनुक्ते याजयतीति नोच्यते, तथैह प्रथेतेत्यनुक्ते प्रथयतीति न
वाच्यम्। न चेह पुरोडाशः प्रथेत, तेन वा प्रथितव्यमित्युपादानमस्ति। तस्मिन्न-
सति प्रथयतीत्यनुपपन्नम्।
तदुपपादयति मन्त्राभिधानादिति प्रतीकगृहीतमन्त्रोपात्तप्रयोज्यव्यापारं हि
ब्राह्मणं प्रथयतीति विधत्ते। यश्च प्रथस्वेति ब्रूत इत्यनेन पुरोडाशकर्तृकं क्रिया-
मध्वर्युः प्रेष्यतीत्येतद्दर्शयति। यद्यपि च सम्भाव्यमानक्रियाणां प्रयोज्यानामनु-
पादायापि व्यापारं शब्देन प्रयोजकव्यापारः सिद्ध्यतीत्येतदप्युत्तरं सम्भवति,
तथाऽपि तूत्तरविभवाद्दुपादानपूर्वकतैवोत्का।
अथ वाऽस्तु यजमानप्रथने कथमसतीति सर्वस्तुतीनां किञ्चिच्छब्दगतमर्थगतं
वाऽऽलम्बनमुक्तम्। तदत्र किंनिबन्धना स्तुतिरिति। तदभिधीयते। मन्त्रोक्तमर्थ-
माश्रित्य स्तुतिः प्रवर्तिष्यते। मन्त्रेणाध्वर्युः पुरोडाशं ब्रूत इति न पुरोडाशप्रथनो-
पादानाभिप्रायम्, किं तर्हि पुरोडाशं ब्रवीति, उरु ते यज्ञपतिः प्रथतामिति।
प्रथस्वेत्यपीतिकरणः प्रभृत्यर्थो न शब्दपदार्थतायै । यश्च प्रथस्वेति ब्रूत इत्यपि
तदाचष्ट एव । प्रथतामिति ब्रूत इत्यर्थः । यश्चैवं ब्रूते, स प्रथयत्यनेनैव, गुण-
वादात् । अथ वा तदाचष्ट इत्येवं मुख्यमेव प्रथयतीत्यर्थमाश्रित्य प्रथनबुद्ध्या
सिद्धा स्तुतिः ॥ ३५ ॥
न्या० सु०-नन्विति । भाष्येण ब्राह्मणाम्नातस्य वाक्यस्य मन्त्रप्रदेशाम्नातमन्त्र-
विशेषलिङ्गप्रकरणानुमितविधिशेषत्वाभावादर्थवादत्वं न युक्तमिति, प्रागुक्तां शङ्कामनु-
भाष्य नायमित्यादिना मन्त्रस्तुत्यसम्भवेऽपि प्रथनस्तुतिर्भविष्यतीति परिहृतं तद्व्याचष्टे-
यद्यपीति । प्रथनस्यार्थप्राप्तत्वेनाविधेयत्वात् । स्तुतिरयुक्तेति शङ्कते-ननु चेति ।
परिहरति-नैतदिति । आनर्थक्यात्तर्ह्यविधेयं प्रथममत आह-विधाने त्विति । अस्तु
वा नियोगतः प्राप्तिः तथाप्यर्थाक्षेपात्प्रागध्वर्युकर्तृकत्वसिद्धयर्थं विधिरर्थवान् भविष्य-
तीत्याह - एवं चेति । उपसंहरति-तस्मादिति । मन्त्रः पुनरिति भाष्यमवतारयितुमा-
शङ्कते-एवमपीति । एतदाशङ्कानिराकरणार्थत्वेन व्याचष्टे-नेति । कथं मन्त्रोपादानेन
प्रथनस्तुतिरित्युपेक्षायां स्तुतिप्रकारदर्शनार्थमित्यमिति भाष्यं व्याचष्टे-प्रथनमिति ।
प्रसङ्गाद्यज्ञपतिप्रथनं पुरोडाशप्रथनस्य फलत्वेन कीर्त्यते स्तुत्यर्थं चेति जिज्ञासितुं किमेत-
दिति पृष्टं तद्व्याचष्टे-किमिति । फलत्वेन मन्त्रार्थत्वेनानुसन्धानमनेकयजमानकेषु च
विकारेषु यजमानशब्दवद्यज्ञपतिशब्दस्येह इति जिज्ञासाप्रयोजनम् । 'नेति ब्रूम' इत्युत्तर-
भाष्यमर्थवादाभिप्रायेण तावत् व्याचष्टे-नेत्याहेति । एवं तु मान्त्रवर्णिकफलकल्पनसम्भवेन
यज्ञपतिप्रथनस्य फलत्वानपायात्पूर्णमय्यधिकरणे निराकृतत्वेन च जिज्ञासाऽनुपपत्तेरपरि-
तोषान्मन्त्राभिप्रायेण व्याचष्टे-मन्त्रोऽपि त्विति । करणविभक्तिनिर्देशाभावेऽपि ममाग्ने
वर्चो विहवेष्वस्त्वितिपूवंमग्निं गृह्णातीत्यादिषु तृतीये किमृत्विग्गामितया वर्चःप्रभृति-
फलमाशास्यं यजमानगामितया वेति विचारदर्शनेन फलकल्पनाभ्युपगमादिति करणावगत-
क्रियासम्बन्धान्यथानुपपत्तिकल्पितकरणतान्वयसिद्धयर्थं श्रुतार्थापत्त्या करणविभक्तिकल्प-
नमभिप्रेत्य, करणविभक्तिविनियुक्तानामित्युक्तम् । कथमित्यादिना भाष्यमाक्षिपति-
कथमिति । कस्येति कर्मणि षष्ठी । किं विषये इत्यर्थः । समाधानं प्रतिजानीते-उभय-
थाऽपि त्विति । पुरोडाशप्रथनविषयत्वमङ्गीकृत्य प्रश्नं तावदुपपादयति-अस्तु तावदिति ।
सोऽयं याज्ञिकमतानुसारीत्यर्थः-स्वसिद्धान्तेनेति । निष्प्रमाणकत्वं सूचितम् । उत्तरमुप-
पादयति-तत्रेति । यस्त्वयमध्वर्युकर्तृकः पुरोडाशविषयः प्रयोजकव्यापारात्मकः प्रथन-
रूपोऽर्थो नास्तीत्युक्तः स यद्यपि पूर्वमेव कृतत्वाद्विदानीं नास्त्येव, न वर्त्तते, तथापि यथा
सत्ता वर्त्तमानता भवति तथा मन्त्रेणोच्यत इत्यर्थः । इत्थम्भूतलक्षणे सत्तयेति तृतीया ।
ननु पुरोडाशकर्त्तृकः प्रयोज्यव्यापारो मन्त्रेणानुष्ठेयतयोच्यते, नाध्वर्युकर्त्तृकः प्रयोज्य-
व्यापारो वर्त्तमानतयेत्याशङ्क्योपपन्नः शब्दार्थ इत्युक्तम् । अनुष्ठातृरूपप्रयोजकव्यापारान-
भिधानेऽपि प्रेषणात्मकप्रयोजकव्यापाराभिधानादुपपन्नः प्रथयतिशब्दार्थ इति भावः ।