सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

सूत्रतात्पर्यमाह - अन्वारुह्येति । अभ्युपगम्यवादं विवृणोति = यद्यपीति । यद्यपि

१७ ] प्रथमाध्याये द्वितीयपादः १२५
भा० वि० - एवमर्थवादत्वेनानुपलब्धिविरोधं परिहरतान्यानर्थक्यदोषो
निराकृतः अधुना फलविधित्वमभ्युपगम्यापि निराकरोति - फलस्येति ।
सूत्रतात्पर्यमाह - अन्वारुह्येति । अभ्युपगम्यवादं विवृणोति = यद्यपीति । यद्यपि
पूर्णाहुत्यादिवाक्ये फलविधिः क्रियते, तथापि नाग्निहोत्रादीनामानर्थक्यम्,
किन्त्वर्थवत्तैव । तत्र हेतुः - परिमाणत इति । फलविशेषः स्यादिति सम्बन्धः ।
यत इति शेषः, लौकिकचन्दनकर्पूरकस्तूरिकाग्न्यादिजनितसुखेष्वपि विशेषानु-
मानात् कर्मपरिमाणतारतम्यानुसारेण फलतारतम्यसम्भवात् पूर्णाहुत्या
स्तोकस्तोकफलावाप्तावपि न महतां कर्मणामानर्थक्यमित्यर्थः । तदनेनैवं सूत्रं
योजितं फलस्य कर्मभ्यो निष्पत्तेः श्रुतत्वात्तेषां कर्मणां परिमाणं फलविशेषः;
फले विशेषः परिमाणविशेषः स्यात् - लोकवदिति ।
ननु दक्षिणादौ परिमाणसाम्येऽपि सारासारद्रव्यकृतफलवैषम्येण भवितव्यम्
अन्यथा सारद्रव्यदाने प्रवृत्त्यनुपपत्तेरित्याशङ्क्य परिमाणग्रहणस्योपलक्षणार्थत्वं
मत्वाह - सारतो वेति ॥ १७ ॥
त० वा० - तच्चैतत्त्समानस्वर्गादिफलेष्वग्निहोत्रादिषूपयोक्ष्यत इत्युपन्यस्तम्,
साधनानुरूपत्वात्साध्यानाम् । सर्वे हि कामाः पूर्णाहुत्याऽवाप्यमानाः स्तोकस्तोकाः
प्राप्यन्ते । तत्र फलभूमाथिनः कर्मान्तरविधिरर्थवान्भविष्यतीति स्थिते चोद्यते -
युक्तं लोके कृष्यादिफलानां प्रत्यक्षावगतत्वात्साधनानुरूपं जन्म । पूर्णाहुत्यादिषु
त्वत्यन्तशास्त्राधीनत्वादविशेषश्रुते फले किम्मूला विशेषकल्पना । न ह्यग्निहोत्र-
ज्योतिष्टोमस्वर्गयोः कश्चिद्विशेषः श्रूयते । न चानुमानमीदृशे विषये समर्थम् ।
तदभिधीयते । विधिसामर्थ्यादिदं सिद्धम् । कथम् ? यदि ह्यल्पान्महतश्च कर्मणः
समं फलं जायेत, ततोऽर्के चेन्मधु विन्देतेत्यनेनैव न्यायेनाल्पेन सिद्धे महति न
कश्चित्प्रवर्तेत । तत्र विधिशक्तिबाधः स्यात् । अविहतशक्तिस्तु सन् 'अर्थाद्वा
कल्पनैकदेशत्वादित् (जै० १।४।२०) इति विधिरेव फलाधिक्यमङ्गीकरोति । अतो
यथा विश्वजिदादौ फलसद्भावः प्रमाणवान् एवमिह तद्विशेष इति ।
किञ्च कर्मणामल्पमहतां फलानां च स्वगोचरः ।
विभागः स्थानसामान्यादविशेषेऽपि चोदिते ॥ २ ॥
यथैव क्रमाम्नातानामङ्गाङ्गिनां प्रथमस्य प्रथमं द्वितीयस्य द्वितीयमिति
विनियोगव्यवस्था, तथैव कर्मगोचरेऽल्पस्य कर्मणः परिमाणसामान्येन फल-
गोचरेऽल्पमेवोपतिष्ठते । मध्यमस्य मध्यमम्, महतो महदिति स्थानमेव
विनियोजकम् ।
स्मरणमप्येवमेव । चातुर्मास्यसौमेषु च फलार्थवादो यदाऽग्निहोत्रं जुहोत्यथ
दश गृहमेधिन आप्नोत्येकया रात्रियेत्यारभ्य न्यूनाग्निहोत्रदशसंवत्सरप्रयो-

१२६ मीमांसादर्शनम् [ सू०
गादिभिरेकदर्शपूर्णमासादिप्रयोगावासिवचनं कर्माल्पत्वमहत्त्वकृतं फलभेदं
दर्शयति ॥ १७ ॥
न्या० सु०—अन्वारुह्य वचनस्य प्रयोजनमाह—तच्चैतदिति । दक्षिणापरिमाण-
साम्येऽपि फलाधिक्यमन्तरेणासारद्रव्यदानेनापि क्रतुसिद्धौ सारद्रव्यदाने प्रवृत्त्ययोगात्सूत्रा-
तिरेकेण भाष्ये सारग्रहणम् । विशेषमुपपादयति—साधनेति । अत्राशङ्कते—इति स्थित
इति । परिहरति—तदभिधीयते इति । स्थानादपीयं व्यवस्था सिद्धयतीत्याह—किं चेति ।
श्लोकं व्याचष्टे—यथैवेति । कर्मगोचर इत्यादिना समुदायाभिप्रायः स्वगोचरशब्दः ।
निर्धारणे च सप्तमी व्यवस्थावचनश्च विभागशब्द इति व्याख्यातः ।
ब्रह्महत्याश्वमेधाभ्यां न परं पुण्यपापयोः ।
आभूतसंप्लवान्तं च फलमिष्टं तयोर्द्विज ॥
इत्यादिसमरणादपि व्यवस्थाऽवसीयेत इत्याह—स्मरणादपीति । यदग्निहोत्रं जुहोति
अथ दशगृहमेधिन आप्नोत्येकया रात्र्या यदा दश संवत्सरानग्निहोत्रं जुहोत्यथ दर्शपूर्ण-
मासयाजिनामाप्नोति यदा दश, संवत्सरान् दर्शपूर्णमासाभ्यां यजतेऽथाग्निष्टोमयाजिनामा-
प्नोतीत्याद्यन्यार्थदर्शनादपि व्यवस्थासिद्धिरित्याह—चातुर्मास्यसोमेषु चेति । चातुर्मास्य-
वत्सोमेऽपीत्यर्थः ॥ १७ ॥
भा० प्र०-कर्म के परिमाण के अनुसार फल की अल्पता और आधिक्य होता है ।
निरूढ पशुबन्ध नामक यज्ञ से स्वर्ग की प्राप्ति होती है एवं ज्योतिष्टोम दर्शपूर्णमास आदि
कर्मों से भी स्वर्ग की प्राप्ति होती है इसी प्रकार अश्वमेध विषयक ज्ञान ब्रह्महत्या आदि
पापों से छुटकारा मिलता है एवं अश्वमेध यज्ञ के अनुष्ठान से भी ब्रह्महत्या आदि पापों
की निवृत्ति होती है, किन्तु ये सभी एक प्रकार के नहीं हैं। अल्प परिश्रम साध्य कर्म से
किस स्वर्ग की प्राप्ति होती है, वह भिन्न प्रकार एवं उसका स्थायित्व भिन्न जातीय
होता है, एवं अधिक परिश्रम से साध्य कर्म से जिस स्वर्ग की प्राप्ति होती है वह उससे
भिन्न एवं उसका स्थायित्व भी भिन्न है । इसलिए तैत्तिरीयसंहिता "उच्चावचकर्म्मणा-
मेकविधफलासम्भवात् स्वर्गो बहुविधः", स्वल्प और महत् कर्म से एक प्रकार का
स्वर्गरूपी फल नहीं हो सकता है; अतः, स्वर्ग अनेक प्रकार का है, जो व्यक्ति जिस
प्रकार का कर्म करता है, उस कर्म के परिणाम के अनुसार स्वर्ग का भोग भिन्न प्रकार
का होता है । जैसे एक कपड़ा पाँच रुपये का खरीदा जा सकता है और एक रुपया का
भी कपड़ा खरीदा जा सकता है, किन्तु कपड़ा होने पर भी उनमें बहुत भेद है । इसी
तरह कर्म की स्वल्पता और महत्त्व के अनुसार स्वर्ग भोग अल्पकाल स्थायी एवं अधिक
काल स्थायी होता है । नरक के भोग का भी यही नियम है । इसी प्रकार कायिक
वाचिक एवं मानसिक भेद से ब्रह्महत्या अनेक प्रकार की है । मन में ब्रह्महत्या की

१८ ] प्रथमाध्याये द्वितीयपादः १२७
कल्पना करने वाले व्यक्ति को जो पाप होता है वह अश्वमेध विषयक ज्ञान से निवृत्त
होता है एवं ब्रह्महत्या का अनुष्ठान करने वाले व्यक्ति के पाप का यज्ञ के अनुष्ठान से ही
मुक्ति होती है । समान फल का निर्देश रहने पर भी प्रकार में भेद रहता है । यह केवल
युक्ति के आधार पर नहीं है, वरन् चातुर्मास्य सोम प्रकरण में जो अर्थवाद कहा गया है,
उससे भी यही अर्थ सिद्ध होता है । "यदग्निहोत्रं जुहोत्यथ दश गृहमेधिनं आप्नोत्येकया
रात्रिया" इत्यादि क्रम में गृहमेधी अग्निहोत्रं दर्शपूर्णमास आदि एक-एक याग के समान
है, अतः स्वल्पायास अथवा बहु आयास साध्य अनेक कर्मों का एक प्रकार के फल का
श्रवण रहने पर भी असामञ्जस्य का अवकाश नहीं है ।
फलस्य = फल का, कर्मनिष्पत्तेः = कर्म के द्वारा निष्पत्ति होने से, तेषां = कर्म-
फलों का, परिणामतः = परिमाण के अनुसार, फल विशेषः = फल का अल्पता या आधिक्य,
स्यात् = होता है । लोकवत् = लौकिक दृष्टान्त के अनुसार लोक व्यवहार में । जैसे भूमि का
स्वल्पकर्षण एवं अधिक कर्षणरूप परिमाण के अनुसार कृषि आदि फल की अल्पता एवं
अधिकता रहती है, वैदिक धर्म का भी परिमाण के अनुसार फल का तारतम्य होता है,
क्योंकि कर्म के द्वारा ही फल की निष्पत्ति होती है ॥ १७ ॥
अन्त्ययोर्यथोक्तम् ॥ १.२.१८ ॥
शा० भा०—अभागिप्रतिषेधादित्यादावुदाहृतं—न पृथिव्यामग्निश्चेतव्यो
नान्तरिक्षे न दिवीति, हिरण्यं निधाय चेतव्यमित्याकाङ्क्षितत्वादस्य विधेः
शेषः । पृथिव्यादीनां निन्दा हिरण्यस्तुत्यर्था । असति प्रसङ्गे प्रतिषेधो नित्या-
नुवादः । यच्चानित्यदर्शनं 'बबरः प्रावाहणिरकामयत' इति । तत्परिहृतम् ।
अर्थवादाक्षेपेण पुनरुत्थितमिदानीमर्थवादप्रामाण्ये तेनैव परिहारेण परिहरिष्यत
इति ॥ १८ ॥
भा० वि०—एवं पूर्णाहूतिवाक्यस्य स्वार्थासत्यत्वादिनार्थक्यप्रसङ्गं
परिहृत्य, अधुना न पृथिव्यामित्यादौ नाभागिप्रतिषेधप्रसङ्गः नापि बबरः
प्रावाहणिरित्यादावनित्यसंयोगप्रसङ्ग इत्याह - अन्त्ययोरिति । अभागिप्रतिषेध-
निरासार्थं सूत्रं योजयति—अभागीति । निन्दायाः कथं विधिशेषत्वमित्याशङ्क्य
यथोक्तमितिपदं व्याकुर्वन् स्तेयानृतवादार्थवादन्यायमतिदिशति—पृथिव्यादीति ।
ननु शुद्धपृथिवीचयननिषेधस्य हिरण्यनिधानस्तुत्यर्थत्वेऽपि नान्तरिक्ष इत्यादेः
कथं तच्छेषत्वं तत्राह—असतीति । असत्यामपि प्राप्तौ प्रतिषेधो नित्यानुवादो
दृष्टान्तार्थः; यथान्तरिक्षे, दिवि वा चयनमनुमतम् । एवं शुद्धायामपि
पृथिव्यामित्यर्थः ।

१२८ मीमांसादर्शनम् [ सू०
अनित्यसंयोगपरिहारार्थमपि यथोक्तमिति सूत्रावयवं व्याचष्टे-यच्चेति ।
अनित्यदर्शनमनित्येन संयोगदर्शनं तत्परिहृतम्। परं श्रुतिसामान्यमात्र-
मित्यनेनेति शेषः । प्रकर्षेण वाहयतोति प्रावाहणिशब्दस्य नित्ये वायौ व्युत्पत्तेः
बबरशब्दस्य च शब्दानुकृतित्वात् प्रवाहणाख्यपुरुषसिद्धा प्रावाहणेरन्यस्या-
सम्भवान्नित्यस्य संयोग इत्युक्तमित्यर्थः ।
स्यान्मतम् नित्यार्थाभ्युपगमोऽनर्थकः, नित्यार्थनामित्यापो वै शान्ता इत्यादी-
नामानर्थक्यादित्युक्तमिति तत्राह-अर्थवादेति । आपो वै शान्ता इत्यादीनां
स्तुत्यर्थेन प्रामाण्यस्य प्रतिपादितत्वात्, तेनैव प्रामाण्यस्य प्रतिपादनेन
परिहृतमित्यर्थः ।
नन्वर्थवादभावाभावयोः विधेरेव प्रवर्तकत्वात् किमर्थवादप्रामाण्याभ्युपगमे-
नेत्याशङ्कयाभ्युपगम्याप्यर्थवादिकफलकल्पनादेरर्थवादप्रामाण्याधीनत्वात् प्रयो-
जनवदेवार्थवादप्रामाण्यमिति मत्वाधिकरणार्थमुपसंहरति-इतीति ॥ १८ ॥
त० वा०-यथैव वाङमनसयोर्निन्दा हिरण्यस्तुत्यर्था तथा शुद्धपृथिवीनिषेधः
प्रक्लृप्तावर्थवादः स्याद् इत्येवं हिरण्यनिधानस्तुत्यर्थः, न प्रतिषेधमात्रफलः ।
नान्तरिक्षे न दिवीत्यौचित्येन शुद्धपृथिवीनिषेधसमर्थनायैव यथान्तरिक्षे
दिवि वा वयनं न प्रसिद्धम्, तथा हिरण्यरहितायां पृथिव्यामिति स्तवनम् ।
अनित्यसंयोगो गतार्थः परं तु श्रुतिसामान्यमिति । प्रयोजनं रात्रिसत्रे पूर्वपक्षे
स्वर्गः फलं स्यादिति सिद्धान्ते त्वर्थवादस्थमेव फलम् ॥ १८ ॥
न्या० सु०—अभागिप्रतिषेधपरिहारे स्तेयानृतवादार्थवादन्यायातिदेशार्थत्वेन यथोक्त-
पदव्याख्यानार्थं पृथिव्यादीनामिति भाष्यम् । तत्र हिरण्यं निधायेत्यनेन पृथिव्याधारस्यैव
हिरण्यस्य विधेः पृथिवीनिन्दानुपपत्तिमाराङ्क्य व्याचष्टे—यथैवेति । एवमपि शुद्धपृथिवी-
निन्दामार्थेण हिरण्यस्तुतिसिद्धेरितरनिन्दानर्थक्यादादिशब्दानुपपत्तिमाराङ्कयाह—नान्त-
रिक्ष इति । एतदेव विवृणोति—यथेति । अनित्यसंयोगपरिहारार्थत्वेन यथोक्तपदव्याख्या-
नार्थं यच्चेति भाष्यं व्याचष्टे—अनित्यसंयोग इति । प्रकर्षेण वहतीति कर्त्तरि प्रावाहणि-
शब्दव्युत्पत्तिसम्भवात् बबरशब्दस्य च शब्दानुकृतित्वेन नित्यवायपरत्वोपपत्तेर्नाप्रसिद्ध-
प्रवाहणाख्यपुरुषकल्पनेन तदपत्यपरता नित्यानित्यसंयोगविरोधापादिका कल्पनीयेति भावः।
प्रयोजनकथनम्
ननु विध्युद्देशप्रामाण्यमात्रेणांशत्रयोपेतभावनानुष्ठानसिद्धेरनर्थवादप्रामाण्यचिन्ता निष्प्र-
योजनेत्याशङ्कयाह—प्रयोजनमिति । एतच्चोपलक्षणार्थम् । ‘अक्ताः शर्करा’ इत्यत्र
सन्दिग्धनिर्णयस्याश्वप्रतिग्रहेष्टयां व्यवधारणकल्पनस्य, वमनेष्टयां च वैदिकसोमवमन-
निमित्तकत्वस्य, अष्टावुपभृति गृह्णातीत्यत्र चतुष्ट्वद्वयकल्पनस्य, ज्योतिष्टोमशब्दस्य सोमयाग-
परत्वस्य धाय्यानां च समिध्यमानवती समिद्धवत्यन्तरालनिवेशस्य, सोमं विद्वा प्रजानां

१९ ] प्रथमाध्याये द्वितीयपादः १२९
चावश्यकत्वस्य, द्वयोः प्रणयन्तीत्यस्य च मध्यमपर्वद्वयविषयत्वस्यार्थवादप्रामाण्याधीन-
त्वात् ॥ १८ ॥
इति सर्वानवद्यायां न्यायसुधायामर्थवादाधिकरणम् ।
भा० प्र०—अप्रसक्त का प्रतिषेध होने मे "नान्तरिक्षे अग्निश्चेतव्यः" इत्यादि
अर्थवाद वाक्य अप्रामाणिक हैं, इस प्रकार की आपत्ति के परिहार के लिए "विधिना
त्वेकवाक्यत्वात्" इत्यादि सूत्रों को कहा गया है । "नान्तरिक्षे अग्निश्चेतव्यः" इत्यादि
अर्थवाद "हिरण्यं निधाय चेतव्यम्" (तै० सं० ५।२।६।१) अर्थात् स्वर्ण रखकर उसके
ऊपर अग्नि का चयन करना चाहिए, यह विधि का शेष या अङ्ग है। अन्तरिक्ष में
चयन निषेध नित्यानुवाद अर्थात् नित्यसिद्ध विषय का कथन मात्र है। क्योंकि, अन्तरिक्ष
में या द्युलोक में अग्नि के चयन की सम्भावना नहीं है, "बबरः प्रावहणिः" इत्यादि
वाक्यों का दृष्टान्त देकर जो अप्रामाण्य की आशङ्का की गई है, वह भी सङ्गत नहीं है,
क्योंकि, जननमरणशील किसी व्यक्ति के विषय में यह नहीं कहा गया है। "स्वयं तु
श्रुति सामान्यमात्रम्" (मी० द० १।१।३१) इस सूत्र में कहा गया है। इसलिए अर्थवाद
वाक्यों के प्रामाण्य स्वीकार करने में किसी प्रकार की बाधा नहीं है।
अन्त्ययोः = अन्य दो आपत्तियों के परिहार में, "यथा उक्तम्"=जो कहा गया है।
अवशिष्ट दो आपत्तियों के परिहार में जैसा समाधान कहा गया है, यही इसमें भी
समझना चाहिए ॥ १८ ॥
द्वितीयमौदुम्बराधिकरणम्
विधिर्वा स्यादपूर्वत्वाद्वादमात्रं ह्यनर्थकम् ॥ १.२.१९ ॥
शा० भा०—इह ये विधिवन्निगदा अर्थवादास्ते उदाहरणम् । 'औदुम्बरो
यूपः, भवत्यूर्गवा उदुम्बर, ऊर्कं पशव, ऊर्जैवास्मा ऊर्जं पशूनाप्नोति,
ऊर्जाऽवरुद्ध्यै [तै० सं० २-१-१ ६] इति । किमस्य विधिः कार्यम्, उतास्यापि
स्तुतिरिति ॥
किं तावत्प्राप्तम् । विधिर्वा स्यादपूर्वत्वाद्वादमात्रं ह्यनर्थकम् । विधिवन्नि-
गदेष्वेवंजातीयकेषु फलविधिः स्यात् । फलं ह्यवगम्यते । तथा ह्यपूर्वमर्थं
विधास्यति । इतरथा स्तुतिवादमात्रमनर्थकं स्यात् । स्तुतश्चास्तुतश्च तावानेव
सोऽर्थः । अपि च ऊर्जाऽवरुद्ध्यै इति प्रयोजनं श्रूयते । न च प्रशस्तोऽयमर्थ
इति कश्चिच्छब्दोऽस्ति । लक्षणया तु स्तुतिर्गम्येत । श्रुतिश्च लक्षणाया
ज्यायसीति ॥ १९ ॥
भा० वि०—सामान्येनार्थवादानामानर्थक्यनिरासेन स्तुतिलक्षणया विध्येक-
वाक्यत्वेन प्रामाण्ये साधिते, तेष्वेव केषुचित् विधित्वेनैवार्थवत्त्व-
९