सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

सूत्र, वार्तिक और भाष्य के सिद्धान्त में मतभेद है। अतः व्याकरण प्रमाण नहीं है।

२५ ] प्रथमाध्याये तृतीयपादः ५७१
संस्कृत पद ज्ञानपूर्वक यज्ञादि कर्मों का अनुष्ठान (प्रयोग) करने से ही पारलौकिक स्वर्ग
आदि फल उससे होता है। और भाष्यकार पतञ्जलि के मत में व्याकरण से संस्कृत
पदों के भलीभांति=सम्यक् ज्ञान से ही चिन्मय भूमि की प्राप्ति होती है। इस प्रकार
सूत्र, वार्तिक और भाष्य के सिद्धान्त में मतभेद है। अतः व्याकरण प्रमाण नहीं है।
व्याकरण की मूलभूत कोई श्रुति भी नहीं है, यह किसी कर्म का विधायक भी नहीं है,
अतः इसको स्मृति भी नहीं कहा जा सकता है, अतः स्मृति के रूप में भी व्याकरण
प्रमाण नहीं है, अतः गो, गावी, गोणी आदि सभी शब्द यज्ञादि स्थल में प्रयुक्त हो
ही सकते हैं, इसमें कोई आपत्ति नहीं है।
प्रयोगोत्पत्त्यशास्त्रत्वात्=प्रयोग की उत्पत्ति की अर्थात् गो शब्द का ही प्रयोग करना
चाहिए, गावी आदि शब्दों का प्रयोग नहीं करना चाहिए - इस प्रकार साधु शब्दों के
प्रयोग के नियम के विषय में कोई वेदवचन न होने से, 'शब्देषु न व्यवस्था'=साधु शब्द
एवं अपभ्रंश शब्दों के प्रयोग को कोई व्यवस्था अर्थात् नियम नहीं हो सकता है ॥२४॥
शब्दे प्रयत्ननिष्पत्तेरपराधस्य भागित्वम् ॥ २५ ॥ सि०
शा० भा०—महता प्रयत्नेन शब्दमुच्चरन्ति—वायुर्नाभेरुत्थितः, उरसि
विस्तीर्णः, कण्ठे विवर्तितः, मूर्द्धानमाहत्य परावृत्तः, वक्त्रे विचरन् विविधान्
शब्दानभिव्यनक्ति। तत्रापारध्येताप्युच्चारयिता। यथा शुष्के पतिष्यामीति
कर्दमे पतति, सकृदुपस्पृक्ष्यामीति द्विरुपस्पृशति। ततोऽपराधात्प्रवृद्धा गाव्यादयो
भवेयुर्न नियोगतोऽविच्छिन्नपारम्पर्या एवेति ॥ २५ ॥ सिद्धान्तः ॥
भा० वि०—नियामकाभावात्सर्व एव साधवः सर्वे च प्रयोक्तव्या इति प्राप्ते
प्रत्याह—शब्द इति । यदुक्तं सर्वेऽनादयइति नायं नियमः पुरुषापराधादन्यथापि
शब्दाभिव्यक्तिसंभवादिति दर्शयितुं सूत्रं व्याचष्टे—महतेति । यदायं चेतनो
विवक्षति, तदास्य महान् कार्यनिष्पादनक्षमः प्रयत्नो जायते । ततश्शब्दोच्चारणं
मनःप्रेरणरूपं व्यापारं करोति । तेन च मनसाभिहतोऽग्निरोदर्यो मारुतं प्रेरयति,
स चोत्थाय नाभेरूर्ध्वं गच्छन् उरसि बहुलावकाशे विस्तीर्णं कण्ठे चाल्पावकाशे
विपरिवृत्तो भ्रमन् वेगवशान्मूर्धानमाहत्य परावृत्तो वक्त्रे ताल्वादिस्थानवति
विचरन् विशेषेण शब्दाभिव्यञ्जकरूपेण वर्तमानो विविधान्छब्दानभिव्यन-
क्तीत्यर्थः, तदनेन प्रयत्नाधीना शब्दाभिव्यक्तिरित्युक्तं भवति, ततः किमत आह-
तत्रेति । यदि शब्दानां नित्याभिव्यक्तत्वम्, तदा न कस्यचिदपराधः, प्रयत्ना-
धीनायां तु तस्यां स्यादेव प्रयतमानस्यापराधः, यथा लङ्घनादिषु प्रयत्नसाध्येषु
तद्वत इत्यर्थः, तत्र च शब्दे प्रयत्नेन निष्पत्तेर्दर्शनात् प्रयतमानस्यापराधभागित्वम्,
ततः किं ? अत आह—तत्रेति । अपराधादिति । अपराधकरणत्वादिरूपादित्यर्थः

कथमपराधप्रवृत्तत्वसंभवः ? अर्थप्रत्ययान्यथानुपपत्त्यादिवाचकत्वनिश्चयादत
आह—न नियोगत इति । यत्रार्थप्रतिपत्तेरन्यथानुपपत्तिः, तत्र वाचकत्वनिश्चयः,
इह तु वक्ष्यमाणन्यायेनान्यथोपपत्तेः न अनादिवाचकत्वकल्पना युक्तेति भावः ।
एवमपराधप्रवृत्तत्वसंभवप्रतिपादेन सर्वेषां साधुत्वनियमो निराकृतः; इदानीमेक
एव साधुरितरेऽपभ्रंशा इति स्वपक्षे युक्तिमाह ॥ २५ ॥
एवं प्राप्ते सिद्धान्तः
त० वा०—अभिधीयते—
अनैकान्तिकता तावदर्थापत्तेरिहोच्यते ।
अन्यथाऽप्युपपन्नत्वात्प्रयोगार्थविबोधयोः ॥ ८३३
वाचकत्वादृते यस्तु न कथंचित्प्रयुज्यते ।
प्रयोगप्रत्ययायत्ता तत्र वाचकता ध्रुवम् ॥ ८३४
संशयप्रतिबद्धे च पूर्वपक्षार्थनिर्णये ।
इष्टार्थनिश्चयः शक्यः सुखं सिद्धान्तहेतुना ॥ ८३५
दृढविपर्ययज्ञानानन्तरं सहसैव च सम्यग्ज्ञानोत्पादातिभाराद्द्वारेकदेशावता-
रणार्थं संशयोत्थापनामात्रमेव तावद्युक्तम् ।
संसिद्धव्यवहारत्वादनादित्वं यदाश्रितम् ।
अपराधप्रसङ्गेन तत्रैषा संशयक्रिया ॥ ८३६
यदि ह्येकान्तेन यादृशः परमुखाच्छब्दः श्रूयते, तादृगेव सर्वेण सर्वदोच्चार्येत ।
ततो वृद्धव्यवहारपरम्परायां सत्यां गवादिभिरिव न गाव्यादिभिः कश्चिदपि कालः
शून्य आसीदित्यध्यवसायादनादित्वमङ्गीक्रियेत । अपराधजस्य शब्दस्य संभवात्तु
तदाशङ्कायां सत्यां नैकान्ततः सर्वेषामनादित्वम् । 'प्रयत्ननिष्पत्तेरिति' पूर्वोक्त-
न्यायावधारितप्रयत्नाभिव्यक्तिरेव हेतुत्वेनोपदिश्यते ।
अपर आह—अप्रयत्ननिष्पत्तेरपराधस्य भागितेति । यो ह्यस्खलितप्रयत्नः
शब्दमभिव्यनक्ति, तस्य परम्परागतशब्दोच्चारणमात्रात्सर्वे समानविधाना भवेयुः ।
यदा त्वप्रयत्ननिष्पत्तिरपि शब्दे संभाव्यते तदा तत्रापराधजरूपान्तरापत्तिप्रस-
ङ्गान्न नियोगतः सर्वशब्दानां समानविधानत्वम्¹ । अथ वा शब्दविषयस्य प्रयत्न-
स्यैव या निष्पत्तिः तस्यामपराधः सुनिपुणानामप्यविकलकरणानां दृश्यते,
किमुतानिपुणविगुणकरणानाम्—
यश्च प्रयत्ननिष्पत्तावपराधः कृतास्पदः ।
शब्दे स तदभिव्यङ्ग्ये प्रसजन्केन² वार्यते ॥ ८३७
१. क. (टिप्पण्यां) विषयत्वमिति पा० । २. क. प्रसजत्केन ।

३५ ] प्रथमाध्याये तृतीयपादः ५७३
अतश्चानपराधेन व्यज्यमानेषु साधुता ।
सापराधेष्वसाधुत्वं व्यवस्थैवं च तत्कृता ॥ ८३८
लोकेऽपि च –
अविनष्टे विनष्टे च दृश्येते साध्वसाधुते ।
तथा सति च तद्द्वारा सिद्धिः शब्दापशब्दयोः ॥ ८३९
सत्यत्वं साधुत्वम् असत्यत्वमसाधुत्वमिति पक्षः
यद्वा सत्यत्वमेवेदं साधुत्वमभिधीयते ।
असत्यवमसाधुत्वं धर्माधर्मोपयोगवत् ॥ ८४०
धर्माधर्मव्यवस्था हि सत्यानृतनिबन्धना ।
विहितप्रतिषिद्धत्वात्तयोश्चेष्टा सशास्त्रता ॥ ८४१
अर्थसत्यं यथा वाच्यं शब्दसत्यं तथैव हि ।
शब्दानृतं च हातव्यमर्थानृतवदेव नः ॥ ८४२
एवं सति व्यवस्थाने भक्ष्याभक्ष्यविभागवत् ।
प्रयोगोत्पत्त्यशास्त्रत्वादिति हेतोरसिद्धता ॥ ८४३
अथ वा यदुक्तम्—
साधोर्नित्यप्रसक्तत्वादसाधोरप्रसङ्गतः ।
न धर्मनियमोऽस्तीति तत्रैदमभिधीयते ॥ ८४४
अपराधस्य भागित्वादुभयं सावकाशकम् ।
साधोरनियता प्राप्तिरसाधोश्च प्रयोज्यता ॥ ८४५
यदि हि साधुः प्रयुज्यमानो न कश्चित्कदाचिदपि विनश्येत् ततस्तस्य नित्य-
प्राप्तत्वान्निवर्त्यापशब्दाप्राप्तेश्च नियमशास्त्रमनर्थकं भवेत् । यदा त्वपराधभागित्वे
सति द्वयोरप्यनियता प्राप्तिः सदा साधुनियमकारिणः शास्त्रस्य न विषयव्याघातः ।
एक एवायं शब्दः पुरुषाशक्ति-प्रमादकारणादिभेदात्तां तां वर्णन्यूनातिरेकक्रमान्य-
त्वाद्यवस्थामनुपतंस्तेन तेनापभ्रंशरूपेण गृह्यमाणस्तमेवार्थं प्रतिपादयतीति, न
पर्यायकल्पनया वाचकशब्दान्तरत्वैकान्तसिद्धिः ।
किं च—देवदत्तादिनामानि निःसन्दिग्धानि यानि च ।
बालैस्तत्तादिरूपेण नाश्यन्ते तैश्च संशयः ॥ ८४६
तत्तादिशब्दादपि हि बालप्रयुक्तात्तदनुकारिकठोरबुद्धिप्रयुक्ताद्वा देवदत्ता-
द्यर्थप्रत्ययमुपलभमानः कथमिव प्रयोगप्रत्ययदर्शकाभ्यामेव वाचकत्वमध्यवस्येत् ?
अपभ्रंशाश्च ये केचिद्रूढा गाव्यादयो जने ।
तेऽपि गाव्यादिरूपेण नाश्यन्ते व्यभिचारिताः ॥ ८४७

५७४ मीमांसादर्शनम् [ सू०
कतिषुचिदेव गव्यादिषु चिरापभ्रष्टत्वादृढयाशङ्कया साधुत्वभ्रान्तिर्भवेत् ।
ये तु सन्त्येव जडप्रायज्ञानकरणैरभिनवगव्यादिरूपेण विनाश्यशब्दाः प्रयुज्यमानाः
प्रकृत्यनुसरणद्वारेण वार्थं प्रत्यापयन्त उपलभ्यन्ते, तेष्वपि प्रयोगप्रत्ययदर्शनम्-
स्तीत्यनैकान्तिकता ।
ततश्च त्वत्प्रयुक्तोऽयं हेतुरप्यपराधभाक् ।
अनैकान्तिकतादोषान्न ह्यसौ साधनक्षमः ॥ ८४८
अन्यथोच्चार्यमाणश्च शब्दोऽपभ्रश्यते यथा ।
तथा हेतुरनैकान्ताद्धेत्वाभासत्वमृच्छति ॥ ८४९
तस्माद् दृष्टप्रयोगेऽपि पुनरस्ति विचारणा ।
वाचकोऽयं न वेत्येवं सति वाऽन्येन निर्णयः ॥ २५ ॥ ८५०
न्य० सु०—अत्र भाष्यकृता महता प्रयत्नेनेत्यादिना सूत्रं व्याख्यायते—अपराधादि-
त्यादिना । गव्यादिशब्देष्वपराधसम्भावनामात्रं सूत्रस्य तात्पर्यमुक्तम् । तत्सम्भावनामात्रेण
सिद्धान्तासिद्धेरयुक्तमाशङ्क्य नेदं सिद्धान्तसूत्रम्, किं तु पूर्वपक्षदूषणार्थमित्याह—
अनैकान्तिकता तावदिति । निर्णयवचनादेकान्तशब्दात्तस्मै प्रभवति सन्तापादिभ्य इति
ठञ्प्रत्यये कृतेऽनैकान्तिकशब्दव्युत्पत्तेरनिर्णायकत्वम् अनैकान्तिकता । एवं न कस्य-
चिच्छब्दस्य वाचकत्वं स्यादित्याशङ्क्याह—वाचकत्वादिति । परपक्षसन्देहापादनस्य
स्वपक्षनिर्णयानुपयोगित्वादानर्थक्यमाशङ्क्याह—संशयेति । एतदेव व्याचष्टे—दृढेति ।
पूर्ववाचकत्वानिश्चयार्थत्वेनैतत्सूत्रं व्याख्यातम् । इदानीमन दित्वानिश्चयार्थत्वेन व्याचष्टे —
अथ वेति । श्लोकं व्याचष्टे—यदि हीति । ननु विविधांश्शब्दानभिव्यनक्तीति भाष्येण
कस्मै न सोत्रो निष्पत्तिशब्दोऽभिव्यक्त्यर्थत्वेन व्याख्यात इत्याशङ्क्य, शब्दाधिकरणे
शब्दोत्पत्तेर्निषिद्धत्वादित्याह—प्रयत्नेति । यथाभाष्यं द्वेधा सूत्रं व्याख्याय स्वयमकार-
प्रश्लेषेणाप्रयत्नेनापि निष्पत्तेरिति मध्यमपदलोपिसमासाङ्गीकरणेन तावदन्यथा व्याचष्टे—
अपर इति । विधानशब्दः प्रकारवचनः निष्पत्तिशब्दस्य चोत्पत्त्यर्थत्वेन षष्ठ्यन्तत्वेन च
प्रयत्नस्य निष्पत्तेरिति च षष्ठीसमासाश्रयणेनैतत्सूत्रं व्याख्येयमित्याह—अथ वेति ।
अपराधव्यतिरेकजनितेयं षष्ठीति प्रकटयितुं तस्यामिति सप्तमी । ननु प्रयत्ननिष्पत्तेरपराध-
भागित्वे शब्दस्य किमायातमित्याशङ्क्य तद्गतस्यापराधस्य शब्दे सञ्चारप्रतिपादनार्थत्वेन
शब्द इति सूत्रावयवं व्याचष्टे—यद्वेति । यद्वैकोपलक्षणाभावात्साध्वसाधूनां विधिनिषेध-
विषयत्वासम्भवाभिप्रायेण साधुभिर्भाषितासधुभिर्नेति प्रयोगोत्पत्तेरुच्चारणनियमस्याशास्त्रीय-
त्वादिति यो हेतुरुक्तः, तस्यासिद्धत्वप्रतिपादनार्थमेतत्सूत्रमित्यन्यथा व्याख्यातम् । साध्व-
साधुत्वव्यवस्थां तावदाह – अतश्चेति । .
'ग्रस्तं निरस्तं निहतावलम्बिते अम्बूकृतं ष्मातमथो विकम्पितम् ।
संदृष्टमेणीकृतमर्द्धकं द्रुतं विकीर्णमेताः स्वरदोषभावनाः ॥'

२५ ] प्रथमाध्याये तृतीयपादः १७५
इत्यादिसमृत्यवगतग्रस्तवत्वादिदोषवर्जितनियत ह्रस्वा दिकालाभिव्यङ्ग्ययथालक्षितक्रम-
ग्राह्येषु वर्णेष्वनियुक्तो साधुशब्दप्रयोगात्तद्विपरीतेषु चासाधुशब्दप्रयोगादवश्यं तदालम्बनं
किंचित् व्यवस्थितं वक्तव्यम् । तत्र च नित्यस्तु स्याद्दर्शनस्य परार्थत्वात् १-१-१८ इति
सूत्रे साधुत्वेनाभिमतानां नित्यानां शब्दाना मर्थप्रत्ययना ङ्ग्लवस्योक्तत्वात् तस्य च ।
फलवद्व्यवहाराङ्गभूतार्थप्रत्ययनाङ्गता ।
निष्फलत्वेन शब्दस्य योग्यत्वादवसीयते ॥
इति वार्त्तिकेनो पादितत्वादर्थप्रत्ययना ङ्ग्लत्वं साधुत्वमवगम्यते । तच्च वाचकवृत्त्या
लक्षणावृत्त्या गौणोवृत्त्या वेति त्रिविधम् । गाव्यादिशब्दानां मुख्यार्थान्तराभावाद् गौणलाक्ष-
णिकत्वे तावदनाशङ्कनीये । वाचकशक्तिकल्पनं त्वन्यथाप्युपपत्तेर्निषिद्धम् । न च प्रकारान्त-
रेण शब्दस्यार्थप्रत्यया ङ्ग्लत्वं सम्भवतीत्यव्याप्त्यतिव्याप्त्यभावादेतदेव साधुत्वलक्षणं
युक्तम् । तच्चानपभ्रष्टेष्वेव शब्देषु, नापभ्रष्टेष्वित्यनपभ्रंशापभ्रंशकृता साध्वसाधुव्यवस्था
सेत्स्यतीत्यर्थः ।
दृष्टं चानपभ्रष्टेष्वेव सुवर्णादिषु व्यवहारा ङ्ग्लत्वलक्षणं साधुत्वम्, नापभ्रष्टेषु कूटेष्वि-
त्याह - लोकेऽपि चेति । इदमेव वाऽनपभ्रष्टत्वं साधुत्वम् अपभ्रष्टत्वं चासाधुत्वम्, तयोश्च
सम्यक्त्वासम्यक्त्ववाचिभ्यां सत्यासत्यशब्दाभ्यां वक्तुं शक्यत्वात्सत्यं वदेदनृतं न वदेदिति
विधिनिषेधविषयत्वोपपत्तेर्धर्माधर्मोपयोगोस्तीत्यन्यथा साध्वसाधुव्यवस्थाम्राह-यद्वेति ।
एतदेव विवृणोति-धर्मेति । नन्वर्थतथात्वा तथात्वविषयत्वाद नयोर्विधिनिषेधयोर्न शब्द-
तथात्वातथात्वविषयता युक्तेत्याशङ्कयाह अर्थसत्यमिति । एतच्चार्थे सत्यासत्यत्वयोः
सत्त्वासत्त्वरूपत्वाच्छब्दे चानपभ्रष्टापभ्रष्टरूपत्वात्कृच्छू तयोश्च सत्यानृतशब्दयोरुभयपरत्वा-
योगात् 'एष ह वै सत्यं वदन् सत्ये जुहोति, योऽस्तमिते सायं जुहोत्युदिते प्रातः-प्रातः
प्रातरनृतं ते वदन्ति पुरोदयात् जुह्वति येऽग्निहोत्रमित्यादिश्रुतिपर्यालोचनया वार्थपरत्वाव-
सायाच्छब्दपरत्वानुपपत्तेर्गाव्यादिशब्दस्य च शिष्टैरगर्हितत्वात्प्रोढिमा त्रेणोक्तम् । उक्तेन च
प्रकारेण साध्वसाधुत्वयोर्व्यवस्थायां सत्यां विधिनिषेधविषयत्वोपपत्तेः प्रयोगोत्पत्त्यशास्त्र-
त्वादित्यसिद्धो हेतुरित्याह-एवमिति ।
अपराधभागित्वेन चासाधुत्वेनानियमेनाप्राप्तेरसाधूनां च प्रसक्तेर्नियमनिषेधविषयत्व-
सम्भवात् प्रयोगोत्पत्त्यशास्त्रत्वादित्यस्य हेतोरसिद्धत्वमनेन सूत्रेणोच्यत इत्यन्यथा व्याचष्टे --
अथ वेति । धर्माय नियमो धर्माप्रसक्तये वा नियमो नास्तीत्यर्थः । एतदेव विवृणोति -
यदि हीति । नियमशास्त्रशब्देन निषेधशास्त्रमप्युपलक्षितम्, साधुनियमकारिशब्देनाऽसाधु-
निषेधकारिणोऽप्युपलक्षणम् । ननु गाव्यादिशब्दस्य सास्नादिमदर्थप्रतिपादकत्वे प्रसक्त्य-
योगात्प्रसक्तिसिद्ध्यर्थमवश्यं सास्नादिपर्यायतुल्यं वाचकशब्दान्तरत्वमेष्टव्यमित्याशङ्कयाह-
एक एवेति ।