मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पादकत्वात्कल्प्यमिति भावः । कृत्वा चिन्तात्वाभावेऽपि चौदुम्बराधिकरणव्युत्पादित-
१९ ] प्रथमाध्याये द्वितीयपादः १३७
जर्तिलचिन्ताथ बाधप्रसङ्गेन करिष्यमाणत्वादथो खल्वाहुरनाहुतिर्वै जर्तिलाश्च
गवीधुकाश्चेति अस्य निषेधार्थत्वेऽपि किं जर्तिलगवीधुकानामनुकल्पत्वद्योतनार्थोऽयं निषेधे
विकल्पार्थो वेतिचिन्तान्तरम् । अनुकल्पकत्वपक्षे बाधानापादकत्वाद्विकल्पपक्षो तदा-
पादकत्वात्कल्प्यमिति भावः । कृत्वा चिन्तात्वाभावेऽपि चौदुम्बराधिकरणव्युत्पादित-
मप्यर्थवादत्वमुदाहरणविशेषेष्वाक्षिप्य समाधानाय सा चिन्तेत्येवं ग्रन्थो व्याख्येयः ।
अस्मिन् व्याख्याने पाष्ठस्यापि पुराकल्पोदाहरणविषयस्य विचारस्यानेनैव न्यायेन
कृत्वा चिन्तात्वाभावेऽपि पौनरुक्त्यं परिहृतं भवति । एवंशब्दश्च यथाधिकार-
प्रसङ्गेन पष्ठगता चिन्ता एवमेपापीत्येवन्नेया । तत्सिद्धिसूत्रस्थाप्यपौनरुक्त्यमाह—
तत्सिद्धिसूत्रे त्विति । मीमांसाप्रक्रियामात्रेण विध्यर्थवादचिन्तेति भावः । सर्वविधि-
सरूपाणामौदुम्बराधिकरणेनैवार्थवादत्वसिद्धौ पुराकल्पाद्युदाहरणेषु कृत्वा चिन्तानुपन्या-
सादाक्षेपहेतुत्वाभावाच्च पौनरुक्त्यापरिहारेण परिहारतोषात्प्रकारान्तरमाह—अथ वेति ।
पृथक् फलपदसद्भावेऽपि फलविधौ निराकृते तदभावे फलविध्याशङ्काया दूर-
निरस्तत्वेनाऽत्रापि अपरितोषाच्चतुर्थं प्रकारमाह—अथ वेति । परार्थविज्ञाने कारणमाह—
अत्र हीति । स्वातन्त्र्येणेति जुहूसम्बन्धनिरपेक्ष्येणेत्यर्थः । एतदेवोपपादयितुं सामान्य-
न्यायान्तावदाह— सर्वत्र हीति । प्रकृते योजयति—तदिहेति । किं सम्बध्यतामित्यनार-
भ्याधीतत्वेन पर्णमयीत्वस्य प्रकृताश्रयालाभादिति भावः । वाक्येनाश्रयदानमाशङ्क्य
निरस्यति—जुहूरिति । अभ्युपगम्यापि जुहूसम्बन्धं नैराकाङ्क्ष्यास्तीत्याह—सापि
चेति । अतः फले पर्णमयीत्वविध्ययोगाज्जुह्वर्थत्वेन सिद्धो विधिरित्युपसंहरति—
तस्मादिति ।
पर्णमयीत्वेन जुहूं भावयेदिति वचनव्यक्तिरितरशब्देनोक्ता । जुह्वनुवादेन पर्ण-
मयीत्वस्य विधौ सिद्धे यथापारार्थ्यनिर्ज्ञातं भवति तथा दर्शयति । तत्र चेति । एवं
निर्ज्ञातपारार्थ्यस्यापि पर्णमयीत्वस्यापापश्लोकश्रवणात्मकफलश्रुतेः फलार्थतापि दध्यादि-
वदस्त्विति पर्णमय्यधिकरणे पूर्वपक्षं कृत्वा सकृच्छ्रुतया पर्णत्वजातेर्जुह्वङ्गत्वेन निरा-
काङ्क्षीकृताया द्व्यर्थत्वायोगात्फलश्रुतिरर्थवादमात्रमिति सिद्धान्तः करिष्यत
इत्याह—ततश्चेति ।
औदुम्बरत्वस्य तु सोमा पौष्णं त्रैतमालभेत पशुकाम इति विकृतपशुप्रकरणे
श्रुतस्यातिदेशप्राप्तनिर्ज्ञातजातिविशेषयूपार्थत्वेन विध्ययोगात्पारार्थ्यान्वगतेः पर्णमय्य-
धिकरणविषयत्वन्नास्तीत्याह—इह पुनरिति । एतदेव प्रश्नपूर्वकमपपादयति—कथमिति ।
नन्वाश्रयालाभात्कथमस्य फलविधिराराङ्क्येत अत आह—यापि चेति । प्रकृतावग्नीषोमीये
पशुनियोजनाव्यकर्मसम्बन्धितया विहितस्य यूपस्यात्र चोदकप्राप्तस्यौदुम्बरजात्याश्रयत्वेन
ग्रहणादित्यर्थः । कर्मसम्बन्धाभिधानत्वमाश्रययोग्यताप्रदर्शना्थम् । अतः सिद्धं पर्णमय्यधि-
करणेनापौनरुक्त्यमौदुम्बराधिकरणस्येत्याह—तेनेति ।
१३८ मीमांसादर्शनम् [ सू०
कः पुनरेतेषां चतुर्णां पौनरुक्त्यपरिहारप्रकाराणां मध्ये अभिमत इत्यपेक्षिते प्रथमो-
पन्यस्तस्यैकस्यैव न्यायस्य क्वचित्कश्चिदंशः शोध्यत इत्यस्यैवाभिमतत्वमाह- इदमिति ।
न विद्यते परमुत्कृष्टमस्मादित्यर्थः । उदुम्बरत्वजातेरपि प्रकृताश्रयत्वाभावाच्चोदकप्राप्तस्य
निर्ज्ञातसाधनत्वेन नैराकाङ्क्ष्यात्तदर्थविहितसाधनान्तराग्राहकत्वाद् गुणफलसम्बन्धायोगे-
नौदुम्बरत्वेन यूपं भावयेदितिवचनव्यक्त्याश्रयणात्पारार्थ्याविगतेः पर्णमयीन्यायविषयत्वा-
च्चतुर्थोऽपि प्रकारो न युक्त इति भावः । किं तदित्यपेक्षिते विवेचयितुमारभते-- औदुम्बर-
वाक्यमिति । उदाहरणभेदे कथमपौनरुक्त्यमित्यपेक्षिते प्रश्नपूर्वकं परिहरति-- कथमिति ।
ननु साध्यसाधनांशयोरन्योन्याविनाभावादेकसिद्ध्यावेतरसिद्धेरंशद्वयविचारोऽनर्थकः, अत
आह-- साध्येति । अस्यार्थस्य सार्वत्रिकत्वसूचनार्थस्तावच्छब्दः सर्वत्रैव तावदेवमित्यर्थः ।
कः पुनरंशः क्व विचार्यत इत्यपेक्षायामाह-- तत्रेति ।
ननु यदि द्वयोर्योग्यपदोपादानं विना साध्यसाधनसम्बन्धो न युज्यत तर्ह्येकनिराकरणे-
नैवेतरनिराकरणसिद्धेरंशद्वयनिराकरणमनर्थकमत आह-- यच्चेति । अनिराकृतांशो
प्रतिषिद्धमनुमतं भवतीत्यनेन न्यायेनाङ्गीकृतः स्यादिति भवतिशब्देनोक्तम् । तेनायमर्थः
यत्साध्यं साधनं वा यदात्मना साध्यत्वेन साधनत्वेन वा निराकरणाभावात्प्रतिपादितं
भवति तत्पदान्तरेणादिशब्दोपात्तेन सामर्थ्येन वोपात्तेन प्रतियोगिविशेषण साधनेन साध्येन
वा सम्बध्यत इति । एतदेव विभज्य कथयति- तत्रेति ।
औदुम्बराधिकरणे हि ऊर्जावरोधापापश्लोकश्रवणाद्यनिराकृतत्वात्साध्यमित्यवधृते
तत्सन्निधौ श्रुतमौदुम्बरपर्णतादिश्रुतशब्दाङ्गयोग्यत्वेऽपि अर्थापत्त्या योग्यशब्दान्तरकल्पनया
साधनं गम्यते, एवं पर्णमय्यधिकरणे निराकरणाभावादुदुम्बरपर्णतादिसाधनावधारणेऽपि
तत्साध्यं गम्यत इति शेषः । एतदेवोपसंहरति-- इति द्वावपीति । साधनस्य विधि-
विषयत्वं स्वरूपम्; साध्यस्य च ? कमिषदोपात्तत्वमिति द्वयोरपि साध्यसाधनांशयोः
स्वरूपन्निरूपयितव्यमित्यर्थः ।
नन्वस्याधिकरणस्य साधनांशमात्रनिराकरणार्थत्वे विधौ वाक्यभेदः स्यादिति
साध्यांशनिराकरणं पर्णमय्यधिकरणस्य च साध्यांशमात्रनिराकरणार्थत्वे सत्युत्पत्तेश्चा-
तत्प्रधानत्वादिति साधनांशनिराकरणमयुक्तं स्यादात आह-- तद्विहेति । भिन्नांशविषयत्वेन
पौनरुक्त्ये परिहृते प्रकरणसङ्गतिमाक्षिपति- नन्विति । हेत्वधिकरणेऽर्थवादविचाराद-
समाप्तमर्थवादाधिकरणम्, न चास्य विचारस्य विध्यभावे श्रेयः साधनत्वबोधः सम्भवति,
उत नेत्येवं रूपत्वात्तेन¹ सङ्गतिर्युक्तेत्यर्थः । अर्थवादाधिकरणेनेत्यधिकरणशब्देनाधिकारः
प्रस्तावः प्रकरणमुक्तं विधिशेषत्वेनार्थवादानां धर्म्मप्रमोपयोगे प्रतिपादिते विध्यभावेऽपि
श्रेयः साधनत्वबोधसम्भवाद्धिरेव धर्मोपयोगित्वाभावात्कथं तद्द्वारेणार्थवादाना-
१. अर्थवादाधिकरणेन सङ्गतिर्न च युक्तेत्यन्वयः ।
१९ ] प्रथमाध्याये द्वितीयपादः १३९
यामुपयोगित्यर्थवादाधिकरणसिद्धान्ताक्षेपेणैतदधिकरणपूर्वपक्षोत्थानाद्विध्युद्देशचिन्तात्वेऽपि
तत्सङ्गत्युपपत्तिः ।
यद्यर्थवादानां धर्मप्रयोगे प्रतिपादिते कोऽर्थवादः, को वा नेति कोष्ठशोधनिकार्थत्वे-
नाधिकरणद्वयस्यार्थवादाधिकरणशेषत्वाभ्युपगमाद्विध्युद्देशचिन्तात्वेऽपि तदसम्भवाशङ्केयम् ।
अधिकरणद्वयेन सर्वार्थवादाव्याप्तेः कथं कोष्ठशोधनिकेति चेत् ? उच्यते आद्ये विध्येक-
वाक्यत्वेन स्तुत्यर्थत्वेऽभिहिते, सिद्धैकान्तिकविध्येकवाक्यत्वानामपि येषां साध्यसाधनांशा-
भिधानाद्विध्युद्देशान्तर्गतिराभाति, तेषां तन्निराकरणेन स्तुत्यर्थतेह स्थाप्यते । हेत्वर्था-
करणेऽपि अन्वयवाक्यकल्पनेन दर्व्यादिसाधनांशाभिधानाद्विध्युद्देशान्तर्गत्या शङ्कैव निरा-
क्रियते । पृथग्विधित्वाशङ्कानिराकरणमधिकरणान्तरेषु भविष्यति । तस्मादधिकरणान्तर-
निराकृतपृथग्विधित्वाशङ्कानां सम्भवद्विध्येकवाक्यत्वानामसम्भवाद्दिध्युद्देशान्तर्गतानां सर्वे-
षामर्थवादत्वमिहैव स्थापितं भवति । प्रकृतार्थवादत्वसिद्धयर्थत्वाद्विध्युद्देशचिन्ताप्यत्र
नासङ्गतेति परिहरति—नैष इति। विध्युद्देशचिन्तावशेन प्रकृतार्थवादत्वरूपार्थपरि-
च्छेदादित्यर्थः ।
एतदेव विवृणोति—यदि हीति । साधनांशे विचार्यमाण इत्यत्र प्रकृतः साधनांशोऽसा-
विति सर्वनाम्ना परामृश्यते । एतदधिकरणपूर्वपक्षे च विध्युपयोगानभ्युपगमात्१, अज्ञात-
ज्ञापनाभिप्रायं विधीयमानतयेति व्याख्येयम् । तेन यद्यसौ साधनांशोऽज्ञातज्ञाप्यतयाऽपूर्वेण
साधनांशप्रतिपादकेनौदुम्बरो यूपो भवतीत्यनेन वाक्यभावनावगतः, ततोऽपेक्षावशेनोज्ज्र्को
अवरुध्या इत्यस्य फलसमर्पकत्वान्नार्थवादत्वमित्यर्थः ।
पूर्वपक्षमाह—तत्रेति । ननूर्जोऽवरुध्या इति तादर्थ्यचतुर्थ्या साध्यावगमेऽप्यपाप-
श्लोकश्रवणादेः साध्यत्वावगमभावाद्दूर्जोऽवरुध्या इत्यस्यापि च तैत्तिरीयादिशाखास्व-
श्रवणात्कथं साध्यसन्निधान इत्युक्तम् । उच्यते औदुम्बरत्वादेः प्राप्त्यभावाद्दिध्येकवाक्यत्वं
च विनार्थवादत्वायोगादर्थवादाच्च विधिकल्पनेऽन्योन्याश्रयत्वापत्तेरवश्यविधेयत्वाद्विधेश्च
भावनैकगोचरत्वाद्यूपोद्देश्यौदुम्बरत्वादिभवनस्य पुंव्यापाराधीनत्वात्पुंव्यापाराधीनकत्र्तव्य-
त्वप्रतिपादकपदकल्पनेन भवतिशब्दस्यैव वाऽन्तर्णीतप्रयोजकव्यापारवचनस्य पञ्चमलकार-
कल्पनेन भावनाविधिप्रतीतेः । भावनायाश्च भव्यनिष्ठत्वाद्योग्यत्वेनोर्गवरोधापापश्लोक-
श्रवणादेः साध्यत्वावगतेः साध्यसन्निधानाभिधानं विध्यभावाभिधानं२ चौदुम्बरत्वाद्यु-
त्पत्तिविधानाथं कल्पितस्य प्रत्ययस्यान्यत्र व्यापारासम्भवेन साधनत्वबोधकारणत्वा-
भावाभिप्रायम् ।
ननु तृतीयां विनाऽपि योगस्य विधिसामर्थ्यात्साधनत्वं युक्तम् । इह तु तदश्रवणात्,
उत्पत्तिसिद्धयर्थञ्च कल्पितस्य विधेरत्राव्यापारात्कथं साधनत्वावगतिरत आह—तत्रेति ।
१. उत्पत्तिविध्युपयोगानभ्युपपगमादित्यर्थः ।
२. ताद्रूप्येणानुपामत्तिमित्यत्रार्थाद्विध्यभावाभिधानम् ।
१४० मीमांसादर्शनम् [ सू०
समभिव्याहारमात्रेण साध्यसाधनसंबन्धावगतिसम्भवान्न विधिना कश्चिदुपयोग इति भावः ।
समभिव्याहारमात्रात्साधनत्वावगमेऽपि पुरुषप्रवृत्तिसिद्धयर्थं विध्यपेक्षा भविष्यतीत्या-
शङ्कते-पुरुषमिति । साधनत्वावगतौ सत्यामिच्छयैव प्रवृत्तिसिद्धेस्तदर्थमपि न विध्य-
पेक्षेति परिहरति-स चेति ।
यद्वा यूपानुवादेन विधीयमानस्यौदुम्बरत्वस्य यूपद्वारेण क्रत्वर्थत्वावगमात्तत्प्रयोग-
वचनेनैवानुष्ठानसिद्धेर्न तदर्थमिह विध्यपेक्षेत्याह-अथ वेति । क्रत्वर्थस्यापि समभि-
व्याहारावगतं फलार्थत्वमपि दध्यादिवदविरुद्धमिति भावः । उत्पत्तिविधIREवाऽगत्या
अनुष्ठापको भविष्यतीत्याह-पञ्चमी वेति । अर्थवादाद्वा प्रवृत्तिसिद्धेर्न तदर्थं विध्यपेक्षे-
त्याह- अर्थवादेति । ऊर्ज्र्जॊऽवरुद्ध्या इत्यस्य पूर्वपक्षे विध्युद्देशान्तर्गतमभ्युपगमात्सिद्धान्ता-
भिपायेणैकदेशग्रहणम् । विधिनिरपेक्षस्यार्थवादस्य प्रवर्त्तकत्वानुपपत्तिमाशङ्कय प्रत्ययो-
त्खातिवादिमतेनैतदुक्तमिति दर्शयितुमुक्तमेवेत्युक्तम् ।
सूत्रं व्याख्याय विधिवन्निगदेष्वित्यादिभाष्यं तात्पर्यतो व्याचष्टे - तस्मादिति । यस्मा-
द्विध्यभावेऽपि समभिव्याहारमात्रेण साध्यसाधनसम्बन्धबोधः सम्भवति, तस्मात्तस्मिन्
फले औदुम्बरतायाः साधनतया विधिरज्ञातज्ञापनमित्यर्थः । प्रायेणैवङ्कामशब्देन फलसमर्प-
णात्, अपि चेत्यादिभाष्योक्तं चतुर्थ्या फलसमर्पणमयुक्तमाशङ्कयोर्जोऽवरुद्ध्यै इत्याद्युक्तम् ।
फलविधिरित्यत्र विधिशब्दस्य शौण्डादिष्वपाठात्सप्तमीसमासानुपपत्तेः, षष्ठीसमास एवायं
स्यादित्याशङ्क्याह-नन्विति । विवक्षितार्थलाभायान्यथापि कल्पनं युक्तमिति भावः ।
भावार्थाधिकरणे फलविध्यनिपेक्षात् भावस्य भावनाख्यस्यार्थः प्रयोजनं फलं विधेयं,
न वेति यत्र चिन्त्यते । लिप्सासूत्रस्याद्यवर्णके तद्भावार्थाधिकरणमिहोक्तम् । नन्वस्य फल-
परत्वे स्तुत्यभावाद्भिधिरवसीदेत आह-ऊर्गदुम्बर इति । पूर्वाधिकरणे लाक्षणिकस्तु-
त्युपयोगाभिधानादिहानर्थक्याभिधानमयुक्तमाशङ्क्याह- तस्मादिति । साध्यसाधनभाव-
प्रतिपादनस्य प्रवृत्तिविशेषकरत्वेनार्थवत्तरत्वातदपेक्षया स्तुत्यानर्थक्यमिति भावः ।
यस्मादुक्तप्रकारेणौदुम्बरतायाः फले विधिः सम्भवति, तस्मादित्यर्थः । अनेन च वादमात्रं
ह्यानर्थकमित्यस्य स्तुतिवादस्य निष्प्रयोजनत्वाभिधानप्रतिपादनपरत्वप्रतिपादनार्थमितरथेति
भाष्यम्, मुख्यार्थरहितत्वप्रतिपादनार्थं च न चेति भाष्यं तन्त्रेण व्याख्यातम् ॥ १९ ॥
भा० प्र०-पूर्वं के अधिकरण से अर्थ वाक्यों का प्रामाण्य प्रतिष्ठापित किया गया
है । प्रकृत में जो अर्थवाद विधि के समान प्रतीत होते हैं, किन्तु विधि नहीं है उन
उदाहरणों को प्रस्तुत कर विषय को स्पष्ट किया जा रहा है । इस सूत्र में पूर्वपक्षी के मत
का प्रदर्शन है । 'उदुम्बरो यूषो भवति, उर्ग॒ वा उदुम्बर उर्क॒ पशव ऊर्ज्जेवास्मा उर्जं
पशूनाप्नोति उज्ज्र्जॊऽवरुद्धयं' (तै० सं० २।१।१) उदुम्बर से निर्मित उदुम्बर होना चाहिए,
उर्क॒ अर्थात् अन्न या अन्न का अमृतस्वरूप सूक्ष्म रस ही उदुम्बर होता है, पशु अन्न है
२० ] प्रथमाध्याये द्वितीयपादः १४१
और उदुम्बर स्वरूप ऊर्क् है अर्थात् अन्न के द्वारा अध्वर्यु यजमान के लिए पशुरूप अन्न
प्राप्त करता है—यज्ञ के फल के रूप में लाभ करता है । अतः उदुम्बर निर्मित यूप
अन्न की अवरुद्धि अर्थात् अवरोध या संस्थान या सम्पादन का कारण होता है । यह
वेदवाक्य के अर्थ में संशय होता है कि इससे किसी का विधान है या किसी की प्रशंसा
की जाती है । अर्थात् यह विधि है या अर्थवाद । पूर्वपक्षी इसके उत्तर में कहता है—
यह विधि है, यह अर्थवाद नहीं हो सकता है । "अपूर्वत्वात्" प्रकृत में उदुम्बरस्वरूप
गुण एवं अन्नसम्पादनरूप फल अपूर्वं अर्थात् अप्राप्त अर्थात् प्रमाणान्तर से अज्ञात है ।
"धनलाभाय राजसेवा" इत्यादि स्थल में तादर्थ्य में चतुर्थी होती है, यहाँ भी "ऊर्जोऽ-
वरुद्ध्यै" में तादर्थ्य में चतुर्थी है । राजसेवा जिस प्रकार धन लाभ का साधन है, वैसे ही
यूप का उदुम्बरस्वरूप गुण भी ऊर्ज की अवरुद्धि के अर्थात् अन्न सम्पादनरूप फल का
हेतु है । यद्यपि यहाँ विधिविभक्ति नहीं है, तथापि विधिजन्य प्रवृत्ति होती है, कारण,
ऐसे स्थलों में यह फल है, यह इसका साधन है—इस प्रकार का ज्ञान होने से ही प्रवृत्ति
होती है । यदि इसको विधि न कहा जाय तो वाक्य अनर्थक हो जायेगा, क्योंकि,
अर्थवाद स्वार्थ का प्रतिपादक न होने से वाक्य अनर्थक होगा, कारण, अर्थवाद स्वार्थ
का प्रतिपादक होने पर अन्य की प्रशंसा कर चरितार्थ होता है । किन्तु यहाँ किसी
प्रकार की प्रशंसा नहीं है । (पूर्वपक्ष)
'विधिः' = विधि, 'वा' अवश्य, 'स्यात्' होगी, अपूर्वत्वात् अपूर्व अर्थात् अप्राप्त होने
से 'वादमात्रं' केवल अर्थवाद, 'हि' = क्योंकि "अनर्थकम्"=अनर्थक अर्थात् निष्प्रयोजन
है । क्योंकि विधि सम्पर्क शून्य केवल अर्थवाद अनर्थक होता है, इसलिए ऊर्ग॒ या
उदुम्बरः इत्यादि स्थल में विधि ही मानना होगा ॥ १९ ॥
लोकवदिति चेत् ॥ १.२.२० ॥
शा० भा०—इति चेत्पश्यसि—स्तुतिरनर्थिका, न च शब्देनावगम्यत इति ।
लौकिकानि वाक्यानि भवन्तो विदाङ्कुर्वन्तु । यद्यथेयं गौः क्रेतव्या देवदत्तीया,
एषा हि बहुक्षीरा, स्त्र्यपत्या, अनष्टप्रजा चेति । क्रेतव्येत्यप्युक्ते गुणाभिधाना-
त्प्रवर्तन्तेतरां क्रेतारः । बहुक्षीरेति च गुणाभिधानमवगम्यते । तद्वद् वेदेऽपि
भविष्यति ॥ २० ॥
भा० वि०—यदुक्तं वादमात्रमनर्थकमिति तत्र चोदयति—लोकवदिति ।
स्तुतेरर्थवत्त्वं प्रतिजानान इति चेदिति व्याचष्टे—इति चेदिति । इति शब्दार्थ-
माह—दृश्यत इत्यादिना । ऊर्जोऽवरुध्या इत्यादिना शब्देन या स्तुतिर्गम्यते,
सानार्थिकेति, ⋯न⋯ दृश्यते युज्यते अर्थवत्येव युक्तेत्यर्थः, कुत इत्याशङ्क्य लोक-
वदिति भागं व्याचष्टे—लौकिकानीति । विदाङ्कुर्वन्तु—विचारयन्तु । कानि
१४२ मीमांसादर्शनम् [ सू०
तानीत्यपेक्षायां विधेयस्तावकतया सार्थकं लौकिकं वाक्यमुदाहरति - तद्यथेति ।
लौकिकस्यापि स्तुतिपदस्यानर्थक्यात् साध्यविकलो दृष्टान्तमाह—क्रेतव्येति ।
क्रेतव्येत्युक्ते प्रवर्तमानाः क्रेतारो गुणाभिधानात् प्रवर्तन्तेतरां प्रवृत्त्यतिशयवन्तो
दृश्यन्त इत्यर्थः, गुणाभिधानं चेह स्फुटमित्याह—बहुक्षीरेति । अतः प्रवृत्त्यति-
शयाय वेदेऽपि स्तुतिरर्थवतीत्याह—तद्वदिति ॥ २० ॥
त० वा०—लोके तावद् बुद्धिपूर्वकारिणः पुरुषा मात्रामपि न निष्प्रयोजनां
प्रयुञ्जते । तत्र च क्रेतव्येति विहिते बहुक्षीरादिभिर्गुणैः स्तुतिः प्रवृत्तिविशेष-
निमित्तत्वेनाऽऽश्रीयते । न च क्षीरादयः फलविधयः प्रत्यक्षविषयत्वादतः स्तुतिः ।
एवं वेदेऽपि । श्रुत्यसंभवाच्च लक्षणापरिग्रह इत्यदोषः ॥ २० ॥
न्या० सु०—लौकिकस्यापि स्तुतिमात्रस्यानर्थक्यात्साध्यविकलत्वमाशङ्क्याह—
लोके तावदिति । क्रेतव्येति भाष्यं व्याचष्टे—तत्र चेति । अस्यापि फलपरत्वाददृष्टान्त-
त्वमाशङ्क्याह—न चेति । तद्वदिति भाष्यं व्याचष्टे—एवमिति । लक्षणादोषं परिहरति—
श्रुतीति ॥२०॥
भा० प्र०—स्तुति को अनर्थक कहना ठीक नहीं है । लौकिक वाक्यों के विचार
से ही उसकी सार्थकता के अनुसार इसकी भी सार्थकता सिद्ध होती है । गाय
बेचने वाला गाय के सम्बन्ध में कहता है कि—यह गाय खरीदो, इसको अधिक दूध
होता है, बछियावाली भी है और प्रतिवर्ष प्रसव करती है, तो सरलता से खरीदने में
प्रवृत्ति होती है । वैसे ही 'उदम्बरो यूपो भवति' यहाँ औदुम्बरत्वरूप गुण विहित होता
है, ऊर्क और अदुम्बर वाक्य उसी के स्तावक है ।
लोकवत्=लौकिक उक्ति के समान । इति चेत्=यदि कहा जाय । अर्थात् अर्थवाद की
सार्थकता प्रदान की जाय तो किसी तरह अनर्थकत्व नहीं रह सकता है ॥ २० ॥
न पूर्वत्वात् ॥ १.२.२१ ॥
शा० भा०—नैतदेवम् । लोके विदितपूर्वा अर्था उच्यन्ते बहुक्षीरादयः। तेषां
विज्ञानमेव न प्रयोजनम् । अतः प्रशंसा गम्यते । अविदितवादे न श्रद्दधीरन्पूर्व-
वचनादिव । विदितत्वादेव च प्ररोचयन्ते । वैदिकेषु पुनर्यदि विधिशब्देन न
प्ररोच्यन्ते, नतरामर्थवादेन । जाताशङ्को हि विधिशब्दे स तदानीम् । अथ विधि-
शब्देन प्ररोचितः, किमर्थवादशब्देन, अपि च वेदे व्यक्तमसंवादः, ऊर्गोऽवरुद्ध्यै
इत्यप्रसिद्धं वचनम्, ऊर्ध्वा उदुम्बर इति हेतुत्वं चाप्रसिद्धम् । यस्मादूर्गुदुम्बरः
तस्मात्तन्मयो यूपः कर्तव्य इत्यूर्गुदुम्बर इत्यनृतवचनादन्यदस्यानृतमिति परि-
कल्प्येत ॥ २१ ॥
२१ ] प्रथमाध्याये द्वितीयपादः १४३
भा० वि०—न पूर्वत्वादित्यत्र नञर्थं दर्शयन् दृष्टान्तवैषम्यं प्रतिजानीते—
नैतदिति । वैषम्यं दर्शयन् पूर्वत्वादिति व्याचष्टे—लोक इति । मानान्तरा-
वगताथर्त्वेन बहुक्षीरादिवाक्यानामप्रमापकत्वात् प्रशंसार्थता युक्तेत्यर्थः, वेदे
त्वविदितवादत्वादूर्जोवरुध्या इत्यादेर्न प्रशंसार्थतेत्याह—अविदितेति । पूर्व-
वचनादिव—वैदिकविध्युद्देशादिवेत्यर्थः । न च वसन्तादिवाक्ये विध्युद्देशादेव
स्तुतेरङ्गीकारात् कथमश्रद्धेति वाच्यम् । तत्रापि कल्पितेनैव स्तुतिपदेन प्ररोच-
नाङ्गीकारादिति भावः । विदितत्वाद्बहुक्षीरादयः प्ररोचयन्त इत्येतदुपपादयति—
विदितत्वादेवेति । नोक्तिमात्रेण, तथा सति विसंवादेऽपि प्ररोचनाप्रसङ्गा-
दिति भावः ।
ननु वेदेऽपि विधितः प्रवृत्त्यवगमात् तत्समभिव्याहृतानामर्थवादानां ताद-
र्थ्येन विधिसंभवादेव प्ररोचनार्थत्वं संभवतीत्यत आह—वैदिकेष्विति । न तरा-
मर्थवादेन प्ररोचयिष्यत इत्यत्र हेतुमाह—जाताशङ्को हीति । यो हि साक्षात्प्र-
वर्तकं विधिमुल्लङ्घ्यार्थवादं प्रवृत्त्यङ्गतया प्रार्थयते । स कथं विधावविस्रब्धोऽ-
र्थवादे प्रत्ययं कुर्यादिति भावः । यदि विधेरेव प्रवर्तकत्वसिद्धये प्ररोचकत्व-
मपीष्यते तत्राह—अथेति । एवमविदितपूर्वत्वादूर्गवरोधादीनां न प्रशंसार्थत्व-
मिति सूत्रं व्याख्यायान्यथाविदितपूर्वादपि न तदर्थतेति व्याचष्टे—अपि चेति ।
संवादविरुद्धोऽसंवादः विसंवाद इति यावत् । विसंवादमुपपादयति—ऊर्जोवरुध्या
इति । अप्रसिद्धत्वं योग्यानुपलब्धिविषयत्वम्, वर्तमानेनोर्गवरोधेन हि स्तुतिः,
तस्य चानुपलब्धेः अनुपलब्धिविरोध इति भावः । स्तुतिवाक्ये विसंवादमुक्त्वा
हेतुवाक्येऽपि तमाह-ऊर्ग् वा उदुम्बर इतीति । न ह्यूर्क् च्छन्दाभिधेयमन्नत्वमभक्ष्ये
वृक्षे पक्षधर्मत्वेन प्रसिद्धम्, नापि यत्रान्नत्वम् तत्र यूपत्वमिति अन्वयप्रसिद्धिः, तेन
हेतुत्वाप्रसिद्धिरित्यर्थः, हेत्वसिद्ध्या साध्यासिद्धिमाह—यस्मादिति । ऊर्गदुम्बर
इत्यनृतवचनाद्यदन्यत् साध्यं यस्मादूर्गुदुम्बरस्तस्मात्तन्मय उदुम्बरमयो यूपः
कर्तव्य इति । तदप्यनृतं परिकल्प्येतेति योजना ॥ २१ ॥
त० वा०—नायं दृष्टान्तः । स्तुतेः प्रमाणान्तरावगत्यपेक्षत्वाल्लोके तत्संभ-
वादुपपत्तिः । वेदे त्वविदितवादत्वान्न श्रद्दधीरन् । अथ वा लोक एव यद्यविदितं
कश्चिद्वदेत्तदा नैव श्रद्दधीरन् । पूर्ववचनादिवेति । विध्युद्देशादिव । अथ वा
वैधर्म्योपमा । यथाऽधिगतपूर्ववचने श्रद्दधते नैवमविदितवादे । न चोक्तिमात्रेणैते
बहुक्षीरादयः प्ररोचयन्ते । किं तर्हि । विदितत्वादेव । वेदे त्वर्थवादासत्यत्वेन
विधौ जाताशङ्को न प्रवर्तेत ।
अथ वा यो विधिमुत्क्रम्यार्थवादं प्रार्थयते नूनमस्य विधावविश्रम्भः । तत्र
चेदनाश्वासोऽर्थवादे कुतः प्रत्यय इति । अपि च व्यक्तमसंवादो वर्तमाने । नोर्जोऽ-
१४४ मीमांसादर्शनम् [ सू०
वरोधनेनेयं स्तुतिर्न च तदस्ति। तत्राविद्यमानबहुक्षीरसंकीर्तनवदेतत्स्यात् स्व-
रूपतस्तावदुदुम्बरेऽन्नत्वं पक्षधर्मेणाप्रसिद्धम्। अन्वयाप्रसिद्धेश्च हेतुत्वाप्रसिद्धिः !
न हि यद्यदन्नम्, स स यूप इति लोके वेदे वा प्रसिद्धमित्यसंबद्धम्। तस्मादसंवा-
दाद्वरं विधिरेव, किं स्तुत्या संवादापेक्षिण्येति ॥ २१ ॥
न्या० सु०—नैतदेवमिति भाष्यं व्याचष्टे—नायमिति। लोके इति भाष्यं व्याचष्टे—
स्तुतेरिति। अविदित इति भाष्यं द्वेधा व्याचष्टे—वेदे स्थित्विति। पूर्ववचनादिवेति।
भाष्यं पूर्ववदेव द्वेधा व्याचष्टे—पूर्वेति। विदितत्वादेवेति भाष्यं व्याचष्टे—न चेति।
वैदिकेष्विति भाष्यं जाताशङ्कत्वं द्विधोपपादयन् व्याचष्टे—वेदे स्थित्विति। न लौकिकी
स्तुतिर्विरुद्धा, प्रमाणान्तरेणास्याविदितपूर्वत्वादिति, वैदिकायाः स्तुतेः दार्ष्टान्तिकत्वनिरा-
करणपरतया सूत्रव्याख्यानार्थमपि चेति भाष्यं व्याचष्टे—अपि चेति। अधर्मशब्दवद्वि-
रुद्धवचनेनासंवादशब्देन विसंवादोऽभिप्रेतः। विसंवादोपपादनाथंमुज्जॉवरुद्ध्या इति
भाष्यं व्याचष्टे—वर्त्तमानेनेति। स्तुतौ स्वार्थसत्यत्वानादरत्वस्योक्तत्वादिसंवादेऽपि
स्तुतिनिर्वाहमाशङ्क्य विदितत्वादित्येतद्भाष्योक्तलौकिकस्तुतिविषयस्वार्थसत्यत्वादर-
न्यायेनात्रापि पूर्वपक्षे स्थित्वा तदादरमाह—तत्रेति।
ऊगुंदुम्बर इति भाष्यं व्याचष्टे—स्वरूपत इति। ऊक्शब्दाभिधेयमन्नत्वं भवत्पक्षे
पक्षधर्मत्वेनाप्रसिद्धम्। तस्य चाप्रसिद्ध्या यूपप्रकृतित्वेनौदुम्बरो यूपो भवतीत्यप्रसिद्धम्।
अन्वयाप्रसिद्धिमेवोपपादयति—न हीति। पक्षधर्मत्वसूचितहेतुत्वान्यथानुपपत्तिकल्पितं
यद्यदन्नं स स यूप इत्यन्वयवाक्यमङ्गीकृत्यैतदुक्तम्। हेतुत्वाप्रसिद्ध्या साध्याप्रसिद्धिप्रति-
पादनार्थं तस्मादिति भाष्यम्। ऊर्गुदुम्बर इत्यनुतवचनादन्यदप्यस्य तत्साध्यं यस्मादूर्गु-
दुम्बरः, तस्मात्तन्मयो यूपः कर्त्तव्य इति, तदप्यमृतमिति सुयोजत्वान्न व्याख्यातं विसंवा-
दाभिधानस्य प्रकृतोपयोगमाह—तस्मादिति ॥२१॥
भा० प्र०—लौकिक वचन प्रत्यक्ष आदि प्रमाणों से गम्य रहने पर ही उसमें
विश्वास किया जाता है। विक्रय योग्य गौ आदि के प्रशंसा-सूचक-वाक्य वक्ता एवं क्रेता
को पूर्व से ही विदित रहता है। जाने हुए का ज्ञान निरर्थक है। इसीलिए उसकी प्रशंसा
की जाती है। किन्तु वेदवाक्य का वचन अन्य प्रमाण से प्रमाणयुक्त नहीं है अर्थात् गम्य
नहीं है और प्रमाणान्तर विरुद्ध होने पर भी प्रमाण नहीं होगा। इस स्थल में उदुम्बर
का अन्न-सम्पादकत्व प्रमाणान्तरगम्य नहीं है। इसी प्रकार ऊर्ग्व वा (वै) उदुम्बरः।
इस स्थल में 'वै' शब्द के द्वारा उदुम्बर की अन्न के प्रति हेतुता भी जो कही गई है,
वह प्रमाणान्तर से गम्य नहीं है। अतः, उसका अब्याहत प्रामाण्य मानने के लिए उसको
विधि ही मानना होगा, क्योंकि, विधि ही स्वार्थ में प्रमाण है अर्थवाद स्वार्थ में तात्पर्य-
रहित रहता है, इसीलिए, स्वार्थ में प्रमाणविहीन होने से अर्थवाद नहीं हो सकता है।
२२ ] प्रथमाध्याये द्वितीयपादः १४५
'न'=नहीं । इस प्रकार की आशङ्का या उक्ति सङ्गत नहीं है । 'पूर्वत्वात्' क्योंकि
लौकिक उक्ति पूर्वं अर्थात् प्रत्यक्ष आदि अन्य प्रमाणों से अवगत या अवगत होने की
योग्यता से सम्पन्न है ॥ २१ ॥
उक्तं तु वाक्यशेषत्वम् ॥ १.२.२२ ॥
शा० भा०—उक्तमस्माभिर्वाक्यशेषत्वं—विधिना त्वेकवाक्यत्वादिति ।
नतूक्तं—फलवचनमिह गम्यते, न स्तुतिरिति । यदिह फलवचनम्, तदौदुम्बरस्य
यूपस्य । न चाविहित औदुम्बरो यूपोऽस्ति । तत्र फलवचनमेवानर्थकम् ।
स्तुतिवचनः शब्दो नास्तीति चेत् ? इह फलवचनेन फलवत्ता प्रतीयते, फलवांश्च
प्रशस्त इति । तत्र फलवत्तायामानर्थक्यमिति, यो द्वितीयोऽर्थः प्रशंसा नाम, स
गम्यते । लक्षणेति चेत् । लक्षणायामप्यर्थवत्ता भवत्येव । लक्षणाऽपि हि लौकिकी ।
नतूक्तमसंवादो वेदे, न ह्य ृगुंदुम्बर इति । गुणवादेन परोचनार्थतां ब्रूमहे । गौण-
त्वात्संवादः । किं सादृश्यम् । यथाऽन्नं प्रीतेः साधनमेवमिदमपि प्रीतिसाधनशक्ति-
युक्तं प्रशंसावाचिना प्रीतिसाधनशब्देनोच्यते । शक्यते हि तत्पक्वफलसम्बन्धा-
दूर्गिति वक्तुम् ॥ २२ ॥
भा० वि०—यदुक्तं ह्यानर्थकमिति तत्राह—उक्तं तु वाक्यशेषत्वम् । तु
शब्दः पक्षव्यावर्तकः, विधिना त्वेकवाक्यत्वादिति सूत्रेणार्थवादानां स्तुतिद्वारक-
परोचनया विधिवाक्यशेषत्वस्यास्माभिरुक्तत्वात्, नानर्थक्यमिति सूत्रं योजयति—
उक्तमस्माभिरिति । एवं स्तुतिद्वारा विध्यङ्गत्वप्रतिपादनेन अपूर्वत्वहेतोराद्यं
व्याख्यानं दूषयित्वेदानीं स्तुतिद्वारविध्यङ्गत्वं युक्तं फलस्य श्रूयमाणत्वादिति
व्याख्यान्तरमनुवदति—नतूक्तमिति । गम्यमानमपि फलवचनमानर्थक्यभयादन्य-
विषयं वक्तव्यमिति दूषयति—यदिहेति । ततः किमत आह—न चेति । पशु-
यागाङ्गतया विहितयूपशेषत्वादौदुम्बरस्य यूपस्य नासावविहितोऽस्तीत्यर्थः ।
ननु तर्हि विहितस्यौदुम्बरस्य यूपस्योर्गविरोधः फलं भविष्यतीत्यत्राह—
तत्रेति । प्रकरणादेव यागोपकारप्रयोजनलाभात् फलान्तरोक्तिरनर्थिकैवेत्यर्थः ।
यदि वा न चेत्यादेरयमर्थः—औदुम्बरो यूपो भवतीति वर्तमानापदेशत्वादर्थ-
वादेन विधिर्नेयः, अनर्थवादत्वे त्वविहितत्वान्नास्त्येव यूपः तथा सति फल-
वचनमेवानर्थकमिति ।
ननु स्तुतिरित्यश्रूयमाणत्वादनादेयेति शङ्कते—स्तुतीति । वाचकशब्दा-
भावेऽपि स्तुत्यवगतिं दर्शयन् फलवचनसिद्धमर्थं कथयति—इहेति । फलवत्ता
औदुम्बरयूपस्य प्रशस्ता इति प्रतीयत इत्यनुषङ्गः ।
१०