सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

सूत्रं तु सूचनात्तेषां स्वयं कल्पप्रयोजकम् ।

४५४ मीमांसादर्शनम् [ सू०
ते कल्पा लक्षणार्थानि सूत्राणीति प्रचक्षते ।
कल्पनाद्धि प्रयोगाणां कल्पोऽनुष्ठानसाधनम् ॥ ५०४
सूत्रं तु सूचनात्तेषां स्वयं कल्पप्रयोजकम् ।
कल्पाः पठितसिद्धा हि प्रयोगाणां प्रतिक्रतु ॥ ५०५
बौधायनीय-वाराह-माशकादिप्रबन्धवत् ।
स्वसंज्ञापरिभाषाभिर्युत्सर्गपवादनम् ॥ ५०६
हेतुदृष्टान्तवत्सूत्रं तल्लक्ष्यव्यापि लक्षणम् ।
आश्वलायनकं सूत्रं¹ वैजवापिकृतं तथा ॥ ५०७
द्राह्मायणीयलाटीयकात्यायनकृतानि च ।
तत्र सकलप्रत्यक्षवेदप्रतिपाद्यक्रतूपयोगोपनिबन्धनादन्तर्हितविप्रकीर्णानुमेय-
प्रायश्रुतिमूलस्मृतिबन्धनेभ्यो महानेव कल्पसूत्राणां विशेषोऽस्तीति, न तत्
तद्गतन्यायं व्यवस्थाप्य प्रामाण्यानि विज्ञायन्ते ।
अप्रामाण्यं स्मृतीनां च यदशब्दतयोदितम् ।
पूर्वपक्षे न तद्वक्तुं कल्पसूत्रेषु शक्यते ॥ ५०८
प्रत्यक्षवेदशब्दत्वात्तदुक्ता नापशब्दता ।
न ह्यत्यन्तानृतं वक्तुं शक्यते पूर्वपक्षिणा ॥ ५०९
स्मृत्यधिकरणे चाप्रमाणत्वं मूलानुपपत्त्या पूर्वपक्षेऽभिधाय, सिद्धान्तेऽनुमि-
तश्रुतिमूलत्वेन प्रामाण्यं स्थापितम् । एतानि च न तत्रोदाहृतानि, पूर्वपक्षहेत्वसं-
भवात् । न चैषामिह प्रामाण्यप्रतिपादनम्² । अतिरिक्तप्रामाण्यापवादप्रतिपादार्ह-
त्वादधिकरणस्य ।
यद्वा भवतु नामैषां तस्मिन्नपि विचारणा ।
तेषां चात्रापि सर्वेषामिति प्रामाण्यवारणा ॥ ५१०
यदि धर्मं प्रति स्मृतीनां प्रामाण्यमभ्युपगम्यते । तथा सति ।
तासामपि हि वेदत्वे तैर्वा तुल्यप्रमाणता ।
स्वातन्त्र्याच्छक्यते वक्तुं न तु मूलानुमानतः ॥ ५११
यद्वा प्रयोगशास्त्रत्वमङ्गानामभिधीयते ।
वेदत्वं वा षडङ्गेऽपि वेदत्वस्मृतिरस्ति हि ॥ ५१२
'मन्त्रब्राह्मणयोर्वेद इति नामधेयम्, षडङ्गमेके' इत्याङ्गान्यपि वेदशब्दवा-
च्यानि स्मर्यन्ते ।
तस्मात्तान्यपि वेदा³ वा प्रमाणानि स्वतोऽथ वा ।
प्रतिभान्तीति कर्तव्यमन्यथा प्रतिपादनम् ॥ ५१३
१. वैजावापि पु० पा० । २. क प्रामाण्याप्रति । ३. क. वेदो ।

११ ] प्रथमाध्याये तृतीयपादः ४५५
यद्वा शाक्यादिशास्त्राणां स्मृतिशास्त्रत्ववारणात् ।
वेदशाखासमानत्वमाशङ्क्येह निवार्यते ॥ ५१४
शाक्यादयोऽपि ह्येवं वदन्त्येव । यथा ‘उत्पादाद्वा तथागतानामनुत्पादाद्वा
स्थितैवेयं धर्मनित्यता’ इति ।
ततश्च वेदवन्नित्यास्तेऽपि चेदागमा मताः ।
चोदनालक्षणो धर्मस्तदुक्तोऽपि प्रसज्यते ॥ ५१५
कामं न प्रविशेद् ग्रामं वारितो दण्डपाणिभिः ।
स्पष्टं महापथेनेव संप्रति प्रविविक्षति ॥ ५१६
एवमेतानि चत्वार्यपि विचारस्थानान्येकमार्गपतितानि कल्पसूत्रविचारेणैव
गतप्रायाणि भविष्यन्तीति मन्वानेन तदुपन्यासमात्रमेव क्रियते ।
का गतिः कल्पसूत्राणामित्यस्मिन् संशये सति ।
प्रयोगशास्त्रतां तावत् प्राह स्म त्यक्तसंशयम् ॥ ५१७
वेदत्वं कल्पसूत्राणां न मोक्तव्यं मनागपि ।
यदि वा वेदतुल्यत्वं स्वतन्त्राणां प्रतीयताम् ॥ ५१८
वेदेनैवाभ्यनुज्ञाता धर्मे तेषां प्रमाणता ।
वेदत्वमेव वा सिद्धं संवादादिप्रमाणकम् ॥ ५१९
ननु च पौरुषेयत्वादेषामेतदुभयमप्यनुपपन्नम् ।
नैतेषां पौरुषेयत्वं भविष्यति हि वेदवत् ।
माशकादिसमाख्या हि प्रोक्तत्वात्काठकादिवत् ॥ ५२०
यथैव काठादिप्रोक्ताः शाखाः काठकादिसमाख्ययाऽभिधीयन्त इत्यकृत्रिमाः१
स्थापिताः तथैव वेदसमाम्नातमाशकादिसमाख्यातग्रन्थनित्यतापि प्रत्येत्तव्या । यथा
सामसूक्तानामिदमस्याऽऽर्षमिदमस्येति सत्यामपि तन्निमित्तायां समाख्यायां न
नित्यत्वप्रतिघातः । एवं प्रख्यातर्षिप्रणीकल्पसूत्रग्रन्थानामपि ।
तथा हि—
न तावदृषिः कश्चित्स्मर्यते कल्पसूत्रकृत् ।
कर्तृत्वं यदृषीणां तु तत्सर्वं मन्त्रकृत्समम् ॥ ५२१
यथा शैशवं भवति, शिशुर्वा अङ्गि॒रसो मन्त्रकृतां मन्त्रकृदासीदित्यत्र
मन्त्रकृच्छब्दः प्रयोक्तरि प्रयुक्तः । एवं तस्य तस्य कल्पस्य, सूत्रस्य वा प्रयोक्तार-
स्तत्कारित्वेन व्यपदेक्ष्यन्ते । ब्रह्मयज्ञविधाने च ‘एवं विद्वान् स्वाध्यायमधीयीत’
इत्युक्त्वा तत्प्रपञ्चे ‘यद‍ृचोऽधीते, यद्यजूंषि, यत्सामानि, यद् ब्राह्मणानि
१. क. त्यकृत्रिमास्थापिता ।

४५६ मीमांसादर्शनम् [ सू०
यदितिहासपुराणानि, यत्कल्पान्' इति तज्जप्यमानत्वेन विधानादार्षत्वमेव
विज्ञायते । पुरुषकृतानां जपनिमित्तधर्महेतुत्वेन नित्यविधिविषयत्वासम्भवात् ।
अरुणपराशरशाखाब्राह्मणस्य च कल्परूपत्वात्सर्वयाज्ञिकैश्च स्वशाखाधीतव्यति-
रिक्तकल्पसूत्रकारोपन्यस्तपक्षतुल्यबलत्वाध्यवसानात्कल्पजमन्त्राणां चेतरसमाम्ना-
याधीतवत्क्रतुविनियोगाश्रयणात् तुल्यत्वम् ।
आर्षेयवचनं नित्यपर्यायत्वेन गम्यते ।
आर्षेयत्वप्रसिद्धिश्च कल्पसूत्रेष्ववस्थिता ॥ ५२२
उक्तेऽर्थे सूत्रकारवचनम्
लाटद्राह्मायणसूत्रकाराभ्यामपि च दृढकल्पप्रामाण्यापेक्षयेदं माशकमपेक्ष्य
'तत्प्रत्यक्षविहितं चाऽऽर्षंकल्पेन तत्रानुमानं न विद्यते' इति ब्राह्मणविहितादप्यार्ष-
कल्पविहितगरीयस्त्वमङ्गीकृत्योक्तम् ।
उक्तार्थदार्थ्याय कात्यायनवचनोपन्यासः
कात्यायनेन च कृतासामविशेषलक्षणसूत्रप्रणयनप्रक्रमेऽभिहितं यज्ञविषय-
ब्राह्मणगतस्तोत्रविधिवाक्यशेषे यथा 'माशकमुपलक्षणं तत्प्रामाण्यात्करिष्यते,
न तन्निरपेक्षशुद्धब्राह्मणप्रामाण्यादि'ति । तथा च प्रायणीयाग्निष्टोमसाम्नि
यज्ञायज्ञीयेन सह वैकल्पिकं जराबोधीयमग्निष्टोमसाम कार्यमिति पञ्चविंश-
ब्राह्मणेऽभिहितमपि, माशकानुवृत्त्या कात्यायनेनाऽऽर्भवोयगायत्रतृतीयत्वेन
जरासादिति लक्षितम्। आर्भवगीयगायत्रीगतगायत्रानन्तरसाम्नो हि तेन समिति
संज्ञा कृता । तस्माच्च परत्वेन पदैकदेशप्रयोगेण जराबोधीयमुक्तं ठेशब्देन च
ज्योतिष्टोमकाग्निष्टोमसामसंज्ञाभूतेन यज्ञायज्ञीयमेवाग्निष्टोमसामत्वेन नियतम् ।
यदि च कल्पाद् ब्राह्मणमतिरिक्तं कात्यायनोऽमंस्यत, ततः प्रत्यक्षब्राह्मणदृष्टं
विकल्पमेवावक्ष्यत् ।
बहुवेदगतन्यायविवेकज्ञो यदब्रवीत् ।
कात्यायनो न तद्वाच्यमन्याय्यमिति मादृशैः ॥ ५२३
आचार्यवचनानां च प्रामाण्यं श्रूयते श्रुतौ ।
अङ्गानां च प्रणेतार आचार्या ऋषयो मताः ॥ ५२४
यथा च सर्वशाखानां संवादात्तुल्यकल्पता ।
तथैव कल्पसूत्राणामिति प्रामाण्यतुल्यता ॥ ५२५
यान्यप्यप्रत्ययितपुरुषवचनानि प्रमाणान्तरसङ्गतार्थानि भवन्ति, तान्यपि
सत्यत्वेनावधार्यन्ते, किमङ्ग पुनः सत्यवाचां वचनानि ?
सत्यवाचां च वाक्यानि वैदिकैः सङ्गतानि च ।
ज्ञातसत्यानि तान्येवं कोऽन्यथा कल्पयिष्यति ॥ ५२६

११ ] प्रथमाध्याये तृतीयपादः ४५७
अपि च—वेदादृतेऽपि कुर्वन्ति कल्पैः कर्माणि याज्ञिकाः ।
न तु कल्पैर्विना केचिन्मन्त्रब्राह्मणमात्रकात् ॥ ५२७
तुल्यं च साम्प्रदायिकम्, स्वाध्यायाध्ययनविधिवचनं प्राग्दर्शितम्
कल्पग्रहणात् ।
अथ वा संप्रदातॄणामध्येतॄणां च यादृशः ।
मन्त्रब्राह्मणयोर्यत्नः कल्पसूत्रेषु तादृशः ॥ ५२८
१अनुयोगेषु वेदानां घटिकामार्गवृत्तिषु ।
न कल्पसूत्रहीनानां लभ्यते कृत्स्नवेदता ॥ ५२९
तस्मात्कर्मप्रयोगाणां शास्त्रमेतदतिस्फुटम् ।
वेदो वा वेदतुल्यं वा कल्पसूत्राद्यसंशयम् ॥ ५३०
एतेन धर्मशास्त्राणामङ्गानां चापि वेदता२ ।
तत्तुल्यताऽपि वा वाच्या सर्वेषां सर्वहेतुभिः ॥ ५३१
धर्मशास्त्रपदं येषु सर्वकालं प्रयुज्यते ।
प्रयोगशास्त्रतां तेषां वेदज्ञः को हरिष्यति ॥ ५३२
अपि चाङ्गानि वेदाश्च धर्मशास्त्रं च तुल्यवत् ।
विद्यास्थानानि गण्यन्ते सर्वदा वेदवादिभिः ॥ ५३३
किं च—कर्मणां ब्राह्मणोक्तानां यथा मन्त्राः प्रकाशकाः ।
अष्टकापार्वणादीनां दृश्यन्ते ते तथैव हि ॥ ५३४
तथाऽवकीर्णियागादि कृच्छ्रचान्द्रायणादि वा ।
वेदमन्त्रप्रकाश्यं तत्स्यात् कथमवैदिकम् ॥ ५३५
सिद्धवद्विशिखत्वादि यच्च मन्त्रैरनूद्यते ।
चौलोपनयनप्राप्तं तत्स्यात्कथमवैदिकम् ॥ ५३६
एवं च वेदमूलत्वं किमेषामनुमीयते ।
संभवत्येव वेदत्वे नित्यत्वे चापि तत्समे ॥ ५३७
वेदं हि कल्पयित्वेभ्यः पुनस्तस्यापि नित्यता ।
वक्तव्यैव वरं तेन सा तेष्वेवावधारिता ॥ ५३८
१. वेदकौशलजिज्ञासार्थं तत्तद्वेदभागचिह्नलेख्यनि घटिकायां कुम्भाख्यायां निक्षिप्य
तत्तद्वेदभागपरीक्षाकाले ताभ्याकृष्य आकृष्टलेख्यचिह्नितं पठन्त्यध्येतारो न पुञ्जत इति
घटिकामार्गवर्तिनोऽनुयोगाः इति ।
२. (क) देवता ( अयं प्रामादिकः पाठः )

४५८ मीमांसादर्शनम् [ ० सू
सिद्धानां नित्यतैवैका सुबोधा वेदताऽपि वा ।
असंशयितवेदार्थविषयत्वात्प्रकल्प्यते ॥ ५३९
तस्माद्वर्षसहस्रेऽपि यस्य न ज्ञायतेऽवधिः ।
न तत्कृतकतां लब्ध्वा लभते नित्यमूलताम् ॥ ५४०
यान्येव धर्मशास्त्राणां मूलवाक्यानि मन्यसे ।
तान्येवैतानि पठ्यन्त इत्येतत्कल्पितं वरम् ॥ ५४१
मन्वादिभिरवश्यं च स्वग्रन्थप्रतिपादने ।
तान्युपन्यसनीयानि शिष्याणां वेदवादिनाम् ॥ ५४२
तेन तान्येव तैरेभ्यः संप्रत्तानीति गम्यते ।
के हि तेषूपलब्धेषु गृह्णीयुः प्रतिकञ्चुकान् ॥ ५४३
यथा च धर्मशास्त्राणां नाद्यत्वे प्रतिकञ्चुकाः ।
ग्राह्यास्तथा पुराऽप्यासन्न वेदप्रतिकञ्चुकाः ॥ ५४४
सम्प्रदायविनाशाच्चेद्गीतेस्तदसमर्पणम् ।
मन्वादिष्वनुमीयेत स्वग्रन्थाकरणं तथा ॥ ५४५
वेदवाक्यार्पणं येषां खण्डशो नाभिसंमतम् ।
स्वग्रन्थकरणं तेषां वेदस्थाने कथं भवेत् ॥ ५४६
वेदादेव च विज्ञातो वेदार्थः साधयेत्फलम् ।
नान्यस्मात्पुरुषग्रन्थान्मन्त्राभासात्स्मृतो यथा ॥ ५४७
कृता मन्वादिभिर्यद्वन्न मन्त्रप्रतिकञ्चुकाः ।
न ह्येतेन स्मृतं कर्म सिध्यतीत्यवधारणात् ॥ ५४८
तथैव तैर्न कर्तव्या ब्राह्मणप्रतिकञ्चुकाः ।
नावेदविहितं कर्म फलतीति हि निश्चितम् ॥ ५४९
न चैभिर्भिन्नदेशस्थवेदवाक्यसमुच्चयः ।
कृत इत्यवगन्तव्यमीदृक् ग्रन्थावधारणात् ॥ ५५०
ईदृगेवं क्रमश्चायं वेदग्रन्थ इतीदृशी ।
युज्यते हि मतिः कर्तुं न मूलान्तरकल्पना ॥ ५५१
तेन प्रयोगशास्त्रत्वं तदैवाऽऽपतितं बलात् ।
धर्मं प्रत्यप्रमाणत्वं यदैवैषां न संमतम् ॥ ५५२
चोदनालणे धर्मे पूर्वमेवावधारिते ।
अवेदस्य प्रमाणत्वं ब्राह्मणस्यापि नेष्यते ॥ ५५३
तेनैषां धर्मशास्त्राणां न वा धर्मोपयोगिता ।
वेदता वाऽभ्युपेतव्या गतिर्नास्त्यान्तरालिकी ॥ ५५४

११ ] प्रथमाध्याये तृतीयपादः ४५९
वदन्ति धर्ममेतानि चोदना गमयन्ति च ।
अशक्यमीदृशं वक्तुं यावदुक्तप्रमाणकैः ॥ ५५५
उक्तमर्थं परित्यज्य यदनुक्तं प्रतीयते ।
अनुक्तेन च सोऽप्यर्थ इति किं नोपपद्यते ॥ ५५६
तस्माद्धर्मप्रयोगस्य साक्षादुक्तस्य तत्स्वयम् ।
प्रमाणं धर्मशास्त्रं स्यान्न वेदव्यवधानवत् १ ॥ ५५७
शाक्यादिनिर्मिते धर्मशास्त्राभासे निराकृते ।
शाक्यग्रन्थानां वेदवत्स्वातन्त्र्येण प्रमाण्यमितिपक्षः
धर्मप्रयोगशास्त्रत्वं तस्य वेदमिहोच्यते ॥ ५५९
येनैवाकृतकत्वं हि वेदस्य प्रतिपाद्यते ।
न्यायेन तेन शाक्यादिग्रन्थस्यापि भविष्यति ॥ ५५९
बोधकत्वात्प्रमाणत्वं स्वतस्तस्यापि लभ्यते ।
न च संदिह्यते बुद्धिर्न विपर्य्यते क्वचित् ॥ ५६०
अकर्तृकतया नापि कर्तृदोषेण दुष्यति ।
वेदवद् बुद्धवाक्यादिकर्तृस्मरणवर्जनात् ॥ ५६१
बुद्धवाक्यसमाख्याऽपि प्रवक्तृत्वनिबन्धना ।
तद्द्रष्टृत्वनिमित्ता वा काठकाङ्गिरसादिवत् ॥ ५६२
यावदेवोदितं किंचिद्वेदप्रामाण्यसिद्धये ।
तत्सर्वं बुद्धवाक्यानामतिदेशेन गम्यते ॥ ५६३
तेन प्रयोगशास्त्रत्वं यथा वेदस्य संमतम् ।
तथैव बुद्धशस्त्रादेर्वक्तुं मीमांसकोऽर्हति ॥ इति ॥ ११ ॥ ५६४
न्या० सु०—अनुमानादित्यादिभाष्यात्स्मृत्याचाराणां किं व्यवस्थया प्रामाण्यम-
व्यवस्थाया वेति चिन्ता प्रतिभाति । तत्र प्रमाणस्य तावदालोकवत्सर्वपुरुषसाधारण्यान्न
व्यवस्थाशङ्कोपपत्तिमती । अथ स्मृत्याचारमूलभूता श्रुतिः किं व्यवस्थितविषया सर्वविषया
वेत्यभिप्रायः । तथाऽप्यष्टकादिस्मृतीनां प्रदीपाद्याचाराणां च व्यवस्थितविषयमूलाथशङ्का
निर्बीजैव मूलविशेषविषयचिन्तात्वाच्च स्मृत्यधिकरणानन्तरं सङ्गच्छेत । तस्माद्द्होलाका-
दयः प्राच्यैरेवेत्यादिभाष्यात्त्वधिकारिव्यवस्था सदसद्भावाचिन्ता । सा च प्रमाणेन लक्षणे-
न सङ्गतेत्याशङ्कयाह—देशधर्मानिति ।
१. व्यवधानतः पु० पाठः ।