सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

प्रकरणाच्च यागोपकारे प्रयोजने लभ्यमाने किमित्यवाचकात्फलं कल्पयिष्यामः ।

१४६ मीमांसादर्शनम् [ सू०
ननु फलवत्ताप्राशस्त्ययोरवगमे किमिति । प्राशस्त्यपरत्वाग्रहस्तत्राह-
तत्रेति । द्वितीयोऽर्थः फलवत्तया लक्ष्यमाणः अवगम्यते=तात्पर्येण प्रतिपाद्यते
नाभिनिवेशमात्रात् प्राशस्त्यपरत्वाभ्युपगमः; किन्त्वानर्थक्यभयादिति भावः ।
नन्वेवमपि लक्षणया स्तुतिर्गम्यते श्रुतिश्च लक्ष्णया गरीयसीत्युक्तमनुवदति-
लक्षणयेति । लक्षणयाप्यर्थवत्त्वसम्भवेन श्रुतिलोभादानर्थक्यमाश्रयणीयमिति दूष-
यति-लक्षणायामिति । दृष्टा च मुख्यार्थासंभवे गङ्गायां घोष इत्यादौ लक्षणे-
त्याह-लक्षणापीति । एवमूर्जोऽवरुध्याः इत्यादेः प्रधानफलानुवादेनौदुम्बरीयूप-
स्तुत्यर्थत्वेनाविदितपूर्वत्वं दूषयित्वा, न पूर्वत्वादिति सूत्रात् द्वितीयवर्णकोक्तं
वदति-नतूक्तमिति । ऊर्जोवरुध्या इति तावदङ्गे प्रधानगामिफलोपचार श्रुत्यर्थ-
त्वेनाभिमतः तेनानुपलब्धिविरोधः पूर्णहुतिन्यायेन परिहृत एवेत्याह-नन्विति ।
यदुक्तमूर्गुदुम्बर इति हेतुत्वं चाप्रसिद्धमिति, तदपि न, गौणतया तत्सिद्धेरि-
त्याह-ऊर्गिति । गुणः । सादृश्यम् ।
नन्वग्निमाणवकवदन्नयूपयोर्न सादृश्यमिति चोदयति-किमिति । प्रीति-
साधनत्वं सादृश्यमित्याह-यथेति । इदमपि=उदुम्बरवस्त्वपि, प्रीतिसाधनत्व-
मप्युदुम्बरवृक्षस्याभक्ष्यत्वान्नास्तीत्याशङ्क्याह-तदिति । प्रीतिसाधनोदुम्बर-
फलोत्पादनशक्तियुक्तत्वादुपचारात् प्रशंसावाचिना प्रीतिसाधनवाचिनान्नशब्दे-
नोच्यते प्रशंसितुमित्यर्थः सोऽयं-विवृतश्शक्यते हीति ॥ २२ ॥
त० वा०-ऊर्गुदुम्बर इत्यादि तावदूर्जोऽवरुद्ध्या इत्यस्योपपत्तितयैकवाक्य-
भूतं न विच्छिन्नं स्तावकम् । न ह्यन्नमुदुम्बर इत्युक्ते पुरुषं प्रति प्रशस्तता
गम्यते । ऊर्जोऽवरुद्ध्या इति तु प्ररोचयति । तदुपपत्तिरितरेति संगच्छते ।
तस्मात्कृत्स्नेन फलम्, प्ररोचना वा । तत्र यद्यपि तावल्लिङादिः स्यात् तथाऽपि
सुतरामर्थवादतया गृह्णीयात् । किमुत वर्तमानापदेशो यो विधिसिद्ध्यर्थमेव ।
प्रकरणाच्च यागोपकारे प्रयोजने लभ्यमाने किमित्यवाचकात्फलं कल्पयिष्यामः ।
प्रकरणं वाक्येन बाध्यत इति चेत् । अविरोधात् । यदि ह्येकांशग्राहित्वेन वाक्य-
प्रकरणे संनिपतेताम्, तथा सति बाधः स्यात् । इह तु प्रकरणमौदुम्बरताविधिं
गृह्णाति, सोऽप्यूर्गुदुम्बर इत्यादिलभ्यां प्ररोचनाम् । तत्र तद्विशिष्टौदुम्बरत्वग्राहिणः
प्रकरणस्य को विरोधः । तस्मात्फलविधिसामर्थ्याभावात्प्रकरणाबाधेन निवेश-
सम्भवो नातिक्रमितव्यः । प्ररोचनाऽपि च वाक्यशेषादुपपद्यमाना नार्थापत्त्या
विध्युद्देशादेव कल्पिता भविष्यति । अन्यत्र विधिरपि हि तावत्तां कल्पयेत् ।
इह तु स स्वयमेव दुःखितः किं प्ररोचनया करिष्यतीति । न च स्तुत्युपयुक्तस्य
पुनः फलेऽपि प्रतिष्ठादाविव व्यापारो युज्यते । रात्रिसत्राणां ह्यनन्यपरत्वाद्
गुर्य्यपि कल्पनाऽश्रीयते । अत्र तु प्रकरणादस्ति प्रयोजनसिद्धिरित्युक्तम् । जाति-

२२ ] प्रथमाध्याये द्वितीयपादः १४७
विशेषस्य च योग्यतयैव काष्ठाङ्गत्वं प्रसिद्धम्, न फलार्थता । यूपशब्दोऽपि च कर्मा-
विष्टकाष्ठवचन इत्युपनीतमात्रमेव गृह्णाति । अतश्च प्रसिद्धे पारार्थ्येऽर्थवादता ।
यत्तु यूपे निराकाङ्क्षो जातिं प्रतीति शरवद्बाधो भविष्यति । न
चाबाधप्रकारोऽस्ति, काम्यपक्षेऽपि तदभ्युपगमात् । एतावांस्तु विशेषः । तव
पुरुषार्थत्वाद्विन्नविषयेण सता कथञ्चित्प्रसङ्गलभ्यसमानाश्रयत्वेन, मम तूभयोः
क्रत्वर्थत्वात्समानविषयेणेति । न चात्र जातौ फलाय विधीयमानायां दध्न इव
होम आश्रयो मनसि विपरिवर्तते । यो हि पशुयागः प्रकृतः स तावदयोग्यः । पशु-
नियोजनं च यूपद्वारेण योग्यं तदपि सह यूपेनाप्रकृतम् । न चानर्थक्यात्तदङ्गेषु
इति प्रधानादवतीर्य तदङ्गमाश्रीयते । यो हि प्रधानोपकारित्वेन श्रूयते, स तद-
ङ्गेऽपि स्थित उपकरोतीत्येवं कल्प्यते, न त्विह तथा । अत्र हि प्राधान्यांशभाजा
गुणेनाश्रयः प्रार्थ्यते । तत्र प्रधानं सन्निहितं तद्यदि न योग्यं ततो वचनव्यक्त्य-
न्तरमाश्रीयताम्, न चावतरणं सम्भवति । न चानेनैव वाक्येनाऽश्रयो दीयते
वाक्यभेदप्रसङ्गात् । द्वौ हि सम्बन्धौ तदा स्यातां गुणफलसम्बन्धस्तदाश्रयसम्बन्ध-
श्चेति । युगपच्चौदुम्बरताफलयूपो प्रत्युपादीयमानोद्दिश्यमाना विरूपा स्यात् ।
अथोभयोद्देशेन विधीयते, तथाऽपि फलाननुरक्ता यूपेन सम्बध्येत यूपाननुरक्ता च
फलेन । यत्तु विनैव विधायकात्स्वेच्छयैव प्रवर्तिष्यामह इति स्वच्छन्देन सह
नास्ति विधिवादः । पुरुषार्थफलत्वं तु न प्राग्विधेः सिध्यति सन्निहिततरोदुम्बर-
त्वादिसाध्यांशावरोधात् । यत्तु प्रयोगवचनो विधास्यतीति न पुरुषार्थेषु तस्य
शक्तिः । असंयुक्तं प्रकरणादिति (जै. सू. ३.३.४) वक्ष्यति । यदि तु तेन विधीयते,
सिद्धं कर्मार्थत्वम् । पञ्चमलकाररूपं तु वर्तमानापदेशेन सन्दिग्धम् । तस्माद्वर्त-
मानफलाभिधायित्वाच्चतुर्थे चैवं कामशब्दरहितस्य फलविधित्वनिराकरणा-
त्प्रधानफलमेवेदं परोचनायै संकीर्त्यत इति युक्तम् । सर्वत्र च स्तुतिपरत्वात्तदु-
पायेषु सत्यासत्यान्वेषणं व्यर्थम् । ज्ञानमात्रौपयिकत्वात् । गुणवादेन च
संवादात् । साधनत्वेऽपि च प्रीतिसाधनत्वेन, तृप्तिहेतुत्वेन वा संवादः ॥ २२ ॥
न्या० सु०—अत्र भाष्यकृता वाक्यशेषत्वे विध्येकवाक्यत्वं हेतुमनुवदता शेषशब्दः
स्तुतिद्वाराङ्गत्वाभिप्रायो व्याख्यातः । तत्रोर्जं पशूनाप्नोतीत्येतदन्तेन स्तुतिसिद्धेरूर्जो
ऽवरुद्ध्या इत्यस्य फलपरत्वमविरुद्धमित्याशङ्कयाह - ऊर्गुदुम्बर इति । उभयसम्भवे, तर्हि
फलपरतैव कस्मान्नेष्यते अत आह—तत्रेति । यद्यप्यौदुम्बरो यूपो भवेदिति लिङ्गादि
स्यात्, तथाप्यूर्गुदुम्बर इत्यादि कृत्स्नवाक्यशेषमर्थवादतयैव गृह्णीयान्न फलपरतयेति
सावधारणं द्रष्टव्यम् । लिङादेर्विधायकत्वेनार्थवादापेक्षत्वात्सुतरामित्युक्तम् । फलाकाङ्क्षा-
निवृत्तिस्तु प्रकरणात् क्रत्वर्थत्वावगतेः सेत्स्यतीति वक्ष्यमाणोऽभिप्रायः । भवतीति तु
वर्त्तमानापदेशो न फलपरतया वाक्यशेषं ग्रहीतुं शक्त इत्याह—किमुतेति । विपूर्वस्य

१४८ मीमांसादर्शनम् [ सू०
दधातेः करोत्यर्थवाचित्वादुत्पादनं विधिशब्देनाभिप्रेतम् । तेनायमर्थः-न तावद्यावच्छ्रुतस्य
भवतीति वर्त्तमानापदेशस्य फलाकाङ्क्षा, तदन्यथानुपपत्त्या कल्पिते भावनाविधौ सत्यामपि
फलाकाङ्क्षायामौदुम्बरत्वस्वरूपोत्पादनार्थं कल्पितस्य लिङादेः तन्मात्रोपमान्न साधनत्व-
बोधे व्यापारोऽस्तीति ।
नन्वौदुम्बरत्वकर्त्तव्यतार्थं कल्पितस्य विधेः फलपर्यन्तत्वानभ्युपगमे फलाभावादव-
सादः स्यात् । अत आह—प्रकरणञ्चेति । वैकृतस्याप्यौदुम्बरत्वस्य प्राकृतयूपारूपाख्याङ्ग-
सम्बन्धित्वेनोत्पत्तेः पृषदाज्यादिवत्प्रकरणग्रहणाविरोधः, विधिरहितस्य समभिव्याहार-
मात्रस्य फलप्रतिपादकत्वमाशङ्क्य वाचकादित्य उक्तम् । अवाचकमितिपाठे नास्तिवाचकं
यस्योगंवरोधादिनः फलस्य तदिति बहुव्रीहिः । समभिव्याहारात्मना वाक्येन फलार्थत्वा
वगमात् प्रकरणबाधमाशङ्कते – प्रकरणमिति । समभिव्याहारावगतस्य फलार्थत्वस्य वक्ष्य-
माणनिराकरणाभिप्रायेण परिहरति—नेति । अवाधमेवोपसंहरति—तस्मादिति ।
कृत्स्नस्य च वाक्यशेषस्य फलपरत्वे विध्युद्देशस्यैव शक्तिद्वयकल्पनापत्तेर्गौरवं स्यादित्यर्था-
न्तरन्यासेनाह—प्ररोचनापि चेति । न च तत्कल्पनं विना विधिपर्यवसानमित्याह—
अन्यत्रेति । अत्र तु प्ररोचनाकल्पनमप्यतिकलेशेन निर्वोढव्यम्, विधेरपि कल्प्यत्वादित्याह-
इह त्विति ।
विध्युद्देशातिगौरवपरिहारार्थं तर्हि प्ररोचनापि वाक्यशेषादेव भविष्यतीत्याशङ्क्य,
तन्निराकरणार्थं पर्णमय्यधिकरणन्यायमुपन्यस्यति—न चेति । अस्ति प्रयोजनसिद्धिरित्यनेन
पारार्थ्यं दर्शितम्, काष्ठविशेषपरिच्छेदकत्वेन चोदुम्बरजातेर्बहादपि पारार्थ्यमवसीयत
इत्याह—जातिविशेषस्येति । ऐकान्तिककाष्ठाङ्गतयाऽक्रियारूपत्वेन फलार्थत्वयोग्यता
निराकृता सत्यपि काष्ठाङ्गत्वे यूपाङ्गत्वं कथं सिद्धयतीत्यपेक्षायाम्, यूपशब्दोऽपि
चेत्याद्युक्तम् । पारार्थ्यसाधनस्योपयोगमाह—अतश्चेति ।
यत्तु पौनरुक्त्यपरिहारावसरे पारार्थ्याभावान्न प्राकृतखादिरादित्वालाभान्नैराका-
ङ्क्ष्यमुक्तम्, तदनुभाष्य दूषयति—यत्त्विति । यथा श्येनेत्यस्य शरमयं बर्हिरिति प्रत्यक्षो-
पदिष्टैः शरैरतिदेशप्राप्तानां कुशानां बाधस्तद्वदत्रापीत्यर्थः । बाधप्रसङ्ग एव तर्हि दोषः,
अत आह—न चेति । वरं क्रत्वर्थत्वे समानविषयत्वाद् बाधो युक्ततर इत्याह—
एतावांस्त्विति । प्रकृताश्रयालाभादप्यत्र गुणफलसम्बन्धो न युक्त इत्याह—न चात्रेति ।
तमेवोपपादयति—यो हीति । पशुविशेषणयागस्य सौमापौष्णं त्रैतमालभतेति त्रिवर्णपशु-
द्रव्यकत्वेनोदुम्बरवृक्षद्रव्यसाध्यत्वायोग्यतोपपादनार्थम् । न चाप्रकृतस्यापि नियोजनस्याति-
देशप्राप्तस्याश्रयत्वं शङ्कनीयम् । प्रकृतौ हि प्रत्यक्षोपदिष्टस्य होमप्रणयनादेः पश्चाद्धाना-
पेक्षायां पयश्चमसादिवत्फलार्थस्यापि दधिगोदोहनादेराश्रयभूतसाध्यापेक्षादर्शनादुभया-
काङ्क्षावशात्साधनत्वमवसीयते । न चैतावताऽङ्गत्वप्रसङ्गः, तादर्थ्येन विधानाभावात् ।
अत एव गुणकामप्रयोगे प्रासङ्गिकोपकारिणा गोदोहनादिना सिद्धौ चमसादेरनङ्गत्वेन
तदभावे वैगुण्याभावादनादरः । विकृतौ त्वखण्डकरणोपकारमुखेन कॢप्तोपकारप्राकृत-

२२ ] प्रथमाध्याये द्वितीयपादः १४९
खादिरत्वादिविशिष्टस्यैव नियोजनस्यातिदेशात्साधनानाकाङ्क्षस्य परार्थे विहितसाधनान्तर-
ग्राहकत्वन्न युक्तम् । अन्यतराकाङ्क्षाहेतुकस्य सम्बन्धस्येतराकाङ्क्षोत्थापनपूर्वकत्वाद्विधि-
मन्तरेणाकाङ्क्षोत्थापनायोगात् ।
ननु प्रकृतः पशुयागः साक्षादयोग्योऽप्यङ्गभूतयूपद्वारेणाश्रयो भविष्यत्यत आह—
न चेति । एवं कल्प्यत इति प्रधानादवतीर्य तदङ्गाश्रयत्वेन कल्प्यत इत्यर्थः । वचनव्यक्त्य-
न्तरमित्यौदुम्बरत्वेनोर्गवरोधं भावयेदितिवचनव्यक्त्यपेक्षयौदुम्बरत्वेन यूपं भावयेदित्यभि-
प्रेतम् । न चावतरणमिति अचोदकाश्च संस्काराः (जै० सू० २-२-१८) इति वक्तुशब्दार्थे
चशब्दः । न त्ववतरणं सम्भवतीत्यर्थः ।
यद्वा तेनाभ्युपगम्यावतरणं होमसाधनत्वेन साक्षादङ्गभूतायां जुह्वां सम्भवद्यूपे न
सम्भवतीत्युच्यते । अस्मिन्व्याख्याने सम्मतं यूपे यदवतरणम्, तन्न सम्भवति-न सिध्यतीति
सम्मतवचनः सम्भवशब्दः । अनेकार्थत्वान्निपातनोपसर्गाणां सम्यगर्थस्य वा संशब्दस्य
लक्षणयात्र सम्मतवचनत्वमेष्टव्यम् । यूपानवतरणे च यूपशब्दानर्थक्यप्रसङ्गो दोषः ।
ननु प्रकृताश्रयालाभेऽपि वाक्येनाश्रयलाभो भविष्यत्यत आह—न चानेनैवेति । न
केवलमनेकार्थविधिलक्षणो वाक्यभेदः, किं तु वैरूप्यलक्षणोऽपीत्याह—युगपच्चेति ।
यूपस्याश्रयभूतस्यौदुम्बरतोपकारित्वेन गुणभूततयोपादेयत्वात्तं प्रत्युदुम्बरताया उद्देश्यत्वा-
दिति भावः । नन्वाश्रयस्यापि साध्यत्वेन प्रधानतयोद्देश्यत्वाद्वैरूप्यं स्यादत आह—अथेति ।
एवं सत्युद्देश्ययोः फलयूपयोर्गुणभूतौदुम्बरतावशीकाराभावेनान्योन्यनियमायोगादाश्रयाला-
भस्तदवस्थ एवेति भावः । प्रत्युद्देश्यं वाक्यसमाप्तेर्वाक्यभेदोऽपि चशब्देन सूचितः । एवं
पर्णमयीन्यायेन स्तुत्युपयुक्तस्य परावृत्त्य फलपरत्वायोगादूर्गुदुम्बर इत्यादेः फलपरत्वे
प्ररोचनार्थत्वाभावाद्विध्युद्देशातिगौरवमपरिहार्यमिति प्रकृतोपयोगः ।
ननु समभिव्याहारादेव फलसाधनत्वावगतौ सत्यां विधिमन्तरेणेच्छयैव प्रवृत्तेर्न
प्ररोचनया कार्यमत आह—यत्त्विति । साधनत्वप्रतिपत्तौ विधिव्यापारानभ्युपगमे भावना-
या भाव्यापेक्षायामप्यौदुम्बरो भवतीत्यौदुम्बरत्वस्यैव भवनकर्तृत्वेन सन्निधावुपात्तस्य
साध्यांशे निवेशापत्तेरूर्जोऽवरुध्या इति चतुर्थी व्यवधावुदात्तस्याप्यूर्गवरोधस्य तदवरुद्धायां
भावनायां निवेशायोगद्यूूपविशेषणत्वापत्तेरपुरुषार्थोपयिकत्वान्नोदुम्बरत्वमावनायां बुद्धिपूर्व-
कारी कश्चित्प्रवर्त्तेतेत्यर्थः ।
नन्वौदुम्बरो यूपो भवतीत्युत्पत्तिविधेः फलसाधनत्वबोधे व्यापाराभावादप्रसक्तत्वेऽपि
प्रयोगवचनात्प्रवृत्तिः सेत्स्यतीत्युक्तम्, अत आह—यत्त्विति । संयोगपृथक्त्वभावात्पुरुषार्थत्वे
सति क्रत्वर्थत्वायोगादिति भावः । पञ्चमलकारत्वस्य चाडागमादिचिह्नाभावेनानिश्चया-
त्कल्पस्योत्पत्तिविधेर्विनियोगवत्प्रयोगेऽपि व्यापारो न युक्त इत्याह — पञ्चमेति । फलसङ्की-
र्त्तनस्यालम्बनं दर्शयन् सिद्धान्तमुपसंहरति—तस्मादिति । एतदधिकरणव्युत्पाद्यं विधि-

१५० मीमांसादर्शनम् [ सू०
रहितस्य श्रेयःसाधनत्वबोधासामर्थ्यं तस्माच्छब्देन परामृष्टं फलाभावसूत्रोक्तानुपलब्धि-
विरोधो वर्त्तमानफलाभिधायित्वादित्यनेन । चतुर्थे चेति प्रस्तुतसाधनांशनिराकरणहेतुत्वेन
साध्यांशनिराकरणं वक्ष्यमाणमुक्तं सर्वेभ्यो दर्शपूर्णमासावित्यादौ चतुर्थ्या फलसमर्पकतद्वाभ्यु-
पगमात्समाभिव्याहारमात्रस्य फलसपंकत्वनिराकरणपरमेवं कामशब्दरहितस्येति व्याख्ये-
यम् । प्रधानफलमेवेदमित्यनेन फलकीर्त्तनालम्बनं दर्शितम् ।
सौमा पौष्णं त्रैतमालभेत पशुकाम इति पशूनामदनीयत्वेनोर्क शब्दवाच्यन्न रूपाणां
प्रधानफलत्वादङ्गे पूर्णाहुतिवदुपचारः । न पूर्वत्वादिति सूत्रं द्वितीयवर्णकोक्तस्य विसम्वाद-
स्यानुभाषणं पूर्वं निराकरणार्थम् । ननूक्तमित्यादिभाष्यं व्याचष्टे-सर्वत्र चेति । गुणवादेनेति
गुणशब्देन फलसङ्कीर्त्तने सम्वादाभिधाने तावदङ्गे प्रधानगामिनि तत्फलोपचारोऽभिमतः ।
पूर्णाहुतिन्यायेनोक्तप्रायत्वान्नहेह भाष्यकृतोक्तः । पक्षधर्म्मान्वयकीर्त्तनसम्वादाभिधाने
त्वग्निमाणवकवत्साहृश्यं गुणशब्देनाभिप्रेतम् । तत्र किं सादृश्यमित्यादिप्रश्नपूर्वकं सादृश्य-
प्रतिपादनार्थं भाष्यं व्याचष्टे-- साधनत्वेऽपि चेति । साधनशब्देन हेतुत्वमुक्तम् । अन्नगतेन
प्रीतिसाधनत्वेन तद्विशेषतृप्तिसाधनत्वेन वा गुणेनोदुम्बरेऽन्नशब्दाभिधेयत्वसम्भवात्साधनेऽपि
सम्वाद इत्यर्थः । प्रीतिसाधनत्वमप्योदुम्बरवृक्षस्याभक्ष्यत्वा न्नास्तीत्याशङ्क्य प्रीतिसाधनौ-
दुम्बरफलोत्पादनशक्तियुक्तं वृक्षं प्रशंसितुमुपचारात्प्रशंसावाचिना प्रीतिसाधनशब्देनोच्यते
इत्युक्तम् । अनेन च नात्र यद्यदन्नम्, स स यूप इत्यन्वयवाक्यं कल्प्यते किं तु यद्यदन्नम्,
तत्तत्प्रशस्तमित्येवम्, तच्च प्रसिद्धमेवेति सूचितम् ॥ २२ ॥
भा० प्र०—विधि के साथ एकवाक्यता सम्पन्न होकर ही विधेय विषय की प्रशंसा
के द्वारा अर्थवाद सार्थक होता है—यह पूर्व में ही कहा गया है । इस स्थल में भी यही
स्थिति है । ‘उर्कं उदम्बरः’ यह अंश अर्थवाद है । अवशिष्ट अंश इस अर्थवाद की ही
उपपत्ति अर्थात् युक्ति है । ‘उर्कं उदुम्बरः’ यह उक्ति भी गुणवाद होने से सभी वाक्य
लक्षणा के बल से उदुम्बरत्वविधि की स्थापक है । पूर्वपक्षी का यह कथन कि अन्न
सम्पादन उदुम्बरत्व रूप गुण का फल है—यह कथन ठीक नहीं है, क्योंकि, क्रिया के
बिना केवल गुण फलवान् नहीं हो सकता है । प्रकृत में कोई ऐसी विधि भी नहीं है,
अन्न जिसका फल होगा । ‘उदुम्बरो यूपो भवति’ इसको विधि नहीं कहा सकता है,
क्योंकि, इसमें लिङ् आदि विधि विभक्ति नहीं है । विधि की कल्पना करने पर अर्थवाद
के द्वारा ही विधि की कल्पना होने से इस वाक्य को अर्थवाद मानना ही होगा । इस
स्थल में प्रकरणवश उदुम्बरता विधि है और उसमें अर्थवाद अन्वित होता है ।
उक्तं=कथित होता है । ‘तु’=किन्तु । पूर्वपक्ष के निराश के लिए “विधिशेषत्वम्”=
विधिशेषत्व । अर्थवाद विधिवाक्य का शेष या अङ्ग है एवं विधिवाक्यों की स्तुति के
द्वारा ही वे सार्थक होते हैं, यह कहा गया है ॥ २२ ॥

२३६] प्रथमाध्याये द्वितीयपादः १५१
विधिश्चानर्थकः क्वचित्तस्मात्स्तुतिः प्रतीयेत
तत्सामान्यादितरेषु तथात्वम् ॥१. २. २३॥
शा० भा०-अप्सुयोनिर्वा अश्वो अप्सुजो वेतसः (तै. सं. ५।३।१२) इति
अप्सुयोनिरश्वः कर्तव्य इति विधेरशक्यत्त्वादानर्थक्यम् । तत्रावश्यं स्तुतिः कल्प-
यितव्या, शमयित्रीभिरद्भिरश्वस्यावकानां च सम्बन्धो यजमानस्य कष्टं शमय-
तीति । तत्सामान्यादितरेषु तथात्वम् । तथेतियावत् तावत्तथात्वमिति । किं
तत्सामान्यम् । विध्यसम्भवः, स्तुतिसम्भवश्च ॥ २३ ॥
भा० वि०-सम्भद्विध्येकवाक्यत्वानामपि पृथग्विधित्वमभ्युपगमे तुल्यन्या-
यतयान्यत्रापि प्राप्तिमभिप्रेत्याह-विधिश्चेति । क्वचिदित्युक्तं विषयं दर्शयन्
विधिश्चेति व्याचष्टे-अप्सित्वत्यादिना । अश्वस्य प्रयत्ननिष्पाद्यत्वात् तद्विधेर-
शक्यत्वं वेतसादेस्तु स्वभावसिद्धत्वादिति मन्तव्यम् । तथा किमित्याशङ्क्य
तस्मादित्यादि व्याचष्टे-तत्रेति । आनर्थक्यमेवास्त्वित्याशङ्क्य तन्निरासाया-
वश्यमित्युक्तम् । स्तुतिमभिनयति-शमयित्रीभिरिति । अवकानां चेति चशब्दो
वेतसविषयः, तेनैवमन्वयः अश्वस्य वेतसानां च शमयित्रीभिरद्भिः सम्बन्धो
यजमानस्य कष्टं शमयत्यवकानां वेतसानां च ताभिस्सम्बन्धो यजमानकष्टं शमय-
तीति स्तुतिः कल्पयितव्येति । यद्यप्यवकानां नोदाहरणे श्रवणमस्ति, तथाप्य-
ब्योनित्वाविशेषाद्वेतसपदेनैव उपलक्षिताः । न च स्व एवैनं योनौ प्रतिष्ठापयती-
त्यनेनाप्सु जाते वेतसेऽश्वस्य चयने कृते प्रकृतिविकारयोरभेदोपचारेण वेतस-
प्रकृतिभूतास्वप्सु चयनात् स्वेयोनौ प्रतिष्ठापनं कृतं भवतीति स्तुतिप्रतीयते ।
शमयित्रीत्वस्य चापामश्रवणात् कथं तद्द्वारा स्तुतिरिति वाच्यम्, स्वयोनि-
प्रतिष्ठापनमात्रोक्त्या परोचनानुपपत्तेः 'वेतसशाखया वल्काभिश्चाग्निं विकर्षति'
आपो वै शान्ताश्शान्ताभिरेवास्य शुचं शमयति' इति वाक्यान्तरगतार्थवाद-
भणितशमयित्रीत्वस्य यजमानकष्टशमनसाधनत्वोपपादनार्थत्वेनोपादानात् । न च
वेतसवाक्येन सहचारादुपलक्षितानामप्यवकानामविधेयत्वान्न स्तुत्यपेक्षेति वेदि-
तव्यम् अत्रार्थवादान्तरेणापां शमयितृत्वे गदिते तत्राग्निविकर्षणसाधनत्वेन
विहितयोः वेतसावकयोः स्तुत्यभावशङ्कानिरासायावकानाम् अद्भिरस्सम्बन्धेन
स्तुतिप्रदर्शनोपपत्तेरिति द्रष्टव्यम् ।
तत्सामान्यादित्यादिसूत्रावयवमादाय व्याचष्टे- तथेति । यावत्सु फलविधि-
सरूपेषु अर्थवादेषु तथेति अप्सु योन्याद्यर्थवादसमानाकारता तावत्सु तथात्वं
स्तुतित्वमित्यर्थः प्रश्नपूर्वकं तत्सामान्यादिति व्याकुर्वन् तथेत्युक्तं प्रपञ्चयति-
किमित्यादिना ॥ २३ ॥

१५२ मीमांसादर्शनम् [ सू०
त० वा०—यदि चैवंजातीयका विधयो भवेयुः, ततः पूर्वोदाहृताः सर्व एव
द्रव्यगुणक्रिया विधयो भवेयुः । वायुः क्षेपिष्ठा देवता कर्तव्याः, अप्सुयोनिरश्वः
कर्तव्यः, अप्सुजो वेतसोऽवकाश्च कर्तव्यः, आपः शान्ताः ऊर्गुदुम्बर इत्यादि । तत्र
यद्यपि के चित्क्रियादिविधयः शक्यन्ते कर्तुम् । एते त्वशक्याः स्वभावसिद्धेः
प्रयत्नेनापि चानिष्पत्तेः वायुवेतसावकादिषु स्वभावसिद्धिः । अश्वादुम्बरादीनाम-
शक्यता । कीदृशी स्तुतिस्तां दर्शयति—शमयित्रीभिरद्भिरित्यादि ।
तत्रासंगतो ग्रन्थ इति व्याख्यातारः समर्थयन्ते । यस्मादिहावकातत्सम्बन्धयोः
शमयितृत्वस्य च नैवोपन्यासः कृतो वेतस उपन्यस्तः सोऽपि स्तुतिवेलायां न
प्रदर्शित इति । तत्र त्वियं गमनिका । वेतसोदाहरणेनैव तुल्यत्वादवकादीन्यप्यु-
दाहृतानि । न चायमश्वावकयोः परस्परेण सम्बन्धः कथ्यते । केन तर्हि ?
अद्भिः । तावता तु न स्तुतिः काचिदुन्मीलितेत्यर्थवादान्तरापेक्षाप्रवृत्तां तां
दर्शयति—आपो वै शान्ता (तै० सं० ५.२.४) इति । अनेन हि विधित्वात्प्रच्युते-
नापां प्राशस्त्यमुच्यते । तत्र कस्यचित्प्रसिद्धाप्सम्बन्धस्य तन्मात्रसंकीर्तनादेव
स्तुतिर्भवति । अन्येषां तु सम्बन्धिसम्बन्धात्सम्बन्धः कीर्त्यते । प्रसिद्धशान्तत्व-
सम्बन्धाभिरद्भिः सम्बन्धादश्वादिरपि शान्तात्मकस्तत्सम्बद्धेन च कर्मणा यज-
मानस्य कष्टं शाम्यतीत्येवंविधप्राशस्त्यज्ञापनार्थम् । एवं क्षिप्रदैवतेन शीघ्रं
फलप्राप्तिरन्नमयेन च यूपेनान्नप्राप्तिरिति स्तुतित्वे सिद्धे तत्समानन्यायानामप्येव-
मात्मकत्वम् ॥ २३ ॥
न्या० सु०—अत्र भाष्यकृतऽप्सु योनिर्वा अश्व इत्यादीनामानर्थक्यापत्तेर्विधित्वं न
सम्भवतीत्युक्तम् । तदयुक्तम् । फलविधिसरूपाणामेव पूर्वपक्षिणा विधित्वस्योक्तत्वादित्या-
शङ्कयाह—यदि चेति । विध्यन्तरैकवाक्यभूतानामपि विधिपरत्वाङ्गीकारे तुल्यन्याया-
त्सर्वत्राप्यापाद्य दूषणमुच्यत इत्यर्थः । सर्वग्रहणं वायुक्षेपिष्ठादीनामपि तर्हि कस्मान्न विधित्व-
मापद्यत इत्याशङ्कानिवृत्त्यर्थं क्वचिद्ग्रहणम् । तर्हि सूत्रे किम् ? अत आह—तत्रेति । के-
चिदिति । निवीतं मनुष्याणामित्यादय इत्यर्थः । शमयित्रीभिरित्यादिभाष्यं स्तुतिरूपप्रदर्श-
नार्थत्वेन व्याचष्टे—कीदृशीति । आक्षिपति—तत्रेति । अग्रन्थः प्रतिभातीति मत्वा समर्थ-
यन्तऽत्यर्थः । अग्रन्थत्वमेव वा समर्थयन्त इति ।
स्वयं समर्थयते—तत्र त्वियमिति । पूर्वव्याख्यायां समर्थनं दर्शयतीत्यवतारणीयम् ।
तत्रावकाशमयित्रीत्वानुपन्यासं तावत्प्रत्याचष्टे—वेतसेति । अश्वावकयोः सम्बन्धस्य तु
भाष्यकारेणाकथितत्वादनुपन्यासो न दोषायेत्याह—न चायमिति । इह च वैतसे कटे अश्वं
चिनोति, अप्सुयोनिर्वा अश्वोऽप्सुजो वेतसः स वैनं योनौ प्रतिष्ठापयतीत्येतावकानामह्निः
सम्बन्धाश्रवणेऽपि, वेतसशाखयावकाभिश्चाग्निं विकर्षत्यापो वै शान्ताः शान्ताभिरेवास्य
शुचं शमयतीत्यत्र वेतसवत्तासामप्यद्भिः सम्बन्धस्य स्तुतिसिद्धयर्थं वाच्यत्वादप्सुजो वेतस
इति अप्सुजत्वाभिधानमवकानाम्प्सुजार्थसाहचर्यादुपलक्षणमित्यभिप्रेत्यावकाग्रहणम् ।

२३ ] प्रथमाध्याये द्वितीयपादः १५३
ननु वेतसग्रहणेनोपलक्षितत्वादवकानामग्निविकर्षणसाधनत्वेन विहितानां स्तुत्यर्थं
भवतु नाम भाष्येऽद्भिः सम्बन्धकथनम्, शमयित्रीत्वविशेषणत्वमपां किमर्थम् अत आह—
तावता त्विति । यद्यपि स एवैनं योनौ प्रतिष्ठापयति इत्यप्सुजे वेतसेऽश्वचयने कृते प्रकृति-
विकारयोरभेदोपचारेण वेतसप्रकृतिभूतास्वप्सु चयनात्स्वयोनौ प्रतिष्ठापनं कृतं भवतीति
स्तुतिः प्रतीयते, तथापि स्वयोनिप्रतिष्ठापनमात्रेण परोचनाऽनुपपत्तेर्वैतसशाख्यावकाभि-
श्चाग्निं विकर्षति, आपो वै शान्ताः, शान्ताभिरेवास्य शुचं शमयतीति वाक्यान्तरगतार्थ-
वादाभिहितमपां शमयित्रीत्वं यजमानकष्टशमनसाधनत्वोपपादनाथं भाष्यकृतोक्तम् । अवकानां
त्वप्सुजो वेतस इत्यनेन सहचरणलक्षणयाऽद्भिः सम्बन्धनाभिधानेऽपि अत्राविधानादनपेक्षित-
स्तुत्यप्रतीतेर्वाक्यान्तरगतार्थवादेनापां शमयित्रीत्वेऽभिहितेऽप्यग्निविकर्षणसाधनत्वेन विहि-
तयोर्वैतसावकयोः स्तुत्यप्रतीतेस्तत्प्रशंसोपपादनार्थमद्भिः सम्बन्धो भाष्यकृता कथितः ।
अर्थवादान्तरापेक्षाप्रवृत्तानामित्यश्वविषयेऽर्थवादान्तरस्यापेक्षया प्रवृत्तानामिति षष्ठीसमासग-
र्भस्तृतीयासमासः । अवकाविषये त्वर्थवादान्तरेणेति तृतीयासमासगर्भः ।
अर्थवादान्तरमुदाहरति-आप इति । कथमस्यार्थवादान्तरस्याप्सुयोनिर्वा अश्व
इत्यनेनापेक्षा, कथञ्चानेनार्थवादान्तरेणाप्सुजो वेतस इत्यस्यापेक्षा इत्याशङ्क्याह- अनेन
हीति । अश्ववेतसामिजनभूतानामपां शमयित्रीत्वेन प्राशस्त्याभिधानेन तदभिजातयोरश्व-
वेतसयोः प्राशस्त्यावगमात् तदर्थमपेक्षेत्यश्वविषये अर्थः । अवकाविषये त्वविधेयानामपां
शमयित्रीत्वेन प्राशस्त्यमुच्यते, न विधेययोर्वैतसावकयोरिति तत्प्राशस्त्यावगमायाऽप्सुजत्वा-
भिधानापेक्षेति व्याख्येयम् । कीदृशीं स्तुतिं दर्शयतीत्यपेक्षायामाह- तत्रेति । कस्यचित्प्र-
सिद्धाप्सम्बन्धस्य वेतसावकस्याप्सुजो वेतस इत्यप्सम्बन्धमात्रकीर्त्तनादेवापो वै शान्ता
इत्यर्थवादप्रतिपाद्या स्तुतिः सिद्ध्यति । अन्येषां त्वप्रसिद्धाप्सम्बन्धानामनश्वादीनां वस्तुतोऽ-
सन्नप्यप्सम्बन्धः प्राशस्त्यज्ञानार्थं कीर्त्यते । कीदृशं प्राशस्त्यमित्यपेक्षिते प्रसिद्धेत्याद्युक्तम् ।
प्रसिद्धः शान्तत्वेन सह सम्बन्धो यासामपां तास्तथोक्ता इति व्याख्येयम् ।
भाष्यमेवं योज्यम् । अश्वस्यावकानां चेति चकारेणं वेतसग्रहणम् । तत्राश्वविषये
अश्वस्य वेतसस्य च शमयित्रीभिरद्भिश्चशान्ताभिरेवास्य शुचं शमयतीति सहयोगतृतीयान्त-
पदनिर्दिष्टामिः सह सम्बन्धोऽस्य शब्दनिर्दिष्टस्य यजमानस्य शुकशब्दवाच्यं कष्टं शमय-
तीत्यर्थः । अवकाविषयत्वेऽवकानां वेतसस्य चाद्भिः सम्बन्ध इत्यर्थः ।
स्वयमुदाहृतेष्वर्थवादान्तरेषु स्तुतिस्वरूपमाह-एवमिति । तत्सामान्यादिति सूत्रा-
वयवव्याख्यानार्थं तथोतभाष्यं व्याचष्टे-इति स्तुतित्वे इति । अनेन यावत्स्वर्थवादेषु अप्सु
योन्याद्यर्थवादसमानप्रकारत्वम्, तावत्सु स्तुतित्वमिति व्याख्यातम् ॥ २३ ॥
भा० प्र०-पूर्वपक्षी के कथन का अभिप्राय यह है कि स्वतन्त्र रूप में अर्थवाद प्रमाण
नहीं हो सकते हैं, उनके प्रमाण्य की स्थापना के लिए ही वाक्यार्थ में लक्षणा मानकर
विधिवाक्य के साथ एक वाक्यता माननी पड़ती है । किन्तु, अर्थवाद को विधि के अर्थ