सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 488, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 488

४१४ मीमांसादर्शनम् [ सू०
द्वित्रेष्वहःसु बाध्येत प्रयोगानम्लेच्छचोदितात् ।
म्लेच्छाचाराप्रमाणत्वमथ त्वध्यवसीयते ॥ ४७५
आर्यावर्ते ततः शक्या प्रसिद्धयन्वेषणक्रिया ।
तस्याश्चाल्पेन कालेन सदसद्भावनिर्णयः ॥ ४७६
ततश्च निगमादीनां सुज्ञातः स्वार्थगोचरः ।
तस्मात्तदर्थवत्त्वाय म्लेच्छाचाराप्रमाणता ॥ ४७७
धर्मे चानादरात्तेषां भ्रश्येताऽर्थोऽपि शब्दवत् ।
न चास्ति संस्कृतः शब्दः कश्चिन्म्लेच्छापभाषणे ॥ ४७८
संस्कृतप्रतिरूपा हि तद्भाषाऽर्थान्तरे स्थिता ।
न चावाचकरूपाणां वाचकत्वं कथंचन ॥ ४७९
आर्याश्च म्लेच्छभाषाभ्यः कल्पयन्तः स्वकं पदम् ।
पदान्तराक्षरोपेतं कल्पयन्ति कदाचन ॥ ४८०
न्यूनाक्षरं कदाचिच्च प्रक्षिपन्त्यधिकाक्षरम् ।
तद्यथा १द्राविडादिभाषायामेव तावद्व्यञ्जनान्तभाषापदेषु स्वरान्तविभक्ति-
स्त्रीप्रत्ययादिकल्पनाभिः स्वभाषानुरूपानर्थान्प्रतिपद्यमाना दृश्यन्ते । तद्यथोदनं
चोरित्युक्ते चोरपदवाच्यं कल्पयन्ति । पन्थानमतरित्युक्तेऽतर इति कल्पयि-
त्वाऽऽहुः । सत्यं दुस्तरत्वादतर एव पन्था इति । तथा पाप् शब्दं पकारान्तं
सर्पवचनमकारान्तं कल्पयित्वा सत्यं पाप एवासाविति वदन्ति । एवं मालो शब्दं
स्त्रीवचनं माला इति कल्पयित्वा सत्यमित्याहुः । वैरशब्दं च रेफान्तमुदरवचनं
वैरिशब्देन प्रत्याम्नायं वदन्ति । सत्यं सर्वस्य क्षुधितस्याकार्ये प्रवर्त्तनादुदरं
वैरिकार्ये प्रवर्त्तते इति । तद्यदा द्राविडादिभाषायामीदृशी स्वच्छन्दकल्पना,
तदा पारसीकबर्बरयवनरोमकादिभाषासु किं विकल्प्य, किं प्रतिपत्स्यन्त इति
न विद्मः ।
तस्मान्म्लेच्छप्रसिद्धं यत्पदमार्यैर्विकल्प्यते ।
न कश्चित्तत्र विश्वासो युक्तः पदपदार्थयोः ॥ ४८१
निरुक्तव्याक्रियाद्वारा यस्त्वर्थः परिगम्यते ।
पिकनेमादिशब्दानां स एवार्थो भविष्यति ॥ ४८२
१. चोर्-अतर्-पाप्-माल्-वयर-इत्येतेषां शब्दानां क्रमेण ओदन-मार्ग-सर्पं-सत्य-
उदररूपेष्वर्थेषु द्राविडानामद्यत्वेऽपि प्रयोगो वर्तते ।