सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

कॉपीराइट समस्या बताएँ

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 504, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 504
पृष्ठ 504 स्कैन

तथा प्राश्य घृतं शंसेद्य चाह वा इदमनो वा रथो वाऽक्तो वर्त्तंत, एवं हैवाक्तो
इत्यादिभिर्घृतप्राशनादिविधिशेषभूतैर्ब्राह्मणैर्नाचामेद्विशदिति विवायते देवरथो वा यज्ञेोता,
नाक्षमञ्जिः करवाणीत्यादिवाक्यैराचमनामावाद्ज्ञापनानुवादकत्वनिश्चय इत्याह—अन्यार्थे-
रिति । उपसंहरति — अर्थेति ।
आचार्यवचःप्रामाण्यं श्रुत्यैवोक्तमिति पूर्वोक्तस्य यत्त्वित्याद्यनुभाषणपूर्वकं परिहार-
भाष्यं व्याचष्टे—आचार्येति । वेदवचः प्रमाणमित्येवमन्यार्थताभाष्यकृतोदितेत्यर्थः ।
अव्युत्पन्नो वाऽयमाचार्यशब्दो व्याख्यातृव्यापयितृविषयः, न तु कल्पसूत्रकारविषय इति
परिहारान्तरं (यद्वेति) भाष्येणोक्तं तद्वद्याचष्टे—व्याचक्षाणस्येति । शिष्याणां स्वप्रत्यये
संवादनिरपेक्षप्रदर्शनार्थं स्वयम्प्रमाणतेत्युक्तम् । अयमेव परिहारः स्मृत्यानुगुण्याद्युक्त
इत्याह—आचार्येति ।
नन्वाप्तवाक्यप्रामाण्यस्य लोकप्रसिद्धत्वाद्धचनमनर्थकमित्याशङ्क्याह—वेदेति । अनेन
भाष्येण यत्प्रमाणमाचार्यवचनम्, तदपेक्षेयं श्रुतिरित्युक्त्वा कतरदितिपृष्टे यत्प्रमाणगम्य-
मित्यभिधानात् व्याख्यातृवचनमध्यापकवचनमपि वा सम्भवन्मूलप्रमाणकमेव सत्यं न सर्व-
मित्युक्तम् । तदुपपादयति—न चेति । 'अनृतवादिनी वागि'तिश्रुतेः प्रायोभिप्रायत्वेन
रूपात्प्रायादित्यत्र व्याख्यातत्वात्प्रायादित्युकम् । श्रुत्यन्तरमुदाहरति—अन्यत्रापीति ।
यदि च वेदसंवादकल्पसूत्राणां वेदत्वम्, वेदतुल्यत्वं वोच्यते, ततः क्वचिद्विसंवादा-
द्वैपरीत्यमपि शक्यं वक्तुमित्येतदर्थत्वेन सर्वत्र च प्रयुक्तत्वात्सन्निधानवशाच्चेति सूत्रं
'यच्चोक्तमिति भाष्येणावतारितम् । तद्व्याचष्टे—वेदादेवेति । यज्ञायज्ञीयमेव प्रयणीयाग्नि-
ष्टोमसामकार्यमित्यादेः पञ्चविंशब्राह्मणे जराबोधीययज्ञायज्ञीययोः प्रायणीयाग्निष्टोमसाम-
वैकल्पिकविधानेन साक्षाद्वेदेन विसंवाददर्शनात् अपि वा नानागोत्राः स्युरित्यादेस्तनून्-
पात्नाराशंसकल्पाद्यवैगुण्याय समानकल्पानामेव सूत्रेष्वधिकार इति, वेदोत्थेन न्यायेन विसं
वाददर्शनात्कल्पसूत्रकारवाचां वेदादेवानुक्तत्वावगतिरित्यर्थः । इह च यच्चोक्तमिति
सूत्रावतारणार्थानुभाषणभाष्ये च शब्दप्रयोगात्तुल्यादराचार्यवचः प्रामाण्यश्रुत्योः परिहारो
सर्वत्र चेति सौत्रेण चशब्देन सूचितौ कल्प्येते ।
यद्वा पूर्वमेव सूत्रं नवमपनीय व्यवधारणकल्पनया वा अस्मिन्परिहारद्वये योज्यम् ।
शेषस्य शेषिमिश्रत्वेन लक्षणया वेदवाक्यमिश्रत्वप्रतीतेरर्थवादे च वाक्यशेषशब्दस्य प्रसिद्ध-
त्वाद्यद्ययं न वाक्यशेषः स्यादेतच्छङ्काद्वयमपि च व्यवधारणकल्पनयापि व्याहृतोपप-
त्तेर्नोत्सूत्रत्वाशङ्का ।
उक्तेऽर्थे सूत्रं योजयति—सर्वत्र चेति । पूर्वेण सूत्रावयवेन विसंवादविषयोदाहरणे,
उत्तरेण विसंवादाभिधानमित्यर्थः । अतिशयार्थोऽभ्यासः । अत्र भाष्यकृता सर्वत्र तिथिषु
कल्पसूत्रकारैः पौर्णमास्यामावास्याख्यकर्मणः प्रयुक्तत्वादनुष्ठापितत्वादित्येवं सूत्रावयवं
व्याचक्षाणेन शुक्लपक्षे यस्यां कस्यांचत्तिथावमावास्याख्यं कर्म कार्यमिति कल्पसूत्रकार-
वचनत्वेनोदाहृतम् । तद् दूषयति—तत्रेति ।