सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 489, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 489

१० ] प्रथमाध्याये तृतीयपादः ४३५
सिद्धान्तः
एवं प्राप्ते
वदामोऽत्र पदं निपुणदृष्टिभिः ।
विज्ञायेताऽविनष्टं यत्तत्तदर्थं भविष्यति ॥ ४८३
देशभाषापभ्रंशपदानि हि विप्लुतिभूयिष्ठानि न शक्यन्ते विवेक्तुम् ।
यत्तु वेदतदङ्गेषु पदं दृष्टमविप्लुतम् ।
म्लेच्छभाषासु तद्रूपमर्थे क्वचन चोदितम् ॥ ४८४
तत्तथैव प्रतीयेत प्रमाणेनाविरोधतः ।
पिकनेमादि तद्ध्येवं निपुणैरवधारितम् ॥ ४८५
चोदितं ह्यपदिष्टं वा प्रयुक्तं वा क्रियागतम् ।
म्लेच्छैरवधृतं पश्चादार्यैर्द्वैभाषिकैः क्वचित् ॥ ४८६
तादृशं तु प्रदीयेत प्रामाण्येनेति निश्चितम् ।
न तद्धर्मप्रमाणेन वेदाख्येन विरुध्यते ॥ ४८७
अपि च—पदार्थपदसम्बन्धज्ञानापेक्षप्रवर्तनात् ।
प्रसिद्धिर्यत्र तत्रस्था वाक्यार्थयाऽनुगम्यते ॥ ४८८
पिकादिशब्दवाच्यं वा म्लेच्छैर्यदवधारितम् ।
अविरोधात्प्रमाणेने तद्विद्याद्वेदनोदितम् ॥ ४८९
चोदितं वा प्रमाणेन वेदेनेत्यस्य संगतिः ।
आर्यैः सहाऽविरुद्धत्वात् तस्य तैरप्यपेक्षणात् ॥ ४९०
यथैव क्लोमादयः पश्ववयवा वेदे चोदिताः सन्तोऽध्वर्य्यादिभिः स्वयमज्ञाय-
मानार्थत्वाद्ये नित्यं प्राणिवधाभियुक्ताः, तेभ्य एवावधार्य विनियुज्यन्ते । यथा च
निषादेष्ट्यां 'कूटं दक्षिणेति' विहिते य एवैतेन व्यवहरन्ति, तेभ्य एवाऽर्थतत्त्वं
ज्ञात्वा दीयते । तथेह पिक-नेम-तामरसादिचोदितं सद्भेदादार्यावर्तनिवासिभ्यश्चा-
प्रतीयमानं म्लेच्छेभ्योऽपि प्रतीयेत, लोकावगम्यनित्यशब्दार्थम्युपगमाविरोधात्
स्वेनैव प्रमाणेन प्रतीयेतेति ।
यत्तु शास्त्रबलीयस्त्वादेतदग्रहणमिति ? तन्न । अविरोधे दुर्बलस्यापि ग्राह्य-
त्वात् । यदेवात्यन्तं प्रमाणाभासमेव मृगतृष्णाज्ञानवद्भवति, तत् सर्वदैव परि-
हर्तव्यम्, यत्पुनर्बलवद्विरोधापेक्षप्रमाणं(न) भवति, तद्विरोधाभावात्प्रमाणमेवे-
त्यवधारणीयम् । न चैवमादि विरुध्यते, विपरीतार्यप्रसिद्ध्यन्तराभावात् ।
अत एव वैदिकवाक्यार्थस्वविषयप्रयुक्तपदार्थमात्राभियुक्ततरायंप्रसिद्धिबलीयस्त्वा-
श्रयणम् ।