सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

सूत्रकारेण हि सिद्धान्ते स्तेनं मनः इत्यादावभिहितस्य शास्त्रविरोधस्य

२ ] प्रथमाध्याये द्वितीयपादः १९
रादित्यं गतो रात्रावादित्यस्तम्' इत्येतदुपपादयितुमिदम् । उभयमपि दृष्टविरुद्ध-
मुच्यते । तस्मान्नैवाऽवधारणा सिध्यतीति अपरो दृष्टविरोधः । न चैतद् विद्मो
वयं ब्राह्मणा वा स्मोऽब्राह्मणा वा वचनम् प्रमाणम् तै० ब्रा० २।२।२, (गोप० ब्रा०
पू० ५।२१) इति ।
अक्रियार्थत्वादनर्थकम् । अथायमर्थो नैवैतज्ज्ञायते, किं वा ब्राह्मणा वय-
मुताब्राह्मणा वेति, प्रत्यक्षविरुद्धमप्रमाणम् । अपरः शास्त्रदृष्टेन विरोधः । को हि
तद्वेद, यद्यमुष्मिँल्लोकेऽस्ति वा न वा, (तै० सं० ६।२।२, ६।१।१) इति । यदि
प्रश्नोऽयम्, अक्रियार्थत्वादनर्थकः । अथानवकॢप्तिः, शास्त्रदृष्टेन विरोधः । अतः
प्रत्यक्षविरुद्धमप्रमाणम् ॥ २ ॥
भा० वि०—सोऽरोदीदित्यादीनामानर्थक्ये हेत्वन्तरमाह—शास्त्रेति । तत्र
सोऽरोदीदित्याद्युदाहरणानामतीतार्थविषयत्वेन योग्यानुपलब्ध्यभावात् स्वार्था-
सत्यत्वानिश्चयेन तद्द्वारा विधिकल्पनायामपि धर्मं प्रत्यप्रामाण्यं शास्त्रदृष्टविरोधेन
प्रसङ्गादुक्तमेव, तेन येषां स्वार्थेप्यसत्त्वं तेषां धर्मं प्रति प्रामाण्ये कैव कथेत्यभि-
प्रेत्योदाहरणान्तरमाह—¹स्तेनमिति । अस्मिन्नप्युदाहरणे विधिकल्पनायां शास्त्र
विरोधं दर्शयितुं यथा श्रुत्यप्रामाण्ये पूर्वसूत्रं योजयति-एवमिति । सिद्धरूपस्यैव मनसः
स्तेनत्वस्य, वाचोऽनृतवादित्वस्य चानुवादादक्रियार्थत्वादप्रामाण्यमित्यर्थः ।
ननु तर्ह्यर्थाध्याहारादिना क्रियार्थत्वं कल्प्यतामित्याशङ्क्यैतत्सूत्रगतशास्त्र-
विरोधं व्याचष्टे—विपरिणामेति । वाङ्मनसयोः प्राधान्यादितरेन्द्रियैरपि तच्च-
रितमनुवर्तितव्यमिति वाक्यार्थः स्यात्, ततश्च निषेधशास्त्रविरोध इत्याह—
तच्चेति ।
ननु पाक्षिकबधसंभवेऽपि नात्यन्तबाधः, विकल्पोपपत्तेः । विधेर्विशेषविषय-
त्वान्निषेधस्य च सामान्यविषयत्वादतुल्यबलत्वेन विकल्पासंभव इति वाच्यम् ।
यथाकथञ्चिद्विधिशास्त्रार्थवत्त्वस्यैव विकल्पशब्देनाभिप्रेतत्वात् इत्यत आह—
न चेति । विधिशास्त्रस्य कल्प्यत्वात्, कॢप्तं निषेधशास्त्रं विधिविषयमप्या-
स्कन्दन् तत्कल्पनामेव निरुणद्धि इति विध्यनवकाश एवेत्यभिप्रेत्याह—
वैषम्यादिति । तदेवाह—एक इति । अन्यो निषेधः प्रत्यक्षः कॢप्तः ।
सूत्रकारेण हि सिद्धान्ते स्तेनं मनः इत्यादावभिहितस्य शास्त्रविरोधस्य
'अप्राप्ताचानुपपत्तिरि'त्यादिनाऽकर्तव्यतापरत्वेन गुणवादत्वेन च परिहारमुक्त्वा,
गुणवादनिमित्तं च रूपातप्रायादिति दर्शयित्वा, पुनस्तस्योदाहरणान्तरेऽव्याप्ति-
माशङ्क्य, दूरभूयस्त्वादित्यनेन परिहरिष्यते, तदनुसारेण दृष्टविरोधादित्यवयवं
व्याख्यातुमुदाहरति—अथ दृष्टिविरोध इति । उदाहरणगततच्छब्दार्थमाह—
१. स्तेयमित्यादर्शकोशे पाठः ।

२० मीमांसादर्शनम् [ सू०
अस्मादिति । यस्माद्दिवाग्निरादित्यं गच्छति, तस्मादेव धूम एवाग्नेर्दिवा ददृशे
नार्चिः, यस्माच्च रात्रावादित्योऽग्निम्, तस्मादेवार्चिरेवाग्नेर्नक्तं ददृशे, न धूमः
इत्येवमेतदुपपादयितुं यद्वैतद्वाक्यम्, तदिहोदाहरणमित्यर्थः । तदुपपादनद्वयोरपि
सन्ध्ययोः देवताद्वयसन्निधानमुपपादनीयान्तरं सूचयितुं तावदित्युक्तम्, सूत्रावयवं
योजयति—तदिति । ददृश इति लडर्थे लिट्प्रयोगाद् धूम एवार्चिरेवेति द्वयमपि
दृष्टविरुद्धम्, रात्रिन्दिवं धूमार्चिषोर्दर्शनात् इत्यर्थः । ततश्च यदनेन वाक्येन
प्रतिपाद्यते, दिवाग्निरादित्यमनुप्रविशति रात्रावादित्यस्तमिति तस्यावधारणा न
सिध्यतीत्याह—तस्मादिति ।
ननु धूमगतभूयस्त्वाद्यभावाद्विवा वह्निदर्शनाभावाभिधानमित्ययुक्तम् ।
अस्यापि निमित्तस्य ब्राह्मण्यज्ञानाभावाभिधानेऽव्याप्तेरिति शङ्कानिरासार्थं
“स्त्र्यपराधाद्” इत्यादिसूत्रं तदनुसारेणोदाहरणन्तरमाह—अपर इति । अस्या-
प्यार्षेयवरणानुमन्त्रणविधिसन्निधिसाम्ना तस्यापि तत्स्तुत्यर्थत्वाप्रतीतेः न
प्रामाण्यमित्याद्यसूत्रं तावद्योजयति—अक्रियेति ।
ननु मा भूत्क्रियार्थत्वेनार्थवत्त्वम्, स्वतन्त्रब्राह्मण्याज्ञानप्रतिपादनेनैवास्त्विति
मन्वानश्चोदयति—अथेति । प्रत्यक्षाद्यवगतोत्पाद्योत्पादकसंबन्धस्मरणानुगृहीतेन्द्रि-
येण ब्राह्मणत्वस्य प्रत्यक्षतोऽवगमात् तद्विरुद्धतदज्ञानवचनमप्रमाणमेवेति दूषयति—
प्रत्येति । न च प्रत्यक्षेण सहाज्ञानवचनस्य विकल्पः, ज्ञानस्वरूपत्वेन विकल्प-
विषयत्वादिति भावः, अत्राक्रियार्थत्वेनानर्थक्यं सिद्धं कृत्वैतत् । अतश्चाज्ञानम-
प्रमाणमित्याह—अत इति । प्रत्यक्षज्ञानेनामुष्मिकफलवचनस्य दृढप्रतिपत्तिहेतुत्व-
रूपं प्राबल्यं विकल्पाशङ्कानिराससूचितं यदि ब्राह्मण्यादेर्दुर्ज्ञानत्वादज्ञानवचनम्,
तर्हि परलोकादौ तदभावज्ञानवचनानुपपत्तिमाशङ्कयाकालिकेप्सेति सूत्रं तदनुसारे-
णोदाहरणान्तरमाह—शास्त्रेति । अस्मिन्नप्युदाहरणे प्रथमं तावदाद्यसूत्रं योज-
यति—यदि हीति । प्रश्नज्ञानादिसूचकतया सिद्धार्थत्वेनाक्रियार्थत्वादानर्थक्य-
मित्यर्थः । इदानीं शास्त्रदृष्टविरोधं प्रश्नपूर्वकं दर्शयति—अथेत्यादिना । अनव-
कॢप्तिरनिश्चयोऽज्ञानम्, निश्चितवेदप्रामाण्याैरामुष्मिकफलस्य शास्त्रादेव
ज्ञायमानत्वाच्छास्त्रदृष्टविरोधः, शास्त्रजनितेनामुष्मिकफलदर्शनेन विरोध
इत्यर्थः ॥ २ ॥
त० वा०] वाङ्मनसयोर्विद्यमानमविद्यमानं वा स्तेयानृतवदनमुच्यमानं धर्मे
स्वार्थेऽपि वा न प्रामाण्यं प्रतिपद्यते । अथ त्वध्याहारादिभिरेवं कल्प्येत वाङ्मन-
सयोः सर्वशरीरेषु चेष्टाः प्रति प्राधान्यादितरभूतेन्द्रियैरपि तच्चरितमनुवर्तितव्य-
मिति, ततः शास्त्रविरोधः । तत्रैतत्स्यात्—विहितप्रतिषिद्धत्वात् षोडश्यादिवद्विकल्प
इति । इतरस्तु कल्पनीयकॢप्तत्वेन वैषम्यमाह । ननु चात्यन्तदुर्बलोऽपि विधिरस्त-
दधीनात्मलाभेन प्रतिषेधेन तुल्यबलो भवतीति “प्रतिषेधः प्रदेशेऽनारभ्य विधाने

१ ] प्रथमाध्याये द्वितीयपादः २१
च”, (अ० १० पा० ८ अ० १) इत्यत्र वक्ष्यते । सत्यम् । यस्य शास्त्रमन्तरेणा-
प्राप्तिरस्ति, तत्रैतदेवम् । यत्पुनरर्थप्राप्तं निषिध्यते, तत्र विध्यनभ्यनुज्ञयैव लब्धा-
त्मानः प्रतिषेधा बलीयांसो भवन्तीति तत्रैव वक्ष्यते- “अर्थप्राप्तवदति चेद्” ति ।
स्तेयानृतवादयोश्च विनैव शास्त्रेण प्रवृत्तयोर्विधिनिरपेक्षोऽवस्थितः प्रतिषेध
इति कल्प्यं विधिं बाधते । तस्मादानर्थक्यम् ॥
अतः परं स्वार्थेनैवाऽऽनर्थक्यं प्रतिपादयति । रात्रिन्दिवं धूमार्चिषोरपि दर्शनात्
“धूम एवार्चिरेवेति” चैतद् द्वयमपि प्रत्यक्षविरोधादवधारणं न संभवति । अथ वा
यदनेन प्रतिपाद्यते दिवाऽग्निरादित्यमनुप्रविशति रात्रावादित्योऽग्निमिति तदव-
धारणं नोपपद्यते । पूर्वोक्तस्य हेतोरसिद्धत्वात् । ततश्चाग्निसूर्ययोर्नक्तन्दिवं
व्यवस्थितज्योतिष्ट्वप्रतिपादनाय स्तुतिरप्यसत्यत्वान्नावकल्पत इत्येषा वाऽनव-
धारणा । अथ वा सूर्यो ज्योतिरिति प्रातरयं मन्त्रोऽग्निर्ज्योतिरित्युेष सायमित्येषा
मन्त्रयोरवधारणा न सिध्यति । अथ वा समस्तो वेदः प्रमाणमित्येषाऽवधारणा
न सिध्यतीत्यभिप्रायः । शास्त्रविरोधो दृष्टविरोधद्वयं पुनः शास्त्रदृष्टविरोध
इति यत् सदृशन्यायानि सन्ति, क्रमभेदेन चोद्यते तत्परिहारसूत्रक्रमभेदा-
नुरोधेन । 'न चैतद्विद्म' इत्यार्षेयवरणशेषोऽभिमतः । स चायं क्रियातत्संबन्ध्यन-
भिधानात्तद्विद्मत्वेनाप्रमाणम् । न हि ब्राह्मणत्वाज्ञानसंदेहविपर्ययाः ब्राह्मण-
त्वादिविषये आक्षेपसमाधाने केनचिदंशेन कर्मण्युपयुज्यन्ते । न च प्रत्यक्ष-
विरुद्धाः स्तुतिः संभवति । न च स्वतन्त्रब्राह्मणत्वाज्ञानप्रतिपादनेन प्रामाण्यम् ।
कथं पुनरयं दृष्टविरोधो यदा समानाकारेषु पिण्डेषु ब्राह्मणत्वादिविभागः शास्त्रेणैव
निश्चीयते । नायं शास्त्रविषयो, लोकप्रसिद्धत्वाद् वृक्षत्वादिवत् । कथं पुनरिदं
लोकस्य प्रसिद्धम् प्रत्यक्षेणेति ब्रूमः । कस्मात्पुनर्मातापतृसंबन्धानभिज्ञाश्चक्षुः
संनिकृष्टेषु मनुष्येष्वनाख्यातं न प्रतिपद्यन्ते, शक्यभावात् । यथा वृक्षत्वं प्राग-
भिधानव्युत्पत्तेः । नैतत्तुल्यम्, वृक्षत्वं प्रागभिधायकव्यापाराज्जात्यन्तरव्यवच्छिन्नं
स्वव्यक्तिष्वनुगतं शाखादिमद्रूपेण दृश्यते । न तु ब्राह्मणत्वम् । अपि च व्युत्पन्न-
शब्दोऽपि निमित्तान्तरादृते नैव प्रतिपद्यते । न चोपवीताध्ययनादिनिमित्तम्,
वर्णत्रयसाधारणत्वात् । अध्यापनाद्यपि भिन्नाचारक्षत्रियवैश्यप्रतियोगित्वात्संदि-
ग्धम् । सर्वं च दुष्टशूद्रेषु संभाव्यमानत्वादनििश्चितम् । यस्त्वविचारितसिद्धमेव
प्रतिपद्येत, स शुक्तिकामपि रजतं मन्यमानः क्रीणीयात् । नैष दोषः । क्वचिद्धि
काचिज्जातिग्रहणे इतिकर्तव्यता भवतीति वर्णितमेतत् । तेन यथैवाऽऽलोकेन्द्रिया-
नेकपिण्डानुस्यूतिशब्दस्मरणव्यक्तिमहत्त्वसंनिकर्षाकारविशेषादयोऽन्यजातिग्रहणे-
कारणम्, तथैवात्रोत्पादकजातिस्मरणम् । अयं चोत्पाद्योत्पादकसंबन्धो मातुरेव
प्रत्यक्षः, अन्येषां त्वनुमानोपदेशाद्यवगतकारणं भवति । न चावश्यं प्रत्यक्षा-
वगतमेव प्रत्यक्षनिमित्तं भवति, चक्षुरादेरनवतस्यापि निमित्तत्वदर्शनात् ।
आन्तरालिकस्मृतिव्यवहितमपि चेन्द्रियसंबन्धानुसारि प्रत्यक्षमित्येतत्साधितम् ।

२२ मीमांसादर्शनम् [ सू०
न च यत्सहसा सर्वस्य प्रत्यक्षं न भवति, तन्निपुणतोऽपि पश्यतां न प्रत्यक्ष-
मित्येतदप्युक्तमेव । स्त्र्यपराधात्तु दुर्ज्ञानोऽयं संबन्ध इति स्वयमेव वक्ष्यति ।
न च तावन्मात्रेण प्रत्यक्षता हीयते । न हि यदिगिरिशृङ्गमारुह्य गृह्येत, तद्-
प्रत्यक्षम् । न च स्त्रीणां क्वचिद्व्यभिचारदर्शनात्सर्वत्रैव कल्पना युक्ता, लोक-
विरुद्धानुमानासंभवात् । विशिष्टेन हि प्रयत्नेन महाकुलीनाः परिरक्षन्त्यात्मा-
नमनेनैव हेतुना राजभिर्ब्राह्मणैश्च स्वपितृपितामहादिपारम्पर्याविस्मरणार्थं
समूहलेखानि प्रवर्तितानि । तथा च प्रतिकुलं गुणदोषस्मरणात् तदनुरूपाः
प्रवृत्तिनिवृत्तयो दृश्यन्ते । न च भर्तृव्यतिरेककृतेन वर्णसंकरोऽपराधेन जायते ।
दृश्यते ह्यपराधिनीनामपि स्वभर्तृनिमित्तः प्रसवः । तदपराधनिमित्तस्तु तासाम-
शुभफलोपभोगो भवेत्, न त्वपत्यानां वर्णसंकरः । न च नियोगतो वर्णान्तरैरेव
सह प्रमादः । सवर्णेन चोत्पादितस्य नैव वर्णान्तरत्वापत्तिः । संकरजातानामपि
च पुनरुत्कर्षापकर्षाभ्यां सप्तमे पञ्चमे वाऽन्यतरवर्णापत्तिः स्मर्यते । तत्र त्वेता-
वन्मात्रमागमकिं प्रत्येतव्यम् । न ह्ययं पुरुषेयत्तानियमो लौकिकप्रमाणगम्यः ।
तस्मात्सत्यपि सारूप्ये यथा केनचिन्निमित्तेन स्त्रोपुंस्कोकिलादिविभागज्ञानम्,
तथैव दर्शनस्मरणपारम्पर्यानुगृहीतप्रत्यक्षगम्यानि ब्राह्मणत्वादीनीति, भवत्य-
ज्ञानवचनस्य प्रत्यक्षविरोधः । येषामप्याचारनिमित्ता ब्राह्मणत्वादयस्तेषामपि
दृष्टविरोधस्तावदस्त्येव, न त्वाचारनिमित्तवर्णविभागे प्रमाणं किंचित् । सिद्धानां
हि ब्राह्मणादीनामाचारा विधीयन्ते, तत्रेतरेतराश्रयता भवेत् । ब्राह्मणादीना-
माचारस्तद्वशेन ब्राह्मणादय इति । स एव शुभाचारकाले ब्राह्मणः पुनरशुभा-
चारकाले शूद्र इत्यनवस्थितत्वम् । तथैकेनैव प्रयत्नेन परपीडानुग्रहादिकुर्वतां
युगपद्ब्राह्मणत्वाब्राह्मणत्वविरोधः ।
एताभिरुपपत्तिभिस्तद्वयं प्रतिपाद्यते । न तप आदीनां समुदायो ब्राह्मण्यम्,
न तज्जनितः संस्कारः । न तदभिव्यङ्ग्या जातिः । किं तर्हि ? मातापितृजाति-
ज्ञानाभिव्यङ्ग्या प्रत्यक्षसमधिगम्या । तस्मात्पूर्वेणैव न्यायेन वर्णविभागे
व्यवस्थिते, मांसेन शूद्रीभवतीत्येवमादीनि कर्मनिन्दावचनानि, अथ वा वर्णत्रय-
कर्महानिप्रतिपादनार्थानीति वक्तव्यम् । पूर्ववच्चात्रापि क्लृप्तत्वात्प्रत्यक्षस्य,
कल्प्येनाज्ञानविधिना सह विकल्पो न संभवति । अपि च तत्रानुष्ठानात्मकत्वा-
द्वेदपि, न त्वत्र, वस्तुरूपाणामैकात्म्येनाविकल्प्यत्वात् । 'को हि तद्वेदेति
पूर्ववदेवाज्ञानसंशयविपर्ययाणामनौपयिकत्वादानर्थक्यम् । निश्चितवेदप्रामाण्यैश्च
त्रैविद्यवृद्धैर्विज्ञायमानत्वात्स्वार्थेऽप्यातर्थक्यम् विकल्पाभावश्चानन्तरोक्तवत् ॥२॥
न्या० सु०--अत्र भाष्यकारेण स्तेनं मन इत्याद्युदाहृत्य एवंजातीयकानां धर्मं प्रति
अप्रामाण्यम्, भूतानुवादादित्युकम् । तदेवंजातीयकानि कं धर्मं प्रमिमीरन्नित्यनेन गतार्थ-
त्वात्पुनरुक्तमित्याशङ्क्य व्याचष्टे--वाङ्मनसोरिति । अनेनैवं भाष्यं व्याख्यातं भूतशब्दः

२ ] प्रथमाध्याये द्वितीयपादः। २३
परमार्थवाची, यादृशं परमार्थतः प्रच्छन्नरूपतदौपचारिकं मनसःस्तेनत्वम्, प्रायिकं च वाचोऽ-
नृतवादिनीत्वम्, तादृशानुवादमालोच्य धर्मं प्रत्यप्राण्यम्' अतथाभूतमुख्यरूपस्तेना-
नृतवादिनोत्वकीर्त्तने तु स्वार्थेऽप्यप्रामाण्यमिति भूतानुवादादिति विशेषणोपादानसामर्थ्यात्
सूचितम् । ततश्च पूर्वोदाहरणेष्वतीथार्थकीर्त्तनेन योग्यानुपलब्ध्यभावान्नस्वाथांसत्यत्वा-
निश्चयेऽपि धर्मं प्रत्यप्रामाण्यमुक्तम् । इह तु स्वार्थेऽप्यसत्यत्वमित्यधिकार्थत्वादपौनरुक्त्य-
मिति । अनेन चेहोदाहरणे पूर्वसूत्रमेवं योजितम् । मनसःस्तेनशब्दवाच्यपरस्वापहारित्वा-
भावाद्वाचश्चानृतवदनकर्तृत्वभावावन्मुख्यरूपस्तेनानृतवादिनीत्वकीर्त्तने स्वार्थासत्यत्वादान-
र्थक्यमभिधेय शून्यत्वं यथादृष्टार्थानुवादेऽप्यक्रियार्थत्वाद्वानर्थक्यं निष्प्रयोजनत्वमिति ।
अध्याहारादिभिस्तु क्रियार्थत्वकल्पने प्रतिषेधशास्त्रविरोधापत्तेरानर्थक्यमेव युक्तमिति,
शास्त्रविरोधसूत्रव्याख्यानाथं विपरीणामादिभिरित्यादिभाष्यं तद्व्याचष्टे-अथ त्विति ।
न चेत्यादिभाष्यमाशङ्कापूर्वं व्याचष्टे - तत्रेति । अत्राशङ्कते-ननु चेति । पितृयज्ञे२
ऽतिदेशप्राप्तस्य होतृवरणस्य न होतारं वृणीत इति निषेधः श्रूयते । दर्शपूर्णमासयोश्चा-
नारभ्य विधिप्राप्तस्य ये यजामहस्य नानुयाजेषु यजामहं करोतीति । तत्रानयोर्नित्यं
बाधो विकल्पेन वेति निरूपणार्थं नञ् अयं प्रतिषेधार्थः, पर्युदासार्थो वेति चिन्तायां
पूर्वपक्षयिष्यते । श्रुत्या नञः प्रधानभूतविधायकान्वयेन निषेधार्थत्वं प्रतीतमपि नेक्षेतेत्यत्र
व्रतशब्दसामानाधिकरण्यादनङ्गीकृत्योपसर्जनोभूतधात्वर्थान्वयेन पर्युदासोऽङ्गीकृतः । न
त्विह तथा, विकल्पपर्युदासे ऽप्यपरिहार्यः, तस्यापि पर्युदसनीयप्राप्तिसापेक्षत्वात् । अन्यथा
'न सौम्येऽध्वर' इत्यस्यापि पर्युदासत्वापत्तेः ।
किं चान्यत एव तदन्येषु प्राप्तेस्तदन्यमात्रसङ्कोचार्थत्वे च पर्युदासोपसंहारयोर-
भेदापत्तेर्न पर्युदासाख्यविध्यन्तरोपपत्तिः । तस्मात्प्रतिषेध एवायम्, ततश्च विहितप्रतिषिद्ध-
त्वाद्विकल्प इति तत्र प्राप्तिसापेक्षस्यापि सुरापानादिनिषेधवद्विशेषनिष्ठत्वाद् बलीयस्त्वं
स्यादित्याशङ्क्य विशेषनिष्ठेनापि निषेधेनात्मलाभायोगापत्तेः सामान्यरूपस्यापि विधेः
स्वविषयादपनेतुमशक्यत्वादनपनीतस्य च शास्त्रस्यात्यन्तबाधायोगाद्विकल्पो दुःपरिहर
इत्युक्तम् । न तुल्यहेतुत्वादुभयं शब्दलक्षणमिति । सिद्धान्तस्तु कर्तव्यत्वप्रतिपादनात्मक-
विधिविरोधित्वेनाकत्तंव्यत्वप्रतिपादनात्मकनिषेधे जाग्रति विकल्पापत्तेस्तत्परिहाराय
पर्युदासो ऽत्राङ्गीक्रियते, तस्य विषयसमर्पणेनानुकूलतया विकल्पानासञ्जकत्वात्तन्मा-
त्रसङ्कोचनार्थोपसंहारात्तदन्यमात्रसङ्कोचार्थस्य पर्युदासस्य स्पष्टं वैलक्षण्यमित्यनवद्यम् ।
परिहरति-सत्यमिति । दृष्टविरोधादीन्वक्ष्यमाणान्सर्वान्हेतूनभिधेयशून्यरूपानर्थक्य-
प्रतिपादनपरतया सामान्यतो व्याचष्टे-अतः परमिति । अत्र भाष्यकारेण धूम एवाग्ने-
दिवा दहशे नार्चिरित्यादिदृष्टविरो धोदाहरणं दर्शयित्वा, तस्माचैषावधारणा सिध्यती-
त्युक्तम् । तद्धम एवार्ारिचेवेत्यवधारणानुपपत्त्युपसंहारार्थत्वेन तावद्व्याचष्टे-रात्रि-
१. पूर्वोक्तविपरीतमिति भावः ।
२. चातुर्मास्ये साकमेधाख्ये तृतीये पर्वणि महापितृयज्ञादित्यर्थः ।