मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 486, कुल 804 में से
संदर्भ में पढ़ें४३२ मीमांसादर्शनम् [ सू०
बलवत्या शास्त्रस्थप्रसिद्ध्या बाध्या उत स्वयमेव बलवतीति तस्या बाधिकेत्ययं
विचारस्संभवतीति तमेव योग्यायोग्यत्वविचारं सूचयितुमयमपक्षिप्त इत्यवगन्त-
व्यम् । प्रयोजनं तु विचारस्य पिकादिशब्दानां व्यवस्थितार्थविषयत्वं सिद्धं
स्वयमेव वक्ष्यति, तत्र पूर्वाधिकरणसिद्धान्तन्यायेन पूर्वपक्षमाह—शिष्टाचार-
स्येति । आचारशब्दः शब्दप्रयोगविषयः । स्मृतिशब्दोऽपि तत्पूर्वप्रयोगपरः, यद्यपि
शास्त्रस्थप्रसिद्धिः कल्प्या, तथापि शास्त्रमूलत्वादेव प्रमाणम् । म्लेच्छप्रसिद्धिस्तु
कॢप्तापि निर्मूला न प्रमाणम्, कॢप्तसकल्पमूलयोः कॢप्तमूलाया एव प्राबल्यादिति
भावः । म्लेच्छप्रसिद्धेरप्रामाण्ये फलितमाह--तस्मादिति । निगमाद्यर्थवत्त्वाय च
म्लेच्छप्रयोगस्याप्रामाण्यमाश्रयणीयम्, अन्यथा म्लेच्छदेशानन्त्यात् क्वचिद्देशे
कस्मिंश्चिदर्थे कदाचित् केनचित् म्लेच्छेनायमार्यप्रसिद्धः शब्दः प्रयुक्त इति
शङ्कायां निगमादिवैयर्थ्यप्रसङ्गादित्याह-निगमादीनामिति । अनभियुक्तत्वाच्च
म्लेच्छानां न तद्व्यवहारश्शब्दार्थसम्बन्धे प्रमाणम् । किन्तु अभियुक्तानामार्याणा-
मेवेत्याह-अनभियोगश्चेति । तस्मानम्लेच्छप्रसिद्धेः प्रामाण्यायोग्यतया ततोऽ-
र्थावगमासंभवात् आर्यप्रसिद्धानां पिकादिपदानां धातुबलेनैवार्थः कल्पनीय इति
निगमयति-तस्मादिति ।
सिद्धान्तं दर्शयन् सूत्रमवतार्य व्याकरोति-एवमिति । यत्पदं म्लेच्छैरर्थ-
विशेषे चोदितं प्रयुक्तम्, तच्छिष्टैरनवगतमगृहीतसम्बन्धमपि प्रतीयेत-आद्रियेत ।
तस्मिन्नर्थे प्रमाणमिति यावत् । अत्राविरोधादिति हेतुमात्रं व्याचष्टे-यत्प्रमाणे-
नेति । यद्यपि न शास्त्रमूला म्लेच्छप्रसिद्धिः, तथापि शास्त्रस्थप्रसिद्धिविरोधा-
भावाद्देदतदङ्गादिषु प्रयुक्तपिकादिपदार्थाकाङ्क्षायां तत्सिद्धकोकिलाद्यर्थपरिग्रह-
संभवेनार्थान्तरकल्पना युक्तेति भावः । यद्यपि पूर्वाधिकरणन्यायेन शास्त्रस्थप्रसिद्धेः
बलीयस्त्वमिति, तदपि प्रत्यक्षाद्यनवगम्ये धर्मादिविषय एव, न वाच्यवाचक-
सम्बन्धादिविषय इत्याह--यत्त्वित्यादिना । यत्पुनर्वाच्यवाचकादिष्वप्यभि-
युक्तानां शिष्टानामेव प्रामाण्यम्, न म्लेच्छानामिति, तदनुवदति--यत्त्वभियुक्ता''''
इति । दूषयति-अभियुक्ततरा इति । यथैव सेवागृहनिर्माणादिषु दृष्टार्थेषु
म्लेच्छानामधिकं कौशलं तथैवाभ्यस्तकोकिलादिवाच्यस्वरूपाणां वाच्यवाचक-
भावावगमेऽपीत्यर्थः । निगमाद्यर्थवत्त्वाय म्लेच्छाचारस्याप्रामाण्यमुक्तमनुवदति-
यत्त्विति । दूषयति-तत्रैषामिति । म्लेच्छदेशानन्त्येऽपि विचारावस्थायामपि
येषां पदानामर्थविशेषे प्रसिद्धिः म्लेच्छेषु पुरुषपरम्परया न प्राप्ता, तेषां पदानां
निगमादिवशेन प्रतिपत्ति। भविष्यतीत्यर्थः । पिकादिपदानां निगमादिवशेनार्थ-
वत्त्वेऽर्थव्यवस्थापि न स्यादित्याह-अपि चेति । पिकादिशब्दस्य निगमेन
तावदर्थविशेषो न प्रतिपादितः, तथा सति सन्देहाभावप्रसङ्गात् अवयवव्युत्पत्त्या
तु निरुक्त्या कश्चिदर्थः कल्पनीयः, तत्र च पिवति पाति पचतीत्यनेकधातुसाधा-
रणत्वादवयवान्वयस्य निरुक्तेनाप्यर्थविशेषासिद्धिरिति भावः ।