मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
सूत्रवार्तिकभाष्येषु ये पाणिनिकात्यायनपतञ्जलय आचार्यास्ते विगीतवचना इत्यर्थः ।
व्याकरणस्य शास्त्रत्वाभावादिति योज्यम्, साधितं चास्य स्वातन्त्र्यं कल्पसूत्राधिकरणे
इत्याह—तदुक्तमिति । एतदेव विवृणोति—न हीति ।
यद्वा पौरुषेयत्वात् व्याकरणस्य वक्त्रभिप्रायमात्रपर्यवसानेनार्थपरत्वाभावात्साधुप्रयोग-
नियमं प्रत्यशास्त्रत्वादिति षष्ठेन प्रकारेण योज्यमित्याह—सर्वत्र हीति । स्मृतिशास्त्रान्तर-
सम्वादाभावादिति सप्तमीं योजनामाह—न चेति । एतदेव विवृणोति—प्रायेणेति । अस्तु
तावत्स्मृत्यन्तरेणासम्वादः ।
परस्परमपि व्याख्येयव्याख्यानग्रन्थानां न सम्वादोऽस्तीत्याह—परस्परेण चेति ।
सूत्रवार्तिकभाष्येषु ये पाणिनिकात्यायनपतञ्जलय आचार्यास्ते विगीतवचना इत्यर्थः ।
कीदृशं विगानमित्यपेक्षायां निःप्रयोजनं व्याकरणं सूत्रकृतोऽभिप्रेतम् । साधुशब्दप्रयोगद्वारेण
धर्मप्रयोजनत्वं वार्तिककृता साधुशब्दज्ञानद्वारेण भाष्यकारस्येति विगानं दर्शयितुमाह—न
तावदिति । तेन तस्य प्रयोजनाभावाभिप्रायो लक्ष्यत इति भावः । ननु विस्मृत्याप्य-
नुक्त्युपपत्तेः, कथं प्रयोजनाभावाभिप्रायो लक्ष्यत इत्याशङ्क्याह—कथं चेति । एतावत्त्वेन
बह्वायासात्वमभिप्रेतम् ।
एतदेव विवृणोति—येष्विति । मोक्षाणामिति निर्धारणे षष्ठी । न चानादरेणानुक्त्युप-
पत्तिरित्याह—न चेति । सुज्ञानत्वेनापि नोपपत्तिरित्याह—सुज्ञानत्वं पुनरिति । यद्यपि
वार्तिककृता शास्त्रेण धर्म्मनियम इति धर्म्मप्रयोजनत्वं व्याकरणस्योक्तम् । तद्ब्याकरणे
धर्म्मस्याप्रतिपाद्यमानत्वादयुक्तमित्याह—धर्म्मश्चेति । ननु न साक्षाद् धर्म्मप्रयोजनत्वं
व्याकरणस्याभिप्रेतम्, किं तु तदनुगतशब्दप्रयोगद्वारेण, ज्ञानद्वारेण वेत्याशङ्क्याह-धर्म्मत्व-
मिति । एतदेव विवृणोति—शास्त्रार्थो हीति । किं पुनः शब्दस्य ज्ञाने धर्मः, आहो-
स्वित्प्रयोग इति सन्दिग्धो वार्त्तिककृता ज्ञाने धर्मं इति चेत्तथाधर्म्म इत्यनेन साध्वसाधु-
विवेककारिणो व्याकरणवत्साधुत्वज्ञानेऽर्थान्तरोपलक्षणरहितानामसाधुत्वाज्ञानापत्तेः, तस्य
च न म्लेच्छभाषां शिक्षेतेत्यादिनिषेधपर्यालोचनेनाधर्म्मसाधनत्वाधर्म्मसाधनत्वावसायाद-
धर्म्मः प्रसज्येतेत्युक्त्वा प्रयोगे र्तहि धर्म्मो भविष्यतीत्याशङ्क्य तस्मिन्पक्षे व्याकरणानभि-
ज्ञानामपि साधुशब्दप्रयोगात् धर्म्मोत्पत्तेर्व्याकरणानानर्थक्यमिति, प्रयोगे सर्वलोकस्येत्य-
नेनोक्त्वा दोषद्वयमयाच्छास्त्रपूर्वकं प्रयोगेऽभ्युदयः, तस्य च वेदशब्देनेत्यनेन व्याकरण-
जनितज्ञानपूर्वकसाधुशब्दप्रयोगो धर्म्मसाधनम्, यथा वेदशब्दपूर्वोऽग्निष्टोमादिजनित-
ज्ञानपूर्वकमनुष्ठितो धर्म्मसाधनम् । यथा वा वेदरूपः शब्दो नियमपूर्वमधीतो धर्म्मसाधन-
मित्युकतं भाष्यकृता । तत्सर्वं व्याख्याया, अथ वा 'पुनरस्तु ज्ञाने धर्मं' इत्युक्तम् । न
चैवमव्यवस्थितशास्त्रार्थावधारणं युक्तमित्यर्थः ।
ननु सम्यग् ज्ञातः सुप्रयुक्त इत्युभयोर्ज्ञानप्रयोगयोरेकवाक्योपादानात्समुच्चितयोर्धर्म्मत्वं
भविष्यतीत्याशङ्क्याह-सम्बद्धयोश्चेति । एकवाक्योपपत्तयोरप्याख्याते नामाथंयोः समुच्चयः,
प्रतिपदमपूर्वाणि एकपदे एवापूर्वमित्याधिकरणं यदेकस्मादपूर्वं तदेतरत्तदर्थमित्येतदित्यर्थः
प्रतिपदाधिकरणे निराकरिष्यत इत्याशयः । सामान्यन्यायमुक्त्वा प्रकृते योजयति—
२४ ] प्रथमाध्याये तृतीयपादः ५३९
तद्विहेति । एकस्मिन्वाक्ये साधनद्वयविध्ययोगात्सति ज्ञाने साधुशब्दप्रयोगोऽप्यनुषङ्गान्निष्पद्यत
इत्येवं ज्ञानस्तुत्यर्थत्वेन सुप्रयुक्तस्तु शब्दो ज्ञानस्य धर्मसाधनत्वपक्षे व्याख्येयः । प्रयोग-
पक्षे तु ज्ञातमात्रोऽपि साधुशब्दः स्वर्गं साधयति, किमुत प्रयुक्त इति प्रयोगस्तुत्यर्थत्वेन
सम्यग्ज्ञानशब्दो व्याख्येयः । ततश्च ज्ञानधर्मत्वे, प्रयोगस्य धर्मत्वायोगात् लोकसिद्धस्यैव
ज्ञानानुनिष्पादितत्वेन सत्यामपि व्याकरणादुपकारनिवृत्तौ व्याकरणं प्रति प्रयोजकत्वाभावान्न
भवदभिप्रेतद्वारेण व्याकरणस्य धर्मप्रयोजनत्वं युक्तम् । प्रयोगस्य तु धर्मत्वे यदेकस्मादपूर्वं
तदेतरत्तदर्थमितिन्यायेन ज्ञानस्य प्रयोगाङ्गत्वेन पारार्थ्यज्ञानात्फलश्रुतेः सुप्रयुक्त इति-
वत्सम्यग्ज्ञान इत्यनेनाप्यन्वये कल्प्यमानेऽर्थवादत्वावसायेन ज्ञानस्य धर्मत्वायोगात्तद्-
द्वारेणापि व्याकरणस्य धर्मप्रयोजनत्वं न युक्तमित्यर्थः । आदिमध्याद्व्याकरणानुगतशब्द-
प्रयोगस्यानादिशास्त्रविषयत्वाभावादित्यष्टमी योजनामाह किं चेति । व्याकरणपूर्वकज्ञान-
प्रयोगयोरित्यर्थः । एतदेव विवृणोति - यन्नामेति । मन्त्रार्थवादगतस्यानित्यसंयोगस्य
परिहारो यो न्यायो अनित्यसंयोगविरोधरूपः तेनेत्यर्थः । न च व्याकरणस्यापि नित्यत्वं
शङ्कनीयमित्याह - न चेति । ननु व्याकरणस्य कूटस्थनित्यत्वाभावेऽपि, प्रवाहनित्य-
त्वाद्वैदिकविधिविषयत्वं भविष्यतीत्याशङ्क्याह - अथापीति । उक्तमौत्पत्तिकसूत्रेऽध्येतॄणाम-
स्मरणादिभिश्चशब्दपूर्वत्वमिति वेदाधिकरणसिद्धान्तसूत्रोक्तेन न्यायेन सर्वपुरुषेभ्यो वेदस्य
प्राथम्यान्न पौरुषेयग्रन्थविषयत्वं युक्तमित्यर्थः । ननु व्याकरणत्वजातेः कूटस्थनित्यत्वाद्वेद-
विषयत्वं भविष्यतीत्यत आह - न चेति ।
ननु व्याकरणस्य सूत्रमिति षष्ठ्यर्थस्य भेदं विनानुपपत्तेः सूत्रमात्राच्छब्दाप्रतिपत्तेः,
व्याकरणाच्छब्दान्प्रतिपद्यामह इति प्रयोगानुपपत्तेः । न सूत्रस्य व्याकरणत्वं युक्तं 'नापि
शब्दस्य' व्याक्रियन्ते शब्दा अनेनेति व्याकरणमिति ल्युडर्थानुपपत्तेर्योगस्य च शब्दवत्त्वा-
भावाद् व्याकरणे भवो योगो वैयाकरण इति भवतद्धितानुपपत्तेः । शब्दस्य च पाणिन्या-
दिभिरप्रोक्तत्वेन पाणिनिना प्रोक्तं पाणिनीयमिति प्रोक्ततद्धितानुपपत्तेरिति वार्तिककारेण
व्याकरणशब्दस्य सूत्रपरत्वशब्दपरत्वरूपे पक्षद्वये इत्यर्थः । पक्षद्वयेऽपि दूषिते भाष्यकारेण
शब्दपक्षे तावद् दोषपरिहारार्थं प्रस्कन्दनं प्रपतनमित्यपादानादिष्वपि दर्शनेन, करणाधि-
करणयोरेव ल्युट्प्रत्ययनियमाभावाद्, व्याक्रियत इति व्याकरणमिति कर्मव्युत्पत्त्या
ल्युडर्थोपपत्तिमुक्त्वा भवप्रोक्तादितद्धितोपपत्त्यर्थं लक्ष्यलक्षणे व्याकरणमिति लक्ष्यलक्षणयोः
शब्दसूत्रयोः समुदायिनोर्व्याकरणत्वाभिधानात्सूत्रात्मकस्य व्याकरणस्य कृत्रिमत्वेऽपि
शब्दात्मकस्य नित्यत्वाद्वेदविषयत्वं युक्तमित्याशङ्कते-अथेति । लक्षणनिरपेक्षाणां शब्दा-
नामानानन्त्याद्विधिविषयत्वानुपपत्तिं तु गवादिगाव्यादीनां जातिरूपेण, व्यक्तिरूपेण वा
विधिप्रतिषेधौ उपपद्येते इत्यादिनोक्तेन परिहरति - तदिति ।
ननु यथा यदितिहासपुराणानि कल्पानीति ब्रह्मयज्ञविधिविषयत्वान्यथानुपपत्त्या
कल्पसूत्राणां कर्तृस्मृतिदार्ढ्यात्कूटस्थनित्यत्वाभावेऽपि प्रवाहनित्यत्वमुक्तम्, तथात्रापि
'तस्मादेषा व्याकृता वागुद्यत' इति व्याकरणानुगताया अर्थवाचो वदितव्यत्वश्रुतेर्व्या-
५४० मीमांसादर्शनम् [ सू०
करणस्य नित्यत्वं भविष्यतीत्याशङ्कते-ननु वेदेति । तद्ग्रन्थस्याध्येतव्यत्वायोगाद् ग्रन्थ-
नित्यत्वं कल्पितम् । इह तु श्रुतिसामान्यमात्रेणापि व्याकृतशब्दव्याख्यानोपपत्तेर्न ग्रन्थ-
नित्यत्वकल्पने प्रमाणमस्तीति परिहरति-नैतदिति । ननु वैदिक्या वाचः स्वराद्यविप्लु-
तरूपेणानिरूपिताकारत्वरूपस्य व्याकृतत्वस्य प्राप्तत्वाद्विध्यानर्थक्यमित्याशङ्क्य, कर्मकाले
स्वाध्यायकाले वोच्यमाने-इयमनूदितेत्युक्तम् । श्लोकं व्याचष्टे - अव्याकृताया हीति ।
अस्य च व्याख्यानम् एकः शब्दः इत्येषापि श्रुतिर्वैदिकस्यैव शब्दस्य स्वराद्यविप्लुतिरूपेण
ज्ञानप्रयोगयोर्द्धर्मत्वप्रतिपादनार्थतया व्याख्यातुं शक्येति सूचयितुमाह-तस्याश्चेति ।
नन्वेकः शब्दः सम्यग् ज्ञातः सुप्रयुक्तः शास्त्रान्वित इत्यत्र शास्त्रशब्दस्य ग्रन्थविषयत्वा-
द्व्याकरणग्रन्थस्य वेदविषयत्वप्रतीतेर्नित्यत्वकल्पना भविष्यतीत्याशङ्क्याह-यदपि चेति ।
प्रशंसांर्थत्वमेवोपपादयति-अहरहरिति । शास्त्रशब्दस्तर्हि कथमत आह -- शास्त्रेति ।
लोकव्युत्पत्त्या शिक्षणात्मकशासनवाचिना शास्त्रशब्देन ग्रहणाध्ययनकालीनः स्वस्यात्मी-
यस्य गुरोरध्यायः शिक्षणार्थः पाठो विवक्षितो ग्रन्थ इत्याशयः । ननु सुप्रयुक्तशब्दस्तर्हि
पुनरुक्तः स्यादित्याशङ्क्याह-सम्यगिति । उपनयनम्-आचार्यकर्तृको माणवकसंस्कारः ।
उपसदन-शुश्रूषे माणवककर्तृके । त्रयं वै तद्ग्रहणाध्ययनकालीनमपि विशिष्टतिकर्तव्यताक-
ग्रहणम्, संस्कृतस्य तस्यैव वेदस्य ब्रह्मयज्ञोपयोगित्वादुपन्यस्तम् ।
ननु तस्माद् ब्राह्मणेन न म्लेच्छितवै नापभाषितवै म्लेच्छो ह वा एष यदपशब्द
(श० ब्रा० ३-२-१-२४) । इत्येषा श्रुतिर्गव्याद्यपशब्दनिषेधार्थत्वाच्छब्दापशब्दविवेकस्य च
व्याकरणधीनत्वाद्व्याकरणापेक्षा भविष्यतीत्याशङ्कयाह-यदपि चेति । कृत्यार्थे तवैकेन्-
केन्यत्वन इति कृत्यार्थे छन्दसि तवैप्रत्ययस्मरणात् कृत्यानां च प्रैषातिसर्गाप्राप्तकालेषु
कृत्याश्चेति प्रैषार्थत्वस्मरणादप्राप्तप्रेषणस्य च विधित्वात्तद्योगेन निषेधार्थतोक्ता । कथं
वैदिकविषयत्वावगतिरपशब्दनिषेधस्येत्यपेक्षायां वैदिकशब्दापेतत्वरूपव्युत्पत्तिसम्भवम्,
सुज्ञानत्वं च कारणद्वयमाह-वैदिकाच्चेति । सर्वेभ्यः शब्देभ्योऽपेत इति च व्युत्पत्तिः
शब्दस्य अशब्दत्वयोगान्न सम्भवतीत्याह-न चेति । ननु नायमभाववचनोऽपेत्युपसर्गः,
किं तु वर्जनवचनः, अतो गव्यादीनां सत्यपि शब्दत्वे, शास्त्रकारैर्वर्जितत्वादपशब्दत्वं
भविष्यतीत्याशङ्क्याह-अथापीति । वर्जनेऽर्थे बर्बरादिभाषाशिक्षणस्य स्मृत्या निषिद्ध-
त्वाच्छ्रुतौ चापशब्दत्वस्य म्लेच्छितशब्दसामानाधिकरण्येन निर्देशाद् बर्बरादिभाषागतस्य
शब्दस्यापशब्दत्वज्ञानादित्यर्थः । म्लेच्छितत्वशब्देन म्लेच्छ अव्यक्तायां वाचीत्यव्यक्तोच्चा-
रणार्थस्य म्लेच्छोऽव्यक्तोच्चारित इत्यर्थो दर्शितः । किं चान्येषामपि बर्बरादिसम्बन्धिना-
माचाराणां निषिद्धत्वाच्छब्दप्रयोगरूपस्याप्याचारस्य तत्सम्बन्धिन एव निषेधोऽवसीयत
इत्याह-युक्तं चेति । गव्यादीनां तु प्रसिद्धम्लेच्छबर्बरादिसम्बन्धित्वेन, अव्यक्तोच्चारणत्वेन
वा म्लेच्छितधातवर्थानुगमाभावादायप्रयुक्तशब्दायतत्वाभावाद्वा नापशब्दतेत्याह-न त्विति ।
यथावृत्तादार्याचारादपेतत्वात्तदप्रवृत्तमित्युच्यते नैवं गव्यादिष्वार्यप्रयुक्तशब्दापेतत्वमस्ति ।
तेषामप्यार्यैः प्रयुक्तत्वादिति वैधर्म्यदृष्टान्तार्थम् ।
२४ ] प्रथमाध्याये तृतीयपादः ५४१
नन्वाहिताग्निरपशब्दं प्रयुञ्जीत श्रुतेम्लेंच्छशब्दसामानाधिकरण्याभावाद् व्याकरणा-
नुगतशब्दापेतत्वनिमित्तलब्धापशब्दव्यपदेश्यत्वगाव्यादािप्रयोगनिमित्तप्रायश्चित्तविधानार्थत्वाद्
व्याकरणापेक्षा भविष्यतीत्याशङ्कयाह-यदपि चेति । निषिद्धाचरणनिमित्तत्वात्प्रायश्चि-
त्तस्य, गाव्यादीनां च शिष्टाचार्विजतत्वेनानिषिद्धत्वावसायाद्यथासम्भवमन्यविषयतैवेयं
श्रुतिर्भवेदित्याशयः ।
व्याकरणानुगतव्यतिरिक्तशब्दविषयत्वासम्भवमुपपादयति-तथा हीति । गाव्यादि-
शब्दप्रयोगलक्षणस्य कार्यस्य सर्वशिष्टपरिगृहीतत्वेनापरिहरणीयत्वमीदृशशब्देनोक्तम्। श्लोकं
विवृणोति-प्रायेण हीति ।
ननु सर्वस्यापि व्याकरणानुगतशब्दप्रयोगनियमो न दृश्यत इत्याह-न चेति । एतदेव
प्रपञ्चयितुमाह-कल्पेति । कल्पकारस्यापशब्दमुदाहरति-समानमिति । छान्दोग्यसूत्र-
कारस्योदाहरति-सूत्रेति । वह्वृचसूत्रकारस्यापशब्दद्वयमुदाहरति-तथेति । कल्पादि-
ग्रहणस्योपलक्षणार्थत्वात् शिक्षाकारस्यापशब्दमुदाहरति-तथेति । स्मृतिकारस्योदा-
हरति-अनुनाषीति । स्मृतिग्रन्थकारेणापि ।
साक्षिणः सन्ति मेत्युक्त्वा वदेत्युक्त्वा वदेत्तु यः ।
इत्यत्र मेशब्दस्येतीकारे परभूते संहितायामेचोऽयवायाव इत्यादेशे कृते लोपः
शाकल्यस्येति च यकारलोपे कृते म इतीतिव्याकरणानुगतां संहितामनपेक्ष्यान्यथा
कृतेत्यर्थः । मीमांसाकारस्यापशब्दद्वयमुदाहरति--तथेति । सम्वत्सरसत्रेषु गावामयनिक-
विध्यन्तातिदेशप्रतिपादनायाऽष्टमे गवामयनोत्तरकालविहितेष्वादित्यानामयनप्रभृतिषु गवा-
मयनस्य विध्यन्तः प्रवर्त्तत इति वक्तव्ये ‘तस्य विकारोऽवयवे च प्राण्यौषधिवृक्षेभ्य इत्याधिकृत्य
गोपयसोर्यदिति विकारोवयवयोर्र्विहितो यत्प्रत्ययोऽर्थवादावगतगोकर्तृकत्वमात्रनिमित्तप्रयुक्तः ।
न चैवाग्नीषोमीयप्रकरणाधीतः स्यादिति' मासामुपोक्ते तानिति बहुवचनान्तस्यापि
मन्त्रस्य प्रतिपदिकार्थसमवायाद् बहुवचनस्य प्रातिपदिकार्थलक्षितावयवबहुत्वाभिधानार्थ-
त्वेनोपपत्तेरनुत्कर्ष इति सिद्धान्तिते, 'द्यावापृथिव्योरहं देवयज्ययोमोर्लोकयोर्ऋद्ध्यासम’-
त्यादीनां दर्शपूर्णमासप्रकरणाधीतानां द्यावापृथिव्याद्यनुमन्त्रणानामपि केनचिद् गुणयोगेन
दर्शपूर्णमासदेवताप्रकाशकत्वोपपत्तेरनुत्कर्ष इत्याशङ्कयार्थं सूत्रे सरूपाणामेकशेषः' इत्याद्येक-
शेषलक्षणहीनं चावोरित्युक्तमित्यर्थः ।
गृह्यकारेणापि जिघ्राणामिति ल्युडन्तजिघ्रादेशः पाघ्रादिसूत्रेण शित्येव प्रत्यये परभूते
घ्रातेर्जिघ्रादेशमन्वाख्यातमनपेक्ष्यैव कृत इत्याह-तथेति । व्याकरणसर्वस्वे निरुक्तेऽपि
व्याकरणानुगताः शब्दाः सन्तीत्याह-कात्स्न्यर्थं इति । आद्धर्धधातुके परभूते ब्रुवो वच्या-
देशस्याभिधानात्तदकरणं हीनलक्षणमित्यर्थः । एतदेव विवृणोति - सम्वत्सरमिति ।
पुराणेतिहासहस्तिशिक्षादिकारिणस्तु नात्यन्तं व्याकरणमाद्रियन्त इत्याह-अन्त इति ।
हस्तिशिक्षादिग्रन्थकारिणो ये उमाभ्यादिरूपा अपशब्दास्तेषामन्तो नास्तीत्यर्थः । एतदेव
५४२ मीमांसादर्शनम् [ सू०
विवृणोति—युगपदिति। वेदप्रयुक्तानां च शब्दानापशब्दत्वाशङ्कानुपपत्तेर्निश्चितसाधुत्वा-
नामनन्वाख्यानादव्यापकं लक्षणं स्यादित्याह—वेदेष्वपीति। सामान्यं छन्दसि, भाषायां
च साधारणम्, चातुर्वर्ण्यादिवत्स्वार्थे तद्धितः। ननु 'व्यत्ययो बहुलमि'ति बहुलग्रहणेन
विकरणवत्सुबादीनामपि व्यत्ययसूचनाद् 'बहुलं छन्दसीति' च लोपाद्यनियमविधानादस्ति
सर्वशब्दानां छान्दसं लक्षणमित्याशङ्कयाह—न हीति।
'सुप्तिङुपग्रहलिङ्गनराणां कालहलच्स्वरकर्तृ यङां च।
व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिध्यति बाहुलकेन॥'
इति वचनान्नियतविषय एव व्यत्ययविधिः दक्षिणायामिति हि प्राप्ते धुरि दक्षिणाया
इति सुपो व्यत्ययः। तक्षन्तीति प्राप्ते ये अश्वयूपाय तक्षतीति तिङः, स्रुवन्तीति प्राप्ते
सामगाः स्रुवत इत्युपग्रहस्य, इन्द्रः सोमस्य कामुक इति प्राप्ते कामुकेति लिङ्गस्य, ममृवां
आवाह इत्यत्रावाहादिति प्रथमपुरुषप्राप्तौ आवाहा इति पुरुषस्य। अग्निमद्यहोतारममवृणी-
तेत्यत्राद्यतनकालवाचिनि लकारे प्राप्ते अनद्यतनकालवाचिलङ्प्रयोगात्कालव्यत्ययः,
काण्डञ्चेत्यत्र कामुके इति प्राप्ते णकारप्रयोगाद्धलव्यत्ययः। अम्यक्सात इत्यत्रामेत्याकारे
प्राप्ते अभ्यगिति संहितादर्शनेनाकारप्रयोगादच्त्व्यत्ययः। अश्वावतीर्गोमतीरित्यत्रान्तोदात्तत्वे
प्राप्तेऽश्वावतीर इत्याद्युदात्तत्वात्स्वरव्यत्ययः, कर्तृशब्दस्य कारकोपलक्षणत्वादद्भिर्ददातीत्यत्र
सम्प्रदानस्य दातृत्वेन प्रत्युपकारार्थं दानकरणत्वाभिधानाद्दद्भ्य इति प्राप्ते दद्द्भिरिति-
व्यत्ययः, यङ्शब्दस्य प्रत्याहारत्वेन योगाद्यङन्तविकरणप्रत्ययग्राहित्वाद् वृत्रं हनतीत्यत्र
हन्तीतिप्राप्ते हनतीति यङ्व्यत्ययः। बहुलं छन्दसीति च अदिप्रभृतिभ्यः शप इत्याद्यधि-
कारविशेषेण शबादिविषयमेवावसीयते, न सर्वविषयमित्यर्थः। तत्रोदाहरणद्वयमाह—
तद्यथेति। आपस्येत्यत्र तावल्लिङ्गवचनव्यत्ययो न व्यत्ययसूत्रस्य विषयः। तस्य बहुल-
ग्रहणेन नियतलिङ्गवचनविधेयत्वाभावात्। नाप्युपधादीर्घादेशो व्यञ्जनान्तस्य च स्वरागमो
बहुलं छन्दसीत्यत्राधिकृतो। येन लक्षणानुगमः स्यादित्याह—न हीति। अवित्यस्य नित्यं
स्त्रीलिङ्गस्य बहुवचनविषयमस्य व्यञ्जनान्तस्य प्रातिपदिकस्य षष्ठ्यन्तस्यापामित्यविकृ-
तस्यान्वाख्यानादापस्येत्यस्त्रीलिङ्गमेकविषयमकारान्तं दीर्घोपधं रूपं न केनापि लक्षणेना-
नुगतमित्यर्थः। द्वारशब्देऽपि दकारलोपो पाकारस्य च वकारादेशो न केनचिल्लक्षणेना-
नुगत इत्याह—नापीति। बहुलग्रहणस्य दृष्टानुविधानार्थत्वाद द्वारशब्दस्य भाषायामपि
व्यत्ययस्यादर्शनान्न दृष्टानुविधानाथंत्वाद द्वारशब्दस्य भाषायामपि व्यत्ययस्यादर्शनान्न
दृष्टानुविधानमस्तीति दर्शयितुम् — लाटेत्युक्तम्। अतो वैदिकशब्दानामसाधुत्वाशङ्कानुप-
पत्तेर्लक्षणमेवाव्यापकत्वादुपेक्षणीयमित्युपसंहरति—तेनेति । व्याकरणान्तरयुक्तानामपि
तदनुगतशब्दप्रयोगदर्शनान्न व्याकरणप्रामाण्याध्यवसानमित्याह—येऽपीति। प्रमादादिनिमि-
त्तशङ्कानिवृत्त्यर्थं प्रायेणेत्यस्यार्थे—सुतरामित्युक्तम्।
सन्तु व्याकरणामियुक्ताः व्याकरणकाराणामेव तदनुगतशब्ददर्शनात्प्रामाण्याध्यवसानं
दुर्लभमित्याह-सूत्रेति। न च तेषां विस्मृत्या प्रयोगोपपत्तिरिति दृष्टान्तद्वारेणाह—अश्वेति।
२४ ] प्रथमाध्याये तृतीयपादः ५४३
एकैकस्य द्वे द्वे (अपशब्दोदाहरणे दर्शयति-सूत्रइति। जनिशब्दः, षष्ठीसमासश्च द्वावपशब्दौ
जनिशब्दस्य तावद१) पशब्दत्वमुपपादयति-जनीति। लक्षणेनाननुगतत्वाज्जनिशब्देन
धातुरेव निर्दिश्यत इत्यर्थः। धातुकर्तृ प्रकृतेश्चापादानसञ्ज्ञानभ्युपगमान्न धातुरत्र विवक्षित .
इत्याह-न चेति। यस्य तु जन्माख्यस्य व्यापारस्य जनिशब्दार्थत्वेन विवक्षितस्य कर्तुं-
र्घटादेः प्रकृतेर्मृत्पिण्डादेरपादानसञ्ज्ञेष्यते, तस्य जायमानसम्बन्धिनो जन्माख्यस्यार्थस्य
जनिशब्दो न वाचक इत्याह-जायमानस्येति। व्यधिकरणे षष्ठ्यौ।
नन्वेवमपि धातौ साधुत्वान्नापशब्दतेत्याशङ्क्याह-तेनेति। क्वचित्साधोरप्यर्थान्तरं
प्रत्यसाधुत्वादपशब्दत्वं भवतीत्याशयः। षष्ठीसमासस्यापशब्दत्वमुपपादयति-तथेति।
(अकस्य निन्दकहिंसकइत्यादौ तच्छीलाद्यर्थवुञ्प्रत्ययादेशत्वेनानेकार्थत्वात्तद्योगे कर्त्रर्थ-
षष्ठ्याः प्राप्तेस्तद्योगे एव समासनिषेधार्थम्। आद्यं तृजकाभ्यां कर्त्तरीति सूत्रम्। न तु
तृज्योगे कर्त्रर्थषष्ठीसमासनिषेधार्थमिदं सूत्रम्। तृचः कर्त्तर्येव विधानात्तद्योगे कर्तुरनभिहि-
तत्वाभावेन कर्त्रर्थषष्ठ्याः प्राप्त्यभावात् प्राप्तिपूर्वकत्वाच्च निषेधस्य। अतः तृजग्रहणम्
उत्तरसूत्रेऽनुवृत्त्यर्थमेव कृतम्। नात्र तस्य प्रयोजनम्। अकस्य तूभयत्रोपयोगः। तामुत्तरसूत्रे
तृजकयोरनुवृत्तिं वक्तुमाद्यसूत्रं वार्तिकपठितमित्यर्थः२)। कर्त्तर्येव तृग्विधेस्तत्प्रयोगे कर्तृ-
षष्ठ्यभावादकस्य निन्दहिंसक्लिशखादादिधातुविहिततच्छीलादिवाचिवुञ्प्रत्ययादेशत्वेनाने-
कार्थत्वात्तद्योगे कर्तृवाचिन्याः षष्ठ्याः समासनिषेधार्थमाद्यसूत्रमुत्तरसूत्रे तृजकाभ्यामित्य-
स्यानुवृत्तिप्रतिपादनार्थंपठितम्। कर्तृवाचिभ्यां तृजकाभ्यां योगे कर्त्तरि चेति सूत्रे
षष्ठीसमासनिषेधादपशब्दतेत्यर्थः। तृच्प्रत्यययोगनिमित्तनिषिद्धं षष्ठीसमासमुदाहृत्य, अक-
प्रत्यययोगनिमित्तनिषिद्धमुदाहरति-एवमिति।
वार्त्तिककृतोऽप्यकप्रत्यययोगनिमित्तनिषिद्धषष्ठीसमासापशब्दोदाहरणम् तावदाह-
तथेति। हलन्ताच्चेति सूत्रेणेकसमीपाद्धलः परो झलादिः सन् किद्भवतीत्युक्ते दम्भेः सनि
कृते दम्भ इट् चेति कित्ति सत्यपि नकारेण व्यवधानात् दम्भिधातुसम्बन्धिनो हलो
झकारस्य इक्सामीप्याभावात् तत्परस्य झलादेरपि सन्ः कित्त्वासिद्धौ३ गुणापत्तेर्धिप्सतीति-
रूपं न सिद्धयेदित्याशङ्क्य हल्ग्रहणस्य जातिवाचकत्वादम्भेर्धातोः परस्य झलादेः सनः-
कित्त्वं सिद्धमित्युक्तम्। (अत्र जातिवाचकपदेकऽप्रत्ययान्तस्य षष्ठीसमासोऽपशब्दः४)।
तस्यैवापशब्दान्तरमुदाहरति-तथेति। अइउणिति प्रत्याहारसूत्रगतेन णकारानुबन्ध-
केनाकारेण धात्वादिगतस्याकारस्य णकारानुबन्धरहितत्वाद्वहणं न प्राप्नोतीति शङ्कित्वा,
भेदाभावाद्धात्वादिष्वस्यापि ग्रहणं सिद्धमिति, परमतेन परिहारमुक्त्वा तन्निराकरणार्थम्-
१. अयं पा० २ पु० ना० ।
२. अयं पा० २ पु० ना० ।
३. अनिदितां हलउपधायाः क्ङितीत्युक्ते नलोपो न सिद्ध्यतीत्यर्थः। नलोपासिद्धे।
४. अयं पा० २ पु० ना० ।
५४४ मीमांसादर्शनम् [ सू०
वार्त्तिककृतेदमुक्तम् । दण्ड अग्रमिति व्यस्तोच्चारणे दण्डपदान्त्यस्याग्रपदाद्यस्य वाकारस्या-
न्तरालकालानुपलम्भलक्षणत्कालव्यवायाद्व्यवधानाद्—अन्यत्वमित्युक्तम् । नन्वेकत्वेऽपि
व्यञ्जकाभावान्मध्येऽनुपलब्धिर्युज्यत इत्याशङ्क्य—शब्दव्यवायादित्युक्तम् । दण्ड इत्यत्र
दकारडकारपरयोरकारयोर्मध्ये व्यञ्जकाभावे णकारडकारयोरप्यनुपलम्भः स्यात् न च
व्यञ्जकानां प्रतिनियतविषयत्वम् दीपादी दृष्टम्, येन णकारडकारयोर्व्यञ्जकसद्भावादुप-
लब्धिः, अकारस्य तु व्यञ्जकाभावादनुपलब्धिरिति व्यवस्था युज्येतेत्याशयः । अत्र
चान्यभावमित्यन्यशब्दः । तथा हि निष्कर्षलक्षणगुणाभिधायी भावशब्दो यदि निष्कर्पणी-
यान्यशब्दवाच्यगुण्यपसर्जनत्वेन निष्कर्षलक्षणं गुणं ब्रूते, ततो गुणमुक्त्वा गुणिनि वर्तमान-
त्वेन गुणवचनसंज्ञापत्तेः । पूरणसुहितार्थसदव्ययतव्यसमानाधिकरणेनेति षष्ठीसमासनिषे-
धादपशब्दत्वम्, स्वप्रधानगुणाभिधायित्वमभ्युपगमेन तु षष्ठीसमासकल्पने गुणवचनसंज्ञावाधाद्
गुणवचनसूत्राननुगतब्यञ्प्रयोगायोगादपशब्देतेत्यर्थः ।
कर्म्मधारयस्तु (कर्मण्युपपदे धातोरण्प्रत्ययोक्तेर्नित्यसमासाच्च कुम्भकार इतिवत्
हिमवद्भावः इत्यादिप्रयोगमाशङ्क्य, अनभिधानात्तादृशप्रयोगाभावादित्युत्तरे अविरविकेति
दृष्टान्तः । भावशब्दस्यान्यत्वगुणविशिष्टगुणिपरत्वेनान्यशब्दसमानार्थत्वात्पर्यायाणां सह-
प्रयोगाभावाद्द्वैयर्थ्यमित्यर्थः१) भावशब्दस्यानर्थक्यापत्तेरयुक्त इत्याशयः ।
भाष्यकृतापि कर्म्मण्यणिति सूत्रे हिमवन्तं शृणोत्यादित्यं पश्यतीति दृशिशृणोति-
भ्यामण्प्रत्ययः कस्मान्न भवतीत्याशङ्क्यानभिधानादिति परिहारमुक्तम् । यथाविकशब्दस्य
स्वाधिकप्रत्ययान्तस्याविशब्दसमानार्थत्वेऽपि तस्य विकार इति विकारतद्धिते लक्षणानु-
गतेऽप्याविकं मांसमितिप्रयोगदर्शनादविकशब्दादेवोत्पद्यते नाविशब्दात्तथात्रापि प्रयोगाभावे-
नाभिधानसामर्थ्याभावान्न इण्प्रत्ययोत्पत्तिरित्युपपादनायाविरविकन्यायेनेति दृष्टान्तेऽभि-
हितेऽपशब्दः प्रयुक्त इत्याह—भाष्येऽपीति । अविश्चाविकश्चाऽव्यविकौ तयोर्न्याय इति
द्वन्द्वगर्भस्तत्पुरुषः ।
तस्यैवापशब्दान्तरमुदाहरति—तथेति । ऋलृगित्यत्र सूत्रे वार्त्तिककारेण लृकारस्य
स्वातन्त्र्येण क्वचिदप्यप्रयोगात् कॢपिस्थस्य च यणादिकार्यं प्रत्यसिद्धत्वादुपदेशानर्थक्य-
मित्याशङ्क्य, यदृच्छाशब्दादिषु (कुमारी ऋतकर्मिति वाच्ये लृतकमित्यनुकरणशब्दो
यदृच्छाशब्दः । तत्र लृकारे परे ईकारस्यानुकार्यं यणादेशः कुमारी लृतकमित्येवं लृकारस्य
प्रयोजनमित्यर्थः२) यणादिकार्यसिद्धिलृंकारोपदेशप्रयोजनमुक्त्वा यदृच्छाभावात्तद्विषयाच्च
कार्यसिद्धिप्रयोजनत्वासम्भवेऽभिहिते, भाष्यकारेणान्यथाकृत्वा प्रयोजनमुक्तं अन्यथा कृत्वा
परिहारः । सन्ति यदृच्छाशब्दा इति कृत्वा प्रयोजनमुक्तं न सन्तीति परिहारदूषणमाशङ्कितम्,
तत्र अन्यथैवं कथमित्थं सुसिद्धाप्रयोगश्चेदिति सूत्रेणान्यथादिषु चतुर्षूपपदेषु करोतेर्णमुलिवि-
धानादन्यथाकारमिति प्रयोक्तव्ये, अन्यथाकृत्वेति क्त्वाप्रत्ययप्रयोगादपशब्द इत्यर्थः ।
१. अयं पाठः सर्वत्र नास्ति । २. अयं पाठः सर्वत्र नास्ति ।