मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
प्रकरणपठितस्यापि तस्य स्वरूपे कार्यं चानुपयोगादध्ययनेनैव फलवत्कर्म्मावबोधं
इत्यादिना धर्म्मजातस्य सम्प्रदायार्थत्वस्मरण।दित्यर्थः पुरुषार्थत्वं तु निष्प्रमाणक-
मित्याह—स्वर्गादिति । नन्वध्ययनस्वरूपे, तत्कार्ये च ग्रहणे धर्म्मजातस्यानुपयोगात्तत्पूर्व्व-
कज्योतिष्टोमादिकर्म्माङ्गत्वं भविष्यत्यत आह—न चास्येति । एतच्च द्वादशाधिकरण-
सिद्धमुक्तं तत्र ह्याध्यायानध्ययनाय द्वादशाध्यायाधिकरणार्थं संग्रहादिधर्म्मजातस्याध्ययन-
प्रकरणपठितस्यापि तस्य स्वरूपे कार्यं चानुपयोगादध्ययनेनैव फलवत्कर्म्मावबोधं
भावयेदित्यध्ययननियमस्याना रभ्य विहितस्याप्यध्ययन जनितज्ञानोपस्थापितज्ञेयकर्म्माङ्गतया
सामर्थ्योपबृंहितेन सन्निधिनावधारणात्, तद्द्वारा कर्म्माङ्गत्ववावगतेरमावास्यादौ कर्म्माङ्ग-
भूतयाज्यानुवाक्यादिमन्त्रोच्चारणं न कार्यमिति । मन्त्राणां कर्मसंयोगे स्वधर्मेण प्रयोगः
स्यात्, धर्म्मस्य तन्निमित्तत्वादितिसूत्रेण पूर्वपक्षयित्वा प्रकरणेनाध्ययनाङ्गतयाऽवधारि-
तस्यान्यार्थत्वे प्रमाणाभावादविघ्नपरिसमाप्त्यर्थत्वेन तदुपयोगसम्भवात्कर्म्माङ्गत्वाभावेन
कर्म्मकालेऽध्यायानध्ययनादिधर्म्मनादरेणामावास्यादावपि कर्म्माङ्गमन्त्रोच्चारणं कार्यं-
मिति विद्यां प्रतिविधानाद्वा, सर्व्वकालं प्रयोगः स्यात् कर्म्मार्थत्वात्प्रयोगस्येति सूत्रेण
सिद्धान्तयिष्यते । केनोपकारेणाध्ययनाङ्गत्वं कर्म्मजातस्येत्यपेक्षायामविघ्नार्थत्वं भाष्य-
कृतोक्तमुपपादयति--सम्प्रदायाङ्गत्वेऽपि चेति । विघ्ने सत्यध्ययनेनाक्षरग्रहणस्य कर्त्तुम्-
शक्यत्वात्, तत्सिद्ध्यर्थमविघ्नमेवापेक्षितम्—तादर्थ्यस्मरणाच्चेति ।
‘अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी ।
ब्रह्माष्टमौ पौर्णमास्यौ तस्मात्ताः परिवर्जयेत् ॥’
इत्यादिना धर्म्मजातस्याविघ्नार्थत्वस्मरणादित्यर्थः । प्रकरणावगताध्ययनाङ्गत्वा-
न्यथानुपपत्त्याप्यविघ्नोऽर्थतोऽवसीयत इत्याह—न हीति ।
एतदेव प्रपञ्चयति—यदि तावदिति । नन्वध्ययनजनितज्ञानसाध्यकर्म्मानुष्ठानजन्या-
पूर्वार्थत्वेऽपि धर्म्मजातस्य व्रीहिसाध्ययागापूर्वत्वेऽपि प्रोक्षणस्य व्रीह्यर्थत्वाविघातवदध्यय-
नाङ्गत्वाविघातः स्यादत आह—अथ पुनरिति । व्रीहीणां यागापूर्वार्थत्वात्तदुत्पत्त्युपयोगि-
प्रोक्षणादिधर्म्मग्राहकत्वं युक्तम् । अध्ययनस्य क्रत्वनङ्गत्वान्न तत्साम्यमिति भावः । कः
पुनरध्ययनस्याविघ्नेनोपकारो जन्यत इत्यपेक्षायामक्षरग्रहणाख्यकार्ययोग्यतालक्षणमुपकारं
दर्शयितुमाह—तस्मादिति । तुल्यसाम्प्रदायिकत्वस्य प्रकृतानर्थक्यनिराकरणोपयोगितां
दर्शयति—न चेति । न चाध्ययनादिधर्मनियमस्मृतेर्निर्मूलत्वेनाप्रामाण्यं शङ्क्यम्, स्मृत्य-
धिकरणे स्मृतीनां वेदमूलत्वस्य वक्ष्यमाणत्वादित्याह—नियमस्मृतेश्चेति । तुल्यसाम्प्रदायि-
कत्वसाधितसामान्योपयोगोपसंहारपूर्वकं तस्य पूर्वसूत्रोक्तस्तुत्यर्थत्वलक्षणविशेषोपयोग-
सिद्धयुपयोगितामाह—स चेति । अत्रैवार्थे स्मरणं च दृष्टमित्यादिभाष्यं योजयति—
स्मरणं चेति । इतिकरणः प्रभृत्यर्थः, तत्र स्मरणं च दृष्टमिति वेदशब्दत्वाभिधाने
योजितम् ; अतो न प्रमादपाठ इति सामान्योपयोगोपसंहारे इतिकरणः, तस्य विशेषो-
पयोगित्वे यस्मान्न प्रमादपाठः । अतः कारणात्प्रयोजनविशेषापेक्षायां सामर्थ्यात्स्तुत्यर्थतार्थ-
वादानां सिध्यतीतिकरणो हेत्वर्थे व्याख्येय इत्यर्थः ।
९२ मीमांसादर्शनम् [ सू०
साम्प्रदायिकशब्दो वा धारणाऽध्ययनपरतयानेन भाष्येण व्याख्यायत इत्याह-अत
वेति । यत्त्वस्मिन्व्याख्याने पुरुषाधीनप्रामाण्यप्रसङ्गादित्यादिना दूषणं पूर्वसूत्रव्याख्योप-
क्रमेऽभिहितम्, तत्परिहरति-सम्भाव्यते चेति । पूर्वोक्तमध्ययनविधिप्रमाणकं सर्वस्य यदस्य
प्रयोजनवदर्थपर्यवसायित्वमेतत्सूत्राऽढं कर्तुमध्ययनविधिपरतया साम्प्रदायिकशब्दं स्वयं
व्याचष्टे-तुल्यं चेति । उनयोरपि व्याख्यायोरतत्सूत्रोक्तस्य सामान्योपयोगस्य पूर्वसूत्रोक्त-
विशेषोपयोगसिद्धयर्थत्वप्रतिपादनार्थमतो नेत्यादिभाष्यमिति दर्शयितुं ग्रन्थशेषः ॥ ८ ॥
भा० प्र०-यह सन्देह स्वाभाविक है कि विधिवाक्य न रहने पर अर्थवाद वाक्य
सप्रयोजन नहीं हो सकते हैं, और प्राशस्त्यज्ञापक अर्थवाद वाक्यों की सहायता के बिना
भी विधिवाक्य प्रवृत्ति-जनक हो सकता है, क्योंकि, बाद में किसी कारण से पुरुष की
प्रवृत्ति कुण्ठित होने पर भी विधिवाक्य के सुनने पर प्रथम प्रवृत्ति उत्पन्न होती है ।
ऐसी स्थिति में अर्थवादों को प्रमाद से पठित मानने पर भी कार्य चल सकता है, क्योंकि
पूर्वोक्त रीति से अर्थवाद वाक्यों के प्रति अनेक आपत्तियाँ उत्थापित हो सकती हैं ।
इसी आशङ्का के उत्तर में कहा गया है-"तुल्यं तु साम्प्रदायिकम्" । साम्प्रदायिक
अर्थात् अनध्याय आदि नियमों का पालन करते हुए गुरु शिष्य क्रम में वेद का अध्ययन
आ रहा है, अर्थवाद भी इसी रूप में अध्ययन का विषय है और अर्थवाद वाक्यों का
वेदत्व भी सभी ने दृढ़तापूर्वक स्वीकार किया है । अतः, अर्थवाद वाक्य को प्रामादिक
पाठ नहीं कहा जा सकता है । अनवधानतावश वेदाध्ययन के मध्य में अर्थवाद वाक्यों
ने स्थान प्राप्त कर लिया है-यह नहीं कहा जा सकता है । इसलिए अर्थवाद प्रमादवश
पठित होने से अप्रमाण है-यह नहीं कहा जा सकता है ।
तुल्य = समान या एक रूप । च शब्द का अर्थ हेतु है । साम्प्रदायिक=गुरु शिष्य
परम्परा से प्राप्त अध्ययन । अर्थात् अर्थवाद वाक्य भी गुरु शिष्य परम्परा क्रम में
विद्यात्मक वेद के अध्ययन के समान है । अथवा अर्थवाद भी विधि के समान ही वेद के
ही अन्तर्गत होने से उनका अप्रामाण्य नहीं कहा जा सकता है ॥ ८ ॥
अप्राप्ता चानुपपत्तिः प्रयोगे हि विरोधः स्याच्छब्दार्थ-
स्तवप्रयोगभूतस्तस्मादुपपद्येत ॥१.२.९॥
शा० भा०-अपि च यैषाऽनुपपत्तिरुक्ता शास्त्रदृष्टविरोधादित्येवमाद्या सा,
सोऽरोदीदित्येवमादिषु न प्राप्नोति । कुतः ? प्रयोगे हि स्तेयादीनामुच्यमाने
विरोधः स्यात् । शब्दार्थस्तवप्रयोगभूतः । तस्मादुपपद्यते-स्तेनं मनोऽनृतवादिनी
वागिति ॥ ९ ॥
भा० वि०-एवं सूत्रद्वयेन स्वसिद्धान्तकथनेनानर्थक्यसूत्रोक्तदोषं निरस्योत्तर-
सूत्रोक्तदोषान्तरपरिहारार्थमप्राप्ता चेत्यादिसूत्रम् । तत्र न केवलं स्तुत्यर्थत्वेनानर्थक्य-
९ ] प्रथमाध्याये द्वितीयपादः ९३
परिहार एव त्वदुक्तदोषान्तराप्राप्तिश्चेति च शब्दं व्याकुर्वन् प्रतिज्ञां व्याचष्टे—
अपि चेति । यद्यपि पूर्वं स्तेयादिवाक्यमुदाहृत्य शास्त्रदृष्टविरोधो दर्शितः,
तथापि सोऽरोदीदित्यादिष्वपि सो विशेषादनुसन्धेयः इति वक्तुमाह—सोऽरो-
दीदिति । प्रश्नपूर्वकं प्रयोगे हीत्यादीत्यादिहेतुं व्याचष्टे—कुत इत्यादिना प्रयोगः
अनुष्ठानः, कर्त्तव्यतेति यावत् । तस्मिन् हि प्रयोगे स्तेयादोनां रोदनवपोत्खनन-
दिङ्मोहस्तेयानृतवदनादीनाम् उच्यमानेकल्प्यमाने शास्त्रदृष्टविरोधः स्यात् न
चासौ कल्प्यत इत्यर्थः ।
ननु श्रुतस्यार्थस्य प्रयोजनवत्त्वाय विधिः कल्पनीय इत्याशङ्कयापाकरणार्थं
शब्दार्थस्त्वप्रयोगभूत इतीदं व्याचष्टे शब्दार्थ इति । सूत्रे तुशब्दश्शङ्काव्यावर्त्तकः,
वाच्यार्थविषयोऽर्थशब्दः तेषु सोऽरोदीदित्यादिषु प्रयुज्यतेऽनेनेति व्युत्पत्त्या
प्रयोजन-प्रयोगः, विवक्षितश्चार्थः प्रयोजनं भवतीति लक्षणया प्रयोगशब्देन
विवक्षितत्वमुक्तम् प्रयोगमप्राप्तोऽप्रयोगभूतः अविवक्षित इत्यर्थः ।
एतदुक्तं भवति विवक्षितार्थस्य हि प्रयोगवत्त्वसिद्धयेऽध्याहारादिनानुष्ठान-
कल्पना अयं तु न विवक्षितः, तेन कल्पकाभावान्नाध्याहारादिभिर्विधिकल्पनेति,
यस्मान्न विधिकल्पना, तस्मान्न शास्त्रदृष्टविरोधादीत्युपसंहारभागं व्याचष्टे—
तस्मादिति ।
स्तेयादिवाक्यं रोदनादिवाक्यस्याप्युपलक्षणं गुणवादस्त्वित्यनेन त्रयोऽर्थाः
सूचिताः । तत्र प्रथमं तावच्छब्दार्थस्त्वप्रयोगभूत इत्यन्तेन विवक्षयार्थभावना-
नुपयोग उक्ते कथं नामोपयोगः इत्यपेक्षायां गुणस्य वाद इति षष्ठीसमासाश्रयणेन
स्तुत्यर्थत्वं सिद्धान्तसूत्रोक्तं पूर्वसूत्रनैराकाङ्क्ष्यात्यनेन स्मारितम्, तत्रापि स्वार्था-
सत्यत्वे कथं स्तुतिरित्त्यपेक्षायां गुणाद्वाद इति पञ्चमीसमासाश्रयणेन स्वार्थं-
सत्यत्वानादरोऽप्यनेनाभिधीयते, तथा भवतु स्तुत्यर्थत्वम्, तथापि कथं क्वचित्
विधेयस्तुतिपरत्वम् अविधेयगतायाः स्तुतेः भिन्नविषयत्वादित्यपेक्षायां गौण्या-
वृत्त्याप्यनेनोच्यते ॥ ९ ॥
त० वा०—उक्तदोषपरिहारोऽतः परम् । शास्त्रदृष्टविरोधिका याऽत्रानुपपत्ति-
र्विधिकल्पनायामुक्ता तामस्मत्पक्षमप्राप्तां मन्यामहे ।
अथवेदं स्तुतिव्याख्यानं तामनुपपत्तिमप्राप्तमिति व्याख्येयं येषां ह्रस्वः
पाठः । प्रयोगे ह्यनुष्ठाने रोदनवपोत्खननदिङ्मोहस्तेयानृतवादादीनां कल्प्यमाने
विरोधः स्यात् । अस्माकं तु पुनर्य एषां शब्दानां श्रोतोऽर्थः, स नैव विवक्षितः ।
न चाध्याहारादिभिर्विधिः, किं तर्हि ? स्तुतिमात्रं विवक्षितः । न च तद्विरुध्यते ।
तस्मादुपपद्येत ।
९४ मीमांसादर्शनम् [ सू०
अथ वा शब्दार्थस्त्विति विधायकशब्दानुग्रहार्थः सन्नयमर्थवादो न स्वार्था-
नुष्ठानेन सम्बध्यते, प्रयोगमप्राप्तोऽप्रयोगभूतस्तस्मादुपपद्येत । त्रयोऽत्र पाठाः ।
अप्राप्तां चानुपपत्तिमित्यत्र मन्यामह इति वाक्यशेषः, अप्राप्तं चानुपपत्तिमित्यपरः,
तत्रास्मद्व्याख्यानमित्यध्याहारः । अप्राप्ता चानुपपत्तिरित्यपरः तत्रास्मत्पक्षे
विज्ञायेति ॥ ९ ॥
न्या० सू०-सूत्रद्वयेनैव सिद्धान्तसिद्धेरुत्तरसूत्रानर्थक्यमाशङ्क्य पूर्वपक्षनिराकरण-
परतया सामान्यतो व्याचष्टे— उक्तेति । अप्राप्तामनुपपत्तिमिति द्वितीयान्तं पदद्वयं
साकाङ्क्षत्वादध्याहारेण व्याचष्टे-शास्त्रेति ।
ह्रस्वपाठे अन्यथाध्याहारमाह-अथ वेति । प्रयोगे हीति सूत्रावयवव्याख्याभाष्ये
स्तेयादीनामित्यादिशब्देन पूर्वोपन्यस्तस्य रोदनादेरपि ग्रहणमिति व्याचष्टे-प्रयोगे
हीति । सूत्रशेषं व्याचष्टे—अस्माकं पुनरिति । श्रौतार्थाभिप्रायोऽर्थशब्दः प्रयुज्यतेऽनेनेति
व्युत्पत्त्या प्रयोजनवचनः प्रयोगशब्दः अविवक्षितस्वार्थः प्रयोजनं न भवतीत्यप्रयोगशब्देना-
विवक्षितत्वमुक्तम् । नन्वनुष्ठानविवक्षायां विरोधापत्तेस्तत्परिहारार्थं तस्यैवाविवक्षा वाच्या ।
न श्रौतार्थाविवक्षात आह—न चेति । अतः शब्दार्थे चशब्दः, निपातानामनेकार्थत्वात् ।
विवक्षितत्वे हि श्रौतस्यार्थस्य प्रयोजनवत्त्वसिद्धयेऽध्याहारादिनानुष्ठानकल्पना स्यात्;
यतःस्वसौ न विवक्षितः अतः कल्पकामावान्नाध्याहारादिभिर्विधिकल्पनेत्यर्थः । अनेन
चानुष्ठानाविवक्षार्थं श्रौतार्थाविवक्षेत्युक्तम् । किं तर्हि विवक्षितमित्यपेक्षायामुत्तरसूत्रे वक्ष्य-
माणं स्तुत्यर्थत्वमाकाङ्क्षानिवृत्तयेऽभिहितम् ।
ननु स्तुतेरपि श्रौतार्थकत्प्यत्वादविवक्षितस्य चासत्यत्वेन कल्पकत्वायोगात्तद्विवक्षा-
पत्तेरपरिहार्यो विरोधोऽत आह--न चेति । असत्येनापि स्तुत्येनापि स्तुत्युपपत्तेर्वक्ष्य-
माणत्वान्नास्मत्पक्षे श्रौतार्थविवक्षापत्तिरिति भावः । स्तुत्यर्थत्वमेव वाशब्दार्थस्त्वित्यनेनो-
च्यत इत्यन्यथा व्याचष्टे--अथ वेति । तदानुष्ठानवचन एव प्रयोगशब्दः प्राप्तशब्दार्थे च
भूतशब्द इति, न स्वार्थानुष्ठानेनेत्यादिनोक्तम् । ननु भाष्यकारेणाप्राप्ता चाऽऽनुपपत्तिरिति
प्रथमान्तमेव पदद्वयं पठितम्, कथं भवतान्यदेव पाठद्वयं व्याख्यातमत आह-त्रयोऽत्रेति ।
पाठत्रयविवेकार्थं पूर्वोक्तवाक्यशेषस्मरणायोत्तरो ग्रन्थः ॥ ९ ॥
भा० प्र०-अर्थवाद वाक्य प्रमादपठित अर्थात् वेद से बहिर्भूत नहीं है—इसका
युक्तिपूर्वक विवेचन कर पूर्वपक्षियों के द्वारा उत्थापित विरोध का परिहार प्रदर्शित किया
जा रहा है । पूर्वपक्षी ने "शास्त्रदृष्टविरोधाच्च" इस सूत्र से जिस दोष का आपादन किया
है—वह ठीक नहीं है । कारण, अर्थवाद का स्वार्थ में तात्पर्य नहीं है । "सोऽरोदीत्"
"प्रजापतिरात्मनो वपामुदखिदत्", "दिशो न प्राजानन्", "स्तेनं मनः, अनृतवादिनी
वाक्", इत्यादि अर्थवाद वाक्य यदि स्वार्थबोधित क्रिया को कर्तव्य के रूप में सूचित
१० ] प्रथमाध्याये द्वितीयपादः ९५
करते तब इन अर्थवादों से रोदन, अपनी वपा का छेदन, दिङ्मोह, स्तेय या मिथ्या-
वादन आदि कर्तव्य के रूप में बोधित होते । तभी पूर्वपक्षी के द्वारा कथित दोष सङ्गत
होता और शास्त्रदृष्टविरोध का कथन सङ्गत होता । किन्तु रोदन आदि अर्थवाद के शब्दों
का अर्थ मात्र होता है । इस प्रकार अर्थवाद के अर्थ अविवक्षित हैं, क्योंकि, अर्थवाद
स्वार्थ में तात्पर्य रहित है । इसलिए, जिस रूप में अर्थवाद वाक्यों की सप्रयोजनता का
निर्देश पूर्वक प्रामाण्य का स्थापन किया है—वह सर्वथा युक्तियुक्त ही है । अर्थवाद
वाक्यों का तात्पर्य-निरूपण किया जा रहा है ।
'अप्राप्ता'=प्राप्त नहीं, 'च' और, "अनुपत्ति" शास्त्रदृष्टविरोधरूप युक्तिहीनता,
"प्रयोगे" क्रिया का विधायक होने पर, "शब्दार्थः" शब्द का स्वार्थ, 'तु' किन्तु,
'अप्रयोगाभूत'' क्रिया का विधायक नहीं है, "तस्मात्" इसलिए, "उपपद्यते" युक्तियुक्त
होता है । अर्थवाद वाक्यों का जिस रूप में अर्थ का निर्देश किया गया है, उससे मेरे
पक्ष में किसी प्रकार युक्ति का विरोध सिद्ध नहीं हो रहा है । क्योंकि, अर्थवाद यदि
अपने अर्थभूत क्रिया का प्रतिपादक होता, तब विरोध होता, किन्तु, अर्थवाद स्वार्थ-
बोधित क्रिया का प्रतिपादक नहीं है, अतः, जिस रूप में उनकी सप्रयोजनता से प्रामाण्य
का निर्देश किया गया है, वह उपपन्न होता है ॥ ९ ॥
गुणवादस्तु ॥१.२.१०॥
शा० भा०--यदुक्तं विधेयस्य प्ररोचनार्था स्तुतिरिति । तदिह कथमवकल्प्येत
यत्रान्यद्विधेयमन्यच्च स्तूयते । यथा वेतसशाखायाऽवकाभिश्चाग्निं विकर्षतीति
वेतसावके विधीयेते । आपश्च स्तूयन्ते-आपो वै शान्ता इति । तदुच्यते ।
गुणवादस्तु । गौण एष वादो भवति, यत्संबन्धिनि स्तोतव्ये संबन्ध्वन्तरं स्तूयते ।
अभिजनो ह्येष वेतसावकयोः । ततस्ते जाते । अभिजनसंस्तवेन चाभिजातः
स्तुतो भवति । यथाऽश्मकाभिजनो देवदत्तोऽश्मकेषु स्तूयमानेषु स्तुतमात्मानं
मन्यते । एवमत्रापि द्रष्टव्यम् ।
अथ सोऽरोदीदिति कस्य विधेः शेषः । तस्माद् बर्हिषि रजतं न देयमित्यस्य ।
कुतः। साकाङ्क्षत्वात्पदानाम् । सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वमित्यत्र स इति
प्रकृतापेक्षः । तत्प्रत्ययात् । तस्य यदश्रुवशार्यंतेति तस्येति पूर्वप्रकृतापेक्ष एव ।
उपपत्तिश्चोपरितनस्य, यो बर्हिषि रजतं दद्यात्पुराऽस्य संवत्सराद् गृहे रोदनं
भवतीति । अस्य हेतुत्वेनायं प्रतिनिर्दिश्यते- 'तस्माद्बर्हिषि रजतं न देयमिति' ।
एवं सर्वाणि साकाङ्क्षाणि कथं विधेरुपकुर्वन्तीति ? गुणवादेन । रोदनप्रभवं
रजतं वर्हिषि ददतो रोदनमापद्यते । तत्प्रतिषेधस्य गुणो यदरोदनमिति । कथं
पुनरुदत्यरोदीदिति भवति, कथं वाऽनश्रुप्रभवे रजतेऽश्रुप्रभवमिति वचनम्,
९६ मीमांसादर्शनम् [ सू०
पुराऽस्य संवत्सरादसति रोदने कथं रोदनं भवतीति ? तदुच्यते । गुणवादस्तु ।
गौणा एते शब्दाः । रुद्र इति रोदननिमित्तस्य शब्दस्य दर्शनाद्यदरोदीदित्युच्यते ।
वर्णसारूप्यान्निन्दन्नश्रुप्रभवमप्यश्रुप्रभवमित्याह । निन्दन्नेव च धनत्यागे दुःख-
दर्शनात्पुराऽस्य संवत्सराद् गृहे रोदनं भवतीत्याह ।
तथा यः प्रजाकामः पशुकामो वा स्यात्स एतं प्राजापत्यं तूपरमालभेत
इत्याकाङ्क्षितत्वादस्य विधेः शेषोऽयं स आत्मनो वपामुदक्खिददिति । कथं
गुणवादः । इत्थं नाम, नाऽसम्पशवो यदात्मनो वपामुदक्खिददिति । एतच्च
कर्मणः सामर्थ्यं यदग्नौ प्रहृतमात्रायां वपायामजस्तूपर उदगात्, इत्थं बहवः
पशवो भवन्तीति । कथं पुनरनुत्खिन्नायां वपायां प्रजापतिरात्मनो वपामुदक्खिद-
दित्याह । उच्यते । असद् वृत्तान्तान्वाख्यानं स्तुत्यर्थेन प्रशंसाया गम्यमानत्वात् ।
इहान्वाख्याने वर्तमाने द्वयं निष्पद्यते-यच्च वृत्तान्तज्ञानम्, यच्च कस्मिंश्चित्प्ररो-
चना द्वेषो वा । तत्र वृत्तान्तान्वाख्यानं न प्रवर्तकं न निवर्तकं चेति प्रयोजना-
भावादनर्थकमित्यविवक्षितम् । प्ररोचनया तु प्रवर्तते द्वेषाच्चिन्निवर्तत इति तयो-
विवक्षा । वृत्तान्तान्वाख्यानेऽपि विधीयमाने आदिमत्तादोषो वेदस्य प्रसज्येत ।
कथं पुनरिदं निरालम्बनमन्वाख्यायत इति । उच्यते । नित्यः कश्चिदर्थः
प्रजापतिः स्याद् वायुराकाश आदित्यो वा स आत्मनो वपामुदक्खिददिति-वृष्टिं,
वायुं, रश्मिं वा । तामग्नौ प्रागृह्लात्, वैद्युते आर्बसे लौकिके वा । ततोऽज
इत्यन्नम्, बीजम्, विरुद् वा । तमालभ्य-तमुपयुज्य प्रजाः पशून्प्राप्नोतीति
गौणाः शब्दाः ।
आदित्यः प्रायणीयश्चरुरादित्य उदयनीयश्चरुरित्यस्य विधेः शेषो, देवा वै
देवयजनमध्यवसाय दिशो न प्राजानन्नित्याकाङ्क्षितत्वात् । सर्वव्यामोहानाभा-
दित्यश्चरुर्नाज्ञायिता अपि दिङ्मोहस्येति स्तुतिः । कथमसति दिङ्मोहे दिङ्मोह-
शब्द इति । उच्यते । अप्राकृतस्य बहोः कर्मसमूहस्योपस्थितत्वाद गौणो मोह-
शब्दोऽग्रधारणावकाशदानादिभिर्ज्ञापयतीति गौणता ॥ १० ॥
भा० वि०-तत्र भाष्यकारः-एषामर्थानां पूर्वसूत्रसङ्गतिं क्रमं चानाहत्यानन्त-
रोक्तेऽर्थे सूत्रं व्याख्यातुं वृत्तानुवादपूर्वकं शङ्कामाह-यदुक्तमिति । सिद्धान्तसूत्र इति
शेषः इहेत्युक्तं विषयं दर्शयति-यत्रेति । ननु कुत्रैवं भिन्नविषयत्वं विधिस्तुत्यो-
रत आह-यथेति । सूत्रमुत्तरत्वेनावतारयति-तदुच्यत इति । गुणाद्वाद इति ।
पञ्चमीसमासं दर्शयन्व्याचष्टे-गौण इति । एष वाव इत्येतद्विवृणोति-यदिरिति
सम्बन्धिनि वेतसावकारूपे विकारे स्तोतव्ये सम्बन्धन्तरमब्रूया प्रकृतिः स्तूयते
यदेषः स्तुतिवादी गौण औपचारिक इत्यर्थः, प्रकृतिविकारभावमुपपादयति-
अभिजन इति । अभिजायतेऽस्मादिति व्युत्पत्त्योत्पत्तिस्थानम् अभिजनः एष