सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पादनार्थं वा इदमिति भाष्यं व्याचष्टे—व्यक्तीति । एतदेव विवृणोति—व्यक्तीति ।

४७६ मीमांसादर्शनम् [ सू०
कल्पकारास्ततोऽप्येषां नैव ब्राह्मणतुल्यता ।
अन्यार्थैर्ब्राह्मणैश्चान्याज्ञापयन्त्यर्थनिर्णयान् ॥ ६२७
तस्मादपि स्वतन्त्रत्वं कल्पानां नोपपद्यते ।
अर्थकत्वेन केषांचिदक्षराणां च साम्यतः ॥ ६२८
सादृश्याद् ब्राह्मणभ्रान्तिर्जातैवंमपनीयते ।
आचार्यवचः प्रमाणमिति श्रुतेरभिप्रायवर्णनम्
आचार्यवचसां यच्च प्रमाणत्वं श्रुतौ श्रुतम् ॥ ६२९
श्रुतिसामान्यमात्रत्वात्तस्याप्यन्यार्थतोदिता ।
व्याचक्षाणस्य वेदार्थान्वेदांश्च वदतः स्वयम् ॥ ६३०
शिष्यान्प्रत्यप्तभावात्स्यादाचार्योक्तिप्रमाणता ।
आचार्यशब्दस्यार्थो मन्वादिभिरेवं व्याख्यातः ।
‘उपनीय तु यः शिष्यं वेदमध्यापयेद् द्विजः ।
साङ्गं च सरहस्यं च तमाचार्यं प्रचक्षते’ ॥ इति । ६३१
वेदसंप्रदानकाले च शिष्यास्तद्वचःसु कथं नाम श्रद्धधीरन्नित्येवमर्थमाचार्य-
वचनं प्रमाणमित्युक्तम् । न कल्पसूत्रकारवचनविषयम् ।
न च पुंवचनं सर्वं सत्यत्वेनावगम्यते ।
वागिह श्रूयते यस्मात्प्रायादनृतवादिनी ॥ ६३२
तथाऽन्यत्राप्युक्तम् ‘तस्माद् द्वयं वाचा वदति सत्यं चानृतं च, पाप्मना
ह्येषां विद्धेति’ (बृ. उ. १-३) ॥ १३ ॥
न्या० सु०—श्यामादिचिह्नविशेषवाच्युपपादानुमानाशाङ्कानिरासार्थमेतत्सूत्रमिति प्रति-
पादनार्थं वा इदमिति भाष्यं व्याचष्टे—व्यक्तीति । एतदेव विवृणोति—व्यक्तीति ।
नित्यस्य-व्यवस्थिताचारान्नियतस्य कर्तुरूपलक्षणभूतस्य लिङ्गस्याभावात्तद्वाच्युपपदानु-
मानानुपपत्तेः । सर्वंधर्मंतेति लिङ्गीभूतकर्तृविशेषणनित्यशब्दाङ्गीकरणेन स्वयं सूत्रं व्याचष्टे-
ऽिङ्गेति । नियमाभावमुपपादयदन्येऽपीति भाष्यं व्याचष्टे—यच्चिह्नमिवेति । अन्वयव्यभि-
चारार्थं भाष्यं व्याख्याय नैवं लिङ्गा इति व्यतिरेकव्यभिचारार्थं भाष्यं व्याचष्टे—
दृष्टमिति । तस्मादित्यपसंहारभाष्यं व्याचष्टे—तस्मादिति ।
ननु नास्ति तन्नित्यमेषां लिङ्गमिवेति भाष्यान्नित्यशब्दस्य लिङ्गविशेषणत्वप्रतीतेः ।
कर्तृविशेषणत्वेन व्याख्यानमयुक्तमित्याशङ्कयाह—यस्त्विति । नित्यकर्त्तुरूपलक्षणशक्ति-
प्रदर्शनार्थं लिङ्गस्य नित्यत्वं भाष्यकृता निराकृतम् । ननु सौत्रो नित्यशब्दो लिङ्गविशेषण-
त्वेन व्याख्यात इति मन्यते इति काक्वा सूचितम् । नित्यशब्दसापेक्षत्वाल्लिङ्गशब्दस्या-

१३ ] प्रथमाध्याये तृतीयपादः ४७७
भावशब्देन सह—असमासप्रसङ्ग इत्युक्तम् । ननु राजपुरुषः शोभन इति पुरुषशब्दस्य
शोभनशब्दसापेक्षस्यापि राजशब्देन सह समासो दृष्ट इत्याशङ्क्य—उपसर्जनोभूतेत्युक्तम् ।
'भवति हि प्रधानस्य सापेक्षस्यापि समास' इति स्मृतेः । पुरुषस्य राजानं प्रति
प्राधान्याद्युक्तः समासः । लिङ्गस्याभावं प्रत्युपसर्जनत्वात् वृद्धस्य राज्ञः पुरुष इति
वद्युक्त इत्याशयः ।
ननु नित्यशब्दस्य प्रतिपाद्यं नियतत्वं लिङ्गशब्दार्थस्य लिङ्गत्वानुपपत्तेर्लिङ्गशब्दार्थेनैव
नित्यशब्दार्थक्षेपाच्छब्दस्यान्यत्र व्यापाराभावेन सामर्थ्याविघातात् उपसर्जनसापेक्षत्वेऽपि
देवदत्तस्य गुरुकुलमितिवन्नित्यसापेक्षत्वात्समासाविरोध इत्याशङ्कते—नन्विति । यदि हि
सम्बन्ध्यन्तरस्य नित्यशब्दस्यार्थो नियतत्वं लिङ्गशब्दार्थेनैव स्वार्थसम्बन्धितया समभिव्या-
हारानुपपत्त्याऽऽक्षिप्येत, ततोऽन्यत्र व्यापृतत्वात्तावत्सम्बन्धाक्षेपेऽसामर्थ्यं स्यात्
लिङ्गशब्दार्थेनैव तु हेतुत्वेन नित्यशब्दार्थक्षेपान्न तेन लिङ्गशब्दस्याभावात् शब्दं प्रति
सामर्थ्यं विहन्यत इत्यर्थः। गुरुशब्दस्य सम्बन्धिशब्दत्वाच्छिष्यसम्बन्धिरूपं विना स्वार्थ-
प्रतिपादनाशक्तेस्तद्रूपमन्तरेण स्वार्थाभिधानापर्यवसानादपर्यवसितस्वार्थाभिधान एव
शब्दान्तराभिधानसंयोगात्स्वार्थाभिधानवेलायामेव सम्बन्ध्यन्तरशिष्यमात्रप्रतीतौ निर्विशेष-
सामान्यानुपपत्तेस्तद्विशेषापेक्षायामपि पर्यवसितस्वार्थाभिधानव्यापारस्य शब्दस्य सम्बन्ध्यन्त-
रान्वयसिद्धौ व्यापारान्तराभावेन सामर्थ्याविघातात्समासो युक्तः । लिङ्गशब्दस्य तु
सम्बन्धिशब्दत्वाभावात्सम्बन्ध्यन्तरमनपेक्ष्यैव पर्यवसिते स्वार्थाभिधाने, अर्थापेक्षया प्रतीत-
स्यापि सम्बन्ध्यन्तरस्याशब्दत्वेनान्वयात्पर्यवसितव्यापारस्यापि शब्दस्यैव सम्बन्ध्यन्तरा-
पेक्षाकल्पनायामभावशब्देन सहैकार्थलक्षणम्, व्यपेक्षालक्षणं वा सामर्थ्यं न सम्भवतीत्य-
भिप्रायेण परिहरति—नैतदिति ।
सम्बन्धिशब्देषु हि सम्बन्ध्यन्तरापेक्षां विना शब्दप्रवृत्त्यसम्भवाच्छब्दप्रवृत्तिनिमित्तत्वेन
सम्बन्ध्यन्तरापेक्षा सम्भवति । इह तु तदभावाच्छब्दकृतापेक्षातोऽपेक्षान्तरेणार्थंकृतेन लिङ्ग-
शब्दस्य नित्यशब्देन सह सङ्गतेर्नैतल्लिङ्गशब्दस्य नित्यशब्दसापेक्षत्वम् । अनेन गुरुशब्दस्य
देवदत्तशब्दसापेक्षत्वेन तुल्यमित्यर्थः । एतदेवोत्तरार्थत्वेन तूपपादितं लिङ्गत्वं चेन्नित्यत्वमेव
प्रति सत्तां लभते यथा भार्या त्वं पतिमेव प्रति, न स्त्री त्वमिव सर्वसाधारणं ततो
लिङ्गशब्दः स्वार्थस्य लिङ्गशब्दस्य नित्यापेक्षां विनात्मलाभायोगात्तदपेक्षेत, न त्वेतदस्ति ।
तथा हि । नित्यशब्दोऽयं नियताभिप्रायो वा स्यात्, तद्धर्मनियतत्वाभिप्रायो वा ।
तत्राग्न्यादिनियामकमेव प्रतिधूमादेर्लिङ्गत्वदर्शनान्नियतापेक्षा तावदनाशङ्कनीयैव । नियत-
त्वेन तु विना यद्यपि लिङ्गत्वं नास्ति, तथापि नियतत्वप्रतियोगिकत्वाभावान्न तत्प्रत्येव
लिङ्गत्वस्य सत्ता । साधारणसत्तानिबन्धनापेक्षिकत्वाभावेन तत्प्रतिपादकस्य लिङ्गशब्दस्य
स्वार्थाभिधानकाले नित्यशब्दप्रतिपाद्यार्थान्तरापेक्षा निरस्ता । तत्पर्यवसितस्वार्थाभिधान-
व्यापारस्यार्थान्तरान्वयसिद्धेर्व्यापारान्तरापत्तेः सामर्थ्यविघात इत्याशयः ।

४७८ मीमांसादर्शनम् [ सू०
दृष्टान्तं तावद्वैधर्म्यपरत्वेन व्याचष्टे—गुरुशब्दस्य हीति । गुरुशब्दार्थस्य गर्भाधा-
नादिपूर्वकवेदाध्यापनस्य शिष्यापेक्षात्मकलाभत्वमुपचाराच्छब्देऽभिहितम्, देवदत्तशब्देन
षष्ठ्यन्तेनोपात्तो यः शिष्यसम्बन्धः, सोऽनतिरेकेण स्वार्थसत्तालाभादनाधिक्येनान्तर्णीतो
यस्य गुरुशब्दस्य स्वार्थः, स तथोक्तः तस्य भावस्तत्त्वम् । ननु लिङ्गत्वस्यापि गुरुत्व-
वत्सर्वान्प्रत्यसत्त्वेनासाधारणसत्तानिबन्धनापेक्षिकत्वसद्भावात्तद्वाचकस्य लिङ्गशब्दस्यापि
गुरुशब्दवत्सम्बन्धिशब्देन नित्यसापेक्षत्वात्सामर्थ्याविघात इत्याशङ्क्य, अभ्युपगम्य ताव-
त्सम्बन्धिशब्दत्वं लिङ्ग्यपेक्षया, न तु नित्यशब्दाथर्पापेक्षयेति परिहरति ।
ननु नित्यशब्दार्थनियतत्वं विना लिङ्गत्वायोगादस्त्येव तदपेक्षापीति कथमुच्यते ?
लिङ्ग्यपेक्षयैव लिङ्गत्वं न नित्यापेक्षयेत्याशङ्क्याह—यद्यपि चेति । लिङ्गेनैव प्रति-
लिङ्गत्वस्य सत्ता लिङ्गशब्दस्य सम्बन्धिशब्दत्वाय लिङ्गशब्देन विवक्षिता । न च
नित्यत्वप्रतियोगिकी लिङ्गत्वस्य सत्ता प्रतीयते । यथा परिणयनं विना भार्यात्वाभावेऽपि
न परिणयनं प्रति भार्यात्वस्य सत्ता, किं तु पतिमेव प्रतीत्याशयः । गम्यगमकयोनियम-
लक्षणे सम्बन्धे सतीत्यर्थः ।
यद्वाक्षेप कस्यैवाक्षिप्यमाणेन नियतत्त्वादाक्षेप्याक्षेपकाभिप्रायौ गम्यगमकशब्दौ । यथा
यद्यपि गुर्वादिशब्दः स्वसम्बन्धिना विना प्रवर्त्तंते तथापि शिष्यादिसम्बन्धापेक्षाकृतगुर्वादि-
शब्दप्रवृत्तिनिमित्ता गुर्वादिशब्दस्य सम्बन्धिशब्दत्वप्रसिद्धिः, तथाऽस्य लिङ्गशब्दस्य न
नियमलक्षणसम्बन्धापेक्षाकृतशब्दप्रवृत्तिनिमित्ता सम्बन्धिशब्दत्वप्रसिद्धिरित्यर्थः । ननु
सम्बन्धिशब्दत्वाभावेऽपि यौगिकत्वाद्यथा लिङ्गिशब्दस्य शब्दप्रवृत्तिनिमित्तभूतयोगसिद्धयर्थं
प्रतियोगिलिङ्गापेक्षा, तथा लिङ्गशब्दस्यापि यौगिकत्वाच्छब्दप्रवृत्तिनिमित्तभूतयोगा-
पेक्षेति, तयोर्योगश्च सम्बन्धः । स च लिङ्गत्वौपयिको नियमरूप एवेति नित्यशब्दवाच्य-
नियमापेक्षासिद्धेः सामर्थ्ये विघात इत्याशङ्कयाह—लिङ्गीति । अयमाशयः यद्यप्यवय-
वयोगेन प्रवृत्ते रुभयोर्यौगिकत्वं तुल्यम् , तथापि लिङ्गिशब्दस्य तद्धितान्तत्वात्प्रातिपदि-
काच्च तद्धितोत्पत्तेः प्रातिपदिकार्थलिङ्गापेक्षा, लिङ्गशब्दस्य तु कृदन्तत्वात्तस्य च धातो-
रुत्पत्तेर्द्धात्वर्थलिङ्गेन क्रियायोगनिमित्तवाच्छब्दप्रवृत्तिनिमित्तभूतस्य योगस्य प्रतिसम्ब-
न्धिधात्वर्थमात्रेण सिद्धेर्नान्यापेक्षेति ॥ ननु लिङ्गशब्दस्य सम्बन्धिशब्दत्वाभावाल्लिङ्गि-
योगनिमित्तत्वाभावाच्च लिङ्गिनो लिङ्गनपेक्षणे लिङ्गदर्शनमित्यमियुक्तप्रयोगो नोपपद्यत
इत्याशङ्कयाह—लिङ्गत इति । सम्बन्धिशब्दानां गुर्वादीनां समुदायशक्त्यैवाध्यापनादि-
क्रियाजन्याद् व्याव्याचवच्छिन्नाध्यापयित्रादिगतातिशयवाचित्वादवयवार्थयोगनिमित्तप्रवृत्ति-
त्वलक्षणयौगिकत्वानुपपत्तिलिङ्गेन क्रियायोगनिमित्तत्वेन यौगिकस्य लिङ्गशब्दस्य सम्ब-
न्धिशब्दत्वासम्भवेऽपि, ज्ञानाख्याया लिङ्गनक्रियाया ज्ञेयलिङ्गिनिरूपणाधीननिरूपणत्वा-
च्छब्दप्रवृत्तिनिमित्तभूतयोगप्रतिसम्बन्धिज्ञानापरपर्यायलिङ्गनाख्यधात्वर्थनिरूपणाय ज्ञेय-
लिङ्ग्यपेक्षा सदास्तीति सामर्थ्याविघात इत्याशयः । सम्बन्धिशब्दवच्च वाच्यासाधारण्य-
निबन्धनापेक्षा नितरां प्रतिसम्बन्धिधात्वर्थनिरूपणवेलायामेव नित्यं तदपेक्षा, नान्यदेति
सूचयितुं काममित्युक्तम् । अपिशब्देन क्लेशः सूचितः ।

१३ ] प्रथमाध्याये तृतीयपादः ४७९
नन्वेवं सति नित्यशब्दाभिधेयस्य नियमलक्षणसम्बन्धस्यापि लिङ्गनक्रियासिद्ध्युप-
योगित्वेन तत्कारकतया लिङ्गेनैव नित्यमपेक्षणात्तत्सापेक्षत्वेऽपि सामर्थ्यविघातः स्यादित्या-
शङ्क्याह—नित्यत्वं पुनरिति । नियमाधीनत्वेऽपि लिङ्गनक्रियायास्तदधीननिरूपणत्वा-
भावान्नित्यत्वनिरपेक्षेणैव लिङ्गशब्देन स्वार्थे लिङ्गलब्धे लिङ्गत्वस्य नियतत्वं विनाऽनुप-
पत्तेरर्थेन स्वसिद्धयर्थं नित्यत्वमपेक्षितम्, न शब्देनेत्यर्थः । लब्धेन स्वार्थेन लिङ्गेना-
पेक्षितमिति विग्रहः । नन्वेवं र्तहि शब्दस्य नैरपेक्ष्यात्सामर्थ्यस्याविघातः स्यादित्या-
शङ्क्याह—तद्धर्मतयेति । विगृहीतया षष्ठ्या लिङ्गधर्मतया नित्यत्वं लिङ्गस्य समर्थ्यते,
लिङ्गेनान्वीयते इत्यन्वयसिद्धयर्थं लिङ्गस्य नित्यत्वे—सम्बन्धापेक्षायामित्युक्तम् । तस्मा-
द्भाष्यकृतोऽपि कर्तृविशेषणम्, अधिकारिविशेषणं वा नित्यशब्दोऽभिमतो, न लिङ्गविशे-
षणमित्याह—तस्मादिति । उभयत्रापि सूत्रं योजयति—नियतस्येति । तस्मादित्यप-
संहारभाष्यं व्याचष्टे—इतीति ॥ १३ ॥
भा० प्र०—कल्पसूत्रों के अपौरुषेय न होने का कारण निर्देश करते हुए द्वितीय सूत्र
की अवतारणा की गई है। कल्पसूत्र अपौरुषेय नहीं है, क्योंकि वेद में विधिवाक्य रहने
पर उनकी निन्दा और स्तुति के सूचक वाक्यशेष अर्थात् अर्थवाद वाक्य उपलब्ध होते हैं,
किन्तु, कल्पसूत्रों में विधिवाक्य रहने पर भी, उनके कोई अर्थवाद वाक्य उपलब्ध नहीं
होते हैं। कल्पसूत्रों में "आर्षेयान् यूनोऽनूचानाम् ऋत्विजो वृणीते सोमेन यक्ष्यमाणः"
(शाङ्खायन श्रौ० सू० ५।१।१) 'वृता यजन्ति', "अथोत्तरं देवयजनमध्यवस्यन्ति"
(शा० श्रौ० सू० १५।१४।१) इत्यादि विधिवाक्यों में विधि के बोधक लिङ्लकार का
प्रयोग न होकर, क्रिया के बोधक लट्लकार का प्रयोग उपलब्ध हो रहा है। प्रकृत में
लट्लकार का प्रयोग है और विधि की स्तुति करने वाला वाक्यशेष भी नहीं है। अतः,
कल्पसूत्र अपौरुषेय नहीं है, अतः वेद के समान इनका प्रामाण्य नहीं है।
यदि यह कहा जाय कि वेद में जिस प्रकार "यजति" आदि विधिबोधक लेट्लकार
का प्रयोग है, वैसे ही प्रकृत में भी विधिबोधक पञ्चम लेट्लकार का प्रयोग है, किन्तु
यह नहीं माना जा सकता है, क्योंकि, केवल संहिता और ब्राह्मण में ही लट् के समान
आकार लेट्लकार का प्रयोग स्वीकार किया गया है, अन्यत्र नहीं। इसी लिए कहा
है—"एषु पञ्चमो लकारश्छन्दोमात्रगोचरः"। कल्पसूत्र न तो मन्त्र है और न ब्राह्मण
है। अतः, यहाँ लेट्लकार नहीं माना जा सकता है। 'षडङ्गमेके' इसके आधार पर
कल्पसूत्र आदि को भी अपौरुषेय माना है, किन्तु, यह सभी के द्वारा समर्थित सिद्धान्त
नहीं है, अतः अनादरणीय है।
"अवाक्यशेषात् च" = वाक्यशेष अर्थात् अर्थवाद वाक्यों की उपलब्धि न होने से
कल्पसूत्रादि अपौरुषेय नहीं है।
वार्तिककार इन्हीं तर्कों के आधार पर कहा है कि जिन युक्तियों के आधार पर
वेद की अपौरुषेयता सिद्ध होती है, उन्हीं युक्तियों के आधार पर स्मृतियां एवं कल्पसूत्र

४८० मीमांसादर्शनम् [ सू०
आदि अपौरुषेय नहीं हो सकते हैं, वरन् कर्ता का स्मरण आदि के आधार पर इनको
पौरुषेय मानना उचित है ॥ १३ ॥
यच्चोक्तं सत्यवाचा मेतानि वचनानीति । तन्न
सर्वत्र च प्रयोगात्सन्निधानशास्त्राच्च ॥ १४ ॥
शा० भा-आचार्यवचनं हि भवति 'पूर्वपक्षे२ सर्वासु तिथिष्वमावास्या' इति ।
संनिहितं च शास्त्रं 'पौर्णमास्यां पौर्णमास्या यजेत, अमावास्यायाममा३-
वस्यया यजेत' इति । तेन श्रुतिविरुद्धवचनान्न सत्यवाचः । तस्मादप्रमा-
णम् ॥ १४ ॥ इति । षष्ठं कल्पसूत्राधिकरणम् ॥
भा० वि०-यत्पुनः संवादिवचनत्वं कल्पसूत्रकारवचनानामुक्तं तदनुवदति--
यच्चोक्तमिति । क्वचिद्विसंवादस्यापि दर्शनान्नायं नियम इत्याह-तन्नेति ।
एतदेव सूत्रेणोपपादयितुमादत्ते-सर्वत्र चेति । कल्पकारदिवचननिदर्शनार्थतया
'सर्वत्र च प्रयुक्तत्वात्' इतिभागं व्याचष्टे-आचार्यवचनमति । पूर्वपक्षे
शुक्लपक्षे तदनेन शुक्लपक्षे कृष्णपक्षे च सर्वत्र तिथिष्वमावास्या पौर्ण-
मास्याख्यस्य कर्मणः कल्पसूत्रकारैः प्रयुक्तत्वाद्विहितत्वादिति सूत्रं व्याख्यातम्,
इदानीं तद्वचनस्य विसंवादप्रदर्शनार्थं "सन्निधानशास्त्राच्च" इति व्याचष्टे-
सन्निहितं चेति । सन्निहितत्वं प्रत्यक्षत्वं तत्प्रत्ययश्चायं कर्मणीत्यनेन दर्शितम्,
तेन सर्वासु तिथिषु अमावास्यादिकर्मविधायकस्य कल्पादिवचनस्यामावास्यादि-
कालविशेषविधायिना प्रत्यक्षवचनेन विरोध इति भावः । विरोधफलमाह-
तेनेति । विसंवाददर्शनफलमाह-तस्मादिति । न स्वत एव कल्पादिवचनं
प्रमाणम्, किन्तु श्रुतिमूलतयेत्यर्थः ॥ १४ ॥
त० वा०-वेदादेवानृतत्वं च तद्वाचामवगम्यते ।
विसंवादो हि भूयिष्ठस्तन्न्यायेन च दृश्यते ॥ ६३३
सर्वत्र च प्रयुक्तत्वादित्यनेन निदर्श्यते ।
सन्निधानाच्च शास्त्रस्य विसंवादः स्फुटः स्फुटः ॥ ६३४
तत्र यद् वृत्तिकारेणोदाहरणं 'पार्वणस्थालीपाकविषयगृह्यकारवचनश्रवणाद्
दर्शपूर्णमासचरककल्पसूत्रकारवचनाध्यारोपेण दत्तम्, तदत्यन्ताध्यारोपाभिभवाभि-
प्रायप्रयुक्तमित्यनादृतम् । गृह्यकारवचनं ह्येतदक्षतहोमे तावदासायमाहुतेः प्रात-
राहुतिर्नात्येति, आप्रातराहुतेः सायमाहुतिरिति अतश्च यथैवैतदग्निहोत्रविषय-
१. ब प्रयुक्तत्वात् । २. ब सर्वासर्वासु । ३. ब ममायायतेन ।