सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

प्रकरणस्य विनियोजकत्वे फलसंयोगाभावो हेतुः । साकाङ्क्षफलवत्सन्निधानं रूपं

२४ ] प्रथमाध्याये तृतीयपादः ५५३
प्रकरणस्य विनियोजकत्वे फलसंयोगाभावो हेतुः । साकाङ्क्षफलवत्सन्निधानं रूपं
फलवति विनियोजकत्वे सादृश्यं हेतुः । निराकाङ्क्षफलवत्सन्निधानं रूपं फलवत्याकाङ्क्षो-
त्थापनेन विनियोगः फलम्, सामान्यतः प्राप्तिः समाख्याया विनियोजकत्वे हेतुः-यौगिक-
शब्दत्वं रूपं प्रतियोगिनि विनियोगः फलमिति । पृथग्भूतैर्हेतुरूपफलैः प्रविभक्तरूपेण
श्रुत्यादिज्ञानं मीमांसानिरपेक्षाद्वेदाध्ययनमात्रान्न सिध्यतीत्याशयः । ज्ञात्वेति च ज्ञास्यामीत्य-
व्यवसायैत्येवमग्निनष्टोमसाम कृत्वेतिवद्व्याख्येयम् । विधेरर्थमित्यनेन षडङ्गो वेदोऽध्येयो
ज्ञेयश्चेत्यागमस्य वेदः पठितव्यः । स च परस्परविविक्तश्रुत्यादिषडङ्गरूपेण ज्ञेय इत्यर्थः ।
सूचितं मीमांसाधीनत्वं चास्यार्थस्य न इत्यस्मदा सूचितम् ।
ननु ज्ञेयशब्दस्य षडङ्गशब्दान्वये धर्मशब्दस्यानन्वयापत्तेनर्नान श्रुत्यादीनां चोक्तरूपेण
ज्ञानं विधीयत इत्याशङ्क्य अध्येयशब्दस्यैवेण् गतावित्येतद्धात्तुरूपत्वाङ्गीकरणेन ज्ञान-
विधायकतेति व्याख्यानान्तरमाह-अधीति । अकारप्रश्लेषरहितेन वानेन ध्यानं विधीयत
इति तृतीयं व्याख्यानमाह-ध्यायतेरिति । अध्ययनविधित एव नान्तरीयकतायाध्ययन-
सिद्धेर्विधानानर्थक्यमित्याशङ्क्य श्रुत्याद्युपायार्थप्रतिपादकत्वरूपेण षडङ्गस्य वेदस्य ध्यानं
विवक्षितम्, न स्वरूपेण तस्यापि च वेदार्थविधारणकालसिद्धत्वात्पश्चादप्यनुष्ठेयत्वसिद्धयर्थं
विधानमिति दर्शयितुमाह-श्रुत्यादीति । एवं च मीमांसाध्ययनानुष्ठापकतेवास्यागमस्याव-
सोयते, न व्याकरणाध्ययनानुष्ठापकतेत्यनुष्ठापकत्वेनागमस्य व्याकरणप्रयोजनत्वाभिधा- न
युक्तमित्याह-ततश्चेति । अनुष्ठानाधंत्वाद्वा विधिवाक्याध्ययनमात्रेण स्वाध्यायविध्यर्थ-
सिद्धेरर्थवादान्तर्गतव्याकरणाद्यङ्गसहितवेदाध्ययनविधानाथंत्वेनास्यागमस्य न पाणिन्‍यादि-
प्रणीतग्रन्थाध्ययनानुष्ठापकतास्तीति चतुर्थी व्याख्या तामाह-वेद इति । श्लोकं व्याचष्टे-
तद्दध्न इति । तदेनमधिनोत्त्तद्दध्नो दधित्त्वमिति धिनोतेः प्रीणातिकर्मणो दधित्त्वशब्दनिर्व-
चनादेतन्निरुक्तोदाहरणम् । तदाहुर्यदन्यो जुहोत्यथ योऽनुवाहयति, तं च कस्मान्न होतेत्या-
चक्षत इति पृष्टे यद्भाव स तत्र यथाभाजनं देवता अमुमावहामुमावहेत्यावाहयति तं
देवहोतुर्होतृत्वमिति ह्वयतेः कृतसम्प्रसारणस्यैतद्रूपम् न तृजन्तं जुहोतेरिति प्रकृतिविशेषा-
न्वाख्यानाच्च व्याकरणोदाहरणम् ।
आदिशब्दोपात्तस्य छन्दोविचित्यादेरष्टाक्षरा गायत्रीत्याद्युदाहरणं यथासम्भवं मृग्यम् ।
अस्तु वा निरुक्तादिग्रन्थानां षडङ्गाध्ययनस्मृतिविषयत्वम् ।
ननु व्याकरणस्य प्रातिशाख्यैः पूरयिष्यत इति पञ्चमीं व्याख्यामाह-प्रातिशाख्यानि
वेति । यानि प्रातिशाख्यान्यध्येतारोऽधीयते । तेष्वेव षट्संख्यापूरणार्थं सङ्गतम्, न
व्याकरणेष्वित्येवकारार्थे द्वितीयो वाशब्दः । गृह्यमाणं लिङ्गेन स्वाध्यायार्थत्वं ह्येषामिति
हेत्वर्थः; वेदसंहिताध्ययनानुगतस्वरसन्ध्याद्यनुसारामिधानार्थंः । स्वाध्यायत्ववदिति वतिः
स्वाध्यायानुगतस्वराद्युच्चारणनियामकत्वरूपं प्रयोगशास्त्रत्वं तादर्थ्यग्रहणहेतुतया स्वाध्याय-
वदित्यनेनोक्तमुपपादयति-यानि हीति । तदुपपादितं गृह्यमाणतदर्थत्वं व्याचष्टे-

५५४ मीमांसादर्शनम् [ सू०
तेष्विति । अतस्तेष्वित्यध्याहारेण योज्यम् । एवकारार्थस्य वा शब्दस्य व्यावत्त्यमाह—
नन्विति । ननु कतिपयानामपि तावद्वैदिकशब्दानामुच्चारणनियामकत्वात् व्याकरणानामपि
प्रयोगशास्त्रताऽस्तीत्याशङ्कयाह—प्रातिशाख्यानीवेति । अन्वाख्यायमानेष्वपि वैदिक-
शब्देष्वध्ययनानुगतस्वरसन्ध्यादियुक्ते रूपे व्यापाराभावान्नँषां प्रयोगशास्त्रताऽस्तीति
नियामकत्वाद्व्याकरणानामपि प्रयोगशास्त्रतास्तीति परिहरति—नेति । प्रातिशाख्यानां
वेदस्वरूपे व्यापारं विवृणोति—प्रातिशाख्यैः पुनरिति । उदात्तपौर्वापर्यत्वे तयोर्मध्ये
कालः स्वरसन्धिः, सर्वानुदात्तपदसंहतिः प्रयत्नः असंहिता विवृतिः स्वरितस्योदात्तोऽंशः
पूर्वाङ्गः, अनुदात्तः पराङ्गः आदिशब्देनाङ्गाद्युक्तम् । एवं तावद्वेदकरणाध्ययनविधायक-
त्वान्नास्यागमस्य व्याकरणं प्रत्यनुष्ठापकत्वरूपप्रयोजकत्वान्नास्य किमपि प्रयोजनत्वम् -
सम्भवतीत्युक्तम् ।
इदानीमस्यागमस्य व्याकरणाध्ययनविधायकत्वेऽपि निष्कारणशब्देनाध्ययनमात्रपर्य-
वसानादसायादर्थज्ञाननिरपेक्षाध्ययनमात्रेण शब्दानामनुशासितुमशक्यत्वाच्छब्दानुशासनस्य
रक्षोहागमलध्वसन्देहाः प्रयोजनमिति पूर्वोक्तेन प्रतिज्ञानेन तव प्रयोजनत्वेनाभिमतस्या-
गमस्यानुसन्धानसंवादो नास्तीत्याह—पूर्वोक्तेनेति । यो ह्ययमागमस्त्वया प्रयोजनत्वे-
नोपन्यस्तः । सोऽध्ययनं प्रति तन्मात्रे पर्यवस्यति, न शब्दानुशासनपर्यन्तं गच्छति,
प्राक्शब्दानुशासनमागमप्रयोजनत्वेन प्रतिज्ञातमित्यध्याहारेण योज्यम् । अस्माच्चागमाद-
ध्ययनमात्रे धर्म इति प्रतीतेर्महाभाष्यकृता ज्ञाने धर्म इति वक्ष्यते । शास्त्रपूर्वं प्रयोगेऽभ्युदय
इति च वार्तिककृता । तदुभयमप्यागमविरुद्धं स्यादित्याह—ब्राह्मणेनेति ।
यच्च लघवार्थं चाध्येयं व्याकरणमित्यादिभाष्येण लघुनोपायेन शब्दज्ञानं व्याकरणस्य
प्रयोजनमित्युक्तम् । तत् अत्यन्तक्लिष्टत्वेन व्याकरणस्य लघूपायत्वायोगात्प्रयोजनात्तिक्लिष्ट-
व्याकरण।ध्ययनमध्येतुलंघिवं मन्दबुद्धित्वमापादयतीत्यह्येतुल्लाघवमेवास्य प्रयोजनमित्येवं
व्याख्येयमित्युपहसति—यद्यपि चेति । उपहासान्तरमाह—यदि वेति । श्लोकं व्याचष्टे—
लोकप्रसिद्धानामेवेति । धातुशब्देन धातुपाठो विवक्षितः । गणशब्देन गणपाठ उणादिशब्देन
दशपादी पञ्चपादी वा । सूत्रशब्देनाष्टाध्यायी । आदिशब्देन वार्त्तिकादीनां तेषां
पाठतोऽर्थतश्च क्लिष्टत्वादत्यन्तवैषम्यं विशेषणं क्लिष्टार्थत्वोपपादनायोत्तरवदत्रापि विग्रह-
द्वयम् । अलौकिकीमिवृद्धिरादैजित्यादिभिः संज्ञाभिः, इको गुणवृद्धीत्याद्याभिश्च परिभाषा-
भिर्निबद्धा प्रक्रिया येषां धात्वादीनामिति प्रथमविग्रहः, द्वितीयस्त्वनवस्थितौ स्थापनाक्षेपौ
यस्य सिद्धान्तस्य स सिद्धान्तो यस्य विचारस्य, स विचारो येषु धात्वादिष्विति द्वन्द्व-
गर्भबहुव्रीहिगर्भो बहुव्रीहिः । तद्यथा सिद्धे शब्दार्थसम्बन्धे इति शास्त्रारम्भवार्त्तिके
भाष्यकृता सिद्धे शब्देऽर्थे सम्बन्धे चेति विग्रहं कृत्वा नित्यपर्यायवाचित्वेन सिद्धशब्दं
व्याख्यायं कं पुनः पदार्थं मत्वैष विग्रहः क्रियत इति विचारमुपक्रम्य, आकृतिमित्याहेत्या-
कृत्यभिप्रायत्वं प्रतिज्ञायाः, आकृतिर्हि नित्या, द्रव्यमनित्यमिति हेतुमुक्तवाऽथ वा द्रव्यपदार्थं
एष विग्रहो द्रव्यं हि नित्यमाकृतिरनित्येति द्रव्यार्तानन्द्रियत्वमुक्त्वा पुनराकृतावपि पदार्थं

२४ ] प्रथमाध्याये तृतीयपादः ५५५
एष विग्रहो न्याय्य इत्युक्त्वा नित्याकृतिरेकद्रव्यविनाशोऽपि द्रव्यान्तरे प्रत्यभिज्ञानादिति
चाक्षेपं परिहृत्य, कूटस्थनित्यत्वाभावेऽपि वा पट्टकुटीवद्विनष्टा वा अथाकृतेर्द्रव्यान्तरभावेऽय-
मिति तत्त्वप्रतिज्ञानान्नित्यतेति परिहारान्तरमुक्त्वा अथ वा किं न एतेन इदं नित्यमिदम-
नित्यमिति यन्नित्यं तं पदार्थं मत्वैष विग्रहः क्रियत इति पदार्थविचारसिद्धान्तस्थापना-
क्षेपानवस्थितहेतूपन्यासेनानावस्थितौ कृते एवमत्यन्तविषमर्धार्त्वादिलोकप्रसिद्धानामेव
शब्दानां क्लेशेनान्तं गत्वा यथावस्थितानुवादमात्रकरणांन्निष्फलश्रमापत्तिरित्यर्थः । तत्र
‘अपि चेत्य’नेन यथावस्थितशब्दज्ञानमपि सर्वंप्रतिपत्तॄणां न भवतीत्युक्तम् । स्तुत्यर्थ-
मित्यन्तासम्भाविता स्तुतिरपि न सम्भवतीति सूचितम् । ननु भाष्यकृता न चान्तरेण
व्याकरणं लघुनोपायेन शब्दाः शक्या विज्ञातुमिति लघूपायान्तराभावाभिधानाद् गुरोरप्यस्य
प्रतिपदपाठामकगुरुतरोपायपेक्षया लघुत्वं भविष्यति एतदेव चान्यैरुपपादितमित्या-
शङ्क्यानुभाषणपूर्व्वकमुपसंहरति—यदपीति ।
तत्त्वावबोधो रूपादेर्नास्ति व्याकरणादृते इत्याद्यपि वक्तव्यमित्यर्थः । ननु रूपादेः
प्रत्यक्षगम्यत्वान्न व्याकरणापेक्षा, तत्साधुशब्दविवेकस्य तु व्याकरणमन्तरेणाज्ञानादुपहासो
युक्त इत्याशङ्कयार्थप्रतीतिसाधनत्वात्सर्वेषां गोगाव्यादिशब्दानां साधुत्वे तेषां च
श्रोत्रेन्द्रियागम्यत्वान्न व्याकरणपेक्षेत्यभिप्रायेण परिहरति—को हीति । प्रमाणान्तरा-
गोचरार्थविषयत्वं शास्त्रस्य स्वभावः । प्रमाणान्तरगृहीतार्थानुवादित्वं लोकस्य । इति
करणार्थवाची ईदृशशब्दप्रयोगात्तत्त्वावधारणमिति प्रथमा कीदृशं तर्ह्यर्थप्रवृत्तितत्त्वानां शब्द
एव निवन्धनमिति श्लोकस्योत्तरार्द्धं वक्तव्यमित्यपेक्षायामाह—अत इति ।
यद्यप्यसन्देहार्थं चाध्येयं व्याकरणमित्यादिभाष्येण वेदार्थगतसन्देहनिवृत्तिप्रयोजनत्वं
व्याकरणस्योक्तम् । तदपि दूषयति—असन्देहश्चेति । पदार्थगतस्य चासन्देहस्य निवृत्ति-
र्व्याकरणस्याप्रयोजनम्, वाक्यार्थमन्तरा वा उभयथाप्यन्यतः सिद्धत्वात् व्याकरणान्नचा-
सिद्धेनं व्याकरणप्रयोजनमित्यर्थः ।
पदार्थसन्देहनिवृत्तेरन्यतः सिद्धिमुपपादयति—पदार्थेति । व्याकरणेन चासिद्धिमुप-
पादयति—व्याकरणेन पुनरिति । नन्वीदृशं पदमस्मिन्नर्थे साध्वित्यर्थविशेषावच्छिन्नस्यैव
पदस्वरूपस्यान्वाख्यानादर्थज्ञानमपि व्याकरणात्सम्भवतीत्याशङ्क्य शब्दान्वाख्यानोपाय-
मात्रके व्याकरणेऽर्थकथनं न तात्पर्य्येणेति निदर्शयितुमाह—तथा हीति । व्याकरणाद्धि
सर्वनाम्नां धातुजत्वेन क्रियायोगनिमित्तता प्रतीयते । न च वृद्धव्यवहारे तथा प्रतीति-
रित्यर्थः । अत्रैवोदाहरणमाह—गमेरिति । अनेन सूत्रेण गत्यर्थात् गमेर्धातोरौणादिके
डोप्रत्यये विहिते डित्करणाच्च टिलोपे कृते कर्त्तरि कृदिति गन्तरि गोशब्दव्युत्पादनाया-
न्वाख्यानादरे लोके सिद्धा जातिवाचिता हीयेत । लोकमूलत्वाच्च व्याकरणस्य नैतद्यु-
क्तमित्यर्थः (उदाहरणान्तरमाह—तथेति । कुशला दातरि कुशलशब्दस्य दातरि च

५५६ मीमांसादर्शनम् [ सू०
दारशब्दस्य व्याकरणेऽनुगमः । लोके च प्रवीरा ये कुशलशब्दस्य दातृमहत्त्वयोश्च
दारशब्दस्येत्यर्थः १ ।)
अकृदन्तेष्वपि कृदन्तत्वान्वाख्यानाद् व्याकरणस्य लोकविरोधमुक्त्वा, समासाभावेऽपि
समासान्वाख्यानात्सर्वविरोधमाह - अश्वेति । अतद्धितान्तेष्वपि तद्धितान्तवद्व्याख्याना-
द्विरोधमाह-एवमिति ।
वेदविरुद्धार्थान्वाख्यानादङ्गव्याघातशङ्कापत्तेर्न व्याकरणस्यार्थे तात्पर्यमित्याह-
तथेति । अत्रैवोदाहरणद्वयमाह कलेरिति । आपो वा ऋद्धिमियमार्च्छन् । तासां वायुः
पृष्ठेत्यवर्त्तते ततो वसुत्, तवामं समभवत्तस्मिन्मित्रावरुणौ पर्यपश्यताम्, तावब्रूतां वामं
मर्या इदं देवेष्वजनीति, तस्माद्वामदेव्यमिति वामदेवेष्विति समभिव्याहृतशब्दद्वयोच्चा-
रणनिमित्तवामदेव्यशब्दव्युत्पत्तिः । कलनक्रियानिमित्तकालेयशब्दव्युत्पत्तिश्च वैदिकीं
वैयाकरणीं दर्शननिमित्तां बाधत इत्यर्थः ।
कल्पसूत्रकारैश्च कृष्णश्मवास इति कृष्णशशशब्दस्य व्याकरणाननुगतदकारापगमेन
कृष्णदशब्दवाचितया व्याख्यानात्कृष्णवलक्षे अजिने इति च वलक्षशब्दस्य लोकव्याकरणा-
नवगतशुक्लत्ववाचितया व्याख्यानात्, यूपादिशब्दानां च व्याकरणमनादृत्यैव व्याख्यानान्न
व्याकरणस्य पदार्थनिश्चायकत्वमस्तीत्याह-तथेति । अन्वस्तु नाम पदान्तरेषु व्याकरणान-
पेक्षोऽर्थनिर्णयः । यत्तु भाष्यकृता स्थूलपृषतीमाग्निवारुणीमनड्वाहीमालभेतेत्यत्र किं
स्थूला चासौ पृषती चेति कर्मधारयः, स्थूलानि पृषन्ति यस्याः सेयं स्थूलपृषतीति
बहुव्रीहिर्वेति सन्देहनिवृत्तिर्नवैयाकरणस्य भवतीत्युक्तम् । तत्र कः परिहार इत्याशङ्क्याह-
यथा चेति ।
पदार्थसन्देहनिवृत्तेर्व्याकरणप्रयोजनत्वं निराकृत्य वाक्यार्थसन्देहनिवृत्तिरपि निरा-
करोति-किं चेति । ननु वाक्यार्थसन्देहनिवृत्तिप्रयोजनत्वं भाष्यकृतानुक्तत्वान्न निराकार्यं-
मित्याशङ्क्य, प्रसङ्गापादनार्थं तन्निराकरणमित्याह-यदीति । किंचिदित्यक्रियार्थत्व-
मभिमतम् । औदुम्बराधिकरणस्य साध्यांशविचारार्थत्वाभावे किमीदुम्बरत्वस्य फलसम-
भिव्याहारः साधारणत्वप्रतिपत्त्यर्थः, प्रशंसार्थो वेति व्याख्येयम् । प्रमाणान्तरेणाऽन्नकरण-
त्वस्य होमसम्बन्धहेतुत्वमज्ञातं ज्ञाप्यत इत्यज्ञातज्ञापनाभिप्रायो विधिशब्दः हेतुद्वारोऽर्थवाद
इति शाकपार्थिववन्मध्यमपदलोपी समासः । दृष्टार्थत्वशब्देनार्थतात्पर्यमात्रं सर्वमन्त्रसा-
धारणं मन्त्राधिकरणे व्युत्पादितम् । न स्मारकत्वम्, स्तोत्रशस्त्रादिमन्त्रव्यापकत्वादिति
दर्शितं व्याकरणानपेक्षोदाहरणम्युक्तैकत्वविवक्षायामेकवचनस्मृतेर्व्याकरणेनैकत्वविवक्षा-
प्रतीतेर्विरोधोऽप्यस्तीति दर्शयितुम्-प्रहेत्युक्तम् । न त्वनन्यलभ्यस्य प्रयोजनवदर्थवाद-
त्वादिनिर्णयस्य च मीमांसासिद्धत्वान्न व्याकरणप्रयोजनत्वोपपत्तिरिति स्वयमेवाशङ्क्याह-
अथेति । स्थूलपृषत्यादिशब्दार्थस्यापि कल्पकारादिव्याख्यानान्निर्णयः सेत्स्यतीत्याशयः ।
१. अयं पा० २ पु० ना० ।

२४ ] प्रथमाध्याये तृतीयपादः ५५७
ननु मूलप्रमाणानिरपेक्षस्य व्याख्यानमात्रस्य निर्णायकत्वं न युक्तमित्याशङ्क्यः,
त्वयाऽपि व्याख्यानिर्णायकत्वाभ्युपगमान्नेदं दूषणमित्याह—अपि चेति । लक्षणोत्थसन्देहे
व्याख्यानस्य निर्णायकत्वप्रतिपादकं भाष्यं वेदोत्थसन्देहेन योजयितुमाह-व्याख्यानत इति ।
भाष्यकृता हि शास्त्रारम्भवार्त्तिकगतस्य सिद्धशब्दस्य (एकपरिहारयुक्तानि सार्थत्वमुपपाद्य
चतुर्थः परिहारोऽभिहित इत्यन्वयः सिद्धशब्दस्य१) कः पदार्थ इति पृष्ट्वा सिद्धा द्यौः सिद्धा
पृथिवी सिद्धमाकाशमिति नित्येषु प्रयोगान्नित्यपर्यायवाची सिद्धशब्द इत्युक्त्वा, सिद्ध
ओदनः, सिद्धः सूपः, सिद्धा यवागूरिति कार्येष्वपि प्रयोगात्कथं निर्णयः इत्याशङ्क्य,
संग्रहे तावत्कार्यप्रतिद्वन्द्विभावप्रसिद्धमिति भाष्येण संग्रहाख्ये वार्त्तिककारकृते ग्रन्थान्तरे
किं कार्यः शब्दः सिद्धो वेति कार्यप्रतियोगित्वेन नित्यार्थत्वावसायादिहापि तदर्थ्यनिर्णय-
इत्येकं परिहारमुक्त्वा, अथ वा सन्त्येकपदान्यप्यवधारणानीति भाष्येणाब्भक्षो वायुभक्ष
इतिवत्सिद्ध एव न साध्य इत्यवधारणेन नित्यार्थत्वमुपपाद्य, अथ वा पूर्वपदलोपोऽत्र
द्रष्टव्यः । अत्यन्तसिद्धः सिद्ध इति तद्यथा देवदत्तो दत्त इति सत्यभामा भामेति भाष्येणा-
त्यन्तत्वविशेषणेन नित्यार्थत्वमुपपाद्याथ वा व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादल-
क्षणमिति नित्यपर्यायवाचिनो ग्रहणमिति व्याख्यास्याम इति भाष्येण चतुर्थः परिहारोऽ-
भिहितः । ननु लक्षणोत्थसन्देहनिवृत्तिर्लक्षणकारपुरुषकृतव्याख्यानपरम्परयोपपद्यते, वेदे
तु कर्तृभावेन तत्कृतस्य व्याख्यानस्य मूलत्वायोगात् व्याकरणं वेदव्याख्यापरम्पराया मूलं
भवतीत्याशङ्क्याह-न चेति । कल्पादिभ्यो वेदार्थग्रहणे व्याकरणमात्रेण व्याख्यानाशक्तेः
कल्पादीनामेव मूलत्वं युक्तमित्याशयः । वेदवदनादित्वात् व्याख्यानपरम्परा न मूलान्त-
रमपेक्षत इत्याह-यथैवेति ।
ननु भाष्यकृता यदि पूर्वपदप्रकृतिस्वरत्वम्, ततो बहुव्रीहिः । अथ समासान्तो-
दात्तत्वं ततस्तत्पुरुष इति भाष्येण बहुव्रीहौ प्रकृत्या पूर्वपदमिति बहुव्रीह्या-
द्यस्य पदस्य प्रकृतित्वाभिमताद्युदात्तस्वरत्वस्मृतेरुदात्ताधिकारे चान्तोवत्या इत्यतोऽन्त
इत्यनुवर्त्तमाने समासस्येति सूत्रेण समासविशेषनिर्णयान्तरेभूतसंगः अन्तोदात्तत्वस्मृतेरनुदात्तं
पदमेकवर्जमिति च विहितस्वरवर्जनमुदात्तत्वस्मृतेर्बहुव्रीहिं विना आद्यपदोदात्तत्वायोगा-
द्व्याकरणस्य समासविशेषनिर्णयद्वाराथंविशेषनिर्णायकत्वाभिधानाद्व्याकरणस्य निर्णायक-
त्वाभिधानाद्व्याकरणाधोनादध्येतृप्रसिद्धाद्युदात्तत्वाद् बहुव्रीहित्वेन स्थूलपृषत्यादिशब्द-
व्याख्येत्याशङ्क्याह-न चेति । श्लोकं व्याचष्टे - वृद्धेति । वेदे तु स्वरविवेके सत्यप्यर्थ-
विशेषेण सह स्वरविशेषस्य सम्बन्धग्रहणाभावान्न स्वरविशेषं कृत्वाऽर्थविशेषव्यवस्था
युज्यत इत्याह-यत्र त्विति । ननु वेदे सम्बन्धग्रहणाभावेऽपि लोक्तोऽनेकार्थतयाऽवगतस्य
पदस्य वेदे श्रवणात्सन्देहे सत्यर्थप्रकरणादिभिर्निर्णयोऽभ्युपगम्यते । तत्र चार्थद्वयसाधारणस्य
पदस्यैकत्रैवार्थे कथं वृत्तिरित्यपेक्षायां स्वरविशेषश्रवणात्तत्स्वरयुक्तस्यैव पदस्यासावर्थविशेष-
१. अयं पा० २ पु० ना० ।

५५८ मीमांसादर्शनम् [ सू०
निर्णायोपायतवं स्वरस्याप्यस्तीत्याशङ्क्याह—तत्रापीति । साधारणस्यापि शब्दरूपस्य
लोकावधारितार्थप्रकरणादिनिर्णायोपायवशेनैव एकार्थपरत्वावधारणोपपत्तेर्न लोकानवगतस्य
स्वरस्याप्यर्थनिर्णयसामग्रीमध्ये निवेशकल्पना युक्तेत्याशयः ।
ननु स्वरस्याभिधानाङ्गत्वेऽनर्थकः पाठः स्यादित्याशङ्क्याह—तेनेति । न कदा-
चिददृष्टार्थतास्तीति दर्शयितुम् सर्वदेत्युक्तम् । ब्रह्मयज्ञेषु ज्योतिष्टोमादिषु ये जपमन्त्रा-
स्तेऽप्यङ्गममिति निष्कृष्य योज्यम् । जपन्यूनसामव्यतिरेकेण यज्ञकर्मण्येकश्रुत्यस्मृतेश्चकारेण
न्यूनसाम्नामुपादानम् । एवं च व्याकरणेन स्वरानुगमो ब्रह्मयज्ञाद्युपयोगित्वेनार्थवानस्तु
न त्वर्थनिर्णयार्थतेत्याशङ्क्याह—व्याकरणेति । अलौकिकेऽर्थे सम्बन्धग्रहणासम्भवेनावश्य-
कत्वाज्ञानात्—लौकिकेत्युक्तम् । न वर्णवद्वाचकत्वेन लोके स्वरः प्रयुक्तो नाप्यानुपूर्थ्यादि-
वद्वाचकसहकारिता—इत्यत्यन्तशब्देनोक्तम् । ननु लोकाप्रयुक्तेष्वप्युणादिशब्देषु वाचकत्वो-
पलक्षणाल्लोकप्रयोगादेव वाचकत्वज्ञानमिति नियमायोगाद्व्याकरणादपि स्वरविशेषस्यार्थ-
विशेषं प्रति वाचकत्वज्ञानं भविष्यतीत्याशङ्क्याह - न चेति । शास्त्रारम्भभाष्येऽथ
शब्दानुशासनमिति शब्दान्वाख्यानार्थत्वाख्याने तात्पर्याभावान्न व्याकरणस्य प्रामाण्य-
मित्याशयः । अत्रैव सूत्रावयवं योजयन्सन्देहप्रयोजनत्वासम्भवोपसंहरति—तस्मादिति ।
रक्षादीनामपि पूर्वोक्तप्रयोजनत्वासम्भवोपसंहारार्थोऽपिशब्दः ।
एवं मुख्यानि पञ्चप्रयोजनान्युपन्यासपूर्वकं दूषयित्वा, तेऽसुराः, दुष्टः शब्दः, यदधीतम्,
यस्तु प्रयुङ्क्ते, अविद्वांसः, विभक्तिं कुर्वन्ति, यो वा इमाम्, चत्वारि, उत त्वः, सक्तुमिव,
सारस्वतीं दशम्यां पुत्रस्य, सुदेवो असि वरुणेत्यानुषङ्गिकान्यपि त्रयोदशसंक्षेपतस्तावत्
दूषयति—यान्यपि चेति ।
अम्लेच्छत्वमदुष्टोक्तिर्विज्ञानं फलभागिता ।
अस्त्र साम्यं विभक्त्युक्तिः सप्तमं चार्त्विज्जीनता ॥
मनीषिबत् सम्मतत्वं देवेन महताष्टमम् ।
वाक्यस्वरूपप्रकटनं लक्ष्म्या वाचि निधापनम् ॥
अप्रायश्चित्तमाक्तं च द्वादशं पुत्रनाम च ।
त्रयोदशं सुदेवत्वमुक्तं भाष्ये प्रयोजनम् ॥
प्रथमं च द्वितीयं च सप्तमं चाप्रयोजनम् ।
दशमैकादशौ चेति व्याक्रिया न ह्यपेक्ष्यते ॥
तृतीयादीनि चत्वारि नवमद्वादशे अपि ।
प्रयोजनवदाभान्ति किं तु नान्येन सिद्धितः ॥
सुदेव इति मन्त्रस्य चत्वारीति द्वयोरपि ।
असामर्थ्यं न चरममष्टमं वा प्रमाणकम् ॥

२४ ] प्रथमाध्याये तृतीयपादः ५५३
मुख्यप्रयोजनैश्च प्रयोजनवत्त्वासम्भवेन आनुषङ्गिकेष्वाशा युक्तेत्याह-अपि चेति ।
नद्या वेगेन नीयमानो यस्तीरगतं वृक्षमप्यवष्टभ्य स्थातुं न शक्नोति, तस्य यथा
कुशावष्टम्भनं काशावष्टम्भनं चानर्थकम् तथैतदपीत्यर्थः । पूर्वोक्तमेव प्रपञ्चयितुं
प्रत्येकमुपन्यस्योपन्यस्य दूषयति-तत्रेति । भाष्यकृता तेऽसुरा हेडलय हेडलय इति
ब्रुवन्तः पराबभूवुः, तस्माद् ब्राह्मणेन न म्लेच्छितवै 'म्लेच्छो ह वा एष यदपशब्द'
इत्यपशब्दनिषेधवाक्यमुपन्यस्य म्लेच्छा माभूमेत्यध्येयं व्याकरणमिति भाष्येण म्लेच्छ-
रूपापशब्दप्रयोगप्रयोक्तुम्लेंच्छत्वापत्ते र्ज्ञातस्यापशब्दस्य वर्जनायोगाच्छदापशब्दविवेक-
ज्ञानार्थम्-व्याकरणमित्युक्तम् । यस्मादसुरा अरय इति रेफस्थाने लकार प्रयोगेण
हैहप्रयोगे हैहेयोरित्येतत्सूत्रविहितप्लुतप्रयोगेण 'प्लुतप्रगृह्या अचीति' च प्रकृतिभाव-
विधानाद्धे अरय इति प्रयोक्तव्ये हेडलय इति त्रिविधापशब्दभाषणरूपम्लेच्छनात्पराभवं
प्राप्ताः तस्माद् ब्राह्मणेन न म्लेच्छितव्यम्, नापभाषितव्यमिति समभिव्याहारेणा-
पशब्दनिषेधस्यापराभवार्थत्वप्रतीतेर्म्लेंच्छा माभूमेति म्लेच्छत्वपरिहारस्य प्रयोजनत्वं
भाष्यकारोक्तमयुक्तमाशङ्क्य, पराभवाख्यानस्यापभाषणफलप्रदर्शनार्थत्वे प्रतीते म्लेच्छो
ह वा एष यदपशब्द इत्यस्यानर्थक्यात्तरेपशब्दस्य म्लेच्छशब्दप्रयोक्तुम्लेंच्छत्वं भवतीत्य-
पशब्दम्लेच्छत्वाभिधानार्थवादस्य फलपरत्वसूचनायोपन्यासार्थवादतोक्ता, निषेधस्य तु
प्रयोजनत्वमागमवत्प्रयोजकत्वेनाक्षेपकत्वेनोक्तम् । स निषेधो यथा गुरुसम्प्रदायागतवैदिक-
शब्दविषयो म्लेच्छभाषाविषयो वा । न तु गाव्यादिशब्दविषयग्रन्था । यद्यपि च तस्माद्
ब्राह्मणेनेत्यादिग्रन्थेन प्रागुक्तमित्यर्थः । ततश्च व्याकरणानपेक्षत्वान्न तत्प्रयोजनत्वयोग्य-
तेत्याशयः ।
यच्च भाष्यकृता-
'दुष्टः शब्दः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह ।
स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधाद् ॥
इति श्लोकमुपन्यस्य दुष्टांश्छेब्दान्माप्रयुङ्क्ष्महोत्यध्येयं व्यकरणमिति भाष्येण
दुष्टशब्दवर्जनं व्याकरणप्रयोजनमुक्तम् । तदपि मन्त्रविनाशविषयत्वस्य च व्याकरणान-
पेक्षत्वान्न व्याकरणप्रयोजनत्वयोग्यमित्यर्थान्तरन्यासेनाह-दुष्ट इति । अत्रापि पूर्ववद्व्या-
करणानपेक्षत्वात्तत्प्रयोजनत्वयोग्यतेत्यपिशब्देन सूचितम् । ननु दुष्टादुष्टशब्दज्ञानस्य व्याकरणा-
धीनत्वात्कथं तदनपेक्षत्याशङ्क्य दुष्टः शब्द इति पाठे भवेद् व्याकरणापेक्षा, न
त्वोदृशः पाठोऽस्तीति दर्शयितुमाह-वाग्वीति । मन्त्रो हीनः स्वरतो वर्णतो वेति बहुजन-
प्रसिद्धस्य शिक्षाकारपठितस्य मन्त्रपदस्योद्धारेण पदान्तरप्रक्षेपः स्वपक्षानुरागमात्रेण कृतः,
न वस्तुत इत्यर्थः । मन्त्रविनाशविषयत्वे चास्य वाक्यस्य श्रुतिमूलत्वं भविष्यतीत्याह-
दुष्टेति । दुष्टपदप्रक्षेपेऽपि मन्त्रदोषविषयत्वे नोपपत्तेर्व्याकरणापेक्षानापादकत्वात्पाठान्तरो-
त्प्रेक्षानर्थक्यसूचनायौ दुष्टशब्दः शब्दमात्रदोषविषयत्वेऽस्य वाक्यस्य निर्मूलत्वसूचनायैस्तु-