सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 492, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 492

४३८ मीमांसादर्शनम् [ सू०
ये यजामहे, यच्चागूर्याज्यादिरित्याद्युत्सर्गवदनुयाजवजंमित्याद्यपवादवद्वक्ष्येयुरिति
गाणगारितत्संस्कारत्वादित्यादिहेतुमत्सम्प्रैषवदादेशान्पशुवत् (निपातानिति यथान्वयंः
सम्प्रैषं दद्यात्तद्वद्धोता आदेशान् द्रव्यादेशान् कुर्यात् । छागपदेन प्रैषे छागपदेनादेशाः ।
आज्येन चाज्यपदेन भेद उद्धृतं पार्श्वतः श्रोणित इत्यादयः शब्दा पश्ववयववाचिनः निपाता
इत्युच्यन्ते । तान् पशुवत्क्रियायां पशुवद् द्वयाम्नान्येत्यर्थः । यस्मिन् क्रतावग्नीषोमीयस्थाने
सवनीयस्थाने वा पश्वैकादशिनी कृता, तत्र शालामुखीयै त्वाष्ट्रेण पशुना यजेत । तस्य
पर्यग्निकरणान्तं कृत्वोत्सर्गः पूर्वमुक्तः । पर्यग्निकृत्वोत्सृजत्यपुनरानायेति तस्य तावत्येव
समाप्तिः । आज्येन शेषं संस्थापयेदिति वा आज्येन समापने मन्त्रेषु छागशब्देन निगमाः
कार्या इत्येकः पक्षः । आज्यस्य प्रतिनिधित्वेन स्थानिवद्भावात् द्रव्यान्तरत्वे त्वाज्यशब्देन
निगमाः कार्याः इत्यन्यः पक्षः । तत्र प्रयोगमाह । यदि त्वध्वर्युव आज्येन समाप्नुयुस्तथैव
होता कुर्यात्सम्प्रैषवदादेशा पशुवत्) निपात्यादिदृष्टान्तवत् 'पुरस्ताल्लक्षणा पुरोऽनुवाक्ये'
इत्यादिलक्ष्यव्यापिलक्षणम्, तत्सूत्रमित्यर्थः । लक्ष्यव्यापिलक्षणं यस्मिन्निति सप्तमी-
बहुव्रीहिः । ननु स्वसंज्ञापरिभाषादियोगे पौरुषेयत्वापत्तेः कथं स्मृतिवैलक्षण्यमित्या-
शङ्कयाह—तत्रेति । सकलपुरुषप्रत्यक्षवेदप्रतिपाद्यार्थविषयग्रन्थप्रणयनवैयर्थ्यापत्तेरपौरुषेय-
त्वावसायात्सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्तीत्यादिवदन्यपरसंज्ञादीनीति पूर्वपक्षी
मन्यते इत्याशयः ।
एवं कल्पसूत्राणामपि स्मृत्यधिकरणे वेदमूलत्वं प्रतिपादितमित्यभ्युपेत्य तदाक्षेपेण
प्रत्यवस्थानमुपपादितम् । इदानीमशब्दत्वेन तत्र पूर्वपक्षकरणात्कल्पसूत्रेषु च तदसम्भवादेषां
स्मृत्यधिकरणविषयत्वाभावादिह विचारो न विरुद्ध इति परिहारान्तरमाह—अप्रामाण्य-
मिति । अशक्यत्वमुपपादयति—प्रत्यक्षेति । तत्र स्मृत्यधिकरणपूर्वपक्षेऽपगतशब्दता शब्द-
शून्यतोक्ता, सा कल्पसूत्रेष्वशक्या वक्तुमित्यर्थः । न केवलं पूर्वपक्षासम्भवादेषां स्मृत्य-
धिकरणविषयत्वम्, किं तु मूलभूतवेदानुमानेन तत्र सिद्धान्तकरणात्, प्रत्यक्षवेदमूलेषु
कल्पसूत्रेष्वनुमानायोगात् सिद्धान्तासम्भवेनाप्येषां स्मृत्यधिकरणविषयत्वं नास्तीत्याह—
स्मृत्यधिकरणे चेति ।
यत्र न वैदिकं शब्दमुपलभ्यन्ते इति च सम्भवदशब्दत्वलक्षणपूर्वपक्षहेतुकानामेव
तत्रोदाहृतत्वादुदाहरणभाष्यपर्यालोचनयाप्येषां स्मृत्यधिरणाविषयत्वं प्रतीयत इत्याह—
एतानि चेति । इदं तु परिहारान्तरमनुपलभ्यमाने मूलस्मृतिप्रामाण्यसाधने प्रत्यक्षमूलानां
कल्पसूत्राणामविचारितस्यापि प्रामाण्यस्य तुल्यन्यायसिद्धत्वादन्यथा च विरोधाधिकरणे
सर्ववेष्टनस्मृत्युदाहरणानुपपत्तेः शिष्टाकोपाधिकरणे च क्रत्वर्थस्मृत्युदाहरणानुपपत्तेर्युक्त-
मित्यपरितोषात्पूर्वमेव परिहारमनुसन्दधाति—न चेति । यद्यप्येषामिहाधिकरणे पूर्वपक्षे
प्रामाण्यप्रतिपादनमाभाति, तथापि सिद्धान्ते स्वरानियमवाक्यशेषाभावाभिधानेन वेदवैलक्षण्य-
प्रतिपादनात्स्वतःप्रामाण्यनिराकरणप्रतीतेनं प्रामाण्यं प्रतिपाद्यम्, येनेह तन्निराकरणात्स्मृत्य-
धिकरणविरोधः स्यादित्यर्थः ।