मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पादीयमानत्वे संशयः, स संख्याधारविषयः । उद्दिश्यमानेषु निर्णय एव । गवादि-
६७४ मीमांसादर्शनम् [ सू०
गोत्ववानिति तु स्फुटं प्रत्ययेन जातिमदभिधानम् । विभागोपपत्तेः । सामान्यस्य
वोपलक्षणत्वान्न भेदपक्षदोषः । भेदानामेव चायं प्रत्येकं सर्वेषां वाचकः । यस्तू-
पादीयमानत्वे संशयः, स संख्याधारविषयः । उद्दिश्यमानेषु निर्णय एव । गवादि-
शब्दग्रहणं सर्वनामाख्यातशब्दानामन्तर्भावार्थम् । प्रयोजनं सामान्यविशेषशब्द-
योरेकविषयत्वात्सामान्यशिष्टस्य विशेषशिष्टेनाबाधः पूर्वपक्षे ।
परमतेनाधिकरणं व्याख्याय स्वमतेन नामाख्यातयोरर्थनिर्णयः इति निरूपणम्
एवं वा—गौरित्येवंविधाः शब्दाः साधुत्वेन निरूपिताः ।
तेषामेवाभिधेयेऽर्थे व्यापारः क्वेति चिन्त्यते ॥ ९९८
चतुर्विधे' पदे चात्र द्विविधस्याऽर्थनिर्णयः ।
क्रियते संशयोत्पत्तेर्नोपसर्गनिपातयोः ॥ ९९९
तयोरर्थाभिधाने हि व्यापारो नैव विद्यते ।
यदर्थद्योतकौ तौ तु वाचकः स विचार्यते ॥ १०००
वाचकत्वेऽपि पाश्चात्यमनुयात्येवमादिषु ।
प्रतीयते विशेषो यः संशयेन स नाऽऽप्यते ॥ १००१
यदि ह्यर्थद्वये बुद्धिर्निपातोच्चारणाद्भवेत् ।
ततो विचारो जायेत न सामान्यधिया विना ॥ १००२
आख्याताथविचारस्य भावार्थाधिकरणे कृतत्वात् अत्र प्रकृत्यर्थविचारः
आख्यातस्यापि नन्वत्र न युक्ताऽर्थविचारणा ।
द्वितीयादावियं यस्माद्विस्तरेण करिष्यते ॥ १००३
कः पुनर्भाव² इत्यादौ विवेकेनार्थनिर्णयः ।
आख्यातस्य कृतस्तेन तच्चिन्ता नोपपद्यते ॥ १००४
प्रत्ययार्थस्य भावस्य वाच्यता प्रतिपादिता ।
प्रकृत्यर्थविवेकार्थं विचारः क्रियतेऽधुना ॥ १००५
प्रत्ययस्यापि वा तत्र भावार्थत्वे निरूपिते ।
सामान्यं वा विशेषो वा किं वाक्यमिति चिन्त्यते ॥ १००६
अत्र सिद्धस्यैव तत्र व्यवहारो भाष्यकृतः
या चोक्ता भाष्यकारेण यागादेरभिधेयता ।
सिद्धा सेह विवेकार्थं तत्र भावस्य भाषिता ॥ १००७
१. नामाख्यातोपसर्गनिपातरूप इत्यर्थः ।
२. जै० सू० २-१-१ इत्यत्र भाष्यकारेण ।
३३ ] प्रथमाध्याये तृतीयपादः ६७५
यज्याद्यर्थेऽपि वा वाच्ये किं सामान्यविशेषयोः ।
अभिधेयमिति प्राप्ता चिन्ता कर्तुं क्रियापदे ॥ १००८
अपूर्वं कस्मादिति प्रधानविचारे न पुनरुक्तिशंका
अपूर्वं भावशब्देभ्यो द्रव्यादिभ्यः किमिष्यते ।
एषा तत्र च चिन्तोक्ता शेषा प्रासङ्गिकी कथा ॥ १००९
नामाख्यातपदे तेन कस्यार्थस्याभिधायके ।
किमाकृतेरुत व्यक्तेरिति चिन्ता प्रवर्तते ॥ १०१०
प्रयोगस्य प्रतीतेश्च तुल्यत्वाच्छब्दलक्षणे ।
व्यक्तिपक्षाभिधानाच्च संशयः प्रतिभाति नः ॥ १०११
संगतिसंशययोरुपपादनम्
कथं लक्षणसंबन्धश्चिन्तायाः प्रकृतेन वा ।
स्मृतिमूलविचारेण वक्तव्यं त्विदमादितः ॥ १०१२
इयं प्रासङ्गिकी चिन्ता साधुशब्दे निरूपिते ।
उदाहृतस्य तस्यैव क्रियतेऽर्थविनिश्चयः ॥ १०१३
वक्तव्यः पूर्वमर्थश्चेच्छब्दरूपनिरूपणात् ।
न हि वाच्यमविज्ञाय साधुत्वमवधार्यते ॥ १०१४
अनिश्चितेऽपि वाच्यत्वे व्यक्ताकृत्योर्विवेकतः ।
साधुत्वं शक्यते ज्ञातुं तेन वाच्यमिहोच्यते ॥ १०१५
वाच्यमात्रे हि साधुत्वमविज्ञाते न लभ्यते ।
न चाऽऽकृत्या न च व्यक्त्या विना तन्नोपपद्यते ॥ १०१६
प्रकारान्तरेण संगत्यूत्पादनम्
अथ वोक्तेन मार्गेण सर्वा व्याकरणस्मृतिः ।
प्रयाणमिति सिद्धस्य किंचिदत्र विचार्यते ॥ १०१७
व्यक्तिर्वाच्येति विज्ञानं न सन्मूलमसंभवात् ।
तेन व्याचरणेऽपीदृग् न प्रमाणं स्मृतिर्मता ॥ १०१८
स्मृतेस्तेनापवादोऽयं प्रामाण्यस्य क्वचित्कृतः ।
युक्तो लक्षणपादाभ्यां पूर्वया चापि चिन्तया ॥ १०१९
आकृतिपक्षेऽपि क्रियाया उपपत्तिर्व्यक्तिमादायैव वाच्येति फलवैकल्या-
भावशंका-समाधाने
ननु चाऽऽकृतिपक्षेऽपि व्यक्तावेव क्रियाक्रिये ।
शब्दार्थे संभवात्तेन किमर्थैषा विचारणा ॥ १०२०
६७६ मीमांसादर्शनम् [ सू०
यद्यप्येवं न भेदोऽस्ति वेदार्थकरणे नृणाम् ।
दधि विप्रेभ्य इत्यादौ फलं लोके भविष्यति ॥ १०२१
व्यक्तिपक्षे विकल्पः स्यात्कौण्डिन्ये दधितक्रयोः ।
सामान्यवाक्यदौर्बल्यात्क्रममेवेतरत्र तु ॥ १०२२
वेदेऽपि च विशेषोऽस्ति व्रीहिप्रोक्षणचोदके ।
दध्नेत्यादिषु भेदश्च जायते होमचोदके ॥ १०२३
प्रोक्षणं पूर्वपक्षेऽपि कर्तव्यं लौकिकेष्वपि ।
व्रीहिषु श्रुतिसामर्थ्याद्वाधित्वा संनिधिक्रमम् ॥ १०२४
प्रकृतेष्वेव सिद्धान्ते श्रुतिसंनिध्यनुग्रहात् ।
तत्रापि कृत्स्नमस्त्येव व्रीहित्वं हि श्रुतीरितम् ॥ १०२५
एवं होमेऽपि दध्यादौ प्रकृतेऽप्रकृतेऽथ वा ।
प्रकृते श्रुतिवाच्यस्य होमत्वस्यापि संभवात् ॥ १०२६
सोपपत्तिकमन्यच्च वक्तव्यमनया दिशा ।
कर्तव्या तेन यत्नेन चिन्तेयं सप्रयोजना ॥ १०२७
ननु गौरितिशब्दादौ सर्वमेतद्विचारितम् ।१
तेन तेन गतार्थत्वात्पुनश्चिन्ता न युज्यते ॥ १०२८
आकृतिश्शब्दार्थ इत्यत्र हेतूपन्यासार्थमिति कथनम्
आकृतेरभिधेयत्वप्रतिज्ञा केवला कृता ।
तत्रेदानीं सहेतुत्वं तस्या एवाभिधीयते ॥ १०२९
यथा वाऽऽकृतिरित्यादौ भाष्यकारेण चोदितम् ।
पुनरस्याः प्रतिज्ञाया हेतुरप्यभिधास्यते ॥ १०३०
आकृतिश्शब्दार्थत्वं पूर्वसिद्धं व्यक्तेर्वाच्यावाच्यत्वचिन्ता
यद्वोक्तस्तत्र सद्भावः शब्दार्थत्वमिहोच्यते ।
या तु शब्दार्थता प्रोक्ता सेह सिद्धा न चिन्तिता ॥ १०३१
उक्ते वाऽप्यभिधेयत्वे जातेः सद्भावसिद्धये ।
व्यक्तिर्वाच्या न वेत्येतदगतार्थं विचार्यते ॥ १०३२
एतच्चिन्ताप्रसिद्धयर्थमिदं तावद्विचार्यते ।
शब्दार्थौ लौकिकौ वेदे किमन्याविति संशयः ॥ १०३३
१. जै० सू० ( १-१-५ ) इत्यत्र वृत्तिकारमतानुवादे शब्दार्थसम्बन्धाक्षेपपरिहारग्रन्थे
भाष्यकारैरिति शेषः ।
३३ ] प्रथमाध्याये तृतीयपादः ६७७
एकत्वे सति कर्तव्यो विचारः शब्दवाच्ययोः ।
भेदे तु संशयाभावान्न चिन्तावसरो यतः ॥ १०३४
शब्दार्थेन न कार्यं हि व्यवहारेऽर्थलक्षणे ।
लौकिकव्यवहारार्थं तेनेदं न विचार्यते ॥ १०३५
वेदे तु प्रत्यभिज्ञाने शब्दार्थविषये सति ।
विवेकः शक्यते ज्ञातुं प्रतीतेर्वाच्यगम्ययोः ॥ १०३६
अलौकिके च शब्दार्थे वाच्यवाचकरूपयोः ।
अज्ञातयोर्न जायेत सन्देहो वाच्यवस्तुनि ॥ १०३७
तेन प्रतीतशब्दार्थे निर्णयार्थमिदं पुरा ।
शब्दनित्यत्वाधिकरणे लौकिकशब्दानामभेदो विचारितः । अत्र लौकिकानां
वैदिकानां शब्दानां भेदाभेदविचार इति प्रकारान्तरम्
एकत्वं विद्यते नेति चिन्त्यं शब्दाभिधेययोः ॥ १०३८
संख्याभावादिति१ ह्येतन्ननु स्पष्टं निरूपितम् ।
शब्दस्य प्रत्यभिज्ञानान्नान्यतोच्चारणान्तरे ॥ १०३९
अभेदकारणं चात्र प्रत्यभिज्ञानमेव ते ।
अन्यतूपचयत्वेन तेन चिन्ता न युज्यते ॥ १०४०
लौकिकेष्वेव शब्देषु तत्राभेदः प्रसाधितः ।
वैदिकानामभेदार्थं चिन्तनीयमिदं पुनः ॥ १०४१
व्यपदेशादिभेदाच्च कथं भेदो न जायते ।
तवानुक्तमिदं वक्तुं विचारोऽयं प्रवर्तितः ॥ १०४२
लौकिकवैदिकानां शब्दानांमर्थभेदाभेदविचारः
एकत्वेऽपि च शब्दस्य सिद्धे तत्रेह चिन्त्यते ।
किमर्थो भिद्यते नेति तेनाप्यपुनरुक्तता ॥ १०४३
अर्थभेदे च चिन्तेयं शब्दाभेदे तु सत्यपि ।
घटते कस्य वाच्यत्वं व्यक्त्याकृत्योर्द्वयोरपि ॥ १०४४
व्यपदेशादिभेदेन शब्दे च प्रत्यभिज्ञया ।
भेदाभेदनिमित्ताभ्यां क्रियते संशयोद्भवः ।
पूर्वपक्षः
किं प्राप्तमुच्यते भिन्नौ शब्दार्थौ लोकवेदयोः ॥ १०४५
१. जै० सू० (१-१-६)।
६७८ मीमांसादर्शनम् [ सू०
व्यपदेशस्य भिन्नत्वादाख्याया लक्षणस्य च ।
स्वरोच्चारणभेदाच्च लोपव्यत्ययदर्शनात् ॥ १०४६
स्वरयूपादिशब्दैश्च स्पष्टभेदैः सह श्रुतेः ।
अनध्यायादिभेदाच्च शूद्रोच्चारणवर्जनात् ॥ १०४७
अश्वबालादिशब्दानां स्पष्टार्थान्तरदर्शनात् ।
अग्न्यादीनां च भिन्नत्वं भाष्ये यदभिधीयते ॥ १०४८
तदयुक्तं क्रियाभेदे कर्तृभेदे१ हि नेष्यते ।
हन्ति कर्तृत्वमग्नेश्च पदार्थेभ्यः प्रतीयते ॥ १०४९
अशाब्दं वह्निशब्दस्य तद्वाच्यं कथमुच्यते ।
हननं किं कृतं नेति प्रमाणं चात्र नास्ति नः ॥ १०५०
असता कथमन्यत्वं कर्मणाऽतः प्रतीयते ।
अपूर्वे वृत्रशब्दार्थे क्रियाशब्देऽप्यलौकिके ॥ १०५१
हन्तिकर्त्तरि वह्नित्वं कथमध्यवसीयते ।
स्तुतिमात्रपरत्वाच्च न वह्नित्वं विधीयते ॥ १०५२
अक्रियत्वाच्च भाष्योक्तैर्वाक्यैरित्यभिधास्यते ।
तेनोक्तस्यैव शब्दस्य त्रिवृदादेर्नवादिषु ॥ १०५३
वृत्तिरर्थेष्वपूर्वेषु वक्तव्या भेदसिद्धये ।
भेदपक्षे हेत्वन्तरोपन्यासः
यच्चान्यदिदमित्याह२ रूपभेदं क्रियाश्रुतेः ॥ १०५४
तदसत्यं न शब्दस्य भेदोऽर्थगुणकारितः ।
तेन स्वरादिभेदेन वक्तव्या भिन्नरूपता ॥ १०५५
पूर्वोक्तेनैव मार्गेण नार्थभेदनिबन्धना ।
तस्माच्छब्दार्थयोर्भेदः स्पष्ट इत्यवधारिते ॥ १०५६
तावेव वेदे शब्दार्थौ लोके याविति भाष्यते ।
वेदस्यैव प्रसज्येत सकलस्याप्रमाणता ॥ १०५७
अविज्ञातार्थसंयोगात्स्थितप्रामाण्यबाधया ।
प्रयोगस्याग्निहोत्रादेश्चोदनायाश्च जायते ॥ १०५८
१ क. कर्तृभेदो ।
२. लोकवेदयोः शब्दार्थानामनन्यत्वनिरूपणावसरे भाष्यकार इति शेषः ।
३३ ] प्रथमाध्याये तृतीयपादः ६७९
अभावः प्रत्ययार्थस्य विधेरप्रतिपादनात् ।
अर्थान्तरे च शब्दस्य न प्रयोगो विधीयते ॥ १०५९
वेदेनाशास्त्रहेतुत्वात्सम्बन्धस्येति हि स्थितम्१ ।
सिद्धान्तः
किं चाविभक्तरूपत्वं प्रत्यभिज्ञायते स्फुटम् ॥ १०६०
वैदिकेष्वपि शब्देषु प्रत्यक्षेण पुनः पुनः ।
यद्वा विभागशब्देन शब्दस्योच्चारणे सति ॥ १०६१
गोत्वबुद्धेः समानत्वान्न भेद इति कीर्त्यते ।
लक्षणस्याविभक्तत्वं शब्दानां वेदमुच्यते ॥ १०६२.
सर्वथा शक्यते भेदो न वक्तुं शब्दवाच्ययोः ।
एकत्वे याज्ञिकानां च प्रसिद्धिर्नुगृह्यते ॥ १०६३
मीमांसा चापि वेदार्थतत्त्वनिर्णयकारणम् ।
व्यपदेशादिभेदैश्च न भेदोऽत्रानुमीयते ॥ १०६४
प्रत्यक्षप्रत्यभिज्ञाते वेदशब्देऽन्यरूपता ।
व्यपदेशादिभेदश्च स्वरभेदादिकारितः ॥ १०६५
स्वरादयश्च भिद्यन्ते वेदत्वात्किमिहोच्यते ।
स्वरयूपादिशब्दानामन्यत्वेनेतरत्र२ च ॥ १०६६
नान्यत्वं युज्यते बाधात्प्रत्यक्षप्रत्यभिज्ञया ।
वचनाद्धर्मभेदस्तु शूद्रवर्जितताऽपि वा ॥ १०६७
धर्मवुच्चारणस्यैतौ न शब्दस्य स्वरश्च यः ।
अश्वबालादिशब्दार्थभेदे वचनकारिते ॥ १०६८
न च भिन्नत्वमन्येषु प्रज्ञातार्थेषु युज्यते ।
उत्तानानां च केषांचिद्वह्रतां न विधीयते ॥ १०६९
गोत्वं तेषामसिद्धत्वात्पदार्थग्रहणादपि ।
विधेरन्यस्य शेषत्वात्स्तुतिरेषाऽवगम्यते ॥ १०७०
उत्तानेत्यादिका तेन नातो भेदः प्रतीयते ।
तस्माद्यावेव शब्दार्थौ लोके पूर्वं निरूपितौ ॥ १०७१
१. जै० सू० ( ३-२-२ ) इत्यत्र ।
२ ब. स्वर ।
६८० मीमांसादर्शनम् [ सू०
वेदे तावेव विज्ञेयाविति सिद्धं प्रमाणवत् ।
प्रकारान्तरोपन्यासेन प्रकृतस्यानुसन्धानम्
यद्वा चैवं यदा युक्ता चिन्तेयं क्रियतेऽधुना ॥ १०७२
किमाकृतेः पदार्थत्वं किं व्यक्तेः किं द्वयोरिति ।
बहवः प्रतिभान्त्यत्र पक्षाः प्रतिपदं च ये ॥ १०७३
ते च सर्वेऽभिधीयन्ते व्यामोहविनिवृत्तये ।
गौरित्युच्चरिते सप्त वस्तूनि प्रतिभान्ति नः ॥ १०७४
जातिर्व्यक्तिश्च सम्बन्धः समूहो लिङ्गकारके ।
संख्या च सप्तमी तेषामष्टपक्षी द्वयोर्द्वयोः ॥ १०७५
किं जातिरेव शब्दार्थो व्यक्तिरेवाथ वोभयम् ।
किं विकल्पोऽथ सम्बन्धः समुदायो निरूप्यताम् ॥ १०७६
जातिर्व्यक्तिविशिष्टा वा व्यक्तिर्जातिविशेषिता ।
जातिसम्बन्धयोरेवं सामान्यसमुदाययोः ॥ १०७७
जातिकारकयोश्चैवं संख्यासामान्ययोरपि ।
लिङ्गसामान्ययोरेवमेकैकस्येतरैः सह ॥ १०७८
अष्टौ पक्षा नियोक्तव्याः षड्भिः प्रत्येकमुक्तवत्
एवमानन्त्यमेतेषां पक्षाणामिह गम्यते ॥ १०७९
पक्षाणामानन्त्येऽपि भाष्यमतेन पक्षचतुष्टयवर्णनम् ।
पूर्वपक्षेऽपि चत्वारो भाष्ये चैते प्रदर्शिताः ।
व्यक्तेरेवाभिधेयत्वं द्वयोर्वा स्वप्रधानयोः ॥ १०८०
व्यक्तेर्जातिविशिष्टाया विपरीतमथापि वा ।
उपन्यासेन चैतेषां ज्ञेयाः सर्वे प्रपञ्चिताः ॥ १०८१
निराकरणयुक्त्या च निषिद्धा इति नोदिताः ।
तेनाऽऽद्यौ द्वावेव पक्षौ विचार्येते किमाकृतिः शब्दार्थो व्यक्तिरिति ।
भाष्यकारेण च संशयकारणमुक्तं सामान्यप्रत्ययाद्व्यक्तौ च क्रियासंभवा-
दिति । एतदयुक्तम् ! व्यक्तेरपि प्रतीयमानत्वात्कथं जातेरेव प्रतीतिरुपन्यस्यते ?
यदि च व्यक्तिर्न संप्रतीयेत, ततः संशय एव न स्यात्किमभिधीयतेऽनेनेति । न च
क्रियासंभवोऽभिधेयत्वे कारणं व्यक्त्यन्तराणामपि प्रसङ्गात् । तेन पूर्वोक्तमेव
संशयकारणं मन्तव्यम् । प्रयोजनप्रतीत्योः साधारणत्वात् शास्त्रान्तरे व्यक्तिपक्षाभ्यु
पगमात्संशयः ।
३३ ] प्रथमाध्याये तृतीयपादः ६८१
यद्वा शब्द उच्चारिते सामान्यप्रत्ययाद् व्यक्त्याकृत्योः सामान्यात्तुल्यात्प्रत्ययात्
व्यक्तौ च शब्दादाकृतावालम्भनस्पर्शनशयनसहशयनादिक्रियासंभवात्सामान्ये
व्यक्तौ च प्रत्ययात्क्रियासंभवादिति चोक्तम् ।
का पुनराकृतिः, का व्यक्तिरिति । कथं पुनरयं प्रश्नो यदा गौरित्येतस्य
शब्दस्य कोऽर्थ इत्यत्र जातिर्निरूपिता । नैष दोषः । येनैतन्न ज्ञातमसौ पृच्छति
का पुनराकृतिः ? का व्यक्तिरिति ? संदेहाद्वाऽत्र पुनरुभयस्मिन्प्रतीयमाने का
व्यक्तिः ? कियती वा जातिरिति । वैपरीत्येनैव कश्चित्पृच्छति यदा शाबलेयादि-
पिण्डान्न किंचिद् व्यक्तं वस्त्वन्तरं भिन्नमुपलभ्यते, तदा कुतोऽयं विवेको
व्यक्तिरियम्, जातिरियमिति ।
अथ वा व्यवहारार्थं सर्वैव चिन्ता क्रियते जातेश्च पदार्थत्वेऽपि व्यक्तौ क्रियासं-
भवान्निष्प्रयोजना चिन्ता । यतस्त्वसौ प्रयत्नेनैतद्विचारयति । तेन नूनं काऽप्यस्य
पिण्डादत्यन्तभिन्नव्यवहारयोग्या जातिरभिप्रेतेत्यभिप्रायः । तत्राऽऽह । द्रव्यगु-
णकर्मणां सामान्यमात्रमाकृतिरिति । यौ तावदज्ञानसंशयवादिनौ, तयोः
स्वरूपकथनमात्रेणैव निराकरणं वक्तव्यम् ।
यस्तु विपरीतवादी तस्यैव निराकरणमभिधीयते । यद्यपि जातिर्व्यक्तेर-
त्यन्तभिन्ना नोपलभ्यते, तथाऽपि शबलाकारे तस्मिन्नुपलभ्यमाने सामान्यबुद्धेरा-
लम्बनं प्रथमपादोक्तेन न्यायेनाऽऽकृतिः । इतरा व्यक्तिः । न चानेन ग्रन्थेन
जातेः सद्भावः, प्रमाणं वा प्रतिपाद्यते । व्यक्तेर्विवेकः केवलं कथ्यते । तेनैवाभि-
प्रायेण मात्रशब्दप्रयोगः अन्यथा तस्य गतार्थतैव भवेत् यदप्युक्तं नूनं काऽप्यत्यन्त-
भिन्ना जातिरभिप्रेतेति । तस्याप्युत्तरं द्रव्यगुणकर्मणां सामान्यमात्रमाकृतिरभि-
प्रेता, नात्यन्तव्यतिरिक्तेति । द्रव्यादीनां च सर्वेषां यत्सामान्यं सत्तारूपं तदनेन
निर्दिश्यते, तन्निर्देशेनावान्तरसामान्यानामपि निर्देशसिद्धिः ।
यद्वा सामान्यशब्दस्य प्रत्येकसंबन्धाद् द्रव्यत्वादीनि त्रीणि सामान्यानि निर्दि-
श्यन्ते, सत्तया व्यवहाराभावात् ।
अथ वा मात्रशब्दप्रयोगाद् द्रव्यादिषु यावन्त्यवान्तरसामान्यानि, महासा-
मान्यं च तत्सर्वमभिधीयते । असाधारणविशेषा व्यक्तिरिति बहुव्रीहिः ।
असाधारणविशेषा यस्यां व्यक्तौ, सेयमसाधारणविशेषा, न त्वसाधारणाश्च
ते विशेषाश्चेति सामानाधिकरण्यं संभवति , उपरिष्टाद्विशेषाधारस्य व्यक्तित्वाभि-
धानात् । स्मृतेश्च १ । तेन सम्यगभिहितं किमाकृतिर्वा व्यक्तिरिति ।
१. नित्यद्रव्यवृत्तयो विशेषा इति स्मृति ।
६८२ मीमांसादर्शनम् [ सू०
तत्र पूर्वपक्षः
किं प्राप्तम् । आलम्भन-प्रोक्षण-विशसनादिप्रयोगचोदनाया व्यक्तिपक्षे भावात्,
अकृतिपक्षे चाभावात्, 'ब्राह्मणो न हन्तव्यः' 'सुरा न पातव्या' इत्यादिप्रतिषेध-
चोदनायाश्च व्यक्तिपक्ष एव संभवाद्देवदत्त गमभ्याजयेत्येवमादिलौकिकव्यवहार-
चोदनायाश्चोपपत्तेर्व्यक्तिः शब्दार्थ इति निश्चीयते । संख्याकारकोपपत्तेश्च । यदि हि
व्यक्तिः शब्दार्थो भवति, ततो वृक्षौ वृक्षाभ्यामिति प्रातिपदिकाभिहितासु
व्यक्तिषु प्रत्ययाभिहितद्वित्वादिसंख्या, करणादिकारकं चोभयमुपपद्यते, इतरत्र
तु जातेरसंख्येयत्वादकारकत्वाच्चोभयमप्यनुपपन्नम् १। लाक्षणिकव्यक्त्याश्रयणं
चाऽऽपद्येताम् । तथा च सर्ववैदिकवाक्यार्थानां लाक्षणिकत्वं स्यात् । व्यक्तिपक्षे च
पुरुषो देवदत्त इति मुख्यशब्दसामानाधिकरण्योपपत्तिः । जातिपक्षे लाक्षणिकद्वारं
सामानाधिकरण्यं कल्पयितव्यं भवेत् । तेनापि व्यक्तेः पादर्थत्वमवसीयते ।
'पशुमालभेत' इति च श्रुतेर्हृदयजिह्वादिभिर्व्यक्त्यवयवैरुपस्रिष्टाद् व्यवहारो दृश्यते,
न जात्या । कर्मभिश्च द्रव्यस्यापेक्षितत्वाद् व्यक्तिपक्षेऽपेक्षिताभिधानम्, नेतरत्र ।
सिद्धस्वरूपायाश्च व्यक्तेरभिधेयत्वं युक्तम्, नाप्रसिद्धाया जातेः । अतो व्यक्तिः
शब्दार्थः ।
किमित्युभयं वाच्यं नाऽऽश्रीयते, प्रयोगप्रतीतिक्रियोपपत्तेरिति चेत् ? न ।
अनेकक्तिकल्पनाप्रसङ्गादेकाभिधानेनैव संबन्धादिरत्र प्रतीतेरुपपन्नत्वाद् व्यक्तेरे-
वाभिधेयत्वम् । सामान्यप्रत्ययः कथमिति चेद् ? व्यक्तिसंबन्धादुपपत्स्यते ।
यत्रैव क्रियानुपपत्तिः, तत्रैव वाऽर्थापत्त्या व्यक्तिवचनत्वं युक्तम्, अन्यत्र तु पूर्वं-
प्रतीतेर्जातिवचनत्वमेव न्याय्यमिति चेत् ? न । उक्तमार्गेणानेकक्तिकल्पनादि-
दोषप्रसङ्गात् । अनवस्थितशब्दार्थसंबन्धापत्तेः, संशयापत्तेश्च । व्यक्तिवादिनः
कथं निर्निमित्तता व्यक्त्यन्तरे शब्दस्य प्रवृत्तिरिति चेत् ? तदाकृतिचिह्ननिमित्त-
त्वाद् व्यक्त्यन्तरे प्रयोगस्याविरोधः ।
भाष्यकारस्तु कथं सामान्यावगतिरित्युपन्यस्याऽऽकृतिश्चिह्नभूता भविष्यती-
त्युत्तरं ददाति, तदसंबद्धम् । कथं सामान्यप्रत्ययकारणे २ पृष्टे व्यक्त्यन्तरप्रयोग-
निमित्तं कथ्यते । तेनाध्याहारेणैतद् व्याख्येयम् । कथं सामान्यावगतिरिति चेत् ?
व्यक्तिसंबन्धात् । कथं व्यक्त्यन्तरे प्रयोगः ? चिह्नत्वादाकृतेरित्येवम् ।
यद्वा कथं सामान्यावगतिरिति चेदित्यपन्यस्ते, पूर्वपक्षवादी सामान्यावगति-
मपह्नोतुमशक्नुवन्नाकृतिविशिष्टव्यक्त्यभिधानपक्षं परिगृह्णात्याकृतिश्चिह्नभूता-
१. ब. संख्येयत्वाद् कारकत्वाच्चो । २. क. सामान्याप्रत्ययः कारणे ।
३३ ] प्रथमाध्याये तृतीयपादः ६८३
विशेषणभूताऽभिधेया भविष्यति । अतश्च तत्प्रतीतिरचोद्या । तेन केवला,
विशिष्टा वा व्यक्तिः शब्दार्थः । तथा च 'षड् देया' इत्येवमादिषु षडादिका
संख्योपपत्स्यते अन्यं तद्गुर्णमिति१ च व्यक्त्यन्तरेऽन्यशब्दोपपत्तिस्तद्धर्मता च
भविष्यति । अन्यथा व्यक्त्यन्तरानयनेऽपि जातेरन्यत्वादगुणत्वाच्चोभयमनुप-
पन्नम् । तस्माद् व्यक्तिः शब्दार्थ इति प्राप्ते ।
सिद्धान्तः
अभिधीयते । नैतत् शब्दवाच्येति; किं त्वाकृतिः पदार्थ इति विज्ञायते,
'श्येनचितं चिन्वीत' इति श्रवणात् । अत्र हि श्येनव्यक्तिं चयनेन कुर्यादाकृतिं
वेति वाक्यार्थी स्याताम् । यावदिष्टकाभिः२ श्येनव्यक्तेः कर्तुमशक्यत्वात्, स्नाव्या-
दिभिरप्यनिर्वृत्तेरिष्टकाबाधाच्छ्येनव्यक्तेः प्रयोजनकल्पनाच्चिनोतेर्मुख्यार्थत्वात्
'कर्मण्यग्न्याख्यायाम्३ इति स्मृतिपरित्यागप्रसङ्गाच्च । चयनेन श्येनव्यक्तिं
कुर्यादित्येवं तावन्नोपपद्यते । तथाऽऽकृतेरपीष्टकाभिः कर्तुमशक्यत्वात् दैवनिर्मित-
त्वात्, प्रयोजनकल्पनाच्चिनोतेर्यथार्थत्वप्रसङ्गात्स्मृतिबाधाच्चाऽऽकृतिं कुर्या-
दित्यपि नोपपद्यते । परिशेषाच्छ्येनमिव चितमग्निस्यलं चयनेन निर्वर्तयेदिति
वाक्यार्थः । ततश्च यया कयाचिच्छ्येनव्यक्त्या सदृशस्याग्नेश्चेतुमशक्यत्वात् ।
सर्वव्यक्तिसादृश्यासम्भवात्, अतीतानागतव्यक्तिसादृश्यानुपपत्तेश्च श्येनाकृति-
सादृश्यसंपत्तिसंभवाच्चाकृतिः शब्दार्थ इति निश्चीयते ।
अथ कस्माच्छ्येनव्यक्तिभिश्चयनचोदनेयं नाऽऽश्रीयते 'श्येनचितं चिन्वीत'
इति । तत्र भाष्यकारेणोत्तरं दत्तम् 'ईप्सिततमो ह्यसौ४ श्येनशब्देन निर्दिश्यते'
इति । तदयुक्तम् । न ह्यत्र श्येनशब्दः स्वार्थः, न च सकलश्येनचिच्छब्दोत्तरकालं
श्रुतत्वाद् द्वितीयायास्तदन्तो५, येनेप्सिततमार्थप्रतिपादकः स्यात् । तेन कर्मण्यग्न्या-
ख्यायामिति स्मृतेः श्येनशब्दार्थस्य करणत्वं निषेद्धव्यम् । कर्मणि हि कारके चिनोतेः
क्विप्प्रत्ययः स्मर्यते । यदि चिनोतिरग्न्याख्या भवति । न च चिनोतेः केवल-
स्याग्निवचनत्वं संभवति । तेन क्विबन्तचिनोतिश्रुतेः श्येनचिच्छब्दस्य सकल-
स्याग्निवचनत्वं निश्चीयते, न श्येनशब्दस्य पृथगर्थता । तेन न श्येनशब्दार्थं
करणतया विज्ञायते । यदि वासौ करणं स्यात्ततो लक्षणाभावात्तृतीयासमास-
वचनानुपपत्तिर्भवेत् । तृतीया चाश्रुता कल्पनीया । श्रुतकरणत्वे इष्टकापरित्यागश्च
१. क. तद्गुर्णामिति । २. क. दिष्टकादिः ।
३. पा० सू० ( ३-२-९२ ) । - ४. क. न ह्यसौ ।
५. नच श्येनशब्दो द्वितीयान्त इत्यर्थः ।
५८४ मीमांसादर्शनम् [ सू०
स्यात् । सत्यां च गतौ प्रतिषिद्धाऽनेकश्येनव्यक्तिहिंसा जायते, तेन करणत्वानु-
पपत्तेः श्येनमिव चितमग्निं चिन्वीतेति वाक्यार्थः । अतश्चोक्तेन न्यायेनाऽस्य
वाक्यस्याऽऽकृतिपक्षे संभवादाकृतिः पदार्थ इति ।
नैतदेवम् । न हि चयनक्रियासंभवमात्रेणाऽऽकृतेरभिधेयत्वं लभ्यते, व्यक्तिप-
क्षेऽप्युपलम्भनादिक्रियासंभवात् । बहुत्वाच्चालम्भनादिवाक्यानां तदन्यथानुपपत्त्या
व्यक्तेरेव पदार्थत्वमवसीयते । अथाकृतिपक्षेऽपि व्यक्तिलक्षणया तान्युपपत्स्यन्त
इत्युच्यते, तदैतदपि¹ शक्यमेव वक्तुं श्येनवाक्ये व्यक्तिराकृतिलक्षणार्थेति । युक्ता
चैकत्र लक्षणा, नेतरेषु बहुषु । अगत्या वा तृतीयासमासाश्रयणं श्येनवाक्ये
करिष्यते । संख्याकारकाद्युपपत्तिश्च व्यक्तिपक्षे तेन व्यक्तिः शब्दार्थ इति स्थिते
अभिधीयते जातिरभिधेयेति ।
कुतः—पूर्वं सामान्यविज्ञानाच्चित्रबुद्धेरनुद्भवात् ।
गामानयेतिवाक्याच्च यथारुचिपरिग्रहात् ॥ १०८२
गोशब्दोच्चारणे हि पूर्वमेवागृहीतासु व्यक्तिषु सामान्यं प्रतीयते तदाकार-
ज्ञानोत्पत्तेः पश्चाद् व्यक्तयः प्रतीयन्ते अतश्चाऽऽकृतिप्रत्ययस्य निमित्तान्तरा-
भावाद् व्यक्तिप्रत्यये च पूर्वप्रतीतसामान्यनिमित्तत्वादाकृतिः शब्दार्थ इति
विज्ञायते । यदि च व्यक्तयोऽभिधेया भवेयुः ततः तासां चित्रखण्डमुण्डादिविशेष-
स्वरूपग्रहणाद्विचित्रा शब्दोच्चारणे बुद्धिः स्यात् । एकाकारा तूत्पद्यते । तेनाप्या-
कृतिः शब्दार्थ इति निश्चीयते ।
सामान्यस्य वाच्यत्वसमर्थनम्
गामानयेति चोदितेऽर्थप्रकरणाभावे यां कांचित्सामान्ययुक्तां व्यक्तिमानयति,
न सर्वाम्, न विशिष्टाम् । यदि च व्यक्तेरभिधेयत्वम्, ततः सर्वासां युगपदभिहि-
तत्वादशेषानयनं स्यात् । या वाऽभिधेया सैवैकाऽऽनीयेत, यतस्त्वविशेषेण जाति-
मात्रयुक्ताऽऽनीयते । तेनापि सामान्यस्य पदार्थत्वं विज्ञायते ।
व्यक्तेर्वाच्यत्वेऽनुपपत्तिप्रदर्शनम्
व्यक्तिपक्षे च सर्वा वा स्वतन्त्रा व्यक्तयोऽभिधीयेरन्, व्यक्तिविशिष्टो वा समु-
दायः, काचिद्ध्येका व्यक्तिरिति । तत्र सर्वव्यक्त्यभिधानं तावदयुक्तम् । अनेकवाचक-
शक्तिकल्पनाप्रसङ्गादनित्यशब्दार्थसम्बन्धापत्तेरशेषव्यक्तिग्रहणशक्तेश्च सम्बन्धा-
ग्रहणे सति व्यवहारानुपपत्तेः । नित्यवद् गोशब्दस्याष्टशब्दवद् बहुविषयत्वादेक-
१. क. तदेतदपि ।
· ३३ ] प्रथमाध्याये तृतीयपादः ६८५
वचनद्विवचनश्रुत्यसम्भवाद् गोशब्दाभिहितासु च सर्वव्यक्तिषु शुक्लगुणाभावे गौः
शुक्ल इति सामानाधिकरण्यासम्भवात् । 'पशुना यजेत' इति च पशुशब्दोपात्ताभिः
सर्वव्यक्तिभिर्यागस्य कर्तुमशक्यत्वात्ततश्च वेदप्रामाण्यप्रसक्तिः ।
समुदायस्य वाच्यत्वनिरासः
एवं समुदायपक्षोऽपि न संभवति । तत्रापि हि विशेषणत्वेन व्यक्तयोऽभि-
धातव्याः ततश्चोक्तदोषप्रसङ्गः । व्यक्तिव्यतिरिक्तसमुदायकल्पना, तेन च
व्यवहाराभावादभिधानानानर्थक्यम्, समुदायिविनाशे च तस्याप्यनित्यत्वादनित्य-
शब्दार्थसम्बन्धप्रसङ्गः । समुदायस्य चैकत्वाद् द्विवचनबहुवचनानुपपत्तिः सामाना-
धिकरण्यासम्भवश्च चामूर्तेन यागाद्यसम्भवाद् वेदस्याप्रामाण्यम् ।
अथैका व्यक्तिरभिधीयत इत्युच्यते ? तत्रापि सम्बन्ध्यानित्यत्वम् । काऽसाव-
भिधीयत इत्यज्ञानाद्व्यवहाराणामसम्भवः । सामान्यप्रत्ययानुपपत्तिर्द्विवचनबहु-
वचनाभावप्रसङ्गः । प्राक् चाभिधेयव्यक्त्युत्पत्तेरुत्तरकालं च प्रयोगासम्भवः ।
समाने च गोत्वे प्रतीतौ चेयमभिधीयते, नेयमिति विशेषकारणं नास्ति ।
एतावता वार्तिकेन व्यक्तिसमुदायपक्षौ दूषयित्वा जातिपक्षः
समर्थितः अपरभाष्यव्याख्यायाम्
अतः परं भाष्यार्थः । यदि चैका व्यक्तिरभिधेया भवेत्, व्यक्त्यन्तरे प्रयोगो
न स्यात् अभिधेयव्यक्तेस्तत्राभावादत्यन्तविलक्षणत्वाच्च । सामान्यविशेषविनि-
र्मुक्ता हि व्यक्तिरित्युच्यते । न च सामान्यविशेषौ मुक्त्वा व्यक्त्यन्तरेऽन्यदस्ति,
येन शब्दप्रयोगः स्यात् । ननु च यथैवैका सामान्यविशेषविनिर्मुक्ता, तथा द्वितीया,
यतश्च यथैवैकस्यां सामान्यविशेषविनिर्मुक्तायां शब्दस्य प्रवृत्तिः एवमविशेषा-
दितरत्रापि भविष्यति । यदि सामान्यरूपम्, विशेषरूपं वा व्यक्त्यन्तरं स्यात्
ततो विलक्षणत्वाच्छब्दो न प्रवर्तेत. यदा तु तदप्युभयविनिर्मुक्तं रूपम्, तदा
तुल्यरूपत्वादयुक्ता शब्दस्य प्रवृत्तिरिति । यद्येवं सामान्यविशेषविनिर्मुक्तत्वा-
देकत्रैतरत्र च शब्दो वर्तते; हन्त तर्हि सामान्यविशेषविनिर्मुक्तत्वमेव सामान्यं
शब्दस्याभिधेयं स्यादिति सिद्धो नः पक्षः । तस्याऽऽकृतिशब्दवाच्यत्वे केवलं
भवतः प्रद्वेष इति ।
पूर्वपक्षवाद्याह नेवं मयोच्यते सामान्यविशेषविनिर्मुक्तत्वाद् व्यक्तौ शब्दो
वर्तते व्यक्त्यन्तरे वेति, किन्तु सामान्यविशेषव्यतिरेकेणान्यापोहवद्व्यक्तिः
कथ्यते । तत्र कथं सामान्यमेव तर्हि वाच्यमित्युच्यते । यो ह्यर्थः सामान्यस्य
६८६ मीमांसादर्शनम् [ सू०
विशेषाणां चाऽऽश्रयः, सा व्यक्तिः न सामान्यविशेषौ ततश्च यथैकस्यां सामान्य-
विशेषव्यतिरिक्तायां व्यक्तौ शब्दस्य वृत्तिः तथाऽन्यस्यापि भविष्यति ।
सिद्धान्तवाद्याह—यदि तावत्सामान्यविशेषविनिर्मुक्तत्वाच्छब्दो वर्तते, ततः
सामान्यमेव वाच्यम् । अथ समानं निमित्तं नास्ति, तदा व्यक्त्यन्तरे वृत्तिर्न
प्राप्नोति , तदभावेऽपि चेद्वर्तेत, ततोऽश्वव्यक्तावपि वृत्तिप्रसक्तेरतिप्रसङ्गः
स्यादिति । नैवम् । सामान्यनिरपेक्षायामेव शब्दप्रवृत्तौ प्रयोगकृतव्यवस्थाश्रयणा-
न्न'तिप्रसङ्गो भविष्यति । यद्येवं प्रयोगवशेन शब्दो वर्तेत, ततोऽद्य जातायां गवि
न दृष्ट इति शब्दो न प्रवर्तेत । तेन प्रयोगकृता चेद् व्यवस्था, क्वचिदप्रसङ्गः न
चेदतिप्रसङ्ग इति ।
यत्तु भिन्नासु व्यक्तिषु सामान्यप्रत्ययो न प्राप्नोत्ययमपि गौः, अयमपीति
तदिहातिप्रसङ्गापादनेन न संबध्यत इति व्यक्त्यन्तरे प्रयोगो न प्राप्नोतीत्यस्मिन्न-
वसरे वक्तव्यम् । शक्त्या र्तार्ह व्यवस्था भविष्यति । यत्र शक्तः शब्दः तत्र
वर्तिष्यते प्रयोक्ष्यते च, यत्र तु शक्तिर्नास्ति, तत्र प्रयोगप्रवृत्ती न भविष्यतः ततश्च
गोव्यक्तिष्वेव शक्तेः प्रयोगव्यवस्था भविष्यति ।
नैवमपि व्यवस्था लभ्यते । प्राक् प्रयोगाच्छब्दशक्तेरविज्ञानात्प्रयोगप्रतीत्य-
धीनं हि शब्दशक्तिज्ञानम् । तत्कथमिवाऽनुत्पन्नं प्रयोगकालेन व्यवस्थाकारण-
त्वेनाऽऽश्रयितुं युक्तम् । यद्यपि प्रयोगाच्छक्तिं जानाति, तथाऽपि प्रयोक्त्रा
कथं ज्ञातं गोव्यक्तावयं शक्तः शब्दः नाश्वव्यक्ताविति, तेनाश्वव्यक्तावपि
प्रयोगः प्राप्नोति ।
जात्या किमिति व्यवस्था नाऽऽश्रीयते यत्र गोत्वमुपलक्षणम्, तत्र शब्दो
वर्तिष्यते, यत्र तन्नास्ति, तत्राश्वव्यक्तादौ वृत्तिर्न भविष्यति ततश्च व्यवस्था-
सिद्धिरिति । सत्यमेवं सिध्यति, किं त्वापन्नो भवानस्मत्पक्षमाकृतिर्वाच्येति । न
ह्यनभिधाय गोत्वमुपलक्षणं गोव्यक्तावेव प्रयोगव्यवस्था लभ्यते, तच्चेदमभिहितं
सिद्धमाकृतिशब्दार्थत्वमिति ।
पूर्वपक्षवादी तु द्वितीयं पूर्वपक्षमुपन्यस्यति सत्यमाकृतिरभिधीयते, किं तु
गुणत्वेन स्थिता, व्यक्तिः प्राधान्येन शब्दार्थः । न चाऽऽवयोरुभयं नाभिधीयत
इति प्रतिज्ञा । कस्यचित्प्राधान्येन किंचिदभिधेयतया विवक्षितम्, किंचिद्
गुणत्वेन, तदुक्तं व्यक्तिः प्राधान्येनाभिधेयेति । एवं सति प्रयोगव्यवस्थोभय-
प्रतीतिश्च तथाऽऽलम्भनादिक्रियोपपत्तिश्च भविष्यति ।
३३ ] प्रथमाध्याये तृतीयपादः ६८७
इतरस्त्वाह---नैवं लभ्यते । जातिश्चेत्पूर्वमभिधेयत्वेनाभ्युपगताऽत्रैव शब्द-
स्योपक्षीणशक्तित्वान्न व्यक्तिवचनता लभ्यते । न चाऽऽकृतिसंवेदनेनापि व्यक्ति-
प्रतीतेरन्यथाऽप्युपपन्नत्वात्सत्यां गतावनेकार्थता युज्यतेऽभ्युपगन्तुम् । अर्थापत्त्या
च शब्दस्य वाचकशक्तिः कल्प्यते । सा च यदा व्यक्तिप्रतीतेरन्यथाऽप्युपपन्नत्वात्
क्षीणा, तदा वाचकशक्तिकल्पनायां प्रमाणं नास्ति । न च सामान्यविशेषवचनत्वं
शब्दस्य दृष्टम्, अक्षादिशब्दानामनेकसामान्यवचनत्वात् । अन्वयव्यतिरेकाभ्यां
च व्यक्तेरशब्दार्थत्वं निश्चीयते । अनुच्चरितेऽपि शब्दे प्रतीतसामान्यस्य
व्यक्तिप्रतीतेः श्रुतशब्दस्य चाऽगृही- सामान्यस्य व्यक्तिप्रत्ययाभावात्तेनाऽऽकृतिरेव
शब्दार्थ इति ।
साम्प्रतं पक्षान्तरमुपन्यस्यति अथ व्यक्तिविशिष्टायामाकृतौ किमिति न वर्तते ।
तदेतत् प्रयोगप्रतीतिक्रियासंभवत्वेन वा पक्षान्तरमुपन्यस्तम् । यद्वा व्यक्तेरेव
शब्दार्थत्वं साधयितुमिदमुच्यते । अनेनाभिप्रायेण कदाचित्सिद्धान्तवाद्याकृतेः
शब्दार्थत्वमनेनाभ्युपगतमेवाऽऽलम्भनादिक्रियासंभवश्च भविष्यतीत्यनेनाभिप्रायेण
व्यक्तेरपि गुणत्वेनाभिधानमिच्छति । ततोऽहं पूर्वं तावद्विशेषणे वर्तितुमर्हंतीति
व्यक्तिवचनत्वमेव साधयिष्यामीति ।
इतरस्तु—तदभिप्रायं ज्ञात्वोत्तरं वदति व्यक्त्यन्तरविशिष्टायां प्रयोगो न
प्राप्नोति । यदि हि व्यक्तिविशिष्टा जातिरभिधीयते, ततो व्यक्त्यभिधानपक्षोक्त-
दोषप्रसङ्गः, अनेकशक्तिकल्पनादिरूपो व्यक्त्यन्तरे प्रयोगश्च न प्राप्नोति,
विशेषणस्यान्यत्वादिति, तेन जातिरेव शब्दार्थः ।
ननु गुणभूता प्रतीयते, अतश्चान्येन प्रधानेनाभिधेयेन भवितव्यमिति । नैवं
शब्देन तावत्सैवाऽभिधीयते । यदि विवक्षावशेनार्थाद् गुणत्वम्, प्राधान्यं वा
भवति, भवतु नाम । न तावता शब्दाभिधेयत्वं व्याहन्यते । यदा चासौ शब्देना-
भिधीयते, तदा गुणत्वं नैव प्रतीयते । तेनार्थाद् गुणत्वप्रतीतिरदोषः । नन पूर्व-
पक्षोक्तैः कारणैर्व्यक्तेरेव शब्दार्थत्वं युक्तम्, व्यक्त्यन्तरे प्रयोगो न प्राप्नोतीति
चेत् ? आकृतिचिह्नभूता भविष्यति । यथाऽनभिधीयमानमपि काकनिलयनं
देवदत्तगृहशब्दस्य स्वार्थमभिदधतश्चिह्नभूततां प्रतिपद्यते, तद्वदाकृतिश्चिह्नं
व्यक्त्यभिधाने भविष्यति ।
भाष्यकारेण तु दण्डिशब्दो दृष्टान्तत्वेनोपात्तः । यथा तेन न नाम किल
दण्डोऽभिधीयते । अथ च दण्डविशिष्टः पुरुषः प्रत्याय्यते, तद्वदाकृतावपीति । ननु
दण्डिशब्दे प्रकृत्या दण्डोऽभिधीयत एव । कथमुच्यते न च तावद्दण्डोऽभिधीयत
६८८ मीमांसादर्शनम् [ सू०
इति ? कथं चोपलक्षणत्वेनाऽऽकृतावुपन्यस्तायां विशिष्टः प्रत्याय्यत इति विशेषणं
दृष्टान्ततयोपन्यस्तमिति ? नायं दोषः । विशेष्याभिधायकप्रत्ययाभिप्रायत्वा-
द्दण्डानभिधानस्य, यथा प्रत्ययेन, न च तावद् दण्डोऽभिधीयते । अथ च तद्विशिष्टः
पुरुषः प्रत्याय्यत, तथेहापि भविष्यतीत्यभिप्रायः । यत्तूपलक्षणोपन्यासे विशेषणस्य
दृष्टान्तता न युक्तेति । तदुपलक्षणस्यापि विशेषकत्वान्न चोद्यम् । यद्वा केनचित्सा-
मान्येन दृष्टान्तता भविष्यत्यनभिधेयत्वेन विशेषकत्वेन चेत्यदुष्टम्, ततश्च सम्यग-
भिहितं यथा दण्डिशब्दे, तद्वदत्रापि भविष्यतीति । एवं चाप्रसङ्गातिप्रसङ्गौ न
भविष्यत इति ।
तदेतन्न युज्यते । युक्तं देवदत्तगृहस्य, पुरुषस्य च केवलस्याभिधानम्, विशिष्ट-
प्रतीतावपि काकनिलयन-दण्डयोः प्रत्यक्षदण्डशब्दावगतयोर्विशेषणत्वोपपत्तेः । न
तु गोत्वस्यासंनिहितस्येहोपलक्षणत्वं युज्यते । अप्रतीतविशेषणं विशेष्याप्रतीतेनं
च दण्डिशब्दवत्तदवयवेन गोत्वाभिधानं प्रतीमः, येन द्वितीयावयवेन व्यक्तेरेवा-
भिधानं स्यात् । अतश्च यदि तावद्गोत्वमभिधीयते, ततस्तदेवोक्तेन न्यायेन
वाच्यं भवेत् । अप्रतीतस्य विशेषणत्वासंभवात् । उक्तवदतिप्रसङ्गः शब्दप्रयोगस्य
प्राप्नोति । न च यथा दण्डिशब्दः केवले दण्डे न प्रयुज्यत इति विशिष्टवचनोऽव-
धायंते, तद्वदाकृतौ प्रयोगाभावाद्विशिष्टवचनोऽवधारयितुं शक्यते । श्येनचित्यादा-
वाकृतौ प्रयोगदर्शनादन्वयव्यतिरेकाभ्यां च जातिरेव वाच्येत्यवधार्यते । श्येन-
चिद्वाक्ये केवलायामाकृतौ प्रयुक्तत्वात् । क्वचिदपि चाऽऽकृत्या विना व्यक्तिमात्रे
प्रयोगादर्शनात् । एवं येऽपि सम्बन्धसमुदायादयः पूर्वपक्षाः । तेऽप्युक्तेन न्यायेन
निराकृताः । तेनाऽऽकृतिरेव शब्दार्थ इति ॥ ३३ ॥
न्या० सु०—अन्यदर्शनाच्चेति पूर्वपक्षसूत्रान्तर्गतभाष्यं स्पष्टत्वादुपेक्ष्य, आकृतिस्तु
क्रियार्थत्वादिति सिद्धान्तसूत्रव्याख्यानार्थं वचनमाकृतौ सम्भवतोति भाष्यं दुष्टत्वसामान्येन
बुद्धिस्थमपठित्वैव दूषयति—किं चेति । न केवलमेतदेव भाष्यमुपेक्षितव्यं किं त्वन्यदपीति
किं च शब्दार्थः यद्वा कस्मै देवाय हविषा विधेमेत्येकशब्दार्थे किमो व्याख्यानात्, एक-
शब्दस्य चापो भूयिष्ठा इत्येको अन्नवोदित्यन्यार्थदर्शनादन्यच्च भाष्यमुपेक्षितव्यमित्यर्थं-
लाभः । किमित्युपेक्षितव्यमित्यपेक्षायाम् नैवेत्युक्तम् । नैवाकृतिस्तु क्रियार्थत्वादिति
वदता सूत्रकृतेष्टकामिश्राकृतिसम्पादनमभ्युपगतम्, येन च यत्र साऽऽकृतौ सम्भवतीत्येवं
सूत्रव्याख्या युज्येतेत्यर्थः । किमिति नाभ्युपगतमित्याशङ्कयाह—यत इति । स्वरूपेण जाते-
र्नित्यत्वात्स्वव्यक्तिभूतद्रव्यसमवायित्वेन सम्पादनं वाच्यम् । तदपि नित्येष्वात्मादिषु नित्य-
सिद्धत्वान्न सम्पादनमपेक्षते । कृतकेष्वप्यारम्भकहेतुस्वभावादेव यदारब्धे द्रव्ये जातिसम-
३३ ] प्रथमाध्याये तृतीयपादः ६८९
वायाच्छ्येनत्वजातीयव्यक्त्यनारम्भिकाभिरिष्टकाभिः श्येनत्वजातिसम्पादनमयुक्तमित्येवंरूप-
स्योपालम्भस्य दोषस्येष्टकाभिः श्येनत्वाकृतिसम्पादनाभ्युपगमे प्रसङ्गानेदमभ्युपगत-
मित्यर्थः ।
कस्तर्हि श्येनवचनचोदनार्थ इत्याशङ्कयाह—पिष्टेति । अमी पिष्टपिण्डाः सिंहाः
कार्या इत्युक्ते पिष्टपिण्डेन सिंहाकृतिव्यक्त्योः सम्पादनाशक्तेर्यथा पिष्टपिण्डानामेव सिंहा-
कृतिसादृश्यसम्पादनं चोदनार्थः तथात्रापीत्यर्थः । प्रयोज्यव्यापारवाचिना सम्पत्तिशब्देन
प्रयोजकव्यापारः सम्पादनं लक्ष्यते । नन्वाकृतेर्नित्यत्वे सम्पाद्यत्वाभावात्तद्वाचित्वे श्येन-
शब्दस्य सादृश्यपरत्वेन गौणत्वापत्तेस्तत्परिहाराय व्यक्तिपक्ष एवात्राश्रीयते । श्येनव्यक्तेश्च
यत्नेनानुत्पाद्यत्वेऽपि श्येनस्त्रीपुंसयोगेनोत्पादयितुं शक्यत्वात्प्रथमश्रुतश्येनशब्दानुरोधेन च
पश्चाच्छ्रुतस्य चिनोतेस्तल्लक्षणार्थतया व्याख्यातुं शक्यत्वादित्याशङ्क्य—पक्षद्वयेऽपोत्यु-
क्तम् । श्येनस्त्रीपुंसयोगेनोत्पादिताया अपि श्येनव्यक्तेरग्न्यनाधारत्वायोगानाग्न्याधारानु-
पपत्तेः । 'कर्मण्यन्वाख्यायामिति स्मृतिबाधप्रसङ्गाददृष्टार्थत्वापत्तेश्च तत्परिहाराय गौणत्वा-
श्रयणमप्युचितमित्याशयः । नन्वेवं सति व्यक्तिसादृश्यस्यापि सम्पादयितुं शक्यत्वात्कथ-
मस्य श्येनशब्दस्याकृतित्वाचित्वेन निश्चय इत्याशङ्कयाह—सा त्विति । सा सादृश्यसम्पत्तिः
श्येनाकृत्यास्या आकृत्यन्तरमात्रविलक्षणत्वात्, तस्य च कतिपयविशेषोपादानेन सम्पाद-
यितुं शक्यत्वात् सकलव्यक्त्यन्तरविलक्षणेन श्येनविशेषेण व्यक्तिशब्दाभिलप्येन सादृश्य-
सम्पादनं सकलविशेषोपादानेन स्यान्न चेष्टकाभिरन्ततःकुशलेनापि सम्पादयितुं शक्यमिति
भावः ।
अथ सामान्यविशेषाश्रयभूतमसाधारणं व्यक्तिशब्देनाभिप्रेतम्, ततस्त्वस्यैवंविधमिति
निरूपणरूपविकल्पगोचरत्वाभावाज्ञानेन सह विकल्पगोचरस्य सादृश्यसम्पादनं कथञ्चिच्छ-
क्यमित्यर्थः । ननु यद्यपि सामान्यविशेषाश्रयस्य व्यक्त्याख्यस्यासाधारणस्य रूपेणैवंविध-
मिति विकल्पगोचरत्वात्सा दृश्यप्रतियोगित्वं न सम्भवतीति विशेषावच्छिन्नेन च तेन
सादृश्यमिष्टकाभिरशक्यसम्पादं सामान्यावच्छिन्नेन च सादृश्यमुच्यमानं विशेषणे पूर्वनिपा-
तात्सामान्येनेवोक्तं स्यात् तथापि सामान्यविशेषाभ्यामन्यदित्येवंरूपविकल्पगोचरत्वोपपत्तेर-
साधारणशब्दाभिलप्यया व्यक्त्या सह सादृश्यं सम्पादयिष्यत इत्याशङ्कयानिर्धारितविशेषया
यया कयाविद्वयक्त्या सादृश्यं (विधीयेत निर्धारितविशेषया वा यया कयाचिदिति
विकल्प्याद्यपक्षे तावद् दूषणमाह--सामान्येति । सामान्यविशेषावच्छेदकत्वेन यज्ञापेक्षते
सादृश्यं१) तत्तयोक्तम् । तच्च व्यक्तिमात्रेऽपि नित्यप्राप्तं सर्वस्य येन केनचित्सा दृश्यावश्यं
भावादित्यर्थः । श्येनव्यक्त्या यया कयाचिदपि तु विशेषणे श्येनत्वाकृतिव्यतिरिक्तस्य
१. अयं पा० २ पु० ना० ।
४४
६९० मीमांसादर्शनम् [ सू०
श्येनव्यक्तिमात्रस्याभावाच्छ्येनत्वाकृतिसादृश्यमेवोत्पद्यते इति भावः । द्वितीयपक्षे तु
यद्व्यक्तिसादृश्यं विहितम्, तद्धि शिष्टैस्तत्साहश्यस्याशक्यसम्पाद्यत्वाद्व्यक्त्यन्तरसादृश्यस्य
चाविहितत्वात्सर्वपुरुषविषयत्वं शास्त्रस्य व्याहन्येतेत्याह — एकेति । सूत्रार्थमुपसंहरति —
तस्मादिति ।
ननु चेति भाष्येण श्येनव्यक्तेश्चयनोत्पाद्यत्वायोगेऽपि चयनोत्पादकत्वेन विधिः सम्भ-
वति, एकव्यक्त्यनुत्पाद्यत्वेऽपि चयनस्य बह्वीभिरुत्पादयितुं शक्यत्वादित्याशङ्क्य न साध-
कतम इत्यनेन श्येनशब्दार्थस्येप्सिततत्वावगतेः साधनत्वेन विधानं सम्भवतीत्युक्तम् ।
तदुपपादयति — न हीति । यद्यप्ययं कर्मशब्दः क्तिन्प्रत्ययवाच्यविशेषणत्वान्नौपपदविशे-
षणम्, तथापि कर्मणि हन इत्यतः सूत्रादनुवर्त्तमानस्य कर्मशब्दस्योपपदविशेषणत्वान्न
शब्दार्थस्य कर्मतावसीयत इत्याशयः । अतश्चयनेनेति विध्यर्थप्रतिपादकं भाष्यं व्याचष्टे —
श्येनेमिति । ननु श्येनाकृतिव्यक्त्योश्चयनेनोत्पादयितुमशक्यत्वात्कथमेष विध्यर्थः स्यादित्या-
शङ्क्योक्तमेव सादृश्यलक्षणार्थत्वं भाष्यकाराभिप्रेतत्वप्रदर्शनार्थं पुनराह — तत्रापीति ।
श्येनसदृशं चीयमानमिष्टकासमूहं चयनेन भावयेदिति विध्यर्थोऽनेन दर्शितः । चयनमाकृतौ
सम्भवतीत्याद्यस्यापि भाष्यस्य सादृश्यविषयत्वेन समर्थनोरपत्तेर्यथाश्रुतस्यैव पूर्वोक्तं
दूषणं दर्शितम् । उभयत्रेत्यादिना क्रियार्थत्वस्योभयत्र साम्येनानिश्चायकत्वमाशङ्क्य, किं
पुनरत्रेत्यनेन पूर्वपक्षहेतोरनिश्चायकत्वापादनायैवाकृतेः क्रियार्थत्वमुक्तम्, नाकृतिवाच्यत्व-
निश्चयायेति सूचितम् । तत्स्पष्टत्वादव्याख्याय कथं तह्यीकृतिवाच्यत्वनिश्चय इत्यपेक्षाया-
माकृतिस्त्विति तुशब्दसूचितोपपत्तिप्रदर्शनार्थमाकृतिरित्यादिभाष्यमाकृतिवाच्यत्वं प्रतिज्ञाय
व्यक्तिवाच्यत्वपारिशेष्यादनिराकरणाद् युक्तमाशङ्क्य संक्षेपेण व्याचष्टे — असाधारण इति ।
व्यक्त्याकृत्योर्मध्ये का वाच्येति विचारणायां व्यक्तिवाच्यत्वे निराकृते पारिशेष्यादाकृति-
वाच्यत्वं निश्चीयत इति भावः ।
ग्रन्थस्त्वेवं योज्यः असाधारणे व्यक्त्त्याख्ये यदा शब्दप्रवृत्तिर्न सम्भवति, तदा पारि-
शेष्यादाकृतिः शब्दार्थ इति परिग्रह इति पूर्वग्रन्थगतं परिग्रहपदमनुवक्तव्यं शब्दार्थपदं
चाध्याहार्यं कथं व्यक्तौ शब्दस्य प्रवृत्त्यसम्भव इत्याशङ्कानिराकरणार्थत्वेन यदिद्भिभाष्यं
व्याख्यातुमसाधारणे वाच्येऽङ्गीक्रियमाणे शब्दस्य प्रभृतेष्वनेकेष्वर्थेषु वृत्त्यसम्भवादित्येत-
देवावृत्त्या योज्यम् । असाधारणत्वाच्च व्यक्तेरेकस्यामपि शब्दप्रवृत्तिर्न सम्भवतीति
भाष्यसूचितार्थप्रदर्शनायासाधारणशब्दः । सर्वसामान्यविशेषैर्मुक्ता हीत्यनेनैकापि व्यक्तिर्न
शब्दार्थ इत्युक्तमिति व्याख्यानार्थत्वेन चैतद्योज्यम् । किंचिद्धि सामान्यरूपं किंचिद्धि
विशेषरूपं वावलम्ब्य शब्देन प्रवर्त्तितव्यं तद्वियुक्ते रूपं कथं प्रवर्त्तेतेत्याशयः । ननु
सामान्यविशेषरूपशब्दप्रवृत्तिनिमित्ताभावेऽपि तदुभयरूपरहितत्वमेव निमित्तं भविष्यति ।
न च तदेव सामान्यम् वस्तुरूपत्वादिति 'नैष दोष इत्यादिना न हि तत्सामान्यमित्यन्तेन
३३ ] प्रथमाध्याये तृतीयपादः ६९१
भाष्येणाशङ्क्य सामान्यविशेषरपरहितत्वस्य तदाश्रयाव्यपदेश्यत्वापरपर्यायस्याश्वादिव्यक्ति-
ष्वापि भावाद् गोशब्दप्रवृत्तिः प्रसज्येतेति प्रतिपादनाथं यदीति भाष्यं व्याख्यातुम्—
अव्यपदेश्यत्वेन चेत्युक्तम् । ननु सामान्यविशेषविमुक्तत्वाविशेषेऽप्युगादिशब्दवत्प्रयोगतो
व्यवस्था भविष्यतीत्याहेतिभाष्येणाशङ्क्य तथा सत्यद्यजातायाङ्गव्यदृष्टप्रयोगत्वात्प्रथमः
प्रयोगो न स्यादिति यदीत्यनेन दूषणमुक्त्वा कथंचित्प्रयोगसम्भवेऽपि व्यवहारकालीनस्य
प्रयोगस्य निर्द्धारितैकव्यक्तिविषयत्वेनानेकव्यक्तिसाधारण्याभावाद् गौर्न पदा स्पृष्टव्येत्यादौ
शाबलेया बाहुलेया वेति विकल्पबुद्धिः स्यान्न गोमात्रमिति सामान्यबुद्धिरित्येतदर्थंप्रतिपादकं
सामान्यप्रत्ययश्चेति भाष्यं व्याख्यातुम्—सामान्याकारेण वेत्युक्तम् । गौर्न पदा स्पृष्ट-
व्येत्यादौ यत्र सामान्याकारेण व्यक्तिविशेषमनाश्रित्य शब्दः प्रयुज्यते, तत्र विकल्पः प्रसज्ये-
तेत्यर्थः । ननु व्यक्तिवाचिनोऽपि शब्दादभिधेयाविनाभावेन सामान्यप्रत्ययोपपत्तिरित्या-
शङ्क्य—व्यापकेत्युक्तम् । गोत्वैकार्थसमवायिनां शावलेयत्वाद्यवान्तरसामान्यरूपाणां विशे-
षाणां गोत्वव्याप्यत्वाच्चव्यापकगोत्वापेक्षामात्रेणेतरत्र तदाश्रयभूतमसाधारणं व्यक्तिशब्दा-
भिलप्यं नैव गोत्वापेक्षं भवति । इतरेति पाठे त्वसाधारणशब्देनोक्तत्वात् व्यक्तिः
परामृश्यते । ननु विशेषाणां गोत्वापेक्षत्वे तदाश्रयस्यासाधारणस्याप्यव्यभिचाराद् गोत्वा-
पेक्षाबलादापद्येतेत्याशङ्क्य व्याप्यस्य धूमत्वसामान्यस्य व्यापकत्वाग्न्यपेक्षत्वेऽपि तदाश्रयस्या-
साधारणस्याग्न्यपेक्षा नास्ति । वाक्यादिभावेन सन्दिग्धे धूमे असाधारणनिश्चयेऽप्यनिश्चया-
दिति प्रतिपादयितुम् व्याप्यसामान्यस्य नैवं विशेषव्याप्यापेक्षेत्युक्तम् । नन्वसाधारण-
रूपेण व्यक्तेः शब्दार्थत्वासम्भवेऽपि शावलेयत्वाद्यवान्तरसामान्यात्मकविशेषावच्छिन्नत्व-
रूपेण शब्दार्थत्वोपत्तेः कथं पारिशेष्यादाकृतेः शब्दार्थत्वावधारणेत्याशङ्कयाह - तत्रेति ।
तत्रैवं साधारणरूपेण शब्दप्रवृत्त्यसम्भवे सति विशेषावच्छिन्नत्वरूपेण व्यक्तेरभिधेयं वाच्यम्,
तस्मिंश्च पक्षे सम्बन्धकथनासम्भवादयो दोषाः स्युरित्यर्थः । वाच्यवाचकनियमहानिः,
सम्बन्धानित्यत्वापत्तिः विकल्पप्रसङ्गः, शेषव्यक्त्यानयनापत्तिः । नित्यबहुवचनप्रसङ्ग-
शुक्लादिशब्दसामानाधिकरण्यासम्भवश्चादिशब्देनोपात्ताः । एते च व्यक्त्यभिधानपक्षे,
सर्वव्यक्त्यभिधानपक्षे च यथासम्भवं योज्याः । अनिश्चीयमानत्वादपि न विशेषाणां
वाच्यतेत्याह—न चेति ।
नन्वेवमपि विकल्पसमुच्चयाद्यनेकपक्षसम्भवान्नाकृतेः परिशेषसिद्धिरित्याशङ्क्य
स्वतन्त्रयोर्विशेषणविशेष्यभावरहितयोस्तावद्व्यक्त्याकृत्योर्विकल्पेन, समुच्चयेन वाभिधान-
निरासेनैव निरस्तमित्याह एतेनेति । व्यक्तिविशिष्टाकृतिपक्षोऽपि व्यक्तेर्विशेषणत्वेन
पूर्वाभिधानापत्तेस्तन्निरासेनैव निरस्त इत्याह—व्यक्तीति । एतेन प्रयुक्त इत्यनुषङ्गः ।
आकृतिरिति पाठे प्रयुक्तेति विपरिणतानुषङ्गः सम्बन्धसमुदायाभिधानपक्षैन्निराकर्तुमाह—
सम्बन्धेति । सम्बन्धसमुदायोरपि वाच्यत्वाभ्युपगमेऽवश्यवाच्यभूतसम्बन्धिसमुदायिविशे-
षणताऽभ्युपगन्तव्या भवतीत्यन्वयः । कस्मादित्यपेक्षिते—स्वरूपेत्युक्तम् । सम्बन्धोऽयम्,
समुदायोऽयमिति स्वतन्त्ररूपेणाप्रतीते। सम्बन्धिसमुदायिनिरपेक्षस्य सम्बन्धसमुदायिनिरूपण-
६९२ मीमांसादर्शनम् [ सू०
स्यादावविभागेन सर्वशब्दानां पर्यायत्वापत्तेरित्यर्थः । तथा सति को दोष इत्यपेक्षाया-
माह—तत्रापीति । व्यक्त्यंशे च व्यक्त्यभिधानपक्षोक्ताः सर्वे दोषाः स्युरित्याह—
व्यक्त्यंशे चेति । समुदायस्य यस्य स्पृष्टंमानैककार्यपरार्थविषयत्वात्साक्षात् क्रियानिष्पत्तिः
क्रियासाधनविशेषाणात्मकभिन्नकार्ययोर्विशेषणत्वेन विशेष्यत्वेन वा स्पृष्टंमानयोर्व्यक्त्या-
कृत्योर्न्नास्त्येवेत्याह—न चेति । जातिव्यक्त्योश्चात्यन्तभेदाभावादुभावपि न स्त इत्याह—
अनन्त्यन्तेति । आकृतिविशिष्टव्यक्तिपक्षेऽपि व्यक्तिविशिष्टो वा, आकृतिविशिष्टो वा व्यक्ति-
मात्रं वा विकल्प्य आद्यपक्षं तावद् दूषयति—आकृतीति । द्वितीयपक्षे त्वाकृतिव्यतिरिक्त-
तद्विशिष्टव्यक्तिमात्राव्यक्त्यभावात्सिद्धान्तापत्तिरिति स्वयमेवाशङ्क्याह—व्यक्त्यैौति । एव-
माकृतिव्यतिरिक्तायास्सपक्ष्या निरस्तत्वात् । तन्निरासेनेव च व्यतिकीर्णपक्षनिराससिद्धे-
र्लिङ्गकारकसंख्यानां च प्रत्ययार्थत्वेन प्रातिपदिकवाच्यत्वासिद्धेः शब्दस्वरूपस्य च प्रत्यक्ष-
सिद्धत्वेनाऽवाच्यत्वस्य ।
नात्मानमभिधत्ते हि शब्दः कश्चित्कदाचनेति शून्यवाद्रवार्त्तिकपाठनिरस्तत्वात्पारि-
शेष्यादाकृतिवाच्यत्वसिद्धिरित्युक्तम्---इदानीम् ।
'तत्र प्रयोगबाहुल्यात्द्विशेषेषु सत्स्वपि ।
प्रयोगात्परसामान्ये सति वाऽप्यप्रयोगतः ॥
सास्नाद्येकार्थसम्बन्धिगोत्वमात्रस्य वाचकः ।
गोशब्द इति विज्ञानमन्वयव्यतिरेकजम् ॥'
इत्यनेन न्यायेनान्वयव्यतिरेकाभ्यामपि गोत्वस्यैव गोशब्दवाच्यताऽवसीयत इत्याह—
नानेति । गोत्वाकारविषयं व गोशब्दस्य वाच्येन सह सम्बन्धे वाचकत्वरूपे शक्तिरन्वय-
व्यतिरेकाभ्यां गम्यत इत्यर्थः ।
कृत्तद्धितसमासैः सम्बन्धाभिधानं भावप्रत्ययेनेति स्मृतेः । सम्बन्धवाची वाच्यत्वशब्दः ।
शब्दशक्तिजन्यज्ञानकर्मत्वमेव वा शक्तिशब्देनाभिप्रेत्य, गोत्वाकाराश्रितैव गोशब्दं प्रति
वाच्यत्वरूपा शक्तिरिति योज्यम् ।
ननु वृद्धव्यवहारावसेयत्वाच्छक्तेः, तस्य च सन् द्विष्टवस्तुविषयत्वात् कथं निष्कृष्टैका-
कारविधया शक्तिरवसीयत इत्याशङ्क्य तद्भूदेत्युक्तम् । सर्वात्मकवस्तुविषयत्वे शब्दशक्ते-
रेकेनैव गोशब्दादिना सर्वात्मकवस्तुप्रतीतिसिद्धेः शुक्लादिशब्दानर्थक्यप्रसङ्गात् तद्भेदा-
द्वस्तुगतान् भिन्नाकारांश्छन्दशक्तयोऽनुसरन्तीत्यर्थः । भिद्यन्त इति भेदा इति व्युत्पत्त्या
वस्तुगता भेदा इति विग्रहीतव्यं वस्तुगतभिन्नाकारानुसार्यभावेनैकशब्दव्यक्त्यानर्थक्य-
प्रसङ्गाद् बहुवचनेन सूचितः । निरंशवस्तुवादिंन निराकर्तु -नानाकारेष्वित्युक्तम् ।
नानेकाकारेष्विति पाठे व्यावृत्तानुवृत्ताकारेष्वित्यर्थः ।
ननु गोमात्रविषयत्वे गोशब्दशक्तेः कथं गोशब्दात्पशुत्व-प्राणित्व-पार्थिवत्व-द्रव्यत्व-
सत्त्वावगतिः । एकार्थसमवायमात्रेण तन्निश्चयाभ्युपगमे शावलेयत्वादीनामपि निश्चयः
३३ ] प्रथमाध्याये तृतीयपाद। ६९३
स्यादित्याशङ्कयाह—तदेकेति । सामान्यान्तरादवगतिर्निश्चयस्तैः सामान्यान्तरैर्गोशब्दार्थस्य
गोत्वस्य व्याप्तेर्विशेषैश्च साहचर्यं सत्यप्यव्याप्तेस्तेषां सन्देहनिवृत्तयेऽन्यतोऽवधारणा-
काङ्क्षेत्यर्थः ।
एवं सिद्धान्तमुपपाद्य, पूर्वोक्तान् दोषान्परिहर्तुमाह—अत्यन्तेति । आदिशब्दादनित्य-
त्वम् । ननु वस्तुतोऽत्यन्तव्यतिरेकाभावेऽपि शब्दान्निकृष्टावगतेः कथं दोषप्रसङ्गाभावोऽत
आह—सा हीति । कैवल्याभिप्रायो निकृष्टशब्दो न स्वनिष्ठत्वाभिप्रायः । यद्यप्याकृतिः
शब्दाच्छुद्धा प्रतीयते, तथापि क्रियान्वयस्यापि प्रतीतेस्तदन्यथानुपपत्त्या व्यक्तितादात्म्या-
वगमात्सम्भवत्येव क्रियान्वय इत्यर्थः । प्रोक्षणादि तु व्यतिरेकेऽपि सम्भवतीत्याह—
प्रोक्षणेति । क्षरणार्थसिञ्चतिधात्वर्थवाचित्वादुक्षतेः क्षारणस्य चोदकादेरूर्ध्वाधोदेशविभाग-
संयोगमात्रेण सिद्धेराभिमुख्यमात्रेण क्षरणसिद्धेराभिमुख्यमात्रेण च जातेरपि द्रव्यवतत्कर्म-
त्वोपपत्तेः । सिच्यमानस्योदकादेः कर्मीभूतव्रीह्यादिसंयोगानपेक्षणादुञ्जीकृतेषु च व्रीह्य्-
परिस्थितब्रीहितिरोहितानामधःस्थितानां व्रीहीणां सिच्यमानोदकसंयोगाभावेऽपि शास्त्रार्थ-
निष्पत्तिप्रसिद्धेः व्रीह्यादिसंयोगापेक्षायामनुपपत्तेः प्रोक्षणमाकृतेः स्वतोऽपि सम्भवति ।
अवेक्षणं चाकृतेश्चक्षुःसंयुक्तद्रव्यसमवायात्प्रसिद्धमेव । आदिशब्देन ध्यानोपादानम् । किमर्थं
तर्ह्यत्यन्तव्यतिरेकोपन्यास इत्याशङ्कयाह—विशसनेति । प्रतीतिसिद्धत्वाद्राकृतेर्विशसनादि-
योगो न स्वमनीषिकामान्रकल्पित इत्याह--तथा हीति । पश्चादिष्वपनीताङ्गेषु विच्छिन्ना-
वयवेषु या विशसनादिविशिष्टा बुद्धिः सामान्यविषयैव विभक्तैरवयवैः सामान्यमात्रानुमा-
नोपपत्तेः । न तु व्यक्तिविषया व्यक्तिविशेषानुमानासम्भवे तत्तद्बुद्ध्यभावादित्यर्थः ।
नन्वाकृतेर्विशसनादियोगे सत्यत्वप्रसङ्गादनिष्टापत्तिः स्यादित्याशङ्कते—नन्विति ।
विनष्टव्यक्त्यात्मकरूपेणाकृतेरपि विनाशाभ्युपगमान्नानिष्टापत्तिरिति परिहरति—तेनेति ।
नन्वेवं सत्याकृतिपक्षेऽपि सम्बन्ध्नित्यत्वं न सिद्ध्येदित्याशङ्कयाह—आश्रयान्तरेति ।
अत्यन्तव्यतिरेकवादिनाप्युत्तरालेऽनुपलम्भात् स्वपिण्डमात्राश्रिताकृतिरेष्टव्या । तस्याश्चाश्रय-
विनाशे स्थातुमशक्तेरन्यत्र च गमनायोगादवश्याङ्गीकरणापत्तेराश्रयान्तरविनाशादेव
नित्यत्वमेष्टव्यमिति—सर्वैरित्यनेनोक्तम् । एतदेव विवृणोति—तेनेति । नन्वत्यन्तव्यति-
रेकेऽप्याकृतिलक्षितव्यक्तिद्वारेण प्रयोगचोदनोपपत्तेरित्यन्तक्लिष्टभेदाभेदपक्षाश्रयणमित्या-
शङ्कयाह—अत्यन्तेति ।
अव्यवस्थामुपपादयितुमाह—न चेति । ननु पशुनोपलक्षितं द्रव्यं पशुं विशास्तीत्यादि-
धर्म्मविधीनां विषयो भविष्यत्यत आह—तदुपलक्षितं त्विति । द्रव्यरूपताया द्रव्यत्वाप्रति-
पादनं विना प्रतिपादयितुं शक्तेस्तदेव प्रतिपाद्यं स्यात् तत्र स स एव दोष इत्यर्थः । ननु
द्रव्यत्वप्रतिपादनद्वाराप्याश्रयोपलक्षणोपपत्तेर्नापूर्त्तंत्वदोषापत्तिरित्याशङ्कयाह—आश्रयेति ।
ननु पशुत्वेन स्वाश्रयोपलक्षणाद्वाक्यलमात्रेण द्रव्यत्ववदाश्रयपक्षदोषात्तत्त्वनिर्णयफलवादेन
युक्तमित्याशङ्क्य, पशुत्वाश्रयमात्रोपलक्षणे तस्य पश्वाकृतितोऽन्यत्वेनानिरूपणादाकृतेरेव
बलाद्धर्म्मविषयत्वापत्तेराश्रयविशेषस्योपलक्षणं वाच्यम् । तत्त्वव्याप्ते न सम्भवतीत्याह—