मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
सूत्रावयवं प्रकारान्तरेण व्याकुर्वन् हेत्वन्तरमाह—अपि चेति । एवं कामपदा-
१३० मीमांसादर्शनम् [ सू०
संभवे किमिति स्तुत्यर्थत्वेनार्थवत्त्वमाश्रीयत इत्याशङ्क्यार्थवादत्वमेवानेन
स्थिरीक्रियत इति सङ्गतिं मत्वा विषयं विविच्य दर्शयति—
इहेत्यादिना । ये विधिवन्निगद्यन्ते अर्थवादाश्च ते तथा चिन्ताप्रयोजनं
तु फलविधिसरूपाणां स्तुत्यर्थत्वेनार्थवादत्वसिद्धिरत्रापूर्वत्वैकवाक्यत्वाभ्यां
संशयमाह—किमिति । अस्येति जातावेकवचनम् ।
अथवास्योदाहरणस्य विधिरज्ञातज्ञापनम्-अस्यापीति । वायुर्वे क्षेपिष्ठेत्यादि-
वदित्यर्थः, कतरदत्र युक्तिमदिति जिज्ञासमानं प्रति पूर्वपक्षसूत्रमादत्ते—किमित्या-
दिना । विधिः स्यादिति सामान्यनिर्देशेन फलविधिसरूपाणां सर्वेषामप्युदाहरण-
त्वमभिमतमिति सूचयन् व्याचष्टे—विधिवदिति । अवधारणार्थेन वाशब्देन
सूचितं हेतुमाह-फलं हीति । यथा हि गम्यमानत्वात् स्तुतेस्तत्परत्वमर्थवादानाम्,
तथा फलस्यापि गम्यमानत्वात् तादर्थ्यमेवैतेषामित्यर्थः ।
ननु फलस्य गम्यमानत्वं स्तुत्यर्थतयापि स्यात् इत्याशङ्क्याह—पूर्वत्वा-
दिति । व्याचष्टे - तथेति । तथा सति पूर्वं प्रमाणान्तरमस्य न विद्यते इत्यपूर्व-
मनन्यलभ्यमर्थं विधास्यति=प्रतिपादयिष्यति । स्तुतेर्विध्युद्देशादप्याक्षेपात् फलस्य
चानन्यलभ्यत्वात् तद्विधित्व एव प्रमाणान्तरापूर्वार्थत्वमित्यर्थः स्तुतिश्च सिद्धार्थ-
कथन रूपत्वाद्वादमात्रम्, नाज्ञातज्ञापकं तच्चानर्थकमित्यर्थः, आनर्थक्ये हि शब्द-
सूचितं हेतुं व्याचष्टे—स्तुतिश्चेति । न हि पर्णमयीत्यादौ स्तुतत्वेन स्तुतित्व-
मभ्युपगच्छताऽपूर्वार्थत्वमपि नेष्यत इत्याशङ्क्य प…………कश्चिदतिशयोऽस्तु
तत्त्वेन वा निष्कर्षो दृश्यते, तेन प्रवृत्तावपि न विशेष इति भावः । अपूर्वत्वादिति
सूत्रावयवं प्रकारान्तरेण व्याकुर्वन् हेत्वन्तरमाह—अपि चेति । एवं कामपदा-
भावेऽपि तादर्थ्यं चतुर्थ्या स्फुटं फलावगमादित्यर्थः ।
ननु वायुर्वा इत्यादौ प्रशस्तोऽयमिति पदाभावेऽपि स्तुतिस्तद्वत् किं न
स्यादत आह—लक्षणयेति । इह च श्रुत्यर्थसंभवान्न लक्षणा युक्तेत्याह—श्रुति-
श्चेति । अनेन लक्ष्यमाणस्तुतेर्वाच्यार्थपूर्वकत्वाद्वाच्यार्थस्य फलस्यानन्यपूर्वत्वाद-
पूर्वशब्देन पूर्वमर्थान्तरमस्य न विद्यते इति श्रौतार्थलाभोऽभिसंहित इति सूत्रं
व्याख्यातम् ॥ १९ ॥
त० वा०—एवमानर्थक्योपाख्यानादिप्रतियोगिष्वर्थवादेषु व्याख्यातेष्विदानीं
विधिप्रतियोगिनो विचार्यन्ते । कुतः संशयः ? पूर्वत्र हि स्वार्थानुपयोगित्वेन
दूरलक्षितस्तुतिग्रहणमङ्गीकृतम् । तत्संभवे तु स्तुतिरप्यनर्थकतुल्याऽऽपद्यते ।
विध्यंशश्च न कथंचनान्यस्मात्सिध्यति । प्ररोचना पुनः कथंचिद्विध्युद्देशादप्युप-
पद्यत इत्युक्तं पुरस्तात् । अपि च प्रधानं विधिः, अङ्गं स्तुतिः, तत्र प्रधानविशे-
षणसंभविनस्तद्गामित्वमेव युक्तम् । समाप्ते च विध्युद्देशे, अर्थवादः प्रवर्तते,
१९ ] प्रथमाध्याये द्वितीयपादः १३१
तत्प्रक्रमावस्थायामेव तु भावनांशाः संनिपतन्ति । विशेषेण तु फलं प्राथम्य-
प्राधान्याभ्यामित्यादि मन्वानोऽपूर्णत्वादिति वदति । तदपेक्षया च स्तुतिमात्र-
मनर्थकं मन्यते ।
ननु चैवं जातीयकः फलविधिरुतार्थवाद इति विचारश्चतुर्थेऽपि 'द्रव्यसंस्कार-
कर्मसु' (जै० ४।३।१) इति भविष्यति । अतो नेह प्रस्तोतव्यः ।
तत्र केचिदाहुः अनेन गतार्थत्वात्तत्रैवैष पर्यनुयोगो युज्यते, न त्विदं पुनरुक्त-
मिति । सत्यमेवम्, यदि तु तत्कालप्रतीक्षणात्किचित्परिहारान्तरं लभ्यते अतस्त-
त्रान्विच्छेम । अथ पुनरिहैव शक्यते वक्तुम्, तथा संतीदानीमप्युच्यमाने मन्दो
दोष इति ।
अत्रापरे वदन्ति तेन फलविधित्वनिराकरणमात्रपरमेव प्रष्टव्यम् । तदयुक्तम् ।
यतस्तेन फलविधित्वात्प्रच्यावितानामानर्थक्यप्रसक्तौ पूर्वाधिकरणेनैव स्तुत्यर्थता
साधिता । तथा च दर्शितं शोभतेऽस्य मुखमित्यादिषु ।
केचित्पुनराहुः युक्तं 'वायुर्वे क्षेपिष्ठेत्यादोनाम्' स्तुतित्वम् । ऊर्जोऽवरुद्ध्यै
इति पुनर्यथा फलविधित्वात्प्रच्याव्यते, तथैव विसंवादेन स्तुतित्वादपीति कामं
विधिर्भवतु, येन कालान्तरभावित्वेन कथञ्चिद्विसंवादो निवर्त्तत इत्यारम्भः ।
तदप्ययुक्तम् । अपि च वेदे व्यक्तमसंवाद इति ह्यभ्युच्चयहेतुरपुनरुक्तः स्यात् ।
अधिकरणशरीरं तु तदेव । विसंवादोऽपि च गुणवादस्त्वित्यनेन न कश्चिद-
परिहृतः । पुनरपि च तावन्मात्रमेवोत्तरं भविष्यति । तस्माद्विधिर्वा स्यादित्य-
विशेषोपादानाच्चतुर्थे च फलश्रुतिग्रहणादिहाशेषद्रव्यगुणक्रियादिविधिसरूपाः
तत्र फलविधिसरूपा एवोदाहरणमित्यपरे ।
तथा च विधिश्चानर्थकः क्वचित्प्रकरणे च संभवन्निति चाप्सुयोनिर्वा
अश्वोऽप्सुजो वेतशो यो विदग्ध इति चोदाह्रियते । अन्यथा फलविधिमात्रो-
पन्यासे तदसंबद्धमेव स्यात् । इहापि तस्य तावद्विशेषविषयत्वादिदमगतार्थं
भवेत् । अनेन तु सामान्यतः सर्वविषयावरोधिना तत्पुनरुक्तमेवेति व्यवस्थया
केचिदुदाहरन्ति अत्र द्रव्यादिविधीनेव तत्र फलविधीनेव, भाष्यकारोदाहरणम-
तन्त्रीकृत्योदाहरणान्तरं दातव्यमिति ।
अस्मिन् विषये वार्तिकमतम्
अत्र वदामः । किमधिकरणद्वयमवश्यारब्धव्यम्, येनैवमुदाहरणव्यवस्थाऽऽ-
श्रीयते । न ह्युदाहरणभेदादधिकरणं भिद्यते । मा भूद्यथाव्यवस्थितेऽपि खादिरो-
दुम्बरत्वभेदादपौनरुक्त्यम् । न्यायविषयत्वेन त्वधिकरणानां तद्भेदे एवापौनरुक्त्ये
हेतुः । द्रव्यादिविधयोऽपि न सर्वे विचारिताः । केचित्तत्सिद्धिसूत्रे' केचिन्निन्वीता-
१३२ मीमांसादर्शनम् [ सू०
द्यधिकरणेषु, परकृतिपुराकल्पद्वारेणान्ये षष्ठे, यहचा स्तुवत इत्यादयोऽर्थैकत्वादि-
कल्प इति नवमे, जर्तिलगवीधुकविधिरूपा दशमे, अतश्च न पुनरुक्तता महान्
दोष इत्येव वक्तव्यम् ।
अथ वैकस्यैव न्यायस्य क्वचित्कश्चिदंशः शोध्यत इति पुनरारम्भः । स्पष्टं
वा विषयनानात्वमेवं वर्णनीयम् । सर्वविधिसरूपाणां केवलं विधित्वनिराकरणे-
नार्थवादत्वमिह सिद्धम् । यस्तु चतुर्थे पुनरारम्भः सोऽर्थवादकल्पिते विधौ
फलाकाङ्क्षावेलायामन्यार्थोपात्तमपि क्रतुप्रयागवचनात्तदेव सन्निहिततरं क्लृप्त-
संबन्धस्य च विशेषमात्रं सुकरम् । इतरथा संबन्धस्तद्विशेषश्चोपकारकत्वं
कल्पनीयमिति रात्रिसत्त्रप्रतिष्ठादिवत्फलविधित्वमपीति पूर्वपक्षाभिप्रायः । कथ-
ञ्चित्प्रयोजनान्तरे लभ्यमाने नैकस्यानेकार्थता युक्ता । तस्मादर्थवादत्वमेवेति
सिद्धान्तः । एतेन निवीताद्यधिकरणानि व्याख्यातानि ।
अथ वोदुम्बराधिकरणपूर्वपक्षं कृत्वा चिन्तास्ता प्रत्येत्तव्याः । विधित्वाभ्युप-
गमेन हि कस्य शेषः क्रतोः पुरुषस्य वेत्यादि विचार्येह सिद्धेनार्थवादत्वेनोप-
संहारः । तथा परकृतिपुराकल्पयोः किं तद्गोत्राणामुत सर्वपुंसामिति चिन्ति-
तम् । एवमूहबाधमसङ्गेन नवमदशमगता चिन्ता । तत्सिद्धिसूत्रे तु गुणवाद-
निमित्तमात्रकथनम् ।
अथ वा फलविधावेव यत्र भेदेन स्तुतिफलपदानि भवन्ति, तदिहोदाहरणम् ।
यथाऽत्रैवौर्गदुम्बर ऊर्क, पशव इत्येतैरेव स्तुतिः, ऊर्जोऽवरुद्ध्यै इत्यनेन
फलमिति । यत्र पुनस्तावन्मात्रेणैव फलं वा स्तुतिर्वा वक्तव्येति भवति ते
चतुर्थं इति ।
अथ वा तत्र परार्थत्वादिति हेतुव्यपदेशात् प्रसिद्धेन च हेतुना व्यवहाराद्ये
विज्ञातपारार्थ्यास्त उदाहरणम् । यथा 'यस्य पर्णमयी जुहूर्वि'ति । अत्र ह्यवश्यं
जुह्वनुवादेन पर्णमयीत्वं विधातव्यम्, स्वातन्त्र्येण फलसम्बन्धाशक्तेः । सर्वत्र हि
गुणः फलाय चोद्यमानः कश्चिदाश्रयमपेक्षते । न च प्रकरणमन्तरेणाऽऽश्रयप्राप्तिः ।
तदिह यदि पर्णमयीत्वेन फलं भावयेदिति वचनं व्यज्येत, किमाश्रितेनेत्यपेक्षायां
किं संबध्यताम् ? जुहूरिति चेन्न । वाक्यभेदप्रसङ्गात् । साऽपि च प्राक्क्रिया-
लाभान्नैव निराकाङ्क्षीभवति । न च क्रियासम्बन्धे प्रमाणमस्ति । तस्मादनिर्व-
र्हणादेतद्वचनव्यक्तिपरित्यागेनेतराश्रयणम् । तत्र च जुह्वा जुहोतीत्यस्याः प्रकरणे
निर्ज्ञातप्रयोजनत्वाद्विहितजातिविशेषायास्तदाकाङ्क्षायां सत्यां यावदेव पर्णत्व-
जातिरुपनीता तावदविज्ञातप्रयोजनावस्थत्वादङ्गतां प्रतिपद्यते । ततश्च निरा-
काङ्क्षीभूतायास्तस्मिन्नेव वाक्ये फलकल्पनानिमित्तं नास्तीति युक्तमर्थवादत्वम् ।
. १९ ] प्रथमाध्याये द्वितीयपादः १३३
इह पुनर्वैकृतपशू प्रकरणे श्रूयमाणमौदुम्बरत्वमुदाह्रियते । न च तस्य प्रसिद्धं
पारार्थ्यम्, येन चतुर्थाधिकरणविषयता भवेत् । कथम् ? अत्र हि न तावदप्राप्ते
यूपे जातिविधानं शक्यम् । तत्प्राप्तिश्चेदवश्यं कॢप्तोपकारप्रकृतत्वादिनैव निरा-
काङ्क्षेण भवितव्यम् । तत्कुतो जात्यन्तरस्य तादर्थ्येन विधिः, अतः फले
विधानम् । याऽपि चाऽऽश्रयापेक्षा, साऽपि प्राकृतकर्मसंबन्धिचोदकप्राप्तयूपग्रह-
णान्निवर्तत इत्यविघातः । तेन प्रागेव पारार्थ्यात्फलसंबन्धप्रसक्तिरवश्यं न्याया-
न्तरेण निराकर्तव्येत्येतदधिकरणारम्भः ।
इदमपरं मतम् । औदुम्बरवाक्यं जुह्वादिवाक्यं चोभयमुभयत्रोदाहरणम् ।
कथम् ? भावनांशान्तरविचारादपौनरुक्त्यम् । साध्यसाधनसंबन्धस्तावद् द्वयोरपि
योग्यत्वेनोपात्तयोरवकल्पते, नान्यथा । तत्र चतुर्थे साधनांशयोग्यविचारमना-
हृत्याभ्युपेत्य वा केवलसाध्यांशविचारः । किमीदृशेन कामशब्दोपबन्धरहितेन
वर्तमानफलसंबन्धाभिधायिना फलत्वं शक्यते गमयितुम्, न वेति विचारः । इह
पुनः साध्यांशमनादृत्याभ्युपेत्य वा केवलसाधनांशविचारः । किमीदृशेन विधि-
विभक्तिरहितेन द्रव्यगुणक्रियाः कंचित्प्रति साधनत्वेन प्रतिपाद्यन्ते नेति । यच्च
यदात्मना प्रतिपादितं भवति, तत्प्रतियोगिविशेषापेक्षं सत्पदान्तराद्युपात्तेन तेन
संबध्यते । तत्र साध्यमित्यवधृते परिशेषादवशिष्टं साधनं गम्यते । एवं साधना-
वधारणेऽपीति द्वावप्यंशौ स्वरूपेण निरूपयितव्यौ । तदिह साधनांशे विचार्यमाणे
यो नाम फलांशस्य संस्पर्शः, स चतुर्थे सिद्धः प्रसङ्गाद्धेतुत्वेनेति मन्तव्यः । तथा
यस्तत्र साधनांशपरामर्शः, स इह सिद्धस्तत्र प्रसङ्गादित्यपुनरुक्तम् ।
नन्वेवं सति विध्युद्देशचिन्तेयमित्यर्थवादाधिकरणेन न संबध्यते । नैष
दोषः । तद्देशेनैवार्थपरिच्छेदात् । यदि ह्यसौ विधीयमानतया पूर्वेणावगतः,
ततो नार्थवादत्वमथ स्तुत्यर्थतया ततोऽर्थवादत्वमिति । तत्र पूर्वपक्षाभिप्रायः ।
सर्वथा साध्यसंनिधाने यदुच्चरितम्, तदाकाङ्क्षावशेन तद्रूप्येणानुपात्तमपि
साधनं भवति । यथैव यागेनेत्यनुदितं संबध्यते, तथैवौदुम्बरेणेति । तत्र विधिः
किं कुर्यात्पुरुषं प्रवर्तयेत् । स च फलार्थितयैव प्रवृत्त इति किं विधिना ।
अथ वा प्रयोगवचनविहितस्य फलसंबन्धमात्रमनेन क्रियते । पञ्चमो वा
लकारो विधास्यति । अर्थवादैकदेशो वेत्युक्तमेव । तस्मादूर्जोऽवरुद्ध्या इति
तादर्थ्यचतुर्थ्यैवैनं कामशब्दादपि स्फुटतरं फलमुपात्तमिति तस्मिन्नौदुम्बरता-
विधिः । न तु फलस्य विधानमिति ग्रहीतव्यम्, भावार्थाधिकरणे फलविधिनिषेधात् ।
ऊर्गुदुम्बर इत्यतः स्तुतिरित्यविरोधः । तस्मान्मुख्यविधिसंभवे लक्षणया न
स्तुतिः प्रतिपत्तव्येति ॥ १९ ॥
१३४ मीमांसादर्शनम् [ सू०
न्या० सू०—विषयविवेकार्थमिहेतिभाष्यं व्याख्यातुमाह—एवमिति । आनर्थक्यम्,
उपाख्यानम् । आदिशब्दोपात्तं चादृष्टार्थत्वं प्रतियोगि = विरोधि येषां तेष्वित्यर्थः । एतच्च
पूर्वेणाध्यायषट्केन प्रत्यक्षविदितधर्मकेषु दर्शपूर्णमासादिषु व्याख्यातेषु इदानीमविहितेति-
कर्तव्यताकेष्वैन्द्राग्नादिषु चिन्तयितुमिष्यत इतिसप्तमाध्यायभाष्यवत्सर्वेष्वर्थवादेष्वा-
नर्थक्यादिप्रतियोगित्वेन व्याख्यातेषु यथासम्भवं केषुचिद्विधिप्रतियोगितेदानीं विचार्यत इति
विशेषणपरं व्याख्येयम् ।
पूर्णाहुत्याद्यर्थवादानां विधिवन्निगदार्थवादानामपि व्याख्यातत्वात्किमस्येति सन्देहभाष्यं
पूर्वपक्षासम्भवेनाक्षिपति—कुत इति । सन्देहसमर्थं चतुर्द्धा पूर्वपक्षं सम्भावयति—पूर्वत्र
हीति । श्रौतत्वमनेन विधित्वाङ्गीकरणे कारणमुक्तम् । अनन्यलभ्यत्वाच्च विधिरित्याह—
विध्यंशश्चेति । इत्युक्तमिति । विध्युद्देशस्यैव द्वे शक्ती कल्पयिष्याम इत्यत्रेत्यर्थः । प्रथा-
नत्वादपि विधिरित्याह—अपि चेति । विशेषणशब्देनाङ्गमुक्तम् । प्रधाने, विशेषणे च
यत्सम्भवति, तस्येत्यर्थः । प्राथम्यादपीत्याह—समासे चेति । फलरूपश्चात्र भावनांशो
विधेयोऽभिप्रेतः, तस्य च सर्वादौ निवेशः प्रथमाकाङ्क्षणादितरयोस्तु तादर्थ्येन तस्यैव
प्राधान्यादित्याह—विशेषेण त्विति । आसामुपपत्तीनां सूत्रकाराभिमतत्वं दर्शयितुमाह—
इत्यादीति । श्रौतस्यार्थान्तरपूर्वत्वाभावादनन्यलभ्यस्य चानन्यकारणकत्वात्प्रधानस्य
विधेयान्तरापेक्षाभावादपूर्वशब्दे न लक्षणा । प्राथम्यं तु न विद्यतेऽस्मात्पूर्वमिति बहु-
व्रीहिणा बोध्यते । आदिशब्देन त्वर्थान्तरपूर्वत्वाभाव एवोच्यते ।
ननु स्तुतेरपि पूर्वाधिकरणे अर्थवत्त्वोपपादनादानर्थक्याभिधानमयुक्तमत आह—तदपेक्ष-
येति । पौनरुक्त्यमाशङ्कते—ननु चेति ।
एकस्यार्थस्याद्विरुक्तत्वानर्थक्येऽप्यस्य प्राथम्यादपुनरुक्ततेत्येकेषां समाधानमाह—
तत्रेति । अस्याधिकरणस्य पौनरुक्त्याभावेऽप्यानर्थक्यापरिहारेऽप्याकुलीभावेन श्रोतॄणा-
मर्थानवधारणापत्तेर्विलम्बोऽनुचित इत्येतत्समाधानं दूषयति—सत्यमेवमिति । श्रोतृचित्त-
समाधानायापौनरुक्त्ये परिहार्ये प्राप्ते चतुरः प्रकारानुपन्यस्य दूषयति — तत्र । इत्यादिना
पूर्वाधिकरणेनैवेत्यनेन फलविधिसुरूपाणामपि पूर्वाधिकरणविषयत्वं दर्शितम्—तथा च ।
इत्यनेनैतदेवं पूर्वाधिकरणोदाहृतफलविधिसरूपार्थवादनिदर्शनेन स्फारितं पूर्वोक्तस्याप्यर्थ-
वादत्वस्य विसम्वादेनेहासम्भवादानर्थक्यपरिहाराय पर्णमय्यधिकरणनिराकृतस्य फलविधि-
त्वस्य प्रतिप्रसवशङ्कां निराकर्तुमेतदधिकरणमिति प्रकारान्तरमुपन्यस्य निराचष्टे—
केचिदिति । शरीरस्येन्द्रियाधिष्ठानत्वेन प्राधान्यादुपचारात्प्राधान्येनाधिकरणप्रतिपाद्यं
शरीरशब्देनोक्तम् । तत्र पर्णमय्यधिकरणशरीरादभिन्नमित्यर्थः । अभ्युच्चयहेतुत्वे कारणम्—
विसम्वादोऽपि च । इत्यनेनोक्तम् । सर्वविधिसरूपविषयत्वादस्य फलविधिसरूपमात्रविष-
येण पर्णमय्यधिकरणेनापौनरुक्त्यमिति । प्रकारान्तरमाशङ्कते — तस्मादिति । निरस्य-
१९ ] प्रथमाध्याये द्वितीयपादः १३५
तोहापीति । फलविधिसरूपांशेनास्यापि तेन गतार्थत्वमपरिहार्यमिति तावच्छब्देन सूचितम् :
एतद्दोषपरिहारार्थं फलविधिसरूपव्यतिरिक्तानामेवात्रोदाहरणत्वमिति प्रकारान्तरमाशङ्कते-
इति व्यवस्थयेति ।
हेतावितिकरणत्वं निरस्यति - अत्र वदाम इति । ननूदाहरणभेदस्याधिकरणभेदाक्षेप-
कत्वाद्वारभ्यमेवाधिकरणद्वयमित्यत आह-न हीति । किं तर्ह्यधिकरणभेदाक्षेपकमत आह-
न्यायेति । न चास्य फलविधिसरूपव्यतिरिक्तसर्वविधिसरूपविषयतास्तीत्याह - द्रव्यादि-
विधयोऽपीति । कुत्र विचारिता इत्यपेक्षायामाह - केचिदिति । एवं पौनरुक्त्येनाधि-
करणारेम्भे दूषिते पौनरुक्त्यं परिहर्तुमशक्नुवतां मतेनारम्भं तावत्समाधत्ते - अतश्चेति ।
यथैव चतुर्थे 'सह शाखया प्रस्तरं प्रहरतीति' शाखाप्रहरणस्य प्रतिपत्त्यर्थकर्मत्वसन्देहे
तृतीयाया अर्थकर्मत्वे प्राप्ते, सहयोगनिमित्तवात्तृतीयायां द्वितीयावगतप्राधान्यप्रस्तरसाह-
चर्याच्छाखाया अपि प्राधान्यावगतेः प्रतिपत्तित्वे सिद्धान्तिते द्वितीयायाः प्राधान्यव्यभि-
चारशङ्कापरिहारार्थयोरर्थेऽपीति चेन्न, तस्यानधिकारात् । फलस्याधिकृतत्वादितिसूत्रयोः
सक्त्वधिकरणगताभ्यां सूत्राभ्यां द्रव्योपदेश इति चेन्न । तदर्थत्वाल्लोकवत्त्स्य च शेषभू-
तत्वाद्दिति' सूत्राभ्यां पौनरुक्त्यमाशङ्क्य नातीव पुनरुक्तता महान् दोषः। बहुकृत्वोऽपि
पथ्यं वदितव्यमिति परिहारं भाष्यकारो वक्ष्यति । तथैवात्रापि वक्तव्यमित्यर्थः ।
वार्तिकमतेन पौनरुक्त्यपरिहारः
स्वयमिदानीं चतुरः पौनरुक्त्यपरिहारप्रकारानाह-अथ वेति । एकस्यैव साध्यसाधन-
सम्बन्धाभावप्रतिपादनन्यायस्यात्र साधनांशः, तत्र साध्यांशः साध्यत इत्यर्थः । द्वितीयं
प्रकारमाह-स्पष्टं चेति । सर्वविधिसरूपाणामिति । फलविधिसरूपाणां पर्णोदुम्बराद्यर्थ-
वादानाम्, 'यजमानः प्रस्तर' इत्यादीनां च द्रव्यविधिसरूपाणाम्, विदग्धादीनां च गुणविधि-
सरूपाणाम्, माषपाकादिविषयाणां च क्रियाविधिसरूपाणाम् 'आग्नेयो वै ब्राह्मण' इत्यादीनां
देवताविधिरूपाणां केवलार्थवादनिरपेक्षविधिनिराकरणेनेत्यर्थः ।
फलादिसम्बन्धोत्तरकालमर्थवादान्वयात्पर्णोदुम्बरतादावार्थवादिकफलकल्पनमशक्यं
पूर्वपक्षयितुमित्याशङ्कयार्थवादकल्पिते विधावित्युक्तं क्लृपू सामर्थ्यं इति धातोर्घञन्तात्कृपो
रो ल (पा० सू० ८।२।१८) इति लादेशे कृते तत्करोति तदाचष्टइति समर्थं करोतीत्यस्मि-
न्नर्थे णिचमुत्पाद्य निष्ठायां कल्पित इति रूपम् । तेनार्थवादेनाङ्गभूतेन विधौ प्रवृत्त्युत्पादन-
समर्थे कृते विधिसामर्थ्येनायँवादान्वयात्प्रागेवाकाङ्क्षस्य फलस्यानिर्द्धारितविशेषस्य विशेषा-
काङ्क्षावेलायामित्यर्थः । यथाय्यनभावनायां फलाश्रवणेऽपि विधिसामर्थ्यात्किञ्चित्समीहितं
फलं भावयेदित्यनिर्द्धारितविशेषफलान्वयेऽवधारिते वेदाध्ययनरूपकरणान्वयोत्तरकालं योग्य-
तयार्थज्ञानरूपफलविशेषनिर्द्धारणमविरुद्धम् । तथात्रापीति भावः । अन्यार्थेति । विहितपर्णो-
दुम्बरतास्तुत्यर्थमित्यर्थः । फलविधित्वमपीत्यपिशब्देनोदुम्बराधिकरणसिद्धार्थवादत्वाङ्गी-
१३६ मीमांसादर्शनम् [ सू०
करणेन तदाक्षिप्तफलविधिप्रतिपादनाद्विध्यर्थवादसमुच्चयेन पर्णमय्यधिकरणपूर्वपक्ष इत्यु-
क्तम्--अर्थवादत्वमेवेति । केवलार्थवादत्वेन सिद्धान्तो दर्शितः ।
निवीताद्यर्थवादानामपि सिद्धवत्कीर्त्तनान्यथानुपपत्त्या विध्याक्षेपकत्वात्समुच्चयेन
पूर्वपक्षं कृत्वा, विक्षेपे प्रकरणादुत्कर्षापत्तेः । तस्य च केवलार्थवादत्वेन प्रकरणानिवेश-
सम्भवोपपत्तेः । केवलार्थवादत्वेन सिद्धान्तो निवीताद्यधिकरणेषु करिष्यत इत्याह--
एतेनेति । कृत्वा चिन्तात्वेन वा तेषां पुनरारम्भ इत्याह--अथ वेति । परकृतिपुराकल्पाधि-
करणमपि कृत्वा चिन्तेत्याह--तथेति । इति ह स्माह वटुकुर्वाष्णिर्माषान्मे पचत न ह वा
एतेषांऽहविगृ॑ह्णन्तीत्येककर्त्तृ॑कमुपाख्यानं परकृत्याख्यम् । उल्मुकैर्हस्मपूर्वे समाजग्मुस्तान-
सुरा रक्षांऽसि निज्ज॑घ्नुरिति चानेककर्त्तृ॑कमुपाख्यानं पुराकल्पाख्यमुदाहृत्य किमिमौ
माषपाकोल्मुकसंयोगविधी उतारण्याशनगृहपत्यग्निर्वापस्तुत्यर्थौ निन्दार्थवादाविति
सन्दिह्यार्थवत्त्वाद्विधी इति पूर्वपक्षमङ्गीकृत्य परकृत्युदाहरणे किं सर्वेषामेव दर्शपूर्णमास-
याजिनाम्मौपवसथ्याहे माषभोजनं विधीयते वृष्णिगोत्राणामेव वेति चिन्तयिष्यते । तत्र
वार्ष्णिशब्देन वृष्णिगोत्रविशेषसम्बन्धितया भोजनार्थं माषपाककीर्त्तनात्तदन्यथानुपपत्त्या
विधिः कल्प्यमानो न सर्वविषयः कल्पयितुं शक्यत इति । पश्चाद्वत्तद्व्यवस्थेति प्राप्ते,
विशिष्टपुरुषाचरितत्वेन माषस्तुत्यर्थतया वार्ष्णिसम्बन्धकीर्त्तनोपपत्तेर्विशेषविधित्सायां
वार्ष्णिवद्व्यतिरिक्तानां वृष्णिगोत्राणामपि विधानापत्तेः सर्वेषामेव दर्शपूर्णमासयाजिना-
मारण्यभोजनादिना सह वैकल्पिकं माषभोजनं विधीयत इति पक्षान्तरमुक्त्वा 'तस्मादारण्य-
मेवाश्नीयादिति विध्यन्तरैकवाक्यत्वेनारण्यान्नस्य प्रशस्ततरत्वद्योतनार्थं जर्त्तिलयवाग्वादि-
वन्निन्द्यानामपि माषाणां स्तुतिरिति सिद्धान्तयिष्यते ।
पुराकल्पोदाहरणेऽपि गृहपतेरेवाग्निषु निर्मन्ध्य निर्वपेरन्निति विध्यन्तरैकवाक्यत्वेन
निर्मन्थिताग्निसंसर्गस्तुत्यर्थमुल्मुकसंसर्गे निन्दोपपत्तेर्न निन्दाकल्पनिषेधबलेन प्रापकविधि-
कल्पनं पूर्वमहर्ष्याचरितत्वेन वा पृथग्विधिकल्पनं युक्तमिति सिद्धान्तः करिष्यते । यद्यदा-
चरति श्रेष्ठस्तत्तदेवेतरो जन इति न्यायात् । पूर्वाचरितोपन्यासेन विधिकल्पनमित्येवंविध-
पूर्वपक्षसाम्यमात्रेणानयोर्दाहरणयोः साहचर्यम्, न तु पुराकल्पोदाहरणे कृत्वा चिन्ता का
चिदस्ति । तस्मात्परकृतिपुराकल्पयोर्मध्ये एकस्मिन्परकृत्युदाहरणे कृत्वा चिन्तेति निर्द्धा-
रणे सप्तमी व्याख्येया । अर्थैकत्वजर्तिलाधिकरणयोः कथं निवेशोऽत आह—एवमिति ।
सापि कृत्वा चिन्तेत्यर्थः । चिन्तान्तरस्य तत्राभावात्, कृत्वा चिन्तानुपपत्तिमाशङ्क्याह—
बाधप्रसङ्गेनेत्युक्तम् ।
यद्यपि तत्र चिन्तान्तरं न कृतम्; तथापि सामोहोपोद्घातप्रसक्तानुप्रसक्त्या यदृचा
स्तुवत. इति विधिरर्थवादो वेति चिन्तायाः करिष्यमाणत्वात्तदुपयोगितया विधिपक्षे किमति-
देशप्राप्तस्तुतिसाधनसामाधारतृचबाधेनैकगर्गाधारत्वं विधीयते उताप्रगीतर्गैकत्वम् । तत्र पूर्वं-
पक्षे योन्युत्पन्नस्य साम्न उत्तरयोरगानादूहाप्राप्तेरितरस्मिन् पक्षे साम्नस्तृचाश्रितत्वाबाधा-
दूहोपपत्तेरिति चिन्तान्तरं कल्प्यम् ।