सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 496, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 496

४४२ मीमांसादर्शनम् [ सू०
निक्षिप्य तत्तद्वेदभागपरीक्षाकाले तान्याकृष्याकृष्टलेखयच्चिह्नितं वेदं पठत्यध्येतारो न
युञ्जत इति घटिकामार्गवर्त्तिनोऽनुयोगाः तस्मादित्यपसंहारभाष्यं व्याचष्टे—
तस्मादिति ।
एतमेव न्यायं विद्यास्थानान्तरेष्वतिदिशति—एतेनेति । स्मृतीनां च धर्मशास्त्रव्यपदे-
शादपि स्वातन्त्र्यलक्षणा प्रयोगशास्त्रताऽवसोयत इत्याह---धर्मेति । तुल्यवच्च विद्यास्थानत्व-
व्यपदेशात्सर्वेषां तुल्यतेत्याह—अपि चेति । वैदिकमन्त्रप्रकाश्यप्रकाशकत्वादप्येषां वेदत्वम-
वसीयत इत्याह -- किं चेति । नन्ववेदत्वेऽपि स्मृतीनां वेदमूलत्वेन तत्प्रतिपाद्यानामष्ट-
कादीनां वैदिकत्वाद्वैदिकमन्त्र प्रकाश्यं च युक्तमित्याशङ्कयाह--एवं चेति । कल्पनागौरवा-
पत्तेर्वेदमूलकत्वकल्पनातो वेदत्वकल्पनेव ज्यायसीत्यर्थः ।
ननु नित्यत्वपक्षे तस्य चाप्रामाण्यस्य च कल्प्यत्वाद्वेदत्वपक्षे च तस्यापि तृतीयस्य
कल्प्यत्वादगौरवं स्यादित्याशङ्कयाह-सिद्धानामिति । नित्यत्वे सति निर्दोषत्वेनैव प्रामाण्य-
सिद्धेर्नित्यतैवौका साध्या सा चाव्यस्मरणेनैव सुसाधा । वेदता च वेदार्थ विषयत्वात्प्रकल्प्यत
इत्यर्थः । एतदेवोपसंहरति—तस्मादिति । किं तु तान्येवेत्युत्तरश्लोको योज्यः । वेदमूलत्वे
च तत्समर्पणक्लेशाधिक्यापत्तेरेषामेव वेदत्वं युक्तमित्याह- मन्वादिभिरिति । मूलसमर्पण-
क्लेशाङ्गीकरणे अप्येषां प्रति कञ्चुकत्वादग्राह्यत्वं स्यादित्याह-के हीति । प्रतिकञ्चुका-
नामग्राह्यत्वं दृष्टान्तेनोपपादयति—यथा चेति ।
ननु वेदमूलत्वेऽपि सम्प्रदायविनाशभयेनासमर्पणीयत्वान्न क्लेशापत्तिर्नाप्यग्राह्यत्वापत्ति-
रित्याशङ्कयाह—सम्प्रदायेति । एतदेव विवृणोति—वेदेति । अवेदत्वे च तद्विज्ञात-
स्यार्थस्य श्रेयःसाधनत्वाभावापत्तेः शास्त्रप्रणयनवैयर्थ्यं स्यादित्याशङ्कयाह - वेदादेव चेति ।
नन्वस्तु तर्हि वेदवाक्यानामेव विप्रकीर्णानामेकत्र सन्निवेशस्य मन्वादिभिः कृतत्वात्पौरुषेय-
तेत्याशङ्कयाह—न चेति । एतदेव विवृणोति—ईदृगिति । ननु मूलान्तराणामेकत्र
कल्पना रचना युज्यते सम्प्रदायविनाशापत्तेरिति योज्यम् । उपसंहरति ।
ननु पौरुषेयत्वेऽपि वेदमूलत्वेन धर्मप्रामाण्योपपत्तेः कथं तदभ्युपगमे नित्यत्वापत्तिरि-
त्याशङ्कयाह—चोदनेति । इष्टसाधनत्वमात्रेण धर्मत्वे कृष्यादेरपि धर्मत्वापत्तेर्विध्यनुष्ठा-
पितत्वेन धर्मत्वाद्दिधेश्च पौरुषेयेषु पुरुषाभिप्रायप्रतिपादकत्वेनासम्भवाद्धर्मप्रामाण्या सम्भव
इत्याशयः । स एव ब्राह्मणस्याप्यवेदत्वे चोदनात्वाभावेऽर्थवादरूपस्य विध्येकवाक्यत्वाभावे
धर्मप्रामाण्यं नास्तीति वदता विवृतः । एतद्देशोपसंहरति – तेनेति । ननु मूलभूतचोदना-
कल्पनेनैषां धर्मप्रामाण्यं भविष्यत्यत आह-वदन्तीति । चोदनाकल्पने तन्मात्रेणोपक्षीणानां
धर्मप्रतिपत्तावव्यापारादप्रामाण्यापत्तिरित्याशयः । यावदुक्तं शब्देन विषयीकृतं तावत्येव
शब्दः प्रमाणम् । येषां तैरित्यस्मिन्र्थेऽव्ययीभावगर्भो बहुव्रीहिः । ननूक्तार्थान्यथानुपपत्त्या-
नुक्तकल्पनमपि युक्तमेवेत्याशङ्कयाह-उक्तमिति । उक्तं धर्मरूपमर्थमादौ परित्यज्यानुक्तं
वेदवाक्यं तावत्प्रतीयते कल्प्यते । अनुक्तेन च वेदवाक्येन सपूर्वंपरित्यक्तोऽर्थोऽपि पश्चात्प्रती-