मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
इस ग्रन्थ के बारे में
पूर्वमीमांसा दर्शन महर्षि जैमिनि के मीमांसासूत्रों पर आधारित है, जो वैदिक वाक्यों के अर्थ-निर्णय और यज्ञ-कर्म के नियमों की विवेचना करता है। लगभग बारह अध्यायों में फैले इन सूत्रों पर शबरस्वामी का शाबरभाष्य सबसे प्राचीन उपलब्ध भाष्य है, और उस पर कुमारिल भट्ट का तन्त्रवार्तिक मीमांसा की भाट्ट परम्परा का आधार बना।
यह प्राच्यभारती ग्रन्थमाला (16) का संस्करण है, जिसे तारा प्रिंटिंग वर्क्स, वाराणसी ने 1984 में प्रथम संस्करण के रूप में प्रकाशित किया। मुखपृष्ठ के अनुसार इसमें पाँच टीकाएँ एक साथ हैं: शाबरभाष्य, कुमारिल भट्ट का तन्त्रवार्तिक, उस पर सोमेश्वर भट्ट की न्यायसुधा, गोविन्दामृतमुनि का भाष्यविवरण, और सम्पादक डॉ. महाप्रभुलाल गोस्वामी की 'भावप्रकाशिका'। डॉ. गोस्वामी सम्पूर्णानन्द संस्कृत विश्वविद्यालय में दर्शन विभाग के अध्यक्ष थे; पुस्तक की प्रस्तावना पद्मभूषण पण्डितराज पट्टाभिराम शास्त्री ने लिखी है।
ग्रन्थ में प्रमाण, धर्म के लक्षण, विधि-अर्थवाद, प्रकरण और श्रुति-लिंग जैसे विषयों पर सूत्र-दर-सूत्र चर्चा है, और भूमिका में मीमांसा के भाष्यकारों की परम्परा का परिचय है। लगभग 804 पृष्ठों का यह खण्ड मीमांसा के गम्भीर अध्येताओं के लिए है।
२५२ मीमांसादर्शनम् [ सू०
नामधेयस्य धर्मंप्रयोगाभावात्वानर्थक्येन पूर्वपक्षकरणं नामधेयं रूपाभिप्रायम् । गुण-
विधित्वेनापि उद्भिदादिपदानां दध्यादिपदवत्प्रामाण्योपपत्तेर्न स्वरूपेण।प्रामाण्यं शङ्कितुं
युक्तम् । न चैवमुभयथापि प्रामाण्यसिद्धेः प्रमाणलक्षणासङ्गतिः शङ्कनीया । को धर्मः कथं
लक्षणश्चेत्येकेनैव सूत्रेण व्याख्यातं चोदनालक्षणोऽर्थो धर्म इति, अत्र कथमिति प्रकारवचने
थाल्प्रत्ययप्रयोगेण प्रामाण्यप्रकारविशेषनिरूपणस्यापि प्रतिज्ञासूत्रार्थत्वेनोक्तत्वात् । अन्यथा
हि किँलक्षण एवावक्ष्यत् । अत एव स्मृतिविचारस्यापि सङ्गतिः । अनवगतस्वरूपस्य हि
वेदस्य प्रामाण्यायोगात्स्वरूपावगतिः प्रामाण्यप्रकारः । तत्र किं प्रत्यक्षावगतिरेव प्रकारः,
अथ वा स्मृत्याचारद्वारेणाप्यवगतिरिति प्रामाण्यप्रकारविशेषनिरूपणरूपत्वात्स्मृतिविचार-
स्यापि सङ्गतिः सिद्धा । अतः स्मृत्याचारद्वाराया अपि चावगतेः सत्याः प्रामाण्यप्रकारत्वस्य
निराकर्त्तुमशक्यत्वात्सैव सम्भवति, न वेति इह चिन्त्यते ।
यद्वा स्मृत्याचारावगतानामपि कर्मणां परिग्रहदाढर्यात् धर्मंत्वावगतेश्चोदनैवेत्यवधारणा-
क्षेपेण सङ्गतिः । तत्समाधानार्थमेव चेह चोदनामूलत्वमस्ति, न वेति चिन्त्यते । चोदना-
शब्दस्य वा प्रत्यक्षाप्रत्यक्षचोदनासाधारण्यादप्रत्यक्षचोदनानां च स्मृत्याचारोपस्थापनं विना
प्रामाण्यायोगात् स्मृत्याचारप्रामाण्यमपि प्रतिज्ञातं भवतीति नासङ्गतिः ।
जिज्ञासासूत्रेण वा सकलधर्मप्रमाणजिज्ञासाकर्त्तव्यत्वाभिधानाच्चोदनासूत्रप्रतिज्ञातवेद-
प्रामाण्यप्रतिपादने पर्यंवसिते, प्रसङ्गादार्थप्रसिद्धादीनामपि प्रसिद्धं (प्रामाण्यं ययोः
स्मृत्याचारयोः प्रसिद्धप्रामाण्ययोः स्मृत्याचारयोरपि ।) प्रामाण्यमिह चिन्त्यते । सर्वं
चैतत्तावच्छब्देन सूचितम् । वेदस्य तावदुपयोगः साधित इत्युक्ते, अन्यस्यापि साधयितव्य
इति प्रतीतेः परतः प्रामाण्यादिद्वाराऽप्रामाण्यस्य प्रथमपाद एव निराकृतत्वेऽपि प्रामाण्य-
प्रकारासम्भवेनाप्रामाण्यमाशङ्क्य प्रकारविशेषनिरूपणं द्वितीयपादेन कृतमित्युपयोगशब्दे-
नोक्तम् । अथेदानिमिति भाष्येण वर्त्तिष्यमाणसङ्कीर्त्तनं कृतम् ।
तत्र वेदमूलकत्वनिबन्धनत्वात्स्मृतिप्रामाण्यस्य वेदप्रामाण्यविचारानन्तरं स्मृतिप्रामाण्य-
विचारसङ्गतिरथशब्देनोक्ता । प्रत्यक्षवेदगामिनामधेयविचारात्पूर्वं स्मृतिविचारानौचित्य-
माशङ्क्य, कस्याश्चित्स्मृतेर्नामधेयमूलत्वाभावेन तदनपेक्षत्वात् महोक्षं वा महाजं वा श्रोत्रिया-
योपकल्पयेदित्यादिस्मृतेस्तु तद्यथैवादौ मनुष्यराज आगतेऽन्यस्मिन्वाऽर्हत्युक्षाणं वा वेहतं
वा छदन्ते इत्याद्यर्थवादमूलत्वात्, न पचेदन्नमात्मन इत्यादिस्मृतेश्च केवलाघो भवति
केवलादीत्यादिमन्त्रमूलत्वात्, तत्प्रामाण्ये प्रतिपादिते नामधेयविचारात्पूर्वं स्मृतिप्रामाण्यं
वक्तुमुचितमिति सूचयितुमिदानीमित्युक्तम् ।
तद्विषयप्रदर्शनपरतया तावद्व्याचष्टे—इदानीमिति । पौरुषेयीष्विति वेदप्रामाण्य-
हेतुमभावो दर्शितः । स्मर्यमाणोऽर्थोऽवधिर्मर्यादा यासां नार्थमतिक्रम्य तस्य प्रमाणमपि
विषयीकुर्वन्तीत्यस्मर्यमाणमूलत्वं स्मर्यमाणार्थविधिष्वित्यनेनोक्तम् । एतच्चाप्रामाण्योप-
योगिविशेषणद्वयम् । अस्मर्यमाणार्थविधिष्वितिपाठे त्वितः प्रभृतीयं स्मृतिः प्रवृत्तेत्यस्मर्य-
१ ] प्रथमाध्याये तृतीयपादः २५३
माणोऽर्थस्यावधिर्यासामिति षष्ठीतत्पुरुषगर्भबहुव्रीहिः । सिद्धान्तोपयोगिविशेषणं मन्वादि-
प्रणीतो ग्रन्थो निबन्धनं यासामिति शिष्टप्रणीतत्वं मन्वादिप्रणीतनिबन्धनास्वित्यनेन
प्रामाण्योपयोगिविशेषणमुक्तम् । आचारग्रहणेनाशब्दत्वपूर्वपक्षहेतुकतृ'सामान्यसिद्धान्तहेतु-
साम्यादाचाराणामप्यधिकरणविषयत्वमुक्तम् ।
ननु यत्रेत्यादिभाष्येणैव विषयावगतिसिद्धेः, तत्स्वरूप तस्य च विशेषस्यात्राविचार्य-
त्वादष्टकादिस्वरूपोदाहरणं व्यर्थमित्याशङ्कयाह—तत्रेति । स्वरूपगतविशेषाविचारेऽप्युदा-
हरणविशेषं विना नैराकाङ्क्षयमावादष्टकाद्युदाहरणमिति भावः ।
मन्वादिस्थानां स्मरणानामन्येन ज्ञातुमशक्यत्वात्कथं विचारविषयत्वमित्याशङ्क्य
तद्ग्रन्थसमर्पितानीत्युक्तम् । विषयप्रदर्शनार्थतया भाष्यं व्याख्याय सन्देहहेतुश्नानेन भाष्येणा-
भिधीयत इत्याह—सन्देहेति । कथमित्यपेक्षिते पूर्वपक्षप्रतिमानार्थत्वेन यत्रेति भाष्यं
व्याचष्टे—पारतन्त्र्यादिति । सिद्धान्तप्रतिमानार्थत्वेनाऽद्य वेति भाष्यं व्याचष्टे-अप्रामाण्येति ।
श्लोकं विवृणोति—मन्वादीति । (शब्दानामर्थपरत्वे स्वतः प्रामाण्ये च सत्यपि वक्तृ-
ज्ञानानुमानं विनार्थामावव्युदासरूपपरिच्छेदाख्यविज्ञानानुत्पादकत्वाद्, ज्ञानमात्रस्य च
प्रामाण्याभावाद्वक्तृज्ञानानुमानद्वारा विज्ञानोत्पादकत्वावगतेर्मन्वादिवचनस्य स्मृत्यपेक्षतोक्ता
भाष्यकृता । आचाराणामप्युदाहरणत्वसिद्धयै वाक्यात्युदाहरणेऽपि पूर्वोत्तरपक्षहेतुसाम्या-
तेषामप्युदाहरणत्वोपपत्तिसूचनार्थं वचनोक्तिः ।) तदुच्यत इति पूर्वपक्षभाष्यं व्याचष्टे—
तत्रेति । पूर्वविज्ञानमूलप्रमाणम्, तस्य यो विषयः, स एवास्येति पूर्वविज्ञानविषयविषय-
मित्येकोऽत्र विषयशब्दो लुप्तो द्रष्टव्यः । श्लोकं विवृणोति—सर्वेति ।
ननु शब्द एवात्र मूलप्रमाणं भविष्यत्यत आह—शब्दोऽपीति । ननु प्रत्यक्षानुप-
लब्धोऽपि कल्पयिष्यत्यत आह—प्रत्यक्षेति । प्रमाणशब्देन भावव्युत्पत्त्या कल्पनमभिप्रेतम् ।
तदेव तावन्निष्प्रमाणकत्वात्कल्पाद्धर्मास्तित्वाद्विप्रकृष्टं दूरे न तत्स्पृशतीत्यर्थः, योग्या-
नुपलब्ध्यभावाद्धर्मास्तित्वकल्पनापेक्षयाऽसन्कृष्टं धर्मास्तित्वं शब्दास्तित्वस्य
योग्यप्रत्यक्षानुदयेनामावनिश्चयात्तत्कल्पना विप्रकृष्टतरा । श्लोकं व्याचष्टे - शब्दस्य
तावदिति । अभ्युपगतमित्यनेन कल्पनार्थत्वेन प्रमाणशब्दो व्याख्यातः । नन्वतु-
मानादिनापि शब्दावगतिसम्भवात्प्रत्यक्षमेव प्रमाणमित्ययुक्तमुक्तमत आह—न चेति ।
श्लोकं व्याचष्टे—यथैवेति । आगमं निराकरोति—न चेति । कृतके नास्ति विश्रम्भ
इत्येतद्व्याचष्टे—यद्यपीति । दुष्टैः प्रतारकैः पुरुषैराकुलितं भ्रमितं चेतो येषाम् =
अस्मादीनामित्यर्थः । 'नित्यो नैवोपपद्यते' इत्येतद्व्याचष्टे-नित्यस्य त्विति ।
नन्वन्विव प्रपेत्यादिमन्त्रलिङ्गानां प्रपादिसमृतिमूलत्वदर्शनाद्वेदमूलत्वाभिधायिनां
मन्वादीनां तद्दृष्टान्तेन सत्यवादित्वावगतेः कृतके नास्ति विश्रम्भ इत्ययुक्तमत आह—
न चेति । एवं र्तार्ह मूलान्तरसूचकत्वान्नित्यो नैवोपपद्यत इत्युक्तमत आह—न चेति ।
कर्त्तव्यतानुवादे विधिसूचनं स्यात् स्वरूपमात्रानुवादस्तु यहच्छासिद्धप्रपादिविषयत्वेनोपपन्नो
य विध्याक्षेपकमित्याशयः ।
१५४ मीमांसादर्शनम् [ सू०
मन्त्रलिङ्गानां च स्मृतिमूलसूचकत्वनिराकरणेन नित्यानुमेयश्रुतिमूलत्वमपि निराकृतं
भवति । अन्धपरम्परान्यायापत्त्या स्मरणेन नित्यानुमेयश्रुतिकल्पनस्य निराकरिष्यमाणत्वात्,
प्रत्यक्षश्रुतिमूलत्वे त्वैकरूप्यात्तस्यास्तन्मूलानां स्मृतीनामप्यैकरूप्यं स्यात् न त्वेतदस्ति ।
'यदुच्यते द्विजातीनां शूद्राहारोपसंग्रहः ।
न तन्मम मतं यस्मात्तत्रात्मा जायते स्वयम् ॥' या० स्मृ० आ० श्लो०
इत्यादिविगानदर्शनादित्याह — न चेति । ननूपलब्धश्रुतिमूलत्वेऽपि विगीतानेकश्रुति-
मूलत्वात् स्मृतिविगानमविरुद्धमत आह — न चेति । श्लोकं व्याचष्टे—यदि हीति ।
विधिरूपं वाक्यं मन्वादिभिर्निरूपितमुपलब्धमिति यदि विज्ञायेत, ततः कापि विगीतानेक-
श्रुतिमूलत्वाद्वादिकल्पना स्यात् । अर्थवादपरेष्वपि त्वद्यत्वेऽपि 'स यदि ह वा अपि मृषा वदति
सत्यं हैवास्योदितं भवति, य एवमेतत्सत्यस्य सत्यत्वं वेदेत्यादिषु मृषोद्याभ्यनुज्ञाभ्रान्ति-
दर्शनेन मन्वादिष्वपि भ्रान्तिशङ्काया निराकर्तुमशक्यत्वात् एकश्रुतिमूलत्वेऽपि भ्रान्त्य-
वसितानेकतात्पर्यविगाननिमित्तस्मृतिविगानोपपत्तेरनेकश्रुतिमूलत्वकल्पनोचितेति भावः ।
प्रलीनशाखामूलत्वं तर्ह्यस्त्वत आह — मृतेति । प्रासङ्गिकं परिसमाप्य प्रकृतमुपसंहरति—
तस्मादिति ।
उपमानं निराकरोति—उपमानं त्विति । अर्थापत्तिं निराकरोति—अर्थापत्त्यापीति ।
श्लोकं व्याचष्टे—यदि हीति । सामान्यतो दृष्टग्रहणं दृष्टान्तार्थमतो निर्मूलत्वादित्युपसंहार-
भाष्यं निर्मूलस्मृत्यसम्भवेन, कस्यचिद् भ्रान्त्यादेरवश्यकल्प्यत्वादयुक्तमाशङ्क्य व्याचष्टे—
तस्मादिति ।
नन्विति भाष्यमर्वाचीनाभिप्रायेण तावद् द्वेधा योजयति—नन्विति । अर्वाचीनानां
कर्त्तव्यत्वाज्ञानाद्ये विदुरित्ययुक्तमित्याशङ्कते—नन्विति । वदनानुमेयत्वात्परिज्ञानस्य
वदन्तीत्युक्तम् । तेषामपि मन्वादिवाक्यश्रवणाद्भवति कर्त्तव्यत्वज्ञानमिति परिहरति—
कथमिति । एवं कर्त्तव्यज्ञानात्कर्त्तव्याभिधानयोर्विप्रतिषेधप्रतिपादनपरत्वेन व्याख्याय नन्व-
विदुषामुपदेशो नावकल्पत इत्यनेन न्यायेनोपदेशान्यथानुपपत्त्या मन्वादेः पूर्वज्ञानकल्पनाशङ्का-
र्थमेतद्भाष्यमित्यन्यथाचष्टे—अथ वेति । ये कर्त्तव्य इति न विदुः, कथमिव ते वदिष्यन्ती-
त्यममी पदार्थाः कर्त्तव्य इति व्यत्ययेनास्मिन् व्याख्याने भाष्यं योज्यम् । निषेधाभावेन
त्वकर्त्तव्यत्वस्यानाशङ्क्यत्वात्कर्त्तव्यत्वज्ञानमेवाकर्त्तव्यत्वज्ञानमुखेनाकर्त्तव्यो यस्मिन्नि-
त्यनेनोक्तम् । विवक्षितार्थलाभाय च व्यत्ययाङ्गीकरणमदोषः । 'स्मरणानुपपत्तेरिति भाष्य-
मर्वाचीनानां स्मरणानुपपत्तेत्येव कैश्चिद्व्याख्यातम् । तत् मन्वादिवाक्यश्रवणजनितस्यार्वा-
चीनानामष्टकादिकर्त्तव्यताज्ञानस्याकर्त्तव्यत्वाभिधानविरोधित्वेनोपन्यस्तस्य स्मृतित्वेनाशङ्कि-
तत्वादयुक्तमित्यभिप्रायेण दूषयति—स्मरणेति । तदर्वाचीनानामष्टकादिकर्त्तव्यत्वज्ञानमा-
शङ्कावादि नैव तावन्न स्मृतित्वेनेष्टम्, अतस्तस्य स्मृतित्वनिराकरणमयुक्तमिति
तावच्छब्दस्यार्थः ।
१ ] प्रथमाध्याये तृतीयपादः २५५
ननु मन्वादीनामपि स्मरणं निराकर्त्तुमशक्यम्, तदभावे ग्रन्थरचनानुपपत्तेरित्या-
शङ्क्याह - मन्वादीनामपीति । तस्माद्व्याख्यानद्वयेऽपि मन्वाद्यभिप्रायेणैवैतत्परिहारभाष्यं
योज्यमिति भावः । तत्रावाचीनाभिप्रायशङ्काव्याख्याने मन्वादिवाक्योत्पन्नकर्त्तव्यत्वज्ञानां
अप्यर्वाञ्चो मन्वादीनां स्मरणानुपपत्तिमलोच्याकर्त्तव्यत्वं वदन्तीति योज्यम् । द्वितीय-
व्याख्याने तूपदेशकल्प्यस्मरणस्य पूर्वविज्ञानकारणाभावेनानुपपत्त्या नोपदेशस्य तत्कल्पकत्वं
सम्भवतीत्यसम्भवेतोऽर्थापत्त्या कल्पयितुमशक्यत्वादिति भावः । विदितपूर्वस्याप्यस्मृतस्यो-
पदेष्टुमशक्तेः, स्मरणद्वारेणोपदेशस्य ज्ञानकल्पकत्वात्स्मरणनिराकरणेन ज्ञानमेव निराकृतम् ।
बन्ध्यादौहित्रोदाहरणस्य प्रश्नपूर्वमभिप्रायमाह-कस्मात्पुनरिति । कारणाभावेन
कार्याभावोऽत्र दृष्टान्तो वाच्य इति, दौहित्रस्य कारणभूतदुहितुरभावेनाभावो निदर्शनीयः ।
दुहितुस्तु बन्ध्याकारणमस्तीति न कारणाभाव इत्याशयः । उपदेशान्यथानुपपत्त्या मन्वादि-
स्मरणेऽवश्यकल्पे सम्यक्त्वमात्रमिह निषेध्यमिति सूचयितुं दृष्टान्तभाष्ये सम्यग्ग्रहणम् ।
एवमपीत्याशङ्काभाष्यं पूर्वं विज्ञानकारणाभावे स्मृतिप्रामाण्यानुपपत्तेर्युक्तमाशङ्कय
पूर्वविज्ञानकारणभूतवेदवाक्यानुमानाभिप्रायत्वेन व्याचष्टे - यथैवेति ।
एवं तर्हि नैतदेवमिति परिहारभाष्यं पूर्वविज्ञानकारणाभावे हेत्वप्रदर्शनादयुक्तं
स्यादित्याशङ्क्यऽगृहीताभिप्रायत्वेन व्याचष्टे इतरस्त्विति । एतदेव भाष्यमवयवशो
व्याचिख्यासुर्वेदत्वस्मृतिप्रामाण्योपपत्तिप्रतिपादकं तावत् प्रत्यक्षेणेतिभाष्यावयवं व्याचष्टे -
वेदः पुनरिति । ननु वर्णस्वरूपस्य प्रत्यक्षत्वेऽपि तस्य वेदावेदसाधारण्याद्वेदत्वस्मृति-
र्निर्मूलैव स्यादत आह-शब्देति । वेदशब्दवाच्यत्वमात्रमेव तत्राप्रत्यक्षं तदपि तु वृद्धव्यव-
हारावगम्यत्वान्न निष्प्रमाणकम्, ग्रन्थान्तरविलक्षणमेतत्स्वरूपं प्रत्यक्षमेवेति भावः । एतदेवोप-
पादयति-प्रागपि हीति । वेदशब्दस्योपलक्षणत्वाद्वेदादिविशेषमन्त्रब्राह्मणोपन्यासः ।
ननु वेदशब्दात्प्रागपि वेदादिस्वरूपप्रतीतौ वेदादिसंज्ञानां डित्थादिवत्पौरुषेयत्वान्निष्प्रमाण-
कत्वं स्यादित्याशङ्कयाह - सर्वेषां चेति । नन्वेवमपि वेदादिशब्दोल्लेखाबगतेर्वृद्धव्यवहारा-
धीनशब्दार्थसम्बन्धप्रतीत्युत्तरकालीनत्वात् प्रत्यक्षत्वं न स्यात् अत आह-इतीति ।
शब्दोल्लेखप्रतीतिनिर्देशार्थं इतिकरणः । संज्ञाद्वारेण तदुल्लेखेनोत्तरकालमपि गम्यमानानां
प्रत्यक्षसूत्रे तत्र शब्दार्थसम्बन्धप्रमातुरित्यत्र प्रत्यक्षत्वं साधितमित्यर्थः ।
दार्ष्टान्तिके वैषम्यप्रतिपादनार्थमष्टकादिषु त्विति भाष्यावयवं व्याचष्टे-नन्विति ।
कुम्भकारक्रियास्त्रिवेति वैधर्म्यदृष्टान्तः एतदेवोपपादयति - यदो ते । अन्धपरम्परान्यायेनेति
व्याख्येयतयोपक्षिप्तस्यान्धपरम्परानिदर्शनस्य प्रयोजनं तावदाह-सर्वस्येति । वेदत्वस्मृति-
वदष्टकादिस्मृतावप्यनादित्वात्प्रामाण्यप्रसिद्धयभिमानं निवर्त्तयितुमन्धपरम्परानिदर्शनमित्यर्थः ।
कथमनेन निदर्शनेन प्रामाण्यप्रसिद्धयभिमाननिवृत्तिरित्यपेक्षितेऽस्मिन्निदर्शनेऽनादित्वस्या-
प्रामाण्यापादकत्वदर्शनादित्याह-वेदे हीति । एतदेव प्रश्नपूर्वमुपपादयन्निदर्शनभाष्यं व्याचष्टे-
कथमिति । दार्ष्टान्तिके योजयति-तादृशं चेति ।
१५४ मीमांसादर्शनम् [ सू०
नन्वयमविधदृष्टान्तोपलब्धो कथमष्टकादिस्मरणस्यान्धपरम्परितुल्यत्वम्, न तु वेदत्व-
स्मृतितुल्यतेति निर्णय इति आशङ्क्य पूर्वविज्ञानकारणाभावादिति भाष्योक्तहेतुव्याख्या-
नार्थं पूर्वोक्तमेव चोदनामूलत्वनिराकरणं स्मारयति- न चेति । मूलसद्भावे प्रमाणं
नास्तीत्युक्त्वा तदभाव एव तु स्मर्त्तव्यास्मरणं प्रमाणमस्तीत्याह-यदि चे.ति । अनेन
चाप्तोक्तिनिबन्धनेषु व्यवहारेषु प्रामाण्यहेतुभूतस्य मूलस्य स्मरणेन व्याप्तत्वाद्द्यापकस्मरणा-
भावेन व्याप्यमूलाभावानुमानमुपन्यस्तम् अर्थापत्तिर्वा व्यवहारार्थिनां व्यवहारहेतुमूलविस्म-
रणानुपपत्तेर्दृश्यादर्शनवद्वा स्मर्त्तव्यास्मरणस्याप्यनवगतपूर्वातीताभावज्ञानकरणतायाः ।
स्वरूपमात्रं दृष्ट्वा च पश्चात्किञ्चित्स्मरन्नपि ।
तत्रान्येनास्तितां पृष्टस्तदेव प्रतिपद्यते ॥ [अ. प्र. श्लो. २८]
इति वदद्भिराचार्यैरिष्टत्वाद्भावाख्यमेव प्रमाणमनेनोपन्यस्तम् ।
नन्वविच्छन्नपारम्पर्यदृढस्मरणमात्रेण व्यवहारसिद्धिरवश्यस्मर्त्तव्यत्वविशेषणाभावात्,
अस्मरणमात्रस्य च चिरवृत्तेषु सत्स्वपि पदार्थेषूपलब्धेरभावात् असाधकत्वान्नास्मरणेन
मूलाभावसिद्धिरित्याशङ्कते-स्यादेतदिति । निर्मूलस्य स्मरणस्याप्रामाण्येन व्यवहारासाध-
कत्वान्मूलस्यावश्यस्मर्त्तव्यत्वं साधयति - तदयुक्तमिति । अवश्यसमर्पणीयासमर्पणादपि
स्मृतिमूलभूतानां चोदनानामभावोऽवसीयेत इत्याह-अपि चेति । ननु स्वयंदृष्टस्य मूलस्या-
वश्यसमर्पणीयत्वं भवेत् मन्वादिभिस्तु स्मृतिमूलभूतानां चोदनानां स्वयमदृष्टत्वादशक्यं
समर्पणमित्याशङ्क्याह-यदि हीति । एवमपि मन्वादिभ्यः पूर्वैराचार्यैः स्वयंदृष्टत्वे
समर्पणीयत्वापत्तेः, अदृष्टत्वे वा नित्यानुमेयत्वापत्तेस्तस्य च निराकरिष्यमाणत्वान्निर्मूल-
त्वमेव वलादापद्यतेति भावः
ननु पूर्वाचार्यैः समर्पितमपि स्मृतेर्मूलं प्रलीनत्वेन मन्वादिभिः स्वयमदृष्टत्वान्न
समर्प्यतेऽत्र आह--यदि त्विति । ननु मन्वादिभिः स्वयं दृष्टानामपि मूलानामन्यैरपि
स्वयं दृष्टत्वादसमर्पणमित्याशङ्क्यास्मिन्पक्षे स्मृतिप्रणयनवैयर्थ्यमाह-अथेति । इतश्च
वैयर्थ्यमित्याह-युक्ततरा चेति । किं चान्यैः स्वयंदृष्टानामुपि वेदवाक्यानां तात्पर्याज्ञानेनेद-
मस्याः स्मृतेर्मूलमिति निर्णतुमशक्यत्वात्तात्पर्यज्ञापनार्थं मन्वादिभिरवश्यं समर्पणं
कर्त्तव्यमित्याह-न चेति । प्रमाणशून्यो मूलविशेषनिर्णयोऽशक्य इति, अन्यथैव
दृष्टान्तमाह-पश्येति ।
ननु-
'यः कश्चित्कस्यचिद्धर्मो मनुना परिकीर्त्तितः ।
स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः ॥'
इति मन्वादिभिः सामान्येन स्वस्मृतीनां वेदमूलत्वाभिधानाद्विशेषामर्पणोऽपि
स्मृत्यनुरूपमूलविशेषनिर्णयो भविष्यत्यत आह-न चेति । अतोऽनादर्त्तव्यमित्युपसंहार-
भाष्यं व्याचष्टे -तस्मादिति ॥ १ ॥
१ . ] प्रथमाध्याये तृतीयपादः १५७
भावप्रकाश
भा० प्र०—प्रथम पाद में वेदविधि का प्रामाण्य निरूपित किया गया है और
द्वितीय पाद में अर्थवाद और मन्त्र का प्रामाण्य सिद्ध किया गया है । तृतीय पाद में
अन्य शाखाओं में स्थित वेदविधि, मन्त्र या अर्थवादमूलक स्मृति के प्रामाण्य का विचार
किया जा रहा है ।
स्मृति प्रमाण है या अप्रमाण इस प्रकार का संशय होने पर 'धर्मस्य शब्दमूलत्वाद-
शब्दमनपेक्षं स्यात्' १।३।१ इस सूत्र की पूर्वपक्ष के रूप में अवतारणा की गई है । पूर्वपक्ष
के समर्थन में यहाँ कहा गया है कि 'अष्टकाः कर्तव्याः' अर्थात् अष्टका श्राद्ध करना चाहिये,
'तडागं खनितव्यम्' तालाब खन कर प्रतिष्ठा करनी चाहिये, 'प्रपा प्रवर्त्तयितव्या' जल
सत्र को प्रवर्तित करना कर्तव्य है, 'शिखाकर्म कर्तव्यम्' शिखा धारण करना चाहिये
इत्यादि शिष्टजनों से परिगृहीत स्मृति वचन हैं, किन्तु वे धर्म में प्रमाण नहीं हैं, अर्थात्
ये कर्म धर्म नहीं हैं। क्योंकि धर्म का लक्षण निरूपण करते हुए कहा गया है कि धर्म
चोदनालक्षण अर्थात् वेदविधि से बोध्य ही है, किन्तु इन स्मृति वचनों के मूल में कोई
वैदिक वचन नहीं है ।
यदि यह कहा जाय स्मरण अर्थ वेद के अर्थ का स्मरण मात्र है और स्मरण की
उत्पत्ति अनुभव के बिना नहीं हो सकती है, अतः, अर्थापत्ति के आधार पर उसका पूर्व में
अनुभव अवश्य ही मानना होगा; धर्म यह अलौकिक अदृष्ट तत्त्व है, अतः, इसमें प्रत्यक्ष
एवं प्रत्यक्ष को उपजीवक मान कर स्थिर अनुमान एवं उपमान प्रमाण का प्रामाण्य नहीं
हो सकता है। अपितु शाब्द ज्ञान रूप अनुभव के फलस्वरूप ही धर्म का स्मरण किया
जा सकता है । किन्तु इस प्रसङ्ग में यह कहना है कि वन्ध्या नारी यह कहे कि 'यह
मेरे दौहित्र का मकान है, तो यह वचन बाधित मानना पड़ेगा, क्योंकि कन्या की उत्पत्ति
के बाद उस कन्या का पुत्र दौहित्र होगा, और दौहित्र होने पर उसके भवन का ज्ञान
होगा, कन्या के स्मरण के बिना दौहित्र का स्मरण नहीं हो सकता है। प्रकृत में भी
श्रुति के वचनों के अनुभव के बाद ही उसके अर्थ का स्मरण होगा, अर्थात् स्मृति का
मूलीभूत शाब्दज्ञान, इस शाब्दज्ञान का कारण स्वरूप शब्द . अर्थात् श्रुतिवचन है,
श्रुति वचन के स्मरण के बिना श्रुति वचन सहित अर्थ का स्मरण नहीं हो सकता है।
वेद अविच्छिन्न परम्परा के क्रम में आ रहा है, अर्थात् अपौरुषेय रूप में परम्परा से
प्राप्त है, अतः, प्रमाण है, इसी तरह स्मृति भी परम्परा क्रम में आ रही है, अतः प्रमाण
है। किन्तु, इस प्रसङ्ग में यह कहना है कि वेद मात्र परम्परा क्रम में प्राप्त होने से
प्रमाण नहीं है, अपितु, किसी पुरुष विशेष से रचित न होने के कारण ही—यह प्रमाण
है, किन्तु स्मृतियाँ तो मनु आदि मनुष्यों के द्वारा रचित हैं, अतः, भ्रम प्रमाद आदि
दोष से युक्त मानव की रचना स्वतः प्रमाण नहीं है, धर्म अलौकिक है, अदृष्ट है, उसका
साक्षात्कार मनुष्य नहीं कर सकता है, इसलिए साक्षात्कारपूर्वक उस विषय का प्रतिपादन
१७
१५८ श्रीमीमांसादर्शनम् [ सू०
मनुष्य ने किया है—यह भी नहीं कहा जा सकता है। अतः जिस स्मृति वाक्य का
मूलभूत कोई वेदवचन मिलेगा; वही स्मृति वचन प्रमाण होगा । अतः, इस प्रसङ्ग में
यही कहा जा सकता है कि स्मृतियाँ अन्ध परम्परा के समान हैं जैसे कोई जन्म से अन्धा
व्यक्ति यह कहता है कि वह इस वस्तु के वर्ण का स्मरण कर रहा है । उस व्यक्ति से
यह जिज्ञासा की जाय तुमने इस वस्तु का किस प्रकार अनुभव किया ? इसके उत्तर में वह
किसी दूसरे जन्मान्ध व्यक्ति का निर्देश कर कहता है कि मैंने उस अन्धे की
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें२ ] प्रथमाध्यायस्य तृतीयपादः -१५९
प्रपा असीदि, ति। तथा, 'स्थल्योदकं परिगृह्णन्तो' ति च गोत्रचिह्नं शिखाकर्म,
दर्शनं च यत्र 'बाणाः संपतन्ति कुमारा विशिखा इवे, ति । तेन ये दृष्टार्थाः ते तत
एव प्रमाणम् । ये त्वदृष्टार्थाः सिद्धान्ताः तेषु वैदिकशब्दानुमानमिति ॥ २ ॥
स्मृत्याधिकरणम् ॥ १ ॥
भा० वि०—यद्युत्सर्गंतः प्रामाण्यं स्मृतीनामाचाराणां च श्रुतिमूलतया
प्रामाण्यम्, अथ प्रत्यक्षवेदविरोधेऽपि स्यादितिशङ्कानिराकरणात् सङ्गतिम्थशब्देन
सूचयन् विषयमाह - अथेत्यादिना ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें२६० मीमांसादर्शनम् [ सू०
गृहीतत्वेन च संभवद्वेदमूलानुमानानामुपपद्यत एव प्रामाण्यम्, आचाराणामपि
प्रत्यक्षश्रुतिस्मृतिविहिताग्निहोत्रादिसमानकर्तृकतया संभवद्वेदादिमूलानामुपपद्यत
एव प्रामाण्यम्, न च प्रत्यक्षश्रुतिस्मृतिविरोधात्स्मृत्याचारेण वा श्रुत्यनुमानम्,
स्मृत्यनुमानं वा न संभवतीति सांप्रतं व्रीहियवश्रुतिवत् विरुद्धश्रुतिस्मृतिद्वय-
संभवेन स्मृत्याचारेण वा तदनुमानोपपत्तेरित्यभिसन्धिः ।
तत्र तावत् सर्ववेष्टनादिस्मृतीनां पूर्वोक्तनीत्या अबोधकत्वादिलक्षणाप्रामाण्या-
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें२ ] प्रथमाध्याये तृतीयपादः २६१
ननूत्सर्गातः स्मृतेः श्रुतिमूलत्वदर्शनात् कथं मूलान्तरकल्पनेति पृच्छति—
कथमिति । यथा अमावास्यायामपराह्णे पिण्डपितृयज्ञेन चरन्तीति कालवाच्यमा-
वास्याशब्दविरोधात् पितृयज्ञस्य दर्शाङ्गत्वस्मरणं दुःश्रुतमूलम्, तथेहापि श्रुति-
विरोधदर्शनात् मूलान्तरसंभावना अयुक्तेति परिहरति—श्रौतेति ।
ननु स्मृत्यनुमिततया श्रुत्या सह प्रत्यक्षश्रुतेः विकल्पाङ्गीकरणेऽपि विरोधस्य
परिहारान्न युक्ता मूलान्तरकल्पनेति चोदयति—अथेति । तुल्यबलयोः विकल्पोप-
पत्तिं दृष्टान्तेनाह—ब्रीहीति ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसम्प्रदायविरोधादित्यर्थः । एवं श्रुतिस्मृतिप्रामाण्याप्रामाण्ययोरपाक्षिकत्वमुक्तं
निगमयति—तेनेति । एतत्-स्पर्शनविज्ञानं पक्षे प्रमाणविज्ञानं सद्द्यामोहकल्पनया
पक्षान्तरं प्रमाणाभासत्वरूपं न सङ्क्रान्तमिति गम्यत इति एकत्र योजना ।
इतरत्र तु एतत्स्मार्तविज्ञानं पक्षेऽप्रमाणं सद्भावन्मूलश्रुतिदर्शनं न व्यामोहपक्षा-
त्पक्षान्तरं प्रामाण्यरूपं सङ्क्रान्तमिति किं मूलत्वं तर्हि तदानीं सर्ववेष्टनादिस्मृते-
रत आह—दुःश्रुतेति । यथावदविचारितं वाक्यं दुःश्रुतम् स्वप्नविज्ञानम्-भ्रान्तिः,
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें२ ] प्रथमाध्याये तृतीयपादः २६३
श्रुतिप्रामाण्यमित्यभिसन्धिः । स्मृत्यप्रामाण्येतरेतराश्रये तु स्वतः प्रमाणभूतप्रत्यक्ष-
श्रुतिविरोधे मूलानुमानमित्यप्रमाणमेव स्मृतिरित्यन्तः । परिच्छेद इति भावः, न च
स्मृतेः स्वतोऽप्रामाण्याभ्युपगमे स्मृत्यधिकरणविरोधः प्रत्यक्षश्रुतिविरोधे सति
यावन्मूलवेददर्शनं मूलान्तरसंभावनामात्रस्यैवाप्रामाण्यशब्देनाभिप्रेतत्वादिति-
ध्येयम् ।
एवं स्मृत्या तदनुमितया वा श्रुत्या सह प्रत्यक्षश्रुतेः न
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसूत्रं विवृणोति—लोभादिति, केचिदुद्गातार इति शेषः, तल्लोभमूलकं वेष्टनं
२६४ मीमांसादर्शनम् [ सू०
‘या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः ।
सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः’ ॥
मनु. १२. श्लोक ९५
इति वेदवादिशिष्टगर्हितत्वेन लोभादिकारणान्तरदर्शनेन चासंभवात्
भ्रान्त्यादिमूलत्वपरिशेषादप्रामाण्यं दर्शितमिति मन्तव्यम्, तत्र च स्मृतितत्कर्त्तृत्-
त्परिग्रहीतॄणां प्रत्यक्षवेदविरोघे सत्यनपेक्ष्यं स्मृतेः श्रुत्यनुमापकतया प्रामाण्यम् ।
असति हि प्रत्यक्षवेदविरोधे
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें२ ] प्रथमाध्याये तृतीयपादः ३६५
तस्मात्सर्वेभ्यश्चोदनाकल्पनैव ज्यायसी । तत्र हि तन्मात्रदृष्टाभ्युपगमः ।
शेषास्तु महाजनपरिग्रहादयः सर्वेऽनुविधीयन्ते । संभाव्यते च मन्वादीनां चोदना
पूर्वविज्ञानकारणत्वेन । तदर्थमेवाऽऽह—तेनोपपन्नो वेदसंयोगस्त्रैवर्णिकानामिति ।
यानि पुनरनुपपन्नवेदसंभावनानां म्लेच्छादीनामतीन्द्रियार्थस्मरणानि, तेषां
मूलकल्पनावेलयामेव चोदना संभावनापदं नाऽऽरूढेति, मिथ्यात्वहेतुभूतचतुष्टय-
पारिशेष्यादप्रमाणत्वम् । संभावितायां पुनश्चोदनायां
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें२६६ मीमांसादर्शनम् [ सू०
ज्ञायते । यथैव हि स्मृतेर्दृढत्वाद् भ्रान्तिमूलत्वं नास्त्येवमर्थवादमूलत्वमपि ।
शक्नुवन्ति हि ते विध्यर्थवादौ विवेक्तुम् । तत्र स्मृतेर्विध्यात्मकत्वात्प्रकृतितादा-
त्म्यानुमानलब्धास्पदेऽर्थवादपूर्वकत्वं निष्प्रमाणकम् । अपि च 'वेदोऽखिलो
धर्ममूलं' स सर्वोऽभिहितो वेदे' इति च स्वयमेव स्मर्तृभिरात्मा वध्वा समर्पितस्त-
च्चैतन्नियोगतस्तत्कालैः कर्तृभिर्बुद्धिकारित्वादुपलब्धमतः सिद्धं वेदद्वारं
प्रामाण्यम् ।
यस्तु
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें२ ] प्रथमाध्याये तृतीयपादः २६७
त्वादक्रियायां प्रत्यवायः, करणे च न भवति । दृष्टं च प्रीतो गुरुरध्यापयिष्यती-
त्येवमादि निष्पद्यते । नियमाच्चाविघ्नसमाप्त्यर्थापूर्वसिद्धिः । एवं च "आचाराद्
गृह्यमाणेषु तथा स्यादित्यत्र सकृदसकृद्वाऽनुष्ठानमिति विचारो युक्तः। इतरथा तु
दृष्टार्थत्ववशेनैवोदकपानादिवदवधारणं स्यात् ।
यत्तु भाष्यकारेण दृष्टार्थत्वादेव प्रामाण्यमित्युक्तम्, तत् अस्मिन्विषये वार्तिक-
मतं पूर्वपक्षवाद्यतिशयार्थम् । एतदुक्तं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें२६८ मीमांसादर्शनम् [ सू०
एवं कल्पसूत्रेष्वर्थवादादिमिश्रशाखान्तरविप्रकीर्णन्यायलभ्यविध्युपसंहारफल-
मर्थनिरूपणं तत्तत्प्रमाणमङ्गीकृतम् । लोकव्यवहारपूर्वकाश्च केचिदृत्विगादिव्यव-
हाराः सुखार्थहेतुत्वेनाऽऽश्रिताः ।
व्याकरणेऽपि शब्दापशब्दविभागज्ञानं साक्षाद्वृक्षादिविभागवत्प्रत्यक्षनिमि-
त्तम् । साधुशब्दप्रयोगात्फलसिद्धिरपशब्देन तु फलवैगुण्यं भवतीति वैदिकम् ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१ ] प्रथमाध्याये तृतीयपादः २६९
प्रतिभान्त्यः त्वयं पुंसामपूर्वा ह्युपपत्तयः ।
भ्रान्ति बहुमताः सत्यः कुर्युरज्ञानबोधनात् ॥ २१ ॥
जगत्सृष्टिप्रलयादिज्ञानं वेदपूर्वकमेवेति वार्तिकमतस्योपसंहारः ।
सर्वासु तु प्रदर्शितासु स्वातन्त्र्येण विशोधयन्तः काश्चिदुत्सृज्यान्याः प्रमाणी-
करिष्यन्ति । यदपि च नित्यानित्यपृथक्त्वैकत्वसामान्यविशेषव्यतिरेकाद्येकान्त-
प्रतिपादनं तदपि पक्षपातादृतेऽन्यतरांशनिरूपणाशक्तेः । अवश्यं च सर्वात्मकवस्तु-
युगपद्ग्रहणासम्भवात्तद्भागोपनिपातिपदविषयविवेकर्थमेकैकनिरूपणमादरेण कर्त-
व्यम् । अन्यथा
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें२७० मीमांसादर्शनम् [ सू०
व्याख्यातः, तदुपपादयितुमाह मन्वादीनां चेति । प्रत्यक्षत्वे मन्वादीनां तत्स्मृतिमूलविज्ञान-
मूलस्य द्रष्टुं शक्यत्वाददृष्टकल्पनानुपपत्ते रप्रत्यक्षत्वादित्युक्तम् ।
ननु कल्पनानामादृष्टं विज्ञानकारणं अतत्तु चोदनाख्यमेवेति कथमध्यवसीयतेऽत आह -
तत्रेति । श्लोकं व्याचष्टे—सर्वत्रैवेति । भ्रान्तेस्तावद् दृष्टानुगुण्येनसाध्यत्वमाह—तत्रेति ।
सम्यङ्निबद्धाच्छास्त्राद्यष्टकादीनां धर्मत्वदर्शनं तद्विरोधापत्तिरित्यर्थः । मन्वादीनामिति
कर्त्तरि षष्ठी । स्मृतिग्रन्थग्राहिणः पुरुषात्प्रति स्वज्ञानस्य भ्रान्तस्यापि
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंपरिहारान्तरमाह—तेनेति । नित्यत्वव्याघातापत्तेरत्राप्यपरितोषसूचनार्थं वरमि-
त्युक्तम् । अध्येतृपरम्पराविच्छेदाभावात्प्रलयानुपपत्तिमाशङ्कयाह—न चेति । अन्यत्रासक्तिः
प्रमादः तत्रानासक्तिरालस्यम् आदिशब्देन विघ्नयोगादिभिरव्यापकपुरुषक्षयाच्च स्वल्पो
वेदाध्येतॄणां विषयो दृश्यत इत्यर्थः । सत्रीजत्वायास्य पक्षस्य पूर्वोक्तं दोषं परिहरति—
न चेति ।
स्वमतमाह—यद्वेति । अस्मिन्मतेऽनुपलब्धिविरोधं परिहर्तुमनुभाषते—कथमिति ।
परिहति—उच्यत इति । नानादेशपाठ्यमानानां शाखानां प्रमादिभिः पुरुषैस्तद्देशागमनाच्छ्रो-
तुमशक्तेस्तद्गतश्रुत्यनुपलब्धिसंभवः ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें