मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 322, कुल 804 में से
संदर्भ में पढ़ें२७० मीमांसादर्शनम् [ सू०
व्याख्यातः, तदुपपादयितुमाह मन्वादीनां चेति । प्रत्यक्षत्वे मन्वादीनां तत्स्मृतिमूलविज्ञान-
मूलस्य द्रष्टुं शक्यत्वाददृष्टकल्पनानुपपत्ते रप्रत्यक्षत्वादित्युक्तम् ।
ननु कल्पनानामादृष्टं विज्ञानकारणं अतत्तु चोदनाख्यमेवेति कथमध्यवसीयतेऽत आह -
तत्रेति । श्लोकं व्याचष्टे—सर्वत्रैवेति । भ्रान्तेस्तावद् दृष्टानुगुण्येनसाध्यत्वमाह—तत्रेति ।
सम्यङ्निबद्धाच्छास्त्राद्यष्टकादीनां धर्मत्वदर्शनं तद्विरोधापत्तिरित्यर्थः । मन्वादीनामिति
कर्त्तरि षष्ठी । स्मृतिग्रन्थग्राहिणः पुरुषात्प्रति स्वज्ञानस्य भ्रान्तस्यापि भ्रान्तत्वपरिहारोपन्यासो
मन्वादिकर्त्तृकः कल्प्यत इति शेषः । अनुभवस्याह—अनुभवेऽपीति । पुंवाक्यस्याह—
पुष्येति । विप्रलम्भनस्याह -तथेति । अनुवृत्तिहेतोर्भ्रान्तत्वपरिहारोपन्यासस्या दिशब्देनो-
पादानं विप्रलम्भे न केवलमनेकादृष्टकल्पनाप्रसङ्गः किं तु दृष्टप्रामाण्यविरोधोऽपीत्याह—
उत्पन्नस्य चेति । चोदनायास्तु दृष्टानुगुण्येन साध्यत्वाज्ज्यायसी कल्पनेत्याह – तस्मादिति ।
ननु चोदनाकल्पने दृष्टानुगुण्यसाध्यत्वस्य हेतुत्वे, कर्तृसामान्यादिति सौत्रं हेत्वभिधानम-
नर्थकं स्यादित्याशङ्क्य सम्भावनामात्रेऽसौ हेतुनं निर्णायक इति सूचयितुं मन्वादीनां
विज्ञानस्य चोदनामूलत्वसम्भावना माह— सम्भाव्यते चेति । एतमेवार्थं वक्ष्यमाणभाष्यारूढं
करोति—तदर्थमेवाहेति । नन्वेवमप्यनेनैव हेतुना चोदनामूलनिर्णये सिद्धे किमसाधकेन
सम्भावनामात्रहेतुनेत्याशङ्क्य म्लेच्छस्मृतिवैषम्यप्रदर्शनांर्थः सम्भावनाहेतूपन्यास इति
सूचयितुं म्लेच्छाद्यंस्मृत्योर्वैषम्यमाह - यानि पुनरिति । अनुभवपुंवाक्यपरम्परयोमिथ्यात्व-
हेतुतामापाद्य चतुष्ट्योक्तिः ।
प्रत्यक्षानुपलब्धे चेति श्लोकोक्तं योग्यानुपलम्भविरोधं परिहर्तुमनुभाषते — यत्त्विति ।
परेषां परिहारं दूषयितुमुपन्यस्यति - तत्रेति । अनुच्चरितानामज्ञातत्वेनाबोधकत्वान्मूलत्वानु-
पपत्तिमाशङ्कते—कथमिति । मन्वादिभिरप्यस्मदादिवत्पूर्वाचार्यस्मरणान्यथानुपपत्त्यानुच्च-
रितानामपि ज्ञातुं शक्यत्वान्मूलत्वोपपत्तिरिति परिहरति — नैष इति । पूर्वाचार्याणामपि
चोदनोपलम्भं विना कुतः स्मरणमित्याशङ्क्य पारम्पर्येणेत्युक्तम् । एवं सत्यनवस्थापत्ति-
माशङ्क्य पाठाविच्छेदवदित्युक्तम् । एकपुरुषपाठस्या विश्रम्भणीयत्वेन चोदनायाथात्म्य-
निश्चायकत्वायोगात्पारम्पर्याविच्छेदेनैव निश्चायकत्वमङ्गीकार्यमनादित्वाच्चानवस्थादोषाभावः
तद्वदत्रापीत्याशयः । एतदेव विवृणोति—यथैव हीति । प्रतिस्मर्तृपूर्वपूर्वाचार्यस्मरणान्यथानु-
पपत्त्या श्रुतिज्ञानम्, तथैव प्रतिज्ञायेत्यर्थः ।
इमं परिहारं दूषयति - तत्त्विति । अयमाशयः :- यद्यप्यष्टकादिकर्त्तव्यत्वस्मरणस्य
पूर्वविज्ञानायत्तत्वात्तस्य च श्रुतिज्ञानं विनानुपपत्तेर्मन्वादीनां श्रुतिज्ञानं कल्प्यते, तथाप्य-
नुच्चरितानां प्रत्यक्षत्वायोगाद्व्याप्त्याद्यभावेन चानुमानाद्यप्रवृत्तेर्मूलप्रमाणासम्भवात्स्वप्ना-
दिमूलापत्तेर्न श्रुत्यस्तित्वनिश्चयोपपत्तिरिति । दृष्टान्तवैषम्यमाह--लिङ्गादीनां त्विति ।
स्मृतेरनित्यत्वेन पूर्वज्ञानापेक्षात्वात्तस्य चानुच्चरितश्रुतिज्ञानासम्भावेनानुपपत्तेः पारिशे-
ष्याद् भ्रान्त्यादिमूलत्वापत्तिसूचनार्थं लिङ्गादीनां नित्यत्वाभिधानम् ।