सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 317, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 317

२ ] प्रथमाध्याये तृतीयपादः ३६५
तस्मात्सर्वेभ्यश्चोदनाकल्पनैव ज्यायसी । तत्र हि तन्मात्रदृष्टाभ्युपगमः ।
शेषास्तु महाजनपरिग्रहादयः सर्वेऽनुविधीयन्ते । संभाव्यते च मन्वादीनां चोदना
पूर्वविज्ञानकारणत्वेन । तदर्थमेवाऽऽह—तेनोपपन्नो वेदसंयोगस्त्रैवर्णिकानामिति ।
यानि पुनरनुपपन्नवेदसंभावनानां म्लेच्छादीनामतीन्द्रियार्थस्मरणानि, तेषां
मूलकल्पनावेलयामेव चोदना संभावनापदं नाऽऽरूढेति, मिथ्यात्वहेतुभूतचतुष्टय-
पारिशेष्यादप्रमाणत्वम् । संभावितायां पुनश्चोदनायां कारणान्तरनिषेधे कृते
निर्मूलत्वासंभवात्परिशेषसिद्धं चोदनामूलत्वम् ।
यत्तु किमर्थं चोदना नोपलभ्यन्त इति । तत्र केचिदाहुः । नित्यानुमेयास्ता
न कदाचिदुच्चार्यन्ते । यथालिङ्गादिकल्पिताः । कथमनुच्चारितानां मूलत्वोप-
पत्तिरिरिति चेत् ? नैष दोषः । पाठविच्छेदवत्पारम्पर्येण स्मरणात्तत्सिद्धेः । यथैव
हि ग्रन्थः संप्रदायादविच्छिन्नोऽस्तित्वं भजते, तथैव प्रतिज्ञया नित्यानुमेयश्रुति-
संप्रदायाविच्छेदसिद्धिः । तत्तवयुक्तम् । अन्धपरम्परान्यायादेव । या हि चोदना
न कदाचिदुच्चार्यते, तस्याः सर्वपुरुषप्रत्यक्षादिप्रसराभावाद् दुर्लभतरमस्तित्वम् ।
तथा च स्मृतेरपि सैव बन्ध्यादौहित्रतुल्यता । लिङ्गादीनां तु नित्यत्वान्नित्य-
मनुच्चरितश्रुत्यनुमानकारणत्वमविरुद्धम् । तेन वरं प्रलीनश्रुत्यनुमानमेव । न च
प्रलयो न संभाव्यते । दृश्यते हि प्रमादालस्यादिभिः पुरुषक्षयाच्चाल्पविषयत्वस्
न चैवं सति यत्किंचित्प्रमाणमापत्स्यते । शिष्टत्रैवर्णिकदृढस्मरणान्यथानुपपत्ति-
लभ्यत्वाच्छ्रुत्यनुमानस्य ।
यद्वा विद्यमानशाखागतश्रुतिमूलत्वमेवास्तु । कथमनुपलब्धिरिति चेत् ?
उच्यते—
शाखानां विप्रकीर्णत्वात्पुरुषाणां प्रमादतः ।
नानाप्रकरणस्थत्वात्स्मृतेर्मूलं न दृश्यते ॥ १६ ॥
यत्तु किमर्थं वेदवाक्यान्येव नोपसंगृहीतानीति, संप्रदायविनाशभीतेः ।
विशिष्टानुपूर्व्या व्यवस्थितो हि स्वाध्यायोऽध्येतव्यः श्रूयते । स्मार्ताश्चाऽऽचाराः
केचित्क्वचित्कस्यांचिच्छाखायाम् । तत्रापि तु केचित्पुरुषमेवाधिकृत्याऽऽस्म्ना-
यन्ते । येन क्रतुप्रकरणास्म्नाताः केनचिन्निमित्तेनोत्कृष्यमाणाः पुरुषधर्मतां भजन्ते ।
यथा ‘मलवद्वाससा सह न संवदेत’ (तै० सं० २।५।१) । ‘तस्मान्न ब्राह्मणाय-
वगुर्तेत’ (तै० सं० २।६।१०) । इत्येवमादयः । तत्र यदि तावत्तान्येव वाक्यान्यु-
द्धृत्याध्यापयेयुः ततः क्रमान्यत्वात्स्वाध्यायविधिविरोधः स्यात् । अनेन च
निर्देशेनान्येऽप्यर्थवादोद्धारेण विधिमात्रमधीयीरन्कर्मौपयिकमात्रं वा । तत्र
वेदप्रलयः प्रसज्येत ।
न चावश्यं मन्वादयः सर्वशाखाध्यायिनः । तं हि प्रयत्नेन शाखान्तराध्या-
यिभ्यः श्रुत्वाऽर्थमात्रं स्ववाक्यैरविस्मरणार्थं निबध्नीयुः । न च वाक्यविशेषो