मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 313, कुल 804 में से
संदर्भ में पढ़ें२ ] प्रथमाध्याये तृतीयपादः २६१
ननूत्सर्गातः स्मृतेः श्रुतिमूलत्वदर्शनात् कथं मूलान्तरकल्पनेति पृच्छति—
कथमिति । यथा अमावास्यायामपराह्णे पिण्डपितृयज्ञेन चरन्तीति कालवाच्यमा-
वास्याशब्दविरोधात् पितृयज्ञस्य दर्शाङ्गत्वस्मरणं दुःश्रुतमूलम्, तथेहापि श्रुति-
विरोधदर्शनात् मूलान्तरसंभावना अयुक्तेति परिहरति—श्रौतेति ।
ननु स्मृत्यनुमिततया श्रुत्या सह प्रत्यक्षश्रुतेः विकल्पाङ्गीकरणेऽपि विरोधस्य
परिहारान्न युक्ता मूलान्तरकल्पनेति चोदयति—अथेति । तुल्यबलयोः विकल्पोप-
पत्तिं दृष्टान्तेनाह—ब्रीहीति । बुद्धिसाम्यदार्थ्याय दृष्टान्तान्तरं यथा व्रीहियवयोः
पुरोडाशसाधने, बृहद्रथन्तरयोर्वा पृष्ठसामप्रयोगे विकल्पः, तथा स्पर्शनवेष्टन-
योरप्यौदुम्बर्यां विकल्पः किं न स्यादित्यर्थः, विकल्पाङ्गीकरणेऽपि स्पर्शनवेष्ट-
नयोः युगपदनुष्ठानासंभवात् न विरोधः परिह्रियेत । सति च विरोधे स्मृतेस्तद-
नुमितया वा श्रुतेर्दुर्बलतया प्रत्यक्षश्रुत्या प्रथममनुष्ठापयन्त्या बाधात् स्मृत्तावेव
व्यामोहत्वमवतिष्ठेतेति, न विकल्पावकाश इति मन्वानो निरस्यति—नासतीति ।
व्यामोहविज्ञाने व्यामोहरूपविज्ञान इत्यर्थः, अन्यतरव्यामोहत्वावश्यंभावमेव
स्फुटीकरोति—यदि सर्वेति । स्पर्शनम् स्पृष्ट्वोद्गायेदिति वाक्यजनितज्ञानम् ।
एवं विरोधापादनेन विकल्पपदवीमनारूढाया एव स्मृतेः श्रुत्यबाधमुपपाद्य,
विकल्पपदवीं गताया अपि पाक्षिकेणाप्यनननुष्ठापकत्वेन सर्वदैव मूलश्रुत्यदर्शना-
वस्थायामप्रामाण्यमुपपादयति—विकल्पं त्विति । ततः किं तत्राह—तस्येति ।
तथापि किमत आह—सा चेदिति । तदा तावत् स्मृतेः मूलश्रुत्यदर्शनाद् दुः-
श्रुतादिमूलतां प्रत्यक्षा श्रुतिः संभावयति, तादृश्या च स्मृत्या सकृदप्यनुमतं
प्रामाण्यं न कदाचिदपि श्रौतं विज्ञानं जहाति इत्यपाक्षिकत्वमित्यर्थः । सर्ववेष्ट-
नस्मरणस्य चाप्रामाण्यग्रस्तस्य प्रत्यक्षश्रुतिदर्शनं विना पुनरुज्जीवनासंभवाद-
पाक्षिकत्वमित्याह—अपाक्षिकं चेति । चकारस्मरणं चेति सम्बन्धनीयः, स्मरणा-
प्रामाण्यस्यापाक्षिकत्वमुपपादयति—पक्ष इति । तावच्छब्दो विकल्पवादिसम्मति-
प्रदर्शनार्थः बाधितत्वादिति । सर्ववेष्टनविरोधिनः स्पर्शनस्यानुष्ठापितत्वादित्यर्थः ।
अस्तु तर्हि स्मृतिप्रामाण्यपक्षे मूलानुमानमत आह—अव्यामोहे चेति । तस्मिन्
स्पर्शनविज्ञानेऽव्यामोहे सति पक्षान्तरेऽपि न शक्या श्रुतिः कल्पयितुमित्यर्थः ।
ननु पक्षान्तरे स्पर्शनश्रुतेः व्यामोहत्वात् स्मृतिमूलश्रुत्यनुमानं भविष्यती-
त्याशङ्क्याह—न चेति । असौ-स्पर्शनश्रुतिः । तत्र हेतुः—यदिर्ति । निरपेक्षा-
नुष्ठापकत्वस्येति तस्य अव्यामोहकत्वस्य । ततः किमत आह—एकस्मिन्निति ।
श्रुतिप्रामाण्येति । एकदाप्यनुष्ठापकतया लब्धप्रामाण्या श्रुतिः न प्रत्यक्षश्रुत्यन्तर-
दर्शनमन्तरेण व्यामोही भविष्यतीति भावः ।
तुल्यत्वमुपपादयति—न चेति । अपि तर्हि पक्षद्वयेऽपीत्यर्थः, न च स्पर्शन-
श्रुतेः प्रमादपाठत्वेनाननुष्ठापकत्वं शङ्कनीयमित्याह—निबद्धेति । एकरूपदृढ-