मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 305, कुल 804 में से
संदर्भ में पढ़ें१ ] प्रथमाध्याये तृतीयपादः २५३
माणोऽर्थस्यावधिर्यासामिति षष्ठीतत्पुरुषगर्भबहुव्रीहिः । सिद्धान्तोपयोगिविशेषणं मन्वादि-
प्रणीतो ग्रन्थो निबन्धनं यासामिति शिष्टप्रणीतत्वं मन्वादिप्रणीतनिबन्धनास्वित्यनेन
प्रामाण्योपयोगिविशेषणमुक्तम् । आचारग्रहणेनाशब्दत्वपूर्वपक्षहेतुकतृ'सामान्यसिद्धान्तहेतु-
साम्यादाचाराणामप्यधिकरणविषयत्वमुक्तम् ।
ननु यत्रेत्यादिभाष्येणैव विषयावगतिसिद्धेः, तत्स्वरूप तस्य च विशेषस्यात्राविचार्य-
त्वादष्टकादिस्वरूपोदाहरणं व्यर्थमित्याशङ्कयाह—तत्रेति । स्वरूपगतविशेषाविचारेऽप्युदा-
हरणविशेषं विना नैराकाङ्क्षयमावादष्टकाद्युदाहरणमिति भावः ।
मन्वादिस्थानां स्मरणानामन्येन ज्ञातुमशक्यत्वात्कथं विचारविषयत्वमित्याशङ्क्य
तद्ग्रन्थसमर्पितानीत्युक्तम् । विषयप्रदर्शनार्थतया भाष्यं व्याख्याय सन्देहहेतुश्नानेन भाष्येणा-
भिधीयत इत्याह—सन्देहेति । कथमित्यपेक्षिते पूर्वपक्षप्रतिमानार्थत्वेन यत्रेति भाष्यं
व्याचष्टे—पारतन्त्र्यादिति । सिद्धान्तप्रतिमानार्थत्वेनाऽद्य वेति भाष्यं व्याचष्टे-अप्रामाण्येति ।
श्लोकं विवृणोति—मन्वादीति । (शब्दानामर्थपरत्वे स्वतः प्रामाण्ये च सत्यपि वक्तृ-
ज्ञानानुमानं विनार्थामावव्युदासरूपपरिच्छेदाख्यविज्ञानानुत्पादकत्वाद्, ज्ञानमात्रस्य च
प्रामाण्याभावाद्वक्तृज्ञानानुमानद्वारा विज्ञानोत्पादकत्वावगतेर्मन्वादिवचनस्य स्मृत्यपेक्षतोक्ता
भाष्यकृता । आचाराणामप्युदाहरणत्वसिद्धयै वाक्यात्युदाहरणेऽपि पूर्वोत्तरपक्षहेतुसाम्या-
तेषामप्युदाहरणत्वोपपत्तिसूचनार्थं वचनोक्तिः ।) तदुच्यत इति पूर्वपक्षभाष्यं व्याचष्टे—
तत्रेति । पूर्वविज्ञानमूलप्रमाणम्, तस्य यो विषयः, स एवास्येति पूर्वविज्ञानविषयविषय-
मित्येकोऽत्र विषयशब्दो लुप्तो द्रष्टव्यः । श्लोकं विवृणोति—सर्वेति ।
ननु शब्द एवात्र मूलप्रमाणं भविष्यत्यत आह—शब्दोऽपीति । ननु प्रत्यक्षानुप-
लब्धोऽपि कल्पयिष्यत्यत आह—प्रत्यक्षेति । प्रमाणशब्देन भावव्युत्पत्त्या कल्पनमभिप्रेतम् ।
तदेव तावन्निष्प्रमाणकत्वात्कल्पाद्धर्मास्तित्वाद्विप्रकृष्टं दूरे न तत्स्पृशतीत्यर्थः, योग्या-
नुपलब्ध्यभावाद्धर्मास्तित्वकल्पनापेक्षयाऽसन्कृष्टं धर्मास्तित्वं शब्दास्तित्वस्य
योग्यप्रत्यक्षानुदयेनामावनिश्चयात्तत्कल्पना विप्रकृष्टतरा । श्लोकं व्याचष्टे - शब्दस्य
तावदिति । अभ्युपगतमित्यनेन कल्पनार्थत्वेन प्रमाणशब्दो व्याख्यातः । नन्वतु-
मानादिनापि शब्दावगतिसम्भवात्प्रत्यक्षमेव प्रमाणमित्ययुक्तमुक्तमत आह—न चेति ।
श्लोकं व्याचष्टे—यथैवेति । आगमं निराकरोति—न चेति । कृतके नास्ति विश्रम्भ
इत्येतद्व्याचष्टे—यद्यपीति । दुष्टैः प्रतारकैः पुरुषैराकुलितं भ्रमितं चेतो येषाम् =
अस्मादीनामित्यर्थः । 'नित्यो नैवोपपद्यते' इत्येतद्व्याचष्टे-नित्यस्य त्विति ।
नन्वन्विव प्रपेत्यादिमन्त्रलिङ्गानां प्रपादिसमृतिमूलत्वदर्शनाद्वेदमूलत्वाभिधायिनां
मन्वादीनां तद्दृष्टान्तेन सत्यवादित्वावगतेः कृतके नास्ति विश्रम्भ इत्ययुक्तमत आह—
न चेति । एवं र्तार्ह मूलान्तरसूचकत्वान्नित्यो नैवोपपद्यत इत्युक्तमत आह—न चेति ।
कर्त्तव्यतानुवादे विधिसूचनं स्यात् स्वरूपमात्रानुवादस्तु यहच्छासिद्धप्रपादिविषयत्वेनोपपन्नो
य विध्याक्षेपकमित्याशयः ।