सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 312, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 312

२६० मीमांसादर्शनम् [ सू०
गृहीतत्वेन च संभवद्वेदमूलानुमानानामुपपद्यत एव प्रामाण्यम्, आचाराणामपि
प्रत्यक्षश्रुतिस्मृतिविहिताग्निहोत्रादिसमानकर्तृकतया संभवद्वेदादिमूलानामुपपद्यत
एव प्रामाण्यम्, न च प्रत्यक्षश्रुतिस्मृतिविरोधात्स्मृत्याचारेण वा श्रुत्यनुमानम्,
स्मृत्यनुमानं वा न संभवतीति सांप्रतं व्रीहियवश्रुतिवत् विरुद्धश्रुतिस्मृतिद्वय-
संभवेन स्मृत्याचारेण वा तदनुमानोपपत्तेरित्यभिसन्धिः ।
तत्र तावत् सर्ववेष्टनादिस्मृतीनां पूर्वोक्तनीत्या अबोधकत्वादिलक्षणाप्रामाण्या-
भावमङ्गीकृत्यैवानुष्ठापकत्वलक्षणमप्रामाण्यं दर्शयन् सिद्धान्तमाह—एवमित्या-
दिना । श्रुत्यवगतस्पर्शनविरोधेन सर्ववेष्टनस्यानुष्ठातुमशक्यत्वात् तद्विषय-
स्मरणं व्यामोहोऽप्रमाणम् अनुष्ठापकमित्यवगम्यत इत्यर्थः ।
ननु वस्त्रान्तरितौदुम्बरीस्पर्शेऽपि औदुम्बरी स्पृष्टेति बुद्धिदर्शनात् कथं
स्पर्शनसर्ववेष्टनयोः कलह इति शङ्कते—कथमिति । अपि च स्पर्शनं हि त्वगिन्द्रि-
येण स्पृश्यसंवेदनम्, न च वस्त्रान्तरितायाः तत्संभवः, तद्बुद्धिस्तु गौण्यपि स्यादि-
त्याह—न शक्येति । यद्यदुम्बरीसंबद्धवासःस्पर्शात् सा स्पृष्टेत्यभिधीयेत, तदा
भूमिस्पर्शनापि तत्सिद्धेः वृथा स्पर्शविधिः स्यादिति परिहरति—स्पर्शेति१ ।
ननु सत्यपि विरोधे स्पर्शश्रुतेरेव व्यामोहत्वं किं न स्यादित्याशङ्क्य बल-
वद्बाधकाभावादित्याह—तामिति ।
ननु सर्वशब्दपर्यायपरिशब्दोपेता स्मृतिरेव सर्ववेष्टनं विनानुपपद्यमाना स्पृष्ट-
स्पर्शोऽपि कथंचिदुपपद्यमानायाः स्पर्शश्रुतेः बाधिका भविष्यतीति चोदयति—
सर्वेति । अपरिदृश्यमानमूलतया दुर्बलत्वान्न स्मृतेः बाधकत्वमित्युत्तरमाह—
नन्विति । अनुमीयमानश्रुतिमूलतया बाधकत्वमाशङ्कते—वैदिकमिति । निराह—
भवेदिति । अयमर्थः यदि स्पर्शनविधायकं वाक्यं व्यामोहः, तर्हि स्मृतिरनुष्ठापक-
तया वैदिकं वचनमनुमापयेत्, यदा तु स्पर्शनश्रुतेरेव प्रत्यक्षायाः प्रथमतरेवा-
व्यामोहत्वमनुष्ठापकत्वम्, तदा सर्ववेष्टनानुष्ठानस्याशक्यत्वात् अनुपपन्नं मूलवेदानु-
मानमिति । यथानुष्ठेये स्मृत्यर्थे प्रत्यक्षमूलमघटमानत्वान्न कल्प्यते, तथा वैदिक-
मपि वाक्यं न कल्प्यमनुष्ठानस्यान्यथासिद्धत्वेनानुपपत्तेरविशेषादित्याह—यथेति ।
तदनेनैवं सूत्रं व्याख्यातं विरोधे श्रुतिस्मृत्योर्विरोधे यदनपेक्ष्यं अपेक्ष्यमाण-
प्रमाणान्तरशून्यं श्रुतिवाक्यम् तदेव प्रमाणमनुष्ठापकं स्यात् । असति हि स्वप्रत्यक्षे
स्मृतिमूलवेदविषयपरप्रत्यक्षानुमानं भवेदिति । ननु श्रुतिस्मृतिद्वयदर्शिनोऽनपेक्ष-
श्रुतिबलादेवानुष्ठानसिद्धेः स्मृतिमूलवेदानुमानवैयर्थ्येऽपि पौरुषेयवाक्यतया मूलापे-
क्षायां तदनुमानमिति शङ्कते—कथं तर्हीति । अगं वा समभिव्याहाराद्वेदमधीत्य
स्नायादित्यादाविव दुःश्रुतस्य स्वप्नस्य न्यायाभासस्य वा मूलत्वशङ्कासंभवान्मै-
वमिति पराकरोति—व्यामोहादिति ।
१. स्पर्शनेति व्याख्याने पाठः ।