सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 320, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 320

२६८ मीमांसादर्शनम् [ सू०
एवं कल्पसूत्रेष्वर्थवादादिमिश्रशाखान्तरविप्रकीर्णन्यायलभ्यविध्युपसंहारफल-
मर्थनिरूपणं तत्तत्प्रमाणमङ्गीकृतम् । लोकव्यवहारपूर्वकाश्च केचिदृत्विगादिव्यव-
हाराः सुखार्थहेतुत्वेनाऽऽश्रिताः ।
व्याकरणेऽपि शब्दापशब्दविभागज्ञानं साक्षाद्वृक्षादिविभागवत्प्रत्यक्षनिमि-
त्तम् । साधुशब्दप्रयोगात्फलसिद्धिरपशब्देन तु फलवैगुण्यं भवतीति वैदिकम् ।
छन्दोविचित्यामपि गायत्र्यादिविवेको लोकवेदयोः पूर्ववदेव प्रत्यक्षः ।
तज्ज्ञानपूर्वकप्रयोगात्तु फलमिति श्रौतम् । तथा चानिष्टं श्रूयते यो ह वाऽविदिता-
र्षेयच्छन्दोदैवतब्राह्मणेन मन्त्रेण यजति, याजयति वेत्यादि ।
ज्योतिःशास्त्रेऽपि युगपरिवर्तपरिमाणद्वारेण चन्द्रादित्यादिगतिविभागेन
तिथिनक्षत्रज्ञानमविच्छिन्नसंप्रदायगणितानुमानमूलं ग्रहसौस्थ्यदौस्थ्यनिमित्तपूर्व-
कृतशुभाशुभकर्मफलविपाकसूचनं तद्गतशान्त्यादिविधानद्वारेण वेदमूलम् । एतेन
सामुद्रवास्तुविद्यापि व्याख्यातम् । ईदृशा वा विधयः सर्वत्रानुमातव्याः । ईदृशे
गृहशरीरादिसंनिवेशे सत्येतदेतच्च प्रतिपत्तव्यमिति ।
मीमांसा तु लोकादेव प्रत्यक्षानुमानादिभिरविच्छिन्नसंप्रदायपण्डितव्यवहारैः
प्रवृत्ता । न हि कश्चिदपि प्रथममेतावन्तं युक्तिकलापमुपसंहर्तुं क्षमः ।
एतेन न्यायविस्तरं व्याचक्षीत ॥
विषयो वेदवाक्यानां पदार्थैः प्रतिपाद्यते ।
ते च जात्यादिभेदेन संकीर्णा लोकवर्त्मनि ॥ १८ ।
स्वलक्षणविविक्तैस्तैः प्रत्यक्षादिभिरञ्जसा ।
परीक्षकार्पितैः शक्याः प्रविवेक्तुं न तु स्वतः ॥ १९ ।
वेदोऽपि विप्रकीर्णात्मा प्रत्यक्षाद्यवधारितः ।
स्वार्थं साधयतीत्येवं ज्ञेयास्ते न्यायविस्तरात् ॥ २० ।
तथा च मानवेऽप्यभिहितम्-
प्रत्यक्षमनुमानं च शाब्दं च विविधागमम् ।
त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सताम् ॥
तथा-यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः ॥
इत्यादिभिस्तर्कविशुद्धिराश्रिता ।
प्रायेण च मनुष्याणामधर्मभूयिष्ठत्वात्तज्ज्ञानप्रतिबद्धाः प्रतिभास्तेषु तेषु
कुमार्गेषु प्रवर्तन्ते । तत्र लोकार्थवादोपनिषत्प्रसूतैस्तर्कशास्त्रैः सर्वविप्रतिपत्तिमुख-
प्रदर्शनम् । तदुपपत्तयस्तद्बलाबलपूर्वकं च निश्चयद्वारं कथ्यते । अन्यथा पुनः-