मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 311, कुल 804 में से
संदर्भ में पढ़ें२ ] प्रथमाध्यायस्य तृतीयपादः -१५९
प्रपा असीदि, ति। तथा, 'स्थल्योदकं परिगृह्णन्तो' ति च गोत्रचिह्नं शिखाकर्म,
दर्शनं च यत्र 'बाणाः संपतन्ति कुमारा विशिखा इवे, ति । तेन ये दृष्टार्थाः ते तत
एव प्रमाणम् । ये त्वदृष्टार्थाः सिद्धान्ताः तेषु वैदिकशब्दानुमानमिति ॥ २ ॥
स्मृत्याधिकरणम् ॥ १ ॥
भा० वि०—यद्युत्सर्गंतः प्रामाण्यं स्मृतीनामाचाराणां च श्रुतिमूलतया
प्रामाण्यम्, अथ प्रत्यक्षवेदविरोधेऽपि स्यादितिशङ्कानिराकरणात् सङ्गतिम्थशब्देन
सूचयन् विषयमाह - अथेत्यादिना । यत्रेति सामान्यनिर्देशाद्यावत्स्मृत्याचाररूपं
प्रत्यक्षश्रुतिविरुद्धं तत्सर्वमत्रोदाहरणमिति सूचितम् । कथंशब्देन किं तादृगपि
धर्मे प्रमाणतयावधार्यते, तद्व्यतिरिक्तमेवेति तुल्यं मूलत्वतदभावाभ्यां
संशयस्सूचितः । विचारप्रयोजनं तु विरोधे श्रौतस्मार्तयोरेवानुष्ठानसिद्धिः, यद्यपि
प्रत्यक्षवेदविरुद्धा इत्येवोदाहर्तव्यम्, अथ च यदा कासांचित् आप्तत्रैवर्णिकप्रणीत-
त्वादिना संभवद्वेदमूलकानामपि प्रत्यक्षवेदविरुद्धार्थत्वन्मूलश्रुत्यनुमानेनानुष्ठाप-
कत्वासंभवादप्रामाण्यम् तदा किमु वक्तव्यमसंभवद्वेदमूलानां शाक्यादिस्मृतीना-
मिति मत्वा तादृशीरुदाहरति - अथेत्यादिना, यद्यपि सर्ववेष्टनस्मरणमूलस्य
तामुर्ध्वदेशेन वाससा परिवेष्टयन्ति इति शाठ्यानि शाखागतस्य क्रीतराजक-
भोज्यान्नत्वस्मरणमूलत्वस्य च तस्माद्दीक्षितस्य विज्ञातस्य क्रीतराजकस्य भोज्यं
भवतीति आथर्वणगतस्य 'प्रत्यक्षत्वेनाननुमेयत्वात् न तन्मूलस्मृतेः प्रत्यक्षश्रुत्या
बाधः, तथापि कदाचित् केषांचित् तदप्रत्यक्षसंभवात्, तदानीं तान् प्रतीदं
बाध्योदाहरणमेवेति मत्वोदाजहार । यद्यपि मध्यमोदाहरणमपि—
'वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम् ।
अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत्' ॥ अ० ३. श्लो. २
इति मनुवचनानुगृहीतया—
“द्वादशवर्षाण्येकवेदे ब्रह्मचर्यं चरेत्”
इत्यनया गौतमस्मृत्यैव कृष्णकेशश्रुत्यनुकूल्या द्वादशवर्षब्रह्मचर्यपक्षस्य गार्ह-
स्थ्ययोगं प्रति विहितत्वात् अष्टाचत्वारिंशद्वर्षपक्षस्य तदयोग्यं प्रति विधानेन
व्यवस्थितविषयत्वान्न कृष्णकेशश्रुतिबाध्यत्वम्, अथापि श्रुतिस्मृत्योरेकविषयत्वं
मन्वानं प्रति संभवत्येव बाध्योदाहरणत्वमिति ध्यात्वोदाहृतम्, अत्र चाद्ययो-
रुदाहरणयोः स्मृत्यर्थविरोधद्वारा स्मृत्योरेव श्रुतिभ्यां विरोधोऽभिमतः ।
सम्प्रति पूर्वाधिकरणसिद्धान्तन्यायेन पूर्वपक्षमाह - तदित्यादिना । वेदस्मृति-
विरुद्धमपि स्मरणमित्यर्थः, औदुम्बरीवेष्टनादिविषयाणां तावत् सूत्रकारादि-
वचनानां शिष्टत्रैवर्णिकप्रणीततया, तत्परिगृहीततया च संभवद्वेदमूलत्वाद्युक्तं
प्रामाण्यं बौद्धादिस्मृतीनामपि संभवद्वेदसंयोगत्रैवर्णिकप्रणीतत्वेन, महाजनपरि-
१. यस्य वापेक्षणीयमन्यन्नास्ति, तत्प्रमाणमिति व्याख्यातमिति बोध्यम् ।