मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 308, कुल 804 में से
संदर्भ में पढ़ें१५४ मीमांसादर्शनम् [ सू०
नन्वयमविधदृष्टान्तोपलब्धो कथमष्टकादिस्मरणस्यान्धपरम्परितुल्यत्वम्, न तु वेदत्व-
स्मृतितुल्यतेति निर्णय इति आशङ्क्य पूर्वविज्ञानकारणाभावादिति भाष्योक्तहेतुव्याख्या-
नार्थं पूर्वोक्तमेव चोदनामूलत्वनिराकरणं स्मारयति- न चेति । मूलसद्भावे प्रमाणं
नास्तीत्युक्त्वा तदभाव एव तु स्मर्त्तव्यास्मरणं प्रमाणमस्तीत्याह-यदि चे.ति । अनेन
चाप्तोक्तिनिबन्धनेषु व्यवहारेषु प्रामाण्यहेतुभूतस्य मूलस्य स्मरणेन व्याप्तत्वाद्द्यापकस्मरणा-
भावेन व्याप्यमूलाभावानुमानमुपन्यस्तम् अर्थापत्तिर्वा व्यवहारार्थिनां व्यवहारहेतुमूलविस्म-
रणानुपपत्तेर्दृश्यादर्शनवद्वा स्मर्त्तव्यास्मरणस्याप्यनवगतपूर्वातीताभावज्ञानकरणतायाः ।
स्वरूपमात्रं दृष्ट्वा च पश्चात्किञ्चित्स्मरन्नपि ।
तत्रान्येनास्तितां पृष्टस्तदेव प्रतिपद्यते ॥ [अ. प्र. श्लो. २८]
इति वदद्भिराचार्यैरिष्टत्वाद्भावाख्यमेव प्रमाणमनेनोपन्यस्तम् ।
नन्वविच्छन्नपारम्पर्यदृढस्मरणमात्रेण व्यवहारसिद्धिरवश्यस्मर्त्तव्यत्वविशेषणाभावात्,
अस्मरणमात्रस्य च चिरवृत्तेषु सत्स्वपि पदार्थेषूपलब्धेरभावात् असाधकत्वान्नास्मरणेन
मूलाभावसिद्धिरित्याशङ्कते-स्यादेतदिति । निर्मूलस्य स्मरणस्याप्रामाण्येन व्यवहारासाध-
कत्वान्मूलस्यावश्यस्मर्त्तव्यत्वं साधयति - तदयुक्तमिति । अवश्यसमर्पणीयासमर्पणादपि
स्मृतिमूलभूतानां चोदनानामभावोऽवसीयेत इत्याह-अपि चेति । ननु स्वयंदृष्टस्य मूलस्या-
वश्यसमर्पणीयत्वं भवेत् मन्वादिभिस्तु स्मृतिमूलभूतानां चोदनानां स्वयमदृष्टत्वादशक्यं
समर्पणमित्याशङ्क्याह-यदि हीति । एवमपि मन्वादिभ्यः पूर्वैराचार्यैः स्वयंदृष्टत्वे
समर्पणीयत्वापत्तेः, अदृष्टत्वे वा नित्यानुमेयत्वापत्तेस्तस्य च निराकरिष्यमाणत्वान्निर्मूल-
त्वमेव वलादापद्यतेति भावः
ननु पूर्वाचार्यैः समर्पितमपि स्मृतेर्मूलं प्रलीनत्वेन मन्वादिभिः स्वयमदृष्टत्वान्न
समर्प्यतेऽत्र आह--यदि त्विति । ननु मन्वादिभिः स्वयं दृष्टानामपि मूलानामन्यैरपि
स्वयं दृष्टत्वादसमर्पणमित्याशङ्क्यास्मिन्पक्षे स्मृतिप्रणयनवैयर्थ्यमाह-अथेति । इतश्च
वैयर्थ्यमित्याह-युक्ततरा चेति । किं चान्यैः स्वयंदृष्टानामुपि वेदवाक्यानां तात्पर्याज्ञानेनेद-
मस्याः स्मृतेर्मूलमिति निर्णतुमशक्यत्वात्तात्पर्यज्ञापनार्थं मन्वादिभिरवश्यं समर्पणं
कर्त्तव्यमित्याह-न चेति । प्रमाणशून्यो मूलविशेषनिर्णयोऽशक्य इति, अन्यथैव
दृष्टान्तमाह-पश्येति ।
ननु-
'यः कश्चित्कस्यचिद्धर्मो मनुना परिकीर्त्तितः ।
स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः ॥'
इति मन्वादिभिः सामान्येन स्वस्मृतीनां वेदमूलत्वाभिधानाद्विशेषामर्पणोऽपि
स्मृत्यनुरूपमूलविशेषनिर्णयो भविष्यत्यत आह-न चेति । अतोऽनादर्त्तव्यमित्युपसंहार-
भाष्यं व्याचष्टे -तस्मादिति ॥ १ ॥