मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
४०६ मीमांसादर्शनम् [ सू०
कीदृशः सन्देह इत्यपेक्षायामाह—एकशब्दमिति । एकः शब्दोऽस्मिन्ननेकार्थोऽस्मिन्निति
द्वावपि बहुव्रीही । आचयंत इति भावेोत्पन्नलकारान्तेनाचरणं क्रियत इत्युक्तम् ।
आचरणमन्यपदार्थः । अक्षादिशब्दवैलक्षण्यप्रतिपादनार्थंविप्रतिपत्तिशब्दव्याख्यानार्थम्—
विगानेनेत्युक्तम् । कोऽर्थं इति, किं द्वावप्युतैक एवेत्यर्थः । ननु शास्त्रानुसारिशिष्ट-
व्यवहारावगतस्यैव वाच्यत्वनिर्णयात्सन्देहो न युक्त इत्याशङ्क्याह—यवेति । अविद्यमान-
प्रयोगारोपसूचनार्थः किलशब्दः वाच्यवाचकसम्बन्धे शास्त्रस्याव्यापारसूचनाय—अनिरू-
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें८ ] प्रथमाध्याये तृतीयपादः ४०७
महाभाष्यकृतैस्तेऽन्ये प्रतिदेशं व्यवस्थिताः ।
उदाहृता धात्वतोऽतो त्रादिशब्दस्तदाशयः ॥
पूर्वपक्षमुपसंहरति—तस्मादिति ।
तेष्वदर्शनादित्युपक्रमसूचनं समेत्यस्य प्रतिज्ञामात्रार्थत्वादुभयशव्दार्थावगम इत्यनेन
तेष्विति सूत्रावयवो हेत्वर्थेन योजितः । तद्व्याचष्टे—एवं चेति । प्रकृतिवदिति हि चोद-
केनार्षं समाम्नायावगतमेव मन्त्ररूपमतिदिश्यते, कार्यप्राधान्यात् तदसम्भवे व्रीह्यादिशब्द-
स्थाने नीवारादिशब्दोहेनानन्यथात्वं कल्प्येत । साधारणशब्दे च न तत्कल्पनापत्तिरित्यर्थः ।
किमिति
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें४०८ मीमांसादर्शनम् [ सू०
वेतसशब्दार्थनिर्णयार्थं वाक्यशेषान्तरोपन्यासभाष्यं व्याचष्टे-एवमिति । त्रिवृदादिशब्दा-
भिप्रायं बहुवचनम् ।
व्युत्पादितप्रामाण्यस्य शिष्टाचारस्यैव परस्परविरोधे साम्यवैषम्यचिन्ता युक्ता ।
नाव्युत्पादितप्रामाण्यस्य म्लेच्छाचारस्य । न क्वचित् शिष्टदेशे यवादिशब्दः प्रियङ्गवा-
दिषु प्रयुज्यत इति मत्वोदाहरणानि दूषयति-नन्वेतानीति । नन्वेतदुदाहरणसम्भवेऽप्यु-
दाहरणान्तरेषु न्यायस्य फलवत्त्वोपपत्तेरुदाहरणदूषणमयुक्तमित्याशङ्कयाह-अध्यारोष्येति ।
उदाहरणान्तरसम्भवे तदेवोदाहार्यं, न त्वसद्ध्यारोपो युक्त इत्याशयः । न
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें८ ] प्रथमाध्याये तृतीयपादः ४०९
वदिति । आर्यम्लेच्छानां प्रयोगिणामिति विग्रहः । तुल्यत्वोपपादनायोत्तराधिकरणसिद्धं
शब्दार्थविषये म्लेच्छाचारस्यापि प्रामाण्यं दर्शयति - सर्वो हीति । आर्यप्रयुक्तवत् म्लेच्छ-
प्रयुक्तस्यापि शब्दस्यार्थप्रत्ययाङ्गत्वप्रदर्शनाथंः सर्वशब्दः ।
ननु गव्यादिशब्दस्यावाचकस्याप्यर्थप्रत्ययायत्वदर्शनान्न तन्मात्रेण म्लेच्छप्रसिद्धे-
रर्थान्तरे यवादिशब्दां वाचकत्वशक्तिः कल्पयितुं शक्येत्याशङ्क्याह - तत्रेति । शक्तेः
कारणाश्रितत्वादर्थप्रत्ययकारणस्य च गव्यादिशब्दस्यादिमत्त्वेनानादिशक्त्याश्रयत्वायोगाद-
वाचकत्वं युक्तम्, यवादिशब्दस्य तु
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें४१० मीमांसादर्शनम्
बाधो मूलश्रुतिदर्शनं यावदुक्तः तथात्रापि वाच्यः। न चानुष्ठानात्मकस्याचारस्यासौ
सम्भवतीति । नन्वाचारस्यापि स्मृतिवच्छ्रुत्यनुमानेनैव प्रामाण्यं न स्वातन्त्र्येण । न च
स्मृत्याचारानुमितयोः श्रुत्योर्बलाबलविशेषोऽस्तीत्याशङ्कयाह — श्रुतिरिति ।
स्मृतेर्वाक्यात्मकत्वेनानेकरूपार्थप्रतिभाने प्रत्यक्षश्रुत्यविरुद्धार्थप्रतिपादनपरश्रुतिकल्पनेन
यथाश्रुतार्थत्यागलक्षणो बाधो युक्तः, आचारस्य त्ववाक्यात्मकत्वेनान्यथात्वकल्पनायोगाद्य-
थाशिष्टैरनुमीयते, तथैवानुष्ठेयमित्यनुष्ठानाख्यफलनिष्ठैव श्रुतिः कल्प्यत इत्याशयः ।
एतदेव विवृणोति — यावद्धीति ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें८ ] प्रथमाध्याये तृतीयपादः ४११
वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः ।
एतच्चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम् ॥ म० २/१२
इति लक्षणशब्दस्य च प्रमाणपरत्वावसायात्प्रौढिमात्रमित्यवगम्यते । भिन्नानामप्याचार-
मूलभूतानां श्रुतीनां मिलितानामेकत्र पाठे तात्पर्यावधारणं सम्भाव्यते, तासां तु नानाप्रक-
रणस्थानां विध्यन्तरशेषत्वेन पठितानां पुरुषधर्माचारविधिपरत्वस्याल्पप्रज्ञैरिदानीन्तनेर्निर्णें-
तुमशक्यत्वाच्छिष्टाचारपारम्पर्यस्मृत्यैव कस्यचिद् बहुवेदविदः प्रज्ञातिशयसम्पन्नस्याचारमूल-
श्रुतितात्पर्यावधारणमासीदिति
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें४१० मीमांसादर्शनम्
बाधो मूलश्रुतिदर्शनं यावदुक्तः तथात्रापि वाच्यः । न चानुष्ठानात्मकस्याचारस्यासौ
सम्भवतीति । नन्वाचारस्यापि स्मृतिवच्छ्रुत्यनुमानेनैव प्रामाण्यं न स्वातन्त्र्येण । न च
स्मृत्याचारानुमितयोः श्रुत्योर्बंलाबलविशेषोऽस्तीत्याशङ्कयाह — श्रुतिरिति ।
स्मृतेर्वाक्यात्मकत्वेनानेकरूपार्थप्रतिमाने प्रत्यक्षश्रुत्यविरुद्धार्थप्रतिपादनपरश्रुतिकल्पनेन
यथाश्रुतार्थत्यागलक्षणो बाधो युक्तः, आचारस्य त्ववाक्यात्मकत्वेनान्यथात्वकल्पनायोगाद्य-
थाशिष्टैरनुमीयते, तथैवानुष्ठेयमित्यनुष्ठानाख्यफलनिष्ठैव श्रुतिः कल्प्यत इत्याशयः ।
एतदेव विवृणोति — यावद्धीति ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें८ ] प्रथमाध्याये तृतीयपादः ४११
वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः ।
एतच्चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम् ॥ म० २/१२
इति लक्षणशब्दस्य च प्रमाणपरत्वावसायात्प्रौढिमात्रमित्यवगम्यते । भिन्नानामप्याचार-
मूलभूतानां श्रुतीनां मिलितानामेकत्र पाठे तात्पर्यावधारणं सम्भाव्यते, तासां तु नानाप्रक-
रणस्थानां विध्यन्तरशेषत्वेन पठितानां पुरुषधर्मचारविधिपरत्वस्याल्पप्रज्ञैरिदानीन्तनेर्निर्ण-
तुमशक्यत्वाच्छिष्टाचारपारम्पर्यस्मृत्यैव कस्यचिद् बहुवेदविदः प्रज्ञातिशयसम्पन्नस्याचारमूल-
श्रुतितात्पर्यावधारणमासीदिति
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें४१२ मीमांसादर्शनम् [ सू०
विक्रमेण स्त्रीधर्मत्वावधारणमाचारपरम्परास्मृत्या विना न शक्यमित्याशयः । अतो
नानाप्रकरणस्थत्वेन पुरुषधर्मविधिपरत्वकल्पनविक्षेपलक्षणाद्विप्रकीर्णत्वाच्छिष्टाचारपारम्पर्यं-
स्मृत्या विनैकार्थे तात्पर्योपसंहारो न सम्भवतीत्युपसंहरति — एवं चेति । ततश्चाचार-
प्रामाण्यस्य सिद्धान्तस्मृत्यन्तरितत्वमित्याह—तेनेति । सिद्धान्तमुपसंहरति त्रिवृदादिशब्दानां
वाक्यशेषवशेनार्थनिर्णयः — तस्मादिति ।
लोकवेदगतयोर्वाशब्दार्थप्रसिद्धयोर्विरोधे साम्यवैषम्यविचारार्थं तेष्वदर्शनादित्यादिसूत्र-
द्वयमिति वर्णकान्तरमाह—त्रिवृदिति
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें८ ] प्रथमाध्याये तृतीयपादः ४१३
किमस्मिन्वर्णके तच्छब्देन परामृष्टमित्यपेक्षिते तेष्विति व्याख्यातम् । पूर्वभावित्वं चावि-
रोधकारणं पूर्वोक्तमभिप्रेतम्, अर्थवादानां चेत्यादिना कारणान्तरमुक्तम् । अर्थवादानां न
पदार्थप्रतीत्यङ्गत्वमवसीयत इत्यन्वयः । हेत्वपेक्षायां संज्ञासंज्ञिसम्बन्धस्य कारणे व्युत्पादने
च व्यापाराभावादित्युक्तम् । तद्धेतुत्वेनान्यपरत्वेऽभिहिते, किं परतेत्यपेक्षायां परोचनाशेष-
त्वमुक्तम् । कथं परोचनेत्यपेक्षिते गुणेत्युक्तम् । वायुक्षेपिष्ठादौ श्रुतिप्रवृत्तिसम्भवात्प्रायग्रह-
णम् । 'आदित्यो यूपो, यजमानः प्रस्तरः, स्वर्गं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें४१४ मीमांसादर्शनम् [ सू०
वमानमित्युक्त्वा स्तोत्रीयानवकाम्नानात्त्रयस्त्रिकपालाः, त्रिवृता स्तोमेन सम्मिता इति च ।
नवानां कपालानां त्रिवृत्ता, स्तोमेन समानवचनात्त्रिवृच्छब्दस्य स्तोत्रीयानवकवाचित्वप्रतीतेर-
त्रोभयसम्भवेऽपि वैदिकत्वसामान्येन स्तोत्रीयानवकविषयत्वावधारणात्स्तोमगतैव पञ्चदश-
त्वादिसंख्या त्रिवृत्संख्यया बाध्यत इति, ‘स्तोमस्य वा तल्लिङ्गत्वादि’तिसूत्रेण सिद्धान्तं
वदतोपपादयिष्यते । प्रसङ्गादादिशब्दोपात्तस्य स्तोमशब्दस्य लोकप्रसिद्धसमुदायमात्र-
वचनत्वातिक्रमेण स्तोत्रीयासमुदायवचनत्वं वेदयाज्ञिक-व्याकरणप्रसिद्धिवलेनाहैवमिति ।
तथाप्यवश्यमेव
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें८ ] प्रथमाध्याये तृतीयपादः ४१५
आश्ववालैक्षवीशब्दयोस्तु समुदायप्रसिद्धेर्बलीयस्त्वेनापि दुर्बललौकिकावयवप्रसिद्धि-
बाधेन काशतन्मूलवाचित्वमेवासीयत इत्याह—आश्ववालेति । ननु दीर्घश्लक्ष्णपत्राणां
काशानामश्वकेशैः सादृश्यादश्ववालशब्दस्य काशेषु गौणप्रयोगोपपत्तेर्न समुदायस्य शक्त्यन्तर-
कल्पनं युक्तमित्यलब्धात्मिकायाः समुदायप्रसिद्धेः कथं बलीयस्त्वमित्याशङ्कयाभ्युपगम्यापि
गौणत्वम्, वेदक्लृप्तत्वाद् बलीयस्त्वमाह—अथापीति । यथा श्येनेन यजेतेति विहिते यागे
सामानाधिकरण्याच्छ्येननामत्वेन प्रसिद्धेरनेकक्तिकल्पनाभयाद्वाच्यवाचकभावानभ्युपगमेऽपि
यथा वै श्येनो
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें४१६ मीमांसादर्शनम् [ सू०
मा० प्र०—'तेषु'=यव आदिशब्दों में । "विप्रतिपत्तिः"=अर्थबोधकता, अर्थात्
वि=विशिष्ट, प्रतिपत्ति अर्थात् ज्ञान अर्थात् शब्दज्ञान या अर्थबोध । "समा"=समान रूप,
अर्थात् तुल्यबलयोः=समबल, "विरोधस्य"="अदर्शनात्"=यतः क्योंकि विरोध अर्थात्
बलाबल नहीं देखा जाता है ।
आर्य और म्लेच्छो के मत में यव आदि की विभिन्न अर्थबोधकता है, वह समान है
अर्थात् तुल्यबलशाली है, क्योंकि, इन स्थलों में विरोध अर्थात् प्राबल्य या
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें९ ] प्रथमाध्याये तृतीयपादः ४१७
भा० वि०—सिद्धान्तमाह—शास्त्रस्येति । एकस्य शब्दस्योभयार्थत्वं तावद-
युक्तम्, अनेकशक्तिकल्पनागौरवात्, शब्दादर्थनवधारणप्रसङ्गात्, विकल्पप्रस-
ङ्गाच्च । अतो न विप्रतिपत्त्योस्समबलतेति । वा शब्दं व्याचष्टे—वा शब्द इति ।
एकत्र मुख्यस्यान्यत्र गौणत्वोपपत्तेश्च नोभयार्थता युक्तेत्याह—यदिति । दीर्घ-
शूकेषु मुख्य इति शेषः, यदि प्रियङ्गुषु मुख्यः सामान्यात् दीर्घशूकेषु भविष्य-
तीत्यर्थः, किं तयोः सादृश्यमत आह—पूर्वसस्य इति । यद्यपि न प्रियङ्गवः
शरत्पक्वा दीर्घशूकपाककालं फाल्गुनं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें४१८ मीमांसादर्शनम् [ सू०
मुख्यत्वे प्रियङ्गुषु गौणत्वे च फलितमाह—(अत१ इति) तस्मादिति२ । पुरोडाश-
शब्दो हविःपरः । वराहवेतसशब्दयोरपि वाक्यशेषाभ्यां सूकरवञ्जुलविषयत्वं
दर्शयति—तथेत्यादिना । कथमाभ्यां सूकरवञ्जुलविषयत्वनिर्णयस्तत्राह—सूकरं
हीति । नवायसमनुधावन्त्ययोग्यत्वादित्यर्थः, स्थलं विशिनष्टि—गिरिष्वित्यादिना ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें९ ] प्रथमाध्याये तृतीयपादः ४१९
कारेण वारुणपाघासिकयवमयकरम्भपात्रवाक्यशेषत्वेनोपलब्धो यः स मन्दप्रयो-
जनत्वात्तथा नामास्तु ।
फाल्गुनेऽन्यौषधीनां तु जायते पत्रशातनम् ।
मोदमानास्तु तिष्ठन्ति यवाः कणिशशालिनः ॥ ४१७
प्रियङ्गवः शरत्पक्वास्तावद्गच्छन्ति हि क्षयम् ।
यदा वर्षासु मोदन्ते सम्यग्जाताः प्रियङ्गवः ॥
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें४२० मीमांसादर्शनम् [ सू०
सर्वो हि शब्दोऽर्थप्रत्यायनार्थं प्रयुज्यते । अर्थश्च संव्यवहारप्रसिद्धयर्थमभि-
धीयते ।
तत्र यस्य विशिष्टस्य म्लेच्छेष्वर्थान्तराभिधा ।
तत्रापि तस्य सामर्थ्यमनाद्येव प्रतीयते ॥ ४२५
यथैव ह्यार्यगम्येऽर्थे सम्बन्धानादिता मतिः ।
म्लेच्छगम्ये तथैव स्यादविशिष्टं हि कारणम् ॥ ४२६
न
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें९ । प्रथमाध्याये तृतीयपादः ४२१
तेष्वदर्शनादिति सूत्रयोजना
यद्वाऽऽचारबलीयस्त्वं फलस्थत्वात्प्रतीयते ।
फलाद्वियुज्यमानं हि प्रमाणं दुर्बलीभवेत् ॥ ४३५
श्रुतिराचारमूलं या फलस्था सोपलभ्यते ।
यावद्धि स्मरणं दृष्ट्वा श्रुतिरन्याऽनुमास्यते ॥ ४३६
तावल्लब्धात्मकः पूर्वमाचारः प्रतितिष्ठति ।
प्रतिष्ठितस्य बाधश्च कीदृशः परिकल्प्यताम् ॥ ४३७
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें४२२ मीमांसादर्शनम् [ सू०
तथा दर्शपूर्णमासप्रकरणेऽग्नीषोमीयविधिसम्बन्धलङ्घनेन त्वाष्ट्रवधनिमित्तेन्द्र-
गतब्रह्महत्यातुरीयविभागप्रतिग्रहप्रस्तावागतरजस्वलाव्रतानां भूमिशयनास्नाना-
मांसभक्षणानभ्यङ्गाञ्जनाविलेखनाकर्तनादन्तधावनानखच्छेदनाद्रज्जुसंसर्जना -
दीनां त्रिरात्रविषयाणां प्रकरणातिरिक्तस्त्रीधर्मत्वावधारणम् ।
एवं च
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें९ ] प्रथमाध्याये तृतीयपादः ४२३
एवमादिषु सर्वेषु प्रतिपत्तिविपर्यये ।
प्रतिपत्तेः समानत्वाद्विकल्पो हि प्रसज्यते ॥ ४५०
ननु च लोकप्रसिद्धेर्धर्मं प्रत्यनङ्गत्वार्द्वेदप्रसिद्धिरेव ज्यायसी ॥
नैतदेवं पदार्थेषु न हि वेदो विशिष्यते ।
अदृष्टहेतुवाक्यार्थे लोकात्स ह्यतिरिच्यते ॥ ४५१
तस्मादुभय्यपि त्वेषा प्रतिपत्तिः समा भवेत्
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें