सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 472, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 472

४१८ मीमांसादर्शनम् [ सू०
मुख्यत्वे प्रियङ्गुषु गौणत्वे च फलितमाह—(अत१ इति) तस्मादिति२ । पुरोडाश-
शब्दो हविःपरः । वराहवेतसशब्दयोरपि वाक्यशेषाभ्यां सूकरवञ्जुलविषयत्वं
दर्शयति—तथेत्यादिना । कथमाभ्यां सूकरवञ्जुलविषयत्वनिर्णयस्तत्राह—सूकरं
हीति । नवायसमनुधावन्त्ययोग्यत्वादित्यर्थः, स्थलं विशिनष्टि—गिरिष्वित्यादिना ।
नदीषु-नदीकूलेष्वित्यर्थः, न च वाक्यशेषादर्थनिर्णये “सन्दिग्धे तु वाक्यशेषात्”
इत्यनेन पौनरुक्त्यम् । वाक्यशेषस्य प्रधानहेतुत्वानङ्गीकारादुपोद्वलकत्वेनैव
चोपन्यासादित्यवगन्तव्यम्, तस्मादार्यप्रसिद्धिवाक्यशेषाभ्यां यवादिशब्दानां दीर्घ-
शूकाद्यर्थविषयत्वे सिद्धे, विकल्पाप्राप्तिरित्याधिकरणार्थं निगमयति—तस्मा-
दिति ॥ ९ ॥
त० वा०—अभिधीयते—
शास्त्रस्था तन्निमित्तत्वात्प्रतिपत्तिर्बलीयसी ।
लौकिकी प्रतिपत्तिर्हि गौणत्वेनापि नीयते ॥ ४०८
नानाविप्रतिपत्तौ हि न लोकस्येह सत्यता ।
या शास्त्रानुगुणा सैव प्रामाण्येनावधार्यते ॥ ४०९
लौकिकत्वे समानेऽपि शास्त्रेणाभ्यधिका हि सा ।
शास्त्रस्था पुरुषा ये वा प्रतिपत्तिस्तदाश्रया ॥ ४१०
प्रमाणत्वेन मन्तव्या सप्रत्ययतरा हि ते ।
शास्त्रार्थेष्वभियुक्तानां पुरुषाणां हि सर्वदा ॥ ४११
स्तोकेनाप्यन्यथात्वेन शास्त्रार्थो निष्फलो भवेत् ।
लौकिकस्त्वन्यथात्वेऽपि नार्थोऽतीव विरुध्यते ॥ ४१२
रसवीर्यविपाकानां भेदाद्वैद्यैर्यवादयः ।
निर्धार्याः स्वार्थतत्त्वेन धर्मसिद्धयैच याज्ञिकैः ॥ ४१३
यस्माच्च याज्ञिकैर्यैषां वैद्यैर्वार्था निरूपिताः ।
तेषां त एव शब्दानामर्था मुख्या हि नेतरे ॥ ४१४
अनवस्थितशब्दार्थसम्बन्धः सति संभवे ।
विकल्पाश्चाष्टदोषत्वान्न कथंचन युज्यते ॥ ४१५
अविप्लुतश्च शब्दार्थो यो वेदेषूपलभ्यते ।
तत्रत्यनिर्णयात्तस्मालोके भवति निर्णयः ॥ ४१६
यवमतीभिरद्भिरोदुम्बर्याः प्रोक्षणे विधीयमाने वाक्यशेषोऽयं 'यत्रान्या
ओषधयो म्लायन्तेऽथैते मोदमानास्तिष्ठन्ति' इति बह्वीषु शाखासु श्रूयते भाष्य-
१. अत इति प्रतीकग्रहणमिति । २. तस्मादिति भा. पा. ।