मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 474, कुल 804 में से
संदर्भ में पढ़ें४२० मीमांसादर्शनम् [ सू०
सर्वो हि शब्दोऽर्थप्रत्यायनार्थं प्रयुज्यते । अर्थश्च संव्यवहारप्रसिद्धयर्थमभि-
धीयते ।
तत्र यस्य विशिष्टस्य म्लेच्छेष्वर्थान्तराभिधा ।
तत्रापि तस्य सामर्थ्यमनाद्येव प्रतीयते ॥ ४२५
यथैव ह्यार्यगम्येऽर्थे सम्बन्धानादिता मतिः ।
म्लेच्छगम्ये तथैव स्यादविशिष्टं हि कारणम् ॥ ४२६
न प्रयोगावधिस्तस्य म्लेच्छेष्वपि हि दृश्यते ।
अनाद्योरर्थशक्त्योश्च विशेषो गम्यतां कथम् ॥ ४२७
यथा च म्लेच्छदेशेऽपि धूमोऽग्नेरववोधकः ।
एवं स्वार्थे प्रयोगात्तैरिष्टः शब्दोऽपि वाचकः ॥ ४२८
तस्मात्पीलवादि शब्दानां वृक्षहस्त्यादिवोधने ।
समा विप्रतिपत्तिः स्यादार्यम्लेच्छप्रयोगतः ॥ ४२९
इति प्राप्ते ।
अभिधीयते—शास्त्रस्था वेति । पूर्ववदेव सकलसूत्रव्याख्या योजनीया ।
किञ्च—यथा साध्वनुरूपत्वान्प्रमादाशक्तेष्वपि ।
जायते वाचकभ्रान्तिस्तथैव म्लेच्छभाषिते ॥ ४३०
शब्दापभ्रंशवदेव गौणभ्रान्त्यादिप्रयोगनिमित्ता अर्थापभ्रंशा भवन्ति । ते
शास्त्रस्थैरेवाविप्लुतार्थक्रियानिमित्तपुण्यार्थिभिः शक्यन्ते साध्वसाधुकार्षापणमध्या-
दिव तत्परीक्षिभिर्विवेक्तुम् । अभियुक्तनभियुक्तज्ञानयोश्चाभियुक्तज्ञानं बलवत्
इतरस्य सुलभापवादत्वात् ।
अतः शास्त्राभियुक्तत्वादार्यावर्तनिवासिनाम् ।
या मतिः सैव धर्माङ्गशब्दाथर्त्वप्रमा मता ॥ ४३१
एतेनाऽऽर्यावर्तनिवासिमध्येऽपि—
अभियुक्ततरा ये ये बहुशास्त्रार्थवेदिनः ।
ते ते यत्र प्रयुञ्जीरन् स सोऽर्थस्तत्त्वतो भवेत् ॥ ४३२
इति वार्त्तिकमतेन पीलुवर्णकम्
(स्मृत्याचारविरोधे बलाबलविचिन्तनम् ।)
समा विप्रतिपत्तिरितिसूत्रयोजनम्
स्मृत्याचारविरोधे वा साम्यवैषम्यसंशये ।
समा विप्रतिपत्तिः स्यान्मूलसाम्याद् द्वयोरपि ॥ ४३३
यथैव श्रुतिमूलत्वात्स्मरणानं प्रमाणता ।
आचाराणां तथैवेति न विशेषो बलाबले ॥ ४३४