सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 462, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 462

४१० मीमांसादर्शनम्
बाधो मूलश्रुतिदर्शनं यावदुक्तः तथात्रापि वाच्यः। न चानुष्ठानात्मकस्याचारस्यासौ
सम्भवतीति । नन्वाचारस्यापि स्मृतिवच्छ्रुत्यनुमानेनैव प्रामाण्यं न स्वातन्त्र्येण । न च
स्मृत्याचारानुमितयोः श्रुत्योर्बलाबलविशेषोऽस्तीत्याशङ्कयाह — श्रुतिरिति ।
स्मृतेर्वाक्यात्मकत्वेनानेकरूपार्थप्रतिभाने प्रत्यक्षश्रुत्यविरुद्धार्थप्रतिपादनपरश्रुतिकल्पनेन
यथाश्रुतार्थत्यागलक्षणो बाधो युक्तः, आचारस्य त्ववाक्यात्मकत्वेनान्यथात्वकल्पनायोगाद्य-
थाशिष्टैरनुमीयते, तथैवानुष्ठेयमित्यनुष्ठानाख्यफलनिष्ठैव श्रुतिः कल्प्यत इत्याशयः ।
एतदेव विवृणोति — यावद्धीति । अस्मिन्पक्षे तेष्वाचारेषु स्मृतिमूलश्रुत्यनुमानात्प्राग्विरोधा-
दर्शनात्प्रतिष्ठितेषु बाधासम्भवाद् बलीयस्त्वमेव तावद्युक्तम्, तदनङ्गीकरणे वरं साम्यमस्तु,
न त्वाचारस्य दौर्बल्यमिति सूत्रं योज्यम् । द्विविधमपि पूर्वपक्षमुपसंहरति — तेनेति ।
शास्त्रस्था वेति सूत्रेण सिद्धान्तमाह — स्मृतीनां वेति । स्मृत्यभिप्रायः शास्त्रशब्द
इत्याशयः । तन्निमित्तत्वादिति शास्त्रत्वसामान्येन प्रकृतत्वाद् वेदाख्यं शास्त्रं तच्छब्देन
परामृश्य श्रुतिमूलत्वं हेतुरुच्यते । तच्चोभयोः स्मृत्यधिकरणे प्राप्तम्, विरोधे पुनरुच्यमान-
माचाराणां श्रुतिमूलत्वपरिसंख्यार्थम् । तत्रोभयोः श्रुत्यनुमापकत्वाविशेषे विरोधेऽपि स्मृतेरेव
श्रुतिमूलत्वम्, नाचारस्येति कथमवसीयत इत्यपेक्षायामाह — उभयोरिति । असाभ्यमुप-
पादयति — सप्रत्ययेति । प्रत्ययशब्देन ज्ञानं विश्वासो वाऽभिधीयते । ऋषित्वान्च्च मन्वादेः
साक्षात्कृतधर्माण ऋषय इति स्मृतेः, सकलधर्मतत्त्वज्ञानसम्पन्नतवावसायादाचार्यवचः
प्रमाणमिति च श्रुतेर्धर्मप्रवक्तृत्वेनावधारिताचार्यत्वस्य मन्वादेः सत्यवादित्वावगमादप्रतार-
कत्वेन विश्वास्यत्वात्तत्प्रणीतायाः स्मृतेर्वेदविरोधेऽपि श्रुतिमूलत्ववारणशक्यत्वस्योपपादि-
तत्वादाचारविरोधे का कथेत्याशयः । अर्वाचीनानां तु सकलधर्मतत्त्वज्ञानाभावात्प्रमादादि-
सम्भवाच्च तदाचारस्य श्रुतिमूलत्वकल्पने श्रुतिस्मृतिविरोधो विघ्नकारीत्यर्थादुक्तम्,
लिङ्गवाक्यवच्च सन्निकर्षविप्रकर्षविशेषादपि स्मृत्याचारयोर्बलाबलविशेषोऽवसीयत इत्याह-
आचारास्त्विति । चशब्दार्थे तुशब्दस्मृतेर्वा साक्षाच्छ्रुतिकल्पनत्वद्योतनार्थः ।
ननु स्मृतिवदाचारस्यापि साक्षाच्छ्रुतिमूलत्वोपपत्तेः किमन्तरा स्मृतिकल्पनयेत्या-
शङ्कयाह — न हीति । अयमाशयः तदानीन्तनानां मन्वादिवत्सकलवेदार्थतत्त्वज्ञानमस्ति
यतः तदाचारस्य साक्षाच्छ्रुतिमूलत्वं सम्भाव्यते, एवं सत्यपि यद्येकैव काचिच्छ्रुतिः
सर्वाचाराणां मूलभूता स्यात्, ततस्तस्याः कथञ्चित्तात्पर्यावधारणसम्भवात्साक्षादिदानीन्त-
नपुरुषाचारमूलत्वं सम्भाव्येत, न त्वसौ — सम्भवतीत्युक्तम् । यद्यपि सदाचारः प्रमाणमिति
स्मृत्यनुरूपैका श्रुतिः कल्प्येत, तथापि तस्याः शिष्टाचरानुवादेन प्रामाण्यप्रतिपादनमात्र-
परत्वेनाचारप्रवर्त्तकत्वाभावाम्मूलत्वं न सम्भवतीति दर्शयितुम् — प्रवर्त्तिकेत्युक्तम् ।
यत्तु यद्वा शिष्टात्मतुष्टीनामित्यादिनाशिष्टानुष्ठानमात्रेणाचारादीनां श्रेयःसाधनत्वान्न विधायक-
श्रुत्यपेक्षेत्युक्तम्, त-च्छ्रुतिस्मृतिविहितो धर्मं । तदलाभे शिष्टाचारः प्रमाणमिति वशिष्ठ-
वचनपर्यालोचनया, मानवीयस्यापि वेदोऽखिलो धर्ममूलमिति स्मृत्याचारादिष्वनुशक्तस्य
धर्ममूलशब्दस्य ।