सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 458, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 458

४०६ मीमांसादर्शनम् [ सू०
कीदृशः सन्देह इत्यपेक्षायामाह—एकशब्दमिति । एकः शब्दोऽस्मिन्ननेकार्थोऽस्मिन्निति
द्वावपि बहुव्रीही । आचयंत इति भावेोत्पन्नलकारान्तेनाचरणं क्रियत इत्युक्तम् ।
आचरणमन्यपदार्थः । अक्षादिशब्दवैलक्षण्यप्रतिपादनार्थंविप्रतिपत्तिशब्दव्याख्यानार्थम्—
विगानेनेत्युक्तम् । कोऽर्थं इति, किं द्वावप्युतैक एवेत्यर्थः । ननु शास्त्रानुसारिशिष्ट-
व्यवहारावगतस्यैव वाच्यत्वनिर्णयात्सन्देहो न युक्त इत्याशङ्क्याह—यवेति । अविद्यमान-
प्रयोगारोपसूचनार्थः किलशब्दः वाच्यवाचकसम्बन्धे शास्त्रस्याव्यापारसूचनाय—अनिरू-
पितेत्याद्युक्तम्—समेति पूर्वपक्षप्रतिपादनाथंसूत्रावयवव्याख्यानार्थं तत्रेति भाष्यं व्याचष्टे—
तत्राहैति । भाष्ये च विकल्पशब्देन प्रतिज्ञानार्थत्वमुभयथेत्यनेनास्यैवावृत्त्या हेत्वर्थत्वं
व्याख्यातमिति सूचयितुम्—तुल्यत्वादियुक्तम् । सर्वलोकस्थानां प्रयोगिणामित्यर्थः । तुल्य-
त्वमेवोपपादयति—यत्रेति ।
नन्वेवमपि देशव्यवस्थया वाच्यव्यवस्थोपपत्तेः समविकल्पो न युक्त इत्याशङ्कयाह—
तस्याश्चेति । तस्मिन्सर्वंगामित्वे न्यायो युक्तिर्यस्याः शक्तेरस्ति, सा तन्न्याया तद्भावस्त-
न्न्यायत्वम् । कीदृशो न्याय इत्यपेक्षायामाह—नैकेषामिति । एकस्यैव वस्तुनः सदसत्त्व-
विरोधादित्याशयः । एवं तर्हि सर्वान्प्रत्यसत्त्वमेवास्त्वित्याशङ्क्य, सत्त्वे कस्यचिद्दर्शनानु-
पपत्तेन्निराकरोति—केषांचिद्वेति । सर्वेषामपि पुंसां पाचकशक्तिनं विद्यत इत्येतदपि
नास्तीत्यर्थः । ननु सदसत्त्ववदेकस्य ज्ञाताज्ञातत्वविरोधोऽपि स्यादित्याशङ्क्य, ज्ञानव्याप्य-
त्वाव्याप्यत्वोपाधिकत्वादज्ञाताज्ञातत्वयोर्ज्ञानस्य च पुरुषाश्रितत्वेन तद्भेदे सदसत्त्वाविरो-
धान्निराकरोति—ज्ञातेति । शक्तेः सर्वगामित्वमुपपादितमुपसंहरति—तस्मादिति । नन्वष्ट-
दोषविकल्पापादकमनेकक्तिकल्पनमन्याय्यमेवागृह्यमाणविशेषत्वेनागत्या क्वचिदङ्गीक्रियते,
इह तु प्रयोक्तुरल्पत्वबहुत्वविशेषग्रहणान्नानेकक्तिकल्पनं युक्तमित्याशङ्क्याह—न चेति ।
दृष्टान्तं व्याचष्टे—विभीतक इति । एकदेशप्रयुक्तानामपिशब्दानां सर्वगामित्वं निरुक्त-
कृद्वचनेन द्रढयति—तथा चेति । प्रकृतय एवैकेषु जनपदेषु प्रयुज्यन्ते, विकृतय एवैकेष्वि-
त्युपक्रम्य निरुक्तकृता शवतिर्गतिकर्मा कम्बोजेष्वेव भाष्यते विकारमस्यार्या भाषन्ते शव-
ति-२-२-८ इति युक्तम् । तदर्थतः पठितम् । कम्बोजेष्वेव जनपदविशेषेषु शवतिर्धातुर्गति-
वाची दृष्टः । गच्छतीत्यस्मिन्नर्थे शवतीति प्रयोगात् । आर्यास्तु जनपदविशेषाः ऋदोर-
बित्यप्रत्ययान्तत्वेन विकारापन्नं शवतिधातुं न गतौ युञ्जते । शवशब्देन मृतस्याभिधाना-
दित्यर्थः । महाभाष्यकृता तु विकारापन्नमार्या भाषन्तइति पाठान्तरमुदाहृतम् । तत्र मृता-
वस्था विकारशब्देनोक्ता । न केवलं शवतिरेव देशविशेषे व्यवस्थितः । किं त्वन्येऽपि
बहवो धातवो नामशब्दाश्च व्यवस्थिता एव प्रयुज्यन्ते—इत्यादीति । प्राच्येषु हि जनपदेषु
दातिर्धातुर्लवनार्थो दातीत्यस्मिन्नर्थे चतीति प्रयोगात् तमेव दात्रमिति ष्ट्रन्प्रत्ययान्तत्वेन
विकारापन्नमुदीच्याः प्रयुञ्जते ।
प्राच्येषु गच्छतीत्यर्थे मध्यमेषु वरं हृति ।
हन्ततिश्च सुराष्ट्रेषु गमिस्त्वार्येषु भाष्यते ।।