मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 473, कुल 804 में से
संदर्भ में पढ़ें९ ] प्रथमाध्याये तृतीयपादः ४१९
कारेण वारुणपाघासिकयवमयकरम्भपात्रवाक्यशेषत्वेनोपलब्धो यः स मन्दप्रयो-
जनत्वात्तथा नामास्तु ।
फाल्गुनेऽन्यौषधीनां तु जायते पत्रशातनम् ।
मोदमानास्तु तिष्ठन्ति यवाः कणिशशालिनः ॥ ४१७
प्रियङ्गवः शरत्पक्वास्तावद्गच्छन्ति हि क्षयम् ।
यदा वर्षासु मोदन्ते सम्यग्जाताः प्रियङ्गवः ॥ ४१८
तदा नान्यौषधिम्लानिः सर्वासामेव मोदनात् ।
एवं वराहवेतसशब्दा अपि शास्त्रस्थप्रयोगादेव निश्चीयन्ते ।
( वार्तिकमते भाष्यकारोक्तोदाहरणाद्याक्षेपः )
न त्वेतान्युदाहरणानि, लोकप्रसिद्धेरेव व्यवस्थितत्वाद्युक्तानि ।
तथा हि—नैवोच्यन्ते क्वचिद्देशे यवश्रुत्या प्रियङ्गवः ।
जम्बू न वेतसं प्राहुर्वराहं नापि वायसम् ॥ ४१९
अध्यारोप्य विचारेण किं मुधा खिद्यते मनः ।
संदिग्धेषु च सर्वेषु वाक्यशेषेण निर्णयः ॥ ४२०
वक्ष्यत्येव न तेनापि पृथक्कार्या विचारणा ।
यद्यपि तत्राभिधेयसंदेहमनुदाहृत्योपादानसंदेहनिर्णयोपायव्याख्यानं करिष्यति ।
यावद्वाक्यशेषमेव स निर्णयो नान्यत्र । अयं त्वभिधेयनिर्णय एकत्र च कृतः सर्वत्र
च कृत एव भविष्यतीत्येव पुनरुक्तत्वमापद्यते ।
तथाऽपि न्यायतुल्यत्वाद्यथा घृतपरिग्रहः ।
वाक्यशेषात्तथैव स्याद्यवाद्यर्थविनिर्णयः ॥ ४२१
तत्सिद्धिसूत्रे च सारूप्यादीनां गौणवृत्तिनिमित्तानामनुक्रमणाद्वेतससदृशज-
म्बूप्रत्ययसिद्धिरशब्दार्थत्वेऽपि विज्ञायत एवेति नेहोदाहृतेन कार्यम् ।
(आर्यम्लेच्छप्रयोगविप्रतिपत्तिबलाबलचिन्तनम् ।)
पील्वधिकरणम्
तस्मादन्यदुदाहृत्य विचार्यमिदमीदृशम् ।
यत्र विप्रतिपत्तिः स्यादायार्मलेच्छप्रयोगजा ॥ ४२२
तत्र किं तुल्यता युक्ता किमेकैव बलीयसी ।
समा विप्रतिपत्तिः स्यात् दृष्टार्थव्यवहारिणाम् ॥ ४२३
आर्यास्तावद्विशिष्येरन्नदृष्टार्थेषु कर्मसु ।
दृष्टार्थेषु तु तुल्यत्वमार्यम्लेच्छप्रयोगिणाम् ॥ ४२४