सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 467, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 467

८ ] प्रथमाध्याये तृतीयपादः ४१३
किमस्मिन्वर्णके तच्छब्देन परामृष्टमित्यपेक्षिते तेष्विति व्याख्यातम् । पूर्वभावित्वं चावि-
रोधकारणं पूर्वोक्तमभिप्रेतम्, अर्थवादानां चेत्यादिना कारणान्तरमुक्तम् । अर्थवादानां न
पदार्थप्रतीत्यङ्गत्वमवसीयत इत्यन्वयः । हेत्वपेक्षायां संज्ञासंज्ञिसम्बन्धस्य कारणे व्युत्पादने
च व्यापाराभावादित्युक्तम् । तद्धेतुत्वेनान्यपरत्वेऽभिहिते, किं परतेत्यपेक्षायां परोचनाशेष-
त्वमुक्तम् । कथं परोचनेत्यपेक्षिते गुणेत्युक्तम् । वायुक्षेपिष्ठादौ श्रुतिप्रवृत्तिसम्भवात्प्रायग्रह-
णम् । 'आदित्यो यूपो, यजमानः प्रस्तरः, स्वर्गं आहवनीयः, इति वचनत्रयं दृष्टान्तः । एवं
तर्हि पदार्थं प्रत्यौदासीन्येन वाक्यशेषेष्वपि विरोधादर्शनादवधारणानर्थक्यमित्याशङ्क्य
पदार्थप्रतिपादनपरत्वाश्रयणे विरोधापादनेनावधारणमुपपादयति—तदाश्रयणे चेति ।
विरोधस्यैवेत्यवधारणेन वा शास्त्रस्य प्रसिद्धचानुगुण्यमेवानेन सूत्रावयवेनोच्यत इत्याह—
तथेति । रक्षारम्भकेषु तन्तुषु नवसंख्यासद्भावेऽप्युपवीतारम्भकायारक्षास्त्रैगुण्यविधानार्थं
त्रिवृच्छब्दः । अस्मिन्पूर्वपक्षे समशब्दानुपपत्तिमाशङ्क्य काक्वा सिद्धान्तसूत्रं योजयति—
तस्मादिति ।
सिद्धान्तः
वैदिकप्रसिद्धिवलीयस्त्वे सिद्धान्तसूत्रं योजयति—इतोति । न केवलं श्रेयःसाधनात्मकं
धर्मस्वरूपमेव शास्त्रंप्रमाणकम्, किं त्वङ्गमपि, फलं च स्वर्गादीति वक्तुम्—साधनेत्युक्तम् ।
यत्त्वर्थवादानामन्यपरत्वात्पदार्थप्रतीत्यनङ्गत्वमुक्तम्, तत्रान्यपरत्वेऽपि विधिस्तुत्योरेकविषय-
त्वनियमात्स्तुतिविषयस्यार्थस्यान्यथानुपपत्त्या विधिविषयत्वप्रतीतेस्तस्य चोपसंहारगतस्यापि
विध्युद्देशेनाऽग्रहणं निरालम्बनत्वेनार्थ वादानर्थक्यापत्तेरानर्थक्यप्रतिहतानां विपरीतं बला-
वलमिति' न्यायाद् बलीयस्त्वमित्याह—अर्थवादेति । अपिशब्देन बहिष्पवमाने च तृच-
त्रयानुक्रमणस्य स्तोत्रीया विधानांथंत्वान्नाथंवादतेत्यपि सूचितम् । नन्वर्थवादावगतस्यार्थस्य
विध्युद्देशेन ग्रहणे त्रिवृदादिशब्दानां स्तोत्रीयानवकादिवाचित्वेन वृद्धव्यवहारादनवगते
विधौ गौणत्वं स्यादित्याशङ्कयाह—गौणो वेति । प्रमाणाभावेनाऽन्यत्र विधौ गौणत्वं नाश्री-
यते, इह तु वेदप्रमाणकत्वाद् गौणत्वमप्युदुष्टमित्याशयः । परमार्थतस्तु त्रिवृदादिशब्दानां
स्तोत्रीयानवकादिष्वपि गुणयोगासम्भवान्मुख्यत्वमेवाभिमतम् । नन्वेवमपि तृचत्रयानुक्रमणेन
नवभिः स्तुवन्तीति वचनेन बहिष्पवमाने स्तोत्रीयानवकप्राप्तेस्त्रिवृद्ग्रहणमनर्थकमित्याशङ्क्य
तृचत्रयानुक्रमेण नवकवचनयोरभावेऽपि 'त्रिवृदग्निष्टोम' इत्यादौ नवकसिद्धिरस्य विचारस्य
प्रयोजनमिति दर्शयितुमाह—त्रिवृच्छब्द इति ।
दशमिकाधिकरणार्थनिरूपणम्
एतदेवास्य विचारस्य प्रयोजनं दशमे त्रिवृदग्निष्टोम इत्युदाहृत्य किमग्निष्टोम-
साधनमात्रगतसंख्याविकारिकेयं त्रिवृत्संख्या, स्तोमगतसंख्याविकाविकारिका वेति
सन्दिह्य, त्रिवृद्रज्जुरित्यादौ लोके त्रिवृच्छब्दस्य त्रैगुण्यमात्रवाचित्वदर्शनाद्
बहिष्पवमानवच्च तृचत्रयानुक्रमणादेः स्तोत्रीयानवकावगतिकारणस्यात्राभावात् त्रिवृ-
त्त्वस्य च संख्यात्वसामान्येन संख्यामात्रकार्ये विनियोगप्रतीतेः सर्वसंख्याविकारिका
त्रिवृत्संख्येति त्रिवृत्संख्यासर्वसंख्याविकारः स्यादिति सूत्रेण पूर्वपक्षयित्वा, त्रिवृद्बहिष्प-