सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

कॉपीराइट समस्या बताएँ

DevanagariSanskritpublished804 पृष्ठ

सूत्रार्थ भी इस रूप में योजनीय है। यथा—'विरोधे' अर्थात् प्रत्यक्ष श्रुति के साथ

पृष्ठ 398 स्कैन

३४६ मीमांसादर्शनम् [ सू०
कहना उचित नहीं है। यद्यपि इस उद्धृत कारिका में प्रथम को छोड़कर अन्य सभी
भाष्यकार के सिद्धान्त की व्याख्या का पूर्वपक्ष है, तथापि वार्तिककार ने बाद में जो
अपने सिद्धान्त को व्यक्त किया है, वे उस सिद्धान्त पक्ष में प्रयोज्य हैं। भाष्यकार एवं
वार्तिककार के मत के भेद का कारण प्रदर्शन करते हुए भाट्टदीपिका में वार्तिक का सार
सङ्कलन करते हुए कहा है कि—भाष्यकार के मत में जिज्ञासा अर्थात् साध्य सन्देह
भाट्टदीपिका के भाट्ट चिन्तामणि टीकाकार यज्वा

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 399 स्कैन

५ ] प्रथमाध्याये तृतीयपादः ३४७
भा० वि०—विषयमाह—आचन्तेत्यादिना । यद्यप्यत्र कर्तव्यमात्रमनूद्या-
चमनादिविधायकानामुदाहरणत्वं प्रतीयते, तथापि पुरुषार्थाचमनादिस्मृतीना-
मप्यविरोधे, विरोधे च प्रमाणत्वाप्रमाणत्वयोर्निरूपितत्वात् क्रत्वर्थाचमनादि-
विशेषविषयाणामेवोदाहरणत्वमिति मन्तव्यम् । तत्र श्रुत्यर्थाबाधकत्वबाधकत्वाभ्यां
सन्देहमाह—किमेतानीति । इति विचार्यत इति शेषः, विरुद्धान्येताविरुद्धानीत्येवं
सन्देहः, न कर्तव्यानि, कार्याणीति तु

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 400
स्थायी लिंक
पृष्ठ 400 स्कैन

३४८ मीमांसादर्शनम् [ सू०
प्रमाणप्रमेयबलाबलविचारः
अन्यत्तु दर्शनं सत्यपि विरोधे प्रमाणप्रमेयबलाबलविसंवादात्संदेहः ।
तथा हि—
श्रुतिस्मृत्योर्विरुद्धत्वे ज्ञातमेव बलाबलम् ।
धर्मधर्मिविरोधे च धर्मिणो बलवत्तराः ॥ २७९
वक्ष्यति हि 'अङ्गगुणविरोधे च तादर्थ्यादिति' न चेह स्मार्तः कस्यचिदपि
श्रौतस्य पदार्थस्य बाध आशङ्क्यते । क्रमकालपरिमाणानि तु समस्तपदार्थ-
धर्मत्वेन निश्चितानि । तत्र यदि प्रमाणबलाबलं बलीयः ततो बलवच्छ्रुतिप्रमे-
यत्वाद् दुर्बलस्वभावैरपि क्रमादिभिराचमनादीनां बाधः । प्रमेयबलाबलबली-
यस्त्वे तु पदार्थधर्मेभ्यः क्रमादिभ्यः पदार्थत्वेनाऽऽचमनादयो बलीयांस इति ।
सत्यपि स्मृत्याख्यप्रमाणे दुर्बलत्वे बलवदाश्रयानपि स्वरूपेण दुर्बलान्क्रमादीनेव
बाधिष्यन्ते ।
किं युक्तमविरुद्धत्वं क्रत्वर्थाङ्गस्मृतेरपि ।
न तदर्थक्रियायां हि श्रुतं किंचन हीयते ॥ २८०
यथैव विज्ञातबलाबलैरपि श्रुत्यादिभिः समाख्यापर्यन्तैर्यावन्तः शेषाः प्रमी-
यन्ते, ते सर्वे शेषिकथंभावेन प्रार्थिता इत्थंभावेन सहानारभ्यवादाधीतैर्गृह्यन्ते ।
स्मृत्या तथैव सन्तुष्ट्या शिष्टाचारेण चार्पिताः ।
गृह्यन्ते भावनाभाग्यैरपूर्वैः साधनांशवत् ॥ २८१
कथंभावापेक्षितापूर्वोऽपकारस्याज्ञातपरिमाणाङ्गसाध्यत्वाद् यावत्किंचिद्येन
केनचिदपि प्रमाणेन प्राप्नोति, तत्सर्वमङ्गं भवति । तस्मादाचमनादीन्यपि
यज्ञप्रयोगाङ्गानीत्युपन्यस्ते अभिधीयते ॥ ५ ॥
अथ चतुर्थं शिष्टाकोपाधिकरणम्
न्या० सु० -- अत्र भाष्यकारेणाचमनादीन्युदाहृत्य किमेतानि श्रुतिविरुद्धानि न कर्त्त-
व्यानि, उताविरुद्धानि कार्याणीति विचाररूपं दर्शितम्, तच्छ्रुतिविरुद्धस्मृत्यर्थाकर्त्तव्यत्वस्य
पूर्वाधिकरणे सिद्धत्वात्, अविरुद्धार्थकार्यंत्वस्य चाद्याधिकरणसिद्धत्वादनर्थकम् । भोजनादि-
निमित्तस्य चाचमनस्य शुद्धयर्थत्वेन पुरुषार्थस्य यज्ञोपवीतस्य च हिरण्यादिवत्पुरुषार्थ-
रूपेण नित्यधार्यंतया विहितस्य, दक्षिणाचारत्वस्य च भोजनादौ पुरुषार्थतया विहितस्या-
नाशङ्काविरोधत्वेन पूर्वपक्षासम्भवादयुक्तमाशङ्क्य व्याचष्टे— एवं तावदिति । उक्तेन
न्यायद्वयेन यद्यपि सर्वासां पुरुषार्थानां क्रत्वर्थानां च स्मृतीनामविरोधाविरोधयोः प्रामाण्या
प्रामाण्ये निरूपिते, यद्यपि च तावन्मात्रेण पुरुषार्थानामाचमनादिस्मृतीनामनाशङ्क्य

पृष्ठ 401
स्थायी लिंक
पृष्ठ 401 स्कैन

५ ] प्रथमाध्यायस्य तृतीयपादः ३४९
विरोधत्वेन पर्यवसितं निरूपणम्। तथापि सम्प्रति क्रत्वर्थानां यज्ञोपवीतादिस्मृतीनां
विरोधाविरोधमात्रमेव विचार्यंत इत्यर्थः ।
ननु क्रत्वर्थस्मार्त्तपदार्थानुष्ठानस्य श्रौतपदार्थपरिमाणविरोधाविरोधशङ्काऽस्तु नाम,
न तु किंचिन्मात्राधिक्येन पूर्वाह्नादिकालविरोधशङ्का। न च सर्वादावनुष्ठीयमानस्य
क्रमविरोधशङ्केत्याशङ्कय, बहुश्रुत्यर्थेत्युक्तम्। श्रौतपदार्थानां बहुत्वेन सकलपूर्वाह्नादि-
व्यापित्वात्किंचिदाधिक्येऽपि कालातिक्रमापत्तिः। तन्मध्ये च स्मार्त्तपदार्थानुष्ठानक्रमबाधा-
पत्तिरित्याशयः। ननु विरोधाविरोधमात्रस्य विचार्यत्वे कार्याकार्यशब्दावनर्थकौ स्याता-
मित्याशङ्क्य, विचारप्रयोजनप्रतिपादनार्थत्वेन तयोः साफल्य माह—तन्निर्णये त्विति।
नन्वाचमनादीनां निषेधाश्रवणे विरोधो नास्ति श्रवणे विरोध इति सन्देहानुपपत्ति-
माशङ्कते—कथं पुनरिति। नात्र निषेधश्रवणाश्रवणाभ्यां सन्देहः, किन्तु स्मार्त्तपदार्थानुष्ठाने
श्रुत्यर्थवैगुण्यापत्त्यनापत्तिसन्देहादिति परिहरति—श्रुत्यर्थेति। एतदेव विवृणोति—
यदोति। प्रकृतिमनुप्रवेश्यमानानि प्रयोगवचनेन निराक्रियन्ते, तन्निराकृतानि च सामि-
धेनी सादृश्यवद्विकृतिमनुप्रवेश्यमानानि प्राकृताङ्गनिरकाङ्क्षत्वाच्चोदकेन न परि-
गृह्यन्त इत्यर्थः ।
यद्वा नात्र विरोधाविरोधमात्रं विचार्यते किं तु सत्यपि विरोधे किमाचमनादीनां
धर्मित्वेन बलीयस्त्वाद्बाधः, प्रमाणदौर्बल्याद् बाध इति विरोधाधिकरणापवादार्थं विचार्यंत
इति, अन्यथा सन्देहभाष्यं व्याख्यातुमाह — अन्ये त्विति। सन्देहः किं कर्त्तव्यान्युता-
कार्याणीत्येवंरूप इति शेषः। अस्मिन्पक्षे सिद्धान्तवचनव्यक्तिप्रतिपादकमुताविरुद्धानि
कार्याणीति भाष्यमविरुद्धानि, विरुद्धान्यपि वा धर्मितया बलीयस्त्वेनाबाधितत्वात्कार्याणीति
द्विविधसिद्धान्तप्रतिपादकतया व्याख्येयम्।
यद्वा श्रौतैः क्रम-काल-परिमाणविरोधेऽपि तदीयैः पदार्थैरविरुद्धत्वात्कार्याणीत्येक-
रूपसिद्धान्तप्रतिपादकतयेति। यद्यपि शाखान्तराधिकरणसमाप्तावपि वा क्रमसंयोगाद्विधि-
पृथक्त्वमेकस्यां व्यवतिष्ठेते (२-४-३२) इति सूत्रेण क्रम-काल-परिमाणविरोधाच्छाखान्तरीय-
पदार्थानानुपसंहारमाशङ्क्य विरोधेनाथसंयोगादेकधर्म्ये तत्संयोगाद्विधीनां सर्वप्रत्यय
(२-४-३३) इति सूत्रेण पदार्थानां क्रमादिबाधकत्वं वक्ष्यते तथापि स्मार्त्तानां पदार्थानां
प्रमाणदौर्बल्याद् बाध्यत्वाशङ्का न विरुध्यते। तत्रत्यस्यैव प्रमेयबलाबलस्य प्रमाणबलाबल-
बाधायाऽत्रोपन्यासात् तस्यापि नानेन पौनरुक्त्यं शङ्कनीयम्। यद्यपि च पिकनेमाधिकरणे
स्वरूपबलाबलेन आश्रयबलाबलस्य बाध्यत्वं वक्ष्यते, तथाप्यनादित्वेन लब्धात्मकत्वात्समु-
दायप्रसिद्धेराश्रयदौर्बल्येऽपि, क्लृप्तत्वेन स्वरूपबलीयस्त्वादलब्धात्मकवयवप्रसिद्धेर्बाध-
कत्वेऽपि प्रमाणदौर्बल्ये प्रमेयस्यात्मलाभायोगादलुब्धात्मकस्मर्तृप्रमेयबाधकत्वं युक्तमित्या-
शङ्काऽत्र न विरुध्यते। आश्रयदौर्बल्येन त्वात्मलाभायोगाशङ्का तत्र निराकरिष्यत
इति विवेकः ।

पृष्ठ 402
स्थायी लिंक
पृष्ठ 402 स्कैन

१५० श्रीमीमांसादर्शनम् [सू०
प्रत्यक्षश्रुतिरोधे तु स्मृतिमूलश्रुत्यननुमाने स्मार्त्तपदार्थानामात्मलाभायोगाद्विरोधेऽपि
श्रुत्यनुमानमङ्गीकृत्य यथाश्रुतमूलानिश्चयात्प्रत्यक्षश्रुत्यनुरोधवृत्तित्वप्रतिपादनपरतया नात्यन्त-
बाध्यत्वम् । 'न चाप्यत्यन्ततुल्यतेत्यनेन यत्पूर्वाधिकरणस्य व्याख्यानं कृतम् तदभिप्रायेण
पूर्वाधिकरणोक्तस्य श्रुत्यनुरोधवृत्तित्वस्यापवादार्थमेतदधिकरणमिति योजयितुम्—अन्य-
दर्शनमित्युक्तम् ।
एतदेव विवृणोति—तथा हीति । कथं धर्मिणां बलवत्तेत्यपेक्षायां द्वादशाधिकरण-
न्यायमुदाहरति—वक्ष्यति हीति । यथा य इष्ट्या पशुना सोमेन वा यजेत, सोऽमावास्यायां
पौर्णमास्यां वेति दीक्षणीयेष्ट्यादीनामङ्गानाम्, प्रधानस्य च सोमस्य बहुदिनव्यवधानेनोभयोः
पर्वकालत्वसम्पादनाशक्तेः किं पर्वणि सोमः, पर्वणि दीक्षा, विपरीतं वेति सन्दिग्धे
प्राथम्यात् दीक्षायाः पर्वकालत्वे प्राप्ते—प्रधानसाद्गुण्यार्थत्वादङ्गानामनुष्ठानस्य प्रधानस्यैव
पर्वकालतेति वक्ष्यते । तथेहापि प्रधानस्याचमनादेर्यथाश्रुतस्यानुष्ठानक्रमोदस्तदनुरोधेनान्यथा-
करणं प्रतीयत इत्यर्थः । सूत्रं च मुख्यं वा पूर्वचोदनाल्लोकवदिति (१२-२-२५) पूर्वाधि-
करणसूत्रात्प्राथम्यार्थं मुख्यशब्दं प्राधान्यार्थत्वेनानुषज्य विप्रतिषिद्धधर्मसमवाये भूयसां
स्यात् स्वधर्मत्वमिति तत्पूर्वसूत्राच्च स्वधर्मत्वशब्दं मुख्यशब्दान्वयाय भावप्रत्ययलोपेना-
नुषज्य प्रधानगुणस्याङ्गगुणेन सह विरोधे मुख्यं प्रधानं स्वधर्मकं कार्यं प्रधानायत्त्वादङ्ग-
गुणस्येति योज्यम् ।
नन्वस्तु क्रमपरिमाणयोर्द्धर्मरूपत्वाद्दोर्बल्यम्, कालस्य स्वतन्त्रद्रव्यत्वेन धर्मिरूपत्वात्कथं
दौर्बल्यमित्याशङ्कयाह—न चेति । अनुष्ठेयपदार्थावच्छेदकत्वेन कालस्यापि विधेयत्वात्स्व-
तन्त्रविधेयतवस्य धर्मित्वेन विवक्षितस्याभावाक्रमपरिमाणवद्धर्मत्वनिश्चय इत्याशयः । नन्वस्तु
प्रमाणप्रमेयबलाबल्योर्विसंवादः, कथं त्वाचमनादीनामकर्त्तव्यत्वम् । कथं वा कार्यतेत्य-
पेक्षायामाह—तत्रेति ।
सिद्धान्तोपक्रमार्थत्वेन सूत्रं व्याख्यातुमिति चेदिति भाष्यं व्याचष्टे - किं युक्तमिति ।
द्वितीयविचारेऽपि सिद्धान्तद्वैविध्ये क्रमादिविरोधेऽपि वा पदार्थैः सहाविरोधाद्विरोधा-
भावामिधानमविरुद्धम् । नन्वविरोधेऽपि शीघ्रप्राप्तैः श्रौतैरेवाङ्गैर्निराकाङ्क्षत्वेन मन्थराणां
स्मार्त्तानाममङ्गानां क्रत्वपूर्वैर्ग्रहणान्नानुष्ठानं सिद्ध्यतीत्याशङ्क्य, क्रत्वपूर्वाणामनिर्ज्ञातोपाय-
परिमाणतया श्रौताङ्गमात्रेण नैराकाङ्क्ष्याभावाल्लिङ्गादिगम्याङ्गवत्स्मृत्याचारप्रापि-
ताङ्गानामपि ग्रहणमित्याह—यथैवेति । भावनाभिर्माद्यैरपूर्वैरशेपेापिकथम्भावेन प्राथिताः
सन्तस्ते सर्वैऽनारभ्यवादाधीतैः सह यथेच्छभावेन गृह्यन्ते, तथैव स्मृत्याचारापिता अपि
गृह्यन्त इत्यन्वयः । स्मृत्याचारार्पितानामवैदिकत्वेनापूर्वंग्राह्यत्वाशङ्कानिराकरणार्थम्—
साधनांशवदित्युक्तम् । यथाऽष्टकादयः साधनांशाः स्मृत्याचारापिता अप्यपूर्वैर्गृह्यन्ते, तथेति-
कर्त्तव्यतांशा अपीत्यर्थः । एतदेव विवृणोति—कथम्भावेति । उपसंहरति—तस्मादिति ॥५॥
मा० प्र०—"शिष्टाकोपे" = शिष्ट अर्थात् अनुशिष्ट अर्थात् श्रुतिविहित विषय के
अकोप से = अनुष्ठेयमान स्मार्त पदार्थ के द्वारा व्याकोप अर्थात् बाधा न होने पर

पृष्ठ 403
स्थायी लिंक
पृष्ठ 403 स्कैन

९] प्रथमाध्याये तृतीयपादः ३५१
"अविरुद्धम्" = आचमनादि आदि स्मृतिविहित पदार्थ = कर्म अविरुद्ध अर्थात् प्रमाण या
अनुष्ठेय होता है, "इति चेत्" = यदि यह कहा जाय तो । जिस स्थल में स्मृति विहित
कर्म का अनुष्ठान करने पर श्रुति अनुशिष्ट विषय का व्याकोप अर्थात् पीडा या बाधा
नहीं होती है, वहां स्मार्त्तं कर्म का अनुष्ठान करना कर्त्तव्य है-यदि सिद्धान्ती ऐसा
समझता है ॥ ५ ॥
न शास्त्रपरिमाणत्वात् ॥ २॥ पू०
शा० भा०-नैतदेवम् । शास्त्रपरिच्छिन्नं हि क्रमं बाधेरन् । कथम् ? 'वेदं
कृत्वा वेदिं कुर्वीते'तीमां श्रुतिमुपरुन्ध्यादन्तरा वेदं वेदिं चानुष्ठीयमानमाचम-
नादि । दक्षिणेन चैकहस्तेनानुष्ठीयमानेषु पदार्थेषु कदाचित्प्रधानं स्वकालमति-
क्रामेत् । उभाभ्यां हस्ताभ्यामनुतिष्ठन्प्रधानकालं संभावयिष्यति ॥६॥
भा० वि०-एवं सिद्धान्तमनूद्य पूर्वपक्षमाह-इति । नञर्थमाह-नैतदेव-
मिति । हेतुं व्याचष्टे - शास्त्रेति । हिशब्दो यस्मादर्थः । यतः स्मार्ताः पदार्थाः
श्रौतपदार्थानुप्रवेशिनः शास्त्रेण श्रुत्या प्रथमत एव परिच्छिन्नं प्रमितं क्रमादिकं
बाधेरन्, अतो नाविरोध इत्यर्थः, एवं च शास्त्रेणावगतं परिमाणं क्रमादि-
नियमरूपं येषामङ्गानां तेषां भावः तत्त्वं तत्त्वादिति सूत्रावयवो व्याख्यातः,
अनेनैव शास्त्रशब्देन पदार्थविषयस्मृतेः बहिरङ्गरूपप्रमेयप्राबल्ये सत्यपि श्रुतेः
स्वरूपप्राबल्यात् तद्विरोधे स्मार्ताचमनादीनामननुष्ठेयत्वं सूचितम् ।
ननु यदि पदार्थविधायिना शास्त्रेण क्रमादयोऽपि परिच्छिन्नाः, ततो बाध्येरन्
तदेव कथमिति चोदयति-कथमिति । तत्र तावत् क्रमस्य सह पदार्थैः प्रमि-
तस्यान्तरनुप्रवेशिना स्मार्तेन बाधमुपपादयति-वेदमिति । कालस्यापि प्रयोग-
विधिविहितस्य प्रधानप्रत्यासत्त्यादिरूपस्य बाधमाह-दक्षिणेनेति । प्रधानकालं
पूर्वाह्नादिरूपं सम्भावयिष्यति नातिक्रमिष्यतीत्यर्थः ॥ ६ ॥
त० वा०-न शास्त्रपरिमाणत्वात्पदार्थोऽभ्यधिको भवेत् ।
शास्त्रितं परिमाणं हि कोऽतिक्रमितुमर्हति ॥ २८२
शास्त्रेण हि पदार्थानां परिमाणं त्रिधा गतम् ।
क्रमेयत्ताशुनिर्मांणरू । तदिह बाध्यते ॥ २८३
द्वाभ्यां श्रुत्यादिषट्काभ्यां कालेयत्ताक्रमात्स्थितान् ।
पदार्थाः प्रविशन्तो हि बाधेरन्स्मार्तलौकिकाः ॥ २८४
सर्वे हि पदार्थाः प्रधानकालान्न विप्रक्रष्टव्या इति प्रयोगवचनेन प्रतिपादितम् ।
तत्र स्मार्तशिष्टलोकाचारप्रमाणकपदानुष्ठानविक्षेपादक्षिणैकहस्ताधीनविल-

पृष्ठ 404
स्थायी लिंक
पृष्ठ 404 स्कैन

१५२ मीमांसादर्शनम् [ सू०
म्बितानुष्ठानाच्च प्रधानप्रत्यासत्तिबाधप्रसङ्गः । समस्तप्रयोगकालाच्च पूर्वाह्नमध्यं-
दिनादयोऽतिक्रम्येरन् ।
क्रमश्च यः श्रुत्यर्थपाठस्थानमुख्यप्रवृत्तित्वक्रमैरवगतः, स च वैदिकपदार्था-
रूढतया विज्ञाताश्रयप्रमाणपरिमाणः सन्नन्यथात्वं क्षुतादिनिमित्ताचमनव्यवधाना-
त्प्रतिपद्येत । एवमायासस्रस्तोपवीतपुनःकरणव्यवधानेऽपि योजनीयम् ।
यो ह्यसावन्तः स्मार्तः पदार्थः क्रियते तदा ।
तस्य क्रमप्रमाणं हि न श्रुत्याद्यवगम्यते ॥ २८५
उक्तपरिमाणस्य क्रमस्य नान्यदपि किंचित्प्रमाणमवकल्पते ।
तथा श्रुत्याद्यवगतप्रचयशिष्टपदार्थपरिमाणमवश्यमध्वर्य्यादिभिरविस्मृतसम-
स्तपदार्थनिर्माणयावधारणीयम् । ततश्च प्रथमपरिकल्पितपश्चादागतस्मार्त-
पदार्थानुष्ठाने पूर्वावधारणभ्रंशात्समस्तकृताकृतानिरूपणादनिवृत्तवैगुण्याशङ्कस्य
सम्यक्कृतत्वदाढर्यनिमित्तसंस्कारपाटवाभावादपूर्वदौर्बल्येन न्यूनफललाभप्रसङ्गः।
तच्चातिशयवत्सर्वं सार्थवादाद्विधेर्गतम् ।
न्यूनत्वाक्षमयाऽवश्यं विरुद्धं बाधते स्मृतिम् ॥ २८६
परिमितश्रुत्याद्युपदेशातिदेशात्मकाङ्गशास्त्रपरिमाणत्वाद्वा न तद्व्यतिरिक्ता-
ङ्गशास्त्रावकाशः सहकर्तव्यावगतेषु च पदार्थेषु सर्वात्मना त्वरमाणस्य यावाने-
वात्यन्ताशक्त्या कालविप्रकर्षो भवति; तावन्मात्रमेव प्रयोगवचनोऽनुमन्यते ।
शक्तस्तु क्षणमात्रमपि यदि विक्षेपं कुर्यात्, तदस्य प्रयोगवचनविधिर्न सहेत ।
तस्मात्त्रिविधस्यापि शास्त्रपरिमाणस्यान्यथाकरणान्नाऽऽचमनाद्यविरुद्धमिति । १
तदुच्यते ॥ ६ ॥
न्या० सु०—पूर्वपक्षसूत्रमवतारणपूर्वकं व्याचष्टे—इतीति । नाचमनादिपदार्थः कर्त्तव्यो
भवेदिति नञर्थव्याख्या । अभ्यधिकत्वापत्तेरिति शास्त्रपरिमाणत्वादित्यस्य विरोधोप-
पादनार्थत्वेन व्याख्या । न तु सत्यपि विरोधे प्रमेयबलाबलानुसारेणाचमनाद्यनुष्ठानं भविष्य-
तीत्याशङ्क्य, प्रमाणाधीनत्वात्प्रमेयसिद्धेः प्रमाणबलाबलस्य तस्माद् बलीयस्त्वाभिधानार्थं
शास्त्रशब्दं व्याचष्टे—शास्त्रितमिति । ननु सूत्रकृता परिणामशब्देनेयत्ताबाधापत्तेरुक्तत्वात्
शास्त्रपरिच्छन्नं हीत्यादिक्रमकालबाधापत्त्यभिधानभाष्यमयुक्तमित्याशङ्क्य नेयत्तावचनः
परिमाणशब्दः, किं तु परिच्छेदाश्चात्रैतत्क्रमका एव, एतत्संख्याका एवैतत्काला एवेति
त्रिविधावधारणरूपान्तराचमनाद्यनुष्ठाने बाध्येतेत्याह—शास्त्रेण हीति । आशुनिर्माणशब्देन
प्रधानप्रत्यासत्तिः, पूर्वाह्नाद्यनतिक्रमः, प्रयोगशैघ्र्यं चेति त्रिविधा कालावच्छिन्नतोक्ता ।
समासश्चात्र शास्त्रेण परिमाणं येषां पदार्थानामिति बहुव्रीहिरभिमतः । कथं शास्त्रेण
१. मु० मु० उच्यत इत्येव पाठः ।

पृष्ठ 405
स्थायी लिंक
पृष्ठ 405 स्कैन

१ ] प्रथमाध्याये तृतीयपाद। : ३५३
क्रमेयत्ता कालावगतिः ? किं च तेषां बाधक मित्यपेक्षायामाह - द्वाभ्यामिति । प्रयोगविधि-
श्रुत्याऽङ्गप्रधानविशिष्टभावनाविधानेन युगपदनुष्ठानाक्षेपादत्यन्तयौगपद्याशक्तेश्च प्रधान-
प्रत्यासत्तिलक्षणप्रयोगप्रांशुमावलक्षणश्च कालोऽवगम्यते । पूर्वाह्नादिकालः पूर्वाह्लादिश्रुत्या,
अङ्गान्तरविनियोजकैः श्रुतिलिङ्गादिभिः प्रचयशिष्टाङ्गसंख्यावगम्यते । क्रमनियामकैः
श्रुत्यर्थादिभिः क्रमः तेषां श्रौतपदार्थेषु प्रविशन्तः स्मृत्याचारप्राप्ताः पदार्था बाधका इत्यर्थः ।
प्रयोगवचनावगतस्य प्रधानप्रत्यासत्तिलक्षणस्य च शेषरूपप्रत्यासत्तिलक्षणस्य च कालस्य
पूर्वाह्लादिविनियोजकश्रुत्यवगतस्य च पूर्वाह्लादिकालस्य स्मृत्याचारप्राप्तपदार्थानुष्ठाने
बाधापत्तिं विवृणोति - सर्वे हीति । अनेन च भाष्यकारीयस्य दक्षिणाचारप्रधानकालयो-
विरोधोपन्यासस्योपलक्षणार्थत्वं दर्शितम् । प्रयोगवचनावगम्यस्य प्रत्यासत्तिलक्षणस्य च
कालस्योपपाद्यत्वेनाभ्यर्हितत्वात्पूर्वं तद्बाधप्रसङ्गापादभाष्यव्याख्येति व्युत्क्रमदोषाभावः ।
क्रमबाधप्रसङ्गभाष्ये प्रकृतोदाहरणविषयं श्रुतिग्रहणं क्रमप्रमाणमात्रोपलक्षणार्थम् ।
आचमनग्रहणं च प्रयोगमध्यपातियज्ञोपवीतकरणोपलक्षणार्थमिति व्याचष्टे - क्रमश्चेति ।
ननु वेदवेद्यन्तरालाचमनविध्यभावात्सर्वादौ च क्रियमाणस्य क्रमविरोधाभावात्कथमन्य-
थात्वप्रतिपत्तिरित्याशङ्क्य-क्षुतादिनिमित्तेत्युक्तम् । ननु क्षुतादिनिमित्ताचमनप्रसक्तौ
तावदाश्रयः क्रमो भविष्यतीत्याशङ्क्य - विज्ञातेत्युक्तम् । यस्याश्रयणं प्रमाणानां च
परिमाणमेतावत्त्वं विज्ञातम्, स तथोक्तः, कीदृशमाश्रयपरिमाणमित्यपेक्षिते यावन्तो वैदिकाः
पदार्थाः तावन्तः एवेति-वैदिकैरित्यनेनोक्तम् । प्रमाणपरिमाणं तु श्रुत्याद्यनुक्रमेण
ज्ञातमेवान्तराले यज्ञोपवीतस्य नैमित्तिकस्याप्यप्राप्तेः कथं क्रमान्यथात्वापादकत्वमित्या-
शङ्क्य-आयासेत्युक्तम् ।
नन्वन्तराले स्मृत्याचारप्रमाणकपदार्थप्राप्त्यभावे वैदिकमात्राश्रयत्वेऽपि तत्प्राप्तावधि-
काश्रयत्वं भविष्यतीत्याशङ्कयाह -यो हीति । प्रमाणान्तरं तर्हि कल्पयिष्यते, अत आह --
उक्तेति । अङ्गपरिमाणप्रमाणस्येति पाठे त्वक्षुगविपूजनयोरिति गत्यर्थाद्च्चेतेरकत्तरि च
कारके संज्ञायामिति को भवता दायो दत्त इत्यादिषु संज्ञाव्यभिचार्यत्वाच्च कारकस्या-
संज्ञायामपि कर्मणि घञमुत्पाद्यः चजोः कुघिण्यतोरिति कुत्वेन गतशब्दार्थे गमिति रूपानु-
सारेणावगतपरिमाणस्येत्यर्थः ।
नन्वियत्तायाः केनचिच्छास्त्रेणाविधानात्तद्वाधेऽपि न शिष्टकोपापत्तिरित्याशङ्क्य, तस्या
अपि शास्त्रीयतामाह - तथेति । किं कश्चित्पदार्थो विस्मृतः, कृतं वा सर्वमिति सन्देहस्या-
नुष्ठेयपदार्थसंख्यासम्पत्तिपर्यालोचनं विना निराकर्तुमशक्यत्वात्प्रयोगवचनेनेयत्तावधारण-
मप्यर्थादाक्षिप्यते । अज्ञातस्य परिमाणस्यानुष्ठानकालेऽवधारणासम्भवमाशङ्क्य श्रुत्याद्यव-
गतानां पदार्थानां प्रचयशिष्टमित्युक्तम् । ननु विस्मरणेऽपि सकलवैदिकपदार्थानुष्ठाने कृते सम्पूर्ण-
फलप्राप्तेर्न कश्चिद्दोष इत्याशङ्कयाह -ततश्चेति । यतश्च पदार्थपरिमाणमवधारणीयम्, ततश्च
स्मार्त्तपदार्थानुष्ठानेन न्यूनफलमप्रसङ्ग इत्यन्वयः । अपूर्वबलदौर्बल्येनेति न्यूनत्वकरणम्
अपूर्वदौर्बल्ये किं कारणमित्यपेक्षायामनिवृत्ते वैगुण्याशङ्क्येति हेतुगर्भं विशेषणम्, किं कृतं किं
२३

पृष्ठ 406
स्थायी लिंक
पृष्ठ 406 स्कैन

१५४ मीमांसादर्शनम् [ सू०
वा नेति कृताकृतनिश्चयो वैगुण्याशङ्काकारणम् । कृताकृतनिश्चयकारणं-पूर्वावधारणभ्रंशः ।
कथं तस्यानिश्चयकारणत्वमित्यपेक्षिते सम्यक्कृतत्वदाढर्चनिमित्तसंस्कारपाटवाभावादित्युक्तम् ।
सम्यग्व्यैतत्कृतमिति स्मृतिदाढर्चंस्य यन्निमित्तं संस्कारपाटवम्, तस्याभावादित्यर्थः ।
अनुष्ठानात्पूर्वं ह्येतावन्तोऽनुष्ठेया इत्यवधारिते यावन्तोऽनुष्ठेयाः तावतामनुष्ठानोत्तरकाले-
ऽनुष्ठितत्वावधारणात्तत्प्रसूतसंस्कारपाटवेन सम्यक्कृतत्वस्मृतिदाढर्यात्कृताकृतसन्देहो
निवर्तते, नान्यथा । ननु सहेयत्तायाः पूर्वमवधारणात्कथं स्मार्त्तपदार्थानुष्ठाने पूर्वावधारण-
भ्रंश इत्याशङ्क्य—प्रथमेत्युक्तम् । प्रयोगवचनस्य श्रुत्याद्यवगतपदार्थमात्रपर्यवसायित्वेन
स्मार्त्तेष्वव्यापारात्प्रथमं प्रयोगवचनव्यापारवेलायामित्यत्थाश्रयत्वेनापरिकल्पितस्य पश्चात्-
द्वद्यापारपर्यवसानोत्तरकालं स्मृतिवशादागतस्य प्राप्तस्य पदार्थस्यानुष्ठानेन पूर्वस्य प्रयोग-
विधिब्यापारकालोनस्येयत्तावधारणस्य भ्रंशादित्यर्थः । वैदिकस्य सुनेदेन होमादेर्नैमित्ति-
कस्यापि प्रयोगविधिब्यापारवेलायामेवानुष्ठेयत्वावधारणान्न तदनुष्ठाने पूर्वावधारणभ्रं-
शापत्तिः । वैगुण्याशङ्कायां चापूर्वातिशयहेतुश्रद्धाविरहादपूर्वदौर्बल्यमात्रं भवति न तु
सर्वथाऽनुपपत्तिः । तदुत्पादकसमस्ताङ्गप्रधानानुष्ठानस्य निष्पन्नत्वाच्छ्रद्धायाश्चापूर्वातिशय-
हेतुत्वं 'यदेव विद्यया करोति, श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवती (छा० उ० १.१.४)
त्यतिशयवाचितरप्रत्यययुक्त्या श्रुत्या ।
श्रद्धयेष्टं च पूत्तं च नित्यं कुर्यादतन्द्रितः ।
श्रद्धाकृते ह्यक्षये ते भवतः स्वागतैर्धनैः ॥
इति स्मृत्या चाक्षयहेतुत्वं श्रद्धाया वदन्त्यार्थान्तरभावे क्षीणत्वप्रतिपादनादवसीयते ।
ननु किंचित्फललाभेऽपि विधेरर्थवत्त्वान्न शिष्टकोपापत्तिरित्याशङ्क्याह – तच्चेति ।
विधिसिद्धप्रवर्त्तनातिशयार्थेनार्थवादेन प्रवर्त्तनातिशयावसेयफलातिशयावसायात्तत्फलं सर्वं
समग्रमतिशयवच्चार्थवादसहिताद्विधेरवगतमिति कृत्वा न्यूनत्वासहिष्णुतया फलातिशय-
हेतुश्रद्धाविरहवैगुण्याशङ्कापादकपदार्यान्तरविधायकत्वेन विरुद्धामाचमनादिस्मृति बाधत-
इत्यर्थः ।
इयत्ताविरोध एव सूत्रं योजयति-परिमितॆति । अङ्गशास्त्राणां यत्परिमाणम्, तदेवाङ्ग-
नामित्यर्थः । क्रमकालेयत्तासाधारणपूर्वव्याख्यानापेक्षा वाशब्दः । प्रयोगविधिप्रमितप्रधान-
प्रत्यासत्त्याक्षिप्तप्रयोगशैघ्रयविरोधं प्रधानप्रत्यासत्तिविरोधाभिधानेनार्थोक्तमपीदानीं प्रयोग-
विधिना साक्षादपि प्रयोगशैघ्रयावगमात्पदार्थान्तरानुष्ठाने तद् विरोध इति प्रकारान्त-
रेणाह—सहेति । उपसंहरति—तस्मादिति ॥ ६ ॥
भा० प्र०—'न' ना अर्थात् यह सङ्गत नहीं है, "शास्त्र परिमाणत्वात्” = क्योंकि
शास्त्र परिमाण अर्थात् वेदशास्त्र से उपदिष्ट कर्म रहता है । किन्तु सिद्धान्ती का यह मत
ठीक नहीं है, क्योंकि वेद वचन विहित अनन्तर कर्तव्य कर्म रहता है । यह पूर्व पक्ष है ।
आशय यह है कि भाष्यकार के मत के अनुसार प्रत्यक्ष श्रुति विरुद्ध स्मृति अप्रमाण
है—यह पूर्वं अधिकरण में कहा गया है । प्रकृत में यह विचारणीय है कि वह कहाँ

पृष्ठ 407
स्थायी लिंक
पृष्ठ 407 स्कैन

७ ] प्रथमाध्याये तृतीयपादः ३५५
प्रमाण है और कहाँ अप्रमाण है । स्मृतियों में कहा गया है कि "क्षुत आचमेत",
"आचान्तेन कर्तव्यम्", एक शास्त्रोक्त कर्म के करने के बाद दूसरे कर्म को करने से पूर्व
यदि क्षुत् (छींक) होने पर आचमन करना चाहिये अर्थात् आचमन पूर्वक कर्म करना
चाहिए । श्रुति में कहा गया है कि "वेदं कृत्वा वेदिं करोति" वेद अर्थात् कुश के गुच्छे
से निर्मित सम्मार्जनी कर वेदि = आहवनीय एवं गार्हपत्य इन दो अग्नियों के मध्य में
चार अङ्गुल परिमाण भूमि में गड्ढा करे इस स्थल में वेद करने के बाद यदि छींक हो
तब स्मृति से विहित आचमन का अनुष्ठान करे और इसके बाद वेदि करे या आचमन
किए विना ही वेदि का निर्माण करे ? इस प्रकार के संशय होने पर सिद्धान्ती यदि यह
कहते हैं कि प्रकृत में जब श्रुति के साथ स्मृति का विरोध नहीं है, तब स्मृति के वचन
से श्रुति वचन का व्याकोप या बाधा नहीं है, अतः स्मृति से उपदिष्ट वचन अविरुद्ध या
प्रमाण होने से अनुष्ठेय है, किन्तु यह सङ्गत नहीं है, क्योंकि, "वेदं कृत्वा वेदिं करोति",
इस स्थल में श्रुति में प्रयुक्त कृत्वोपद में 'क्त्वा', प्रत्यय से आनन्तर्य अर्थ का बोध हो
रहा है । अतः वेद के बाद वेदि का निर्माण करना होगा—यही वेदवचन के द्वारा अर्थ
अवगत हो रहा है, किन्तु स्मृति वचन के अनुसार यदि वेद करने के बाद आचमन
करके अनन्तर वेदि किया जाय तो श्रुति के द्वारा कथित आनन्तर्य क्रम का बाध होगा ।
इसलिए श्रौतक्रम का विरोध होने से स्मृति के द्वारा प्रतिपादित आचमन कर्तव्य नहीं है,
क्योंकि स्मृति की अपेक्षा श्रुति बलवती होती है । यही पूर्वपक्षियों का आशय है ।
इसी प्रकार "दक्षिणाचारेण कर्तव्यम्" दक्षिण हस्त से ही शास्त्रोक्त कर्म करे, यह
स्मृति वचन श्रौत काल के साथ विरुद्ध होने से अनादरणीय है, क्योंकि, श्रुति में पूर्वाह्ण
आदि काल नियमित है, किन्तु केवल दक्षिण हस्त से कर्म का अनुष्ठान किया जाय तो
पूर्वाह्ण आदि श्रौतकाल के मध्य में कर्म का समापन नहीं होगा, अतः, दोनों हाथ से
शास्त्रीय कर्मों का सम्पादन करना उचित है । क्योंकि; ऐसा करने से अतिशीघ्र कर्म का
सम्पादन होने से श्रौतकाल का अतिक्रमण नहीं होगा । परिमाण के सम्बन्ध में इसी
प्रकार समझना चाहिये । अत एव श्रुति संबोधित पदार्थ के = कर्म के समान श्रौत क्रम
काल एवं परिमाण आदि के साथ विरोध होने पर भी स्मृति विहित कर्म अनुष्ठेय
नहीं है ॥ ६ ॥
यह पूर्व पक्ष है ।
अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन् ॥७॥ सि०
शा० भा०—अपि वेति पक्षव्यावृत्तिः । अगृह्यमाणकारणा एवंजातीयकाः
प्रमाणम् । ननु क्रमकालौ विरुन्धन्ति ? विरुन्धन्तु । नैष दोषः । आचमनं पदार्थः,
पदार्थानाञ्च गुणः क्रमः । न च गुणानुरोधेन पदार्थो न कर्तव्यो भवति । अपि
च प्राप्तानां पदार्थानामुत्तरकालं क्रम आपतति । यदा पदार्थः प्राप्नोति, तदा क्रम

पृष्ठ 408
स्थायी लिंक
पृष्ठ 408 स्कैन

१५९ मीमांसादर्शनम् [ सू०
एव नास्ति, केन सह विरोधो भविष्यति इति । तथा यदि दक्षिणेन नाऽऽचर्यते,
मा विरोधीदिति, तत्र कालानुरोधेन पदार्थो नाऽऽन्यथात्वमभ्युपगच्छेत् ।
प्रयोगाङ्गं हि कालः पदार्थानामुपकारकः । अतो न कालानुरोधेन व्यथयितव्यः
पदार्थः । अपि च शौचम्, दक्षिणाचारता, यज्ञोपवीतित्वम्, चैवंजातीयका अर्था
व्यवघातारो न भवन्ति, सर्वपदार्थानां शेषभूतत्वात् । तस्मादाचमनादीनां
प्रामाण्यम् ॥ ७ ॥
भा० वि०-एवं श्रौतार्थबाधकतया विरोधे, विरोधाद्वाननुष्ठाने प्राप्ते
सिद्धान्तयति - अपि वेति । तत्र विरोधादननुष्ठानमिति मतं व्यावर्तयितुं सूत्रा-
वयवं व्याचष्टे - अपि वेति । अवशिष्टं व्याकरोति - गृह्यमाणेति । यस्मादपरि-
दृश्यमानलोभादिकारणाः आचमनादयोऽर्थाः, तस्मात्प्रमाणमनुष्ठेया इत्यर्थः ।
यद्यपि स्मार्ताचमनाद्यनुप्रवेशे श्रौतक्रमादिबाधात् श्रुत्या सह स्मृतेर्विरोधः, तथापि
हेतुदर्शनविशिष्टस्यैव विरोधस्याप्रामाण्यप्रयोजकत्वाद्विशेषणाभावे च विशिष्ट-
प्रयोजकाभावेन तदप्रामाण्याभावाद्युक्तं तदनुष्ठानमित्यभिसन्धिः । कारणा-
ग्रहणे सति प्रयुक्तानि-शिष्टैरनुष्ठीयमानानि, प्रतीयेरन्-आश्रीयेरन् इति सूत्रार्थः ।
परिहारान्तरं वक्तुं चोद्यमुद्भावयति - नन्विति । विरुन्धन्ति एवंजातीयका
इत्यनुषङ्गः, क्रतुमनुप्रवेश्यमाना आचमनादय इत्यर्थः । आचमनादीनां पदार्थतया
प्राधान्यात्, क्रमादीनां च पदार्थधर्मतया गुणत्वात्, गुणानुरोधेन च प्रधान-
बाधासम्भवाद्युक्तमाचमनादीनामनुष्ठानमिति, परिहरति - विरुन्धिन्त्विति । एत-
दुपपादयति - आचमनमित्यादिना । क्रम इति कालस्याप्युपलक्षणम्, न च
कालस्य स्वतन्त्रपदार्थतया पदार्थधर्मत्वासंभवः । अनुष्ठेयपदार्थविच्छेदकतया
तस्यापि तद्धर्मत्वादिति द्रष्टव्यम् ।
एवं तावद्विरोधेऽप्याचमनादीमनुष्ठेयतां प्रतीयेरन्नित्येतदन्तस्य सूत्रवाक्य-
स्यार्थतया व्युत्पाद्येदानीं तेष्वदर्शनाद्विरोधस्येत्युक्तसूत्रावयवमनुषङ्गेणात्रापि
योजयन् विरोधपूर्वकपक्षं दूषयति - अपि चेत्यादिना । तत्र क्रमविरोधं तावन्नि-
रस्यति - प्राप्तानामिति । विनियोगवचनवशेन हि पदार्थेषु प्राप्तेषु पश्चाद-
नुष्ठानाङ्गतया क्रमोऽपेक्ष्यते अतः प्राप्तेषु पदार्थेषु पश्चात् क्रमः प्राप्तः, ततः
किमत आह - यदेति । इति शब्दः क्रमनिराससमाप्तौ, कालविरोधं निरस्यति -
तथेति । प्रधानप्रत्यासत्यादिरूपः कालो बाधितो मा भूदिति, यदि दक्षिणेनैव
हस्तेन नाचायेँतेत्यर्थः । व्यथाबाधः अस्तु को दोषस्तत्राह - प्रयोगेति । न हि
पदार्थानां उत्पत्तिविनियोगयोः कालापेक्षा, अपि र्तहि प्रयोगे कर्तव्यमित्युक्ते
कदेत्यपेक्षा भवति । तेन प्रयोगाङ्गत्वात् कालोऽपि पदार्थसिद्धयुत्तरकालीन
इत्यर्थः । इतोऽपि तत्सिद्धयुत्तरकालीन इत्याह - पदार्थानामिति । करणोप-

पृष्ठ 409
स्थायी लिंक
पृष्ठ 409 स्कैन

७ ] प्रथमाध्याये तृतीयपादः ३५७
कारकतया विनियुक्तानां पदार्थानामवच्छेदक इति यावत् । पदार्थानामुपजीव्यत्वे
फलितमाह—अत इति । निखिलाङ्गप्रधानोपकारकत्वाच्चाचमनादीनां न
तैर्व्यवधानमित्याह-अपि चेति । शौचं-शुद्धता, आचान्तता यज्ञोपवीतत्वं चेत्यस्या-
नन्तरमिति शब्दमध्याहृत्यैवं जातीयकपदेन संबन्धनीयम् । सर्वोपकारकत्वमेवं
जातीयकशब्देन सूचितम्, तेन यदा वेदं कृत्वा वेदिमकृत्वापि क्षुत आचामति,
तदा स वेदिमेव करोति । अनाचमने वेदिकरणस्यैव वैगुण्यापातादित्याशयः,
तदनेन तेष्वाचमनादिषु क्रतुमनुप्रवेश्यमानेषु श्रौतक्रमादिभिः विरोधस्यादर्शना-
दिति सूत्रावयवो व्याख्यातः, यस्मादेवमविरोधः ।
विरोधेऽपि वा पदार्थतयाचमनादीनां प्राबल्यं तस्मात् कर्तव्यानीति निगम-
यति—तस्मादिति ॥ ७ ॥
त० वा—तेष्वदर्शनाद्विरोधस्येति वा समासः । अनन्तरसूत्रे विप्रतिपत्त्यु-
पात्तविरोधाभावोक्तेरनुपयुज्यमानत्वात्, इह च प्रक्रान्तविरोधाभावस्यावश्यवच-
नीयत्वात् । उपयोगसद्भावेऽपि च काकाक्षिवदनुषङ्गेण, तन्त्रेण चोभयसम्बन्धात् ।
अपि वा कारणं दृष्टं यस्मादेषु न गृह्यते ।
तस्मान्नाऽऽचमनादीनां क्रतुश्रुतिविरुद्धता ॥ २८७
विरोधत्याजितश्रुतिविरुद्धता । विरोधत्याजितश्रुतिमूलस्य हि स्मरणस्य
यस्य मूलान्तरमिदं संभवदुत्प्रेक्षामात्रेणोपप्लवते, तत्राल्पेनैव प्रयासेन निराशङ्क-
प्रमाणत्वं निश्चीयते ।
यत्र तूत्प्रेक्षयाऽप्यन्यत्कारणं नावलम्ब्यते ।
अत्यन्तानन्यमूलत्वाच्छ्रुतितस्तत्प्रमाणता ॥ २८८
न वाऽऽचमनादिस्मृतेः कामक्रोधलोभद्वेषमानलज्जादिकारणं किंचित्संभाव्यते,
यन्मूलत्वेन श्रुतिमूलत्वमपहूयेत ।
अनन्यमूलिकायां च श्रुतौ मूलेऽवधारिते ।
विरोधेऽपि प्रमाणत्वं स्मृतेः श्रुत्या न वार्यते ॥ २८९
इयत्ताक्रमकालाश्च श्रोतत्वाद्बलवत्तराः ।
पदार्थधर्मभावात्तु दुर्बलत्वादबाधकाः ॥ २९०
ननु पूर्वभावित्वात्प्रमाणबलाबलमेव प्रमेयबलाबलाज्ज्यायस्त्वेन प्रतिभाति ।
उच्यते—नैव तावच्छ्रुतिस्मृत्योः स्वरूपेण विरुद्धता ।
बलाबलपरीक्षा वा प्रमेयद्वारिका हि सा ॥ २९१
प्रमेयगतं हि विरोधमालोच्य प्रमाणविरोधबुद्धिर्भवति ।
तद्यस्यामेव वेलायां विरोधो दृश्यते तयोः ।
प्रमेययोः स्वरूपस्थं तस्मादेव बलाबलम् ॥ २९२

पृष्ठ 410 स्कैन

३५८ मीमांसादर्शनम् [ सू०
येषां पदार्थधर्मत्वादौर्बल्यं पूर्वनिश्चितम् ।
न तेषां श्रुत्यवष्टम्भात्तत्पश्चादपगच्छति ॥ २९३
पदार्थत्वेन येषां च वलीयस्त्वं निरूपितम् ।
न स्मृतेर्दुर्बलत्वेन पुनस्तदपनीयते ॥ २९४
नित्यमेवाप्रमाणं यत्तदेवं बाधमर्हति ।
आपेक्षिकाप्रमाणं तु स्यात्प्रमाणमपेक्षया ॥ २९५
न

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 411 स्कैन

७ ] प्रथमाध्याये तृतीयपादः ३५९
तस्माद्यत्किंचनप्रमाणकसर्वपदार्थप्राप्त्युत्तरकालापेक्षितसम्बन्धः कालोऽपि
नैव सर्वोपसंहारविरोधीति तेषु क्रमकालपरिमाणेष्वदर्शनाद्विरोधस्येत्युच्यते ।
विरोधो नास्तीतिकथनं
यद्वा तेष्वाचमनादिषु क्रियमाणेष्वदर्शनाद्विरोधस्येति सूत्रार्थयोजना ।
अपि च—
शौचयज्ञोपवीतादेर्न स्वतन्त्रपदार्थता ।
सर्वं

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें

सूत्राणि तु पूर्वाधिकरणारक्षेपपरिहारसूत्रत्वेनैव व्याख्यातव्यानि । यत्तर्हि

पृष्ठ 412 स्कैन

३६० मीमांसादर्शनम् [ सू०
दक्षिणाचारत्वं तु—
यत्राऽऽहृत्य विधानेन स्यात्सव्याञ्जलिचोदना ।
तस्मादेव निवर्तेत नान्यत्राऽऽशङ्क्यतेऽपि तत् ॥ ३०९
“यथा वै दक्षिणः पाणिरैवं देवयजनम्” इति प्रागुदक्प्रवणविधिपरे वाक्ये
देवयजनवद्यज्ञाङ्गत्वौचित्यादुपमानमवकल्पते । तेन नात्रेकमपि विरोधबाधशङ्-
कायोग्यमित्यनुदाहरणानि । तस्मान्नैव

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 413 स्कैन

७ ] प्रथमाध्याये तृतीयपादः ३६१
तेन तद्वाक्यचेष्टानां सर्वदैवास्ति संभवः ।
तदुक्तिज्ञापनाच्चेदो नानित्यऽतो भविष्यति ॥ ३१५
प्रतियज्ञं भवन्त्यन्ये सर्वदा षोडशर्त्विजः ।
आदिमत्त्वं च वेदस्य न तच्चरितबन्धनात् ॥ ३१६
उक्तं च—यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये ।
दृश्यन्ते तानि तान्येव तथा भाति युगादिषु ॥ इति । ३१७
इतिहासपुराणं च कृत्रिमत्वेन निश्चिते ।
यथाऽप्यकृत्रिमे

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 414 स्कैन

३६२ मीमांसादर्शनम् [ सू०
यदा शास्त्रान्तरेणैव सोऽर्थः स्पष्टोऽवधार्यते ।
तदा तेनैव सिद्धत्वादितरस्यादनर्थकम् ॥ ३२४
तस्माद्यावत्परिगणितवेदादिशाख्यव्यतिरिक्तनिबन्धनं तद्धर्मप्रमाणत्वेन नापे-
क्षितव्यमिति ।
सदाचारप्रामाण्याधिकरणम् ।
यत्त्वेतत् । ‘अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन्’, इति । सूत्रम् ।
अत्र सदाचारानुदाहृत्य त्रिवर्गसिद्ध्यर्थं विचार्यते । तद्विपरीतसंकीर्णव्यव-
हारिषु

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 415 स्कैन

७ ] प्रथमाध्याये तृतीयपादः ३६३
आत्मतुष्टेः प्रामाण्याक्षेपः
ननु—सदाचारप्रमाणत्वं मन्वादिभिरपि स्मृतम् ।
आत्मतुष्टिः स्मृतान्यैस्तैर्धर्मे सा चानवस्थिता ॥ ३२६
यथाभ्यासं ह्याशयवैचित्र्येण शुभाशुभोभयहीनक्रियानुष्ठायिनामात्मतुष्टिरपि
विचित्त्रैव भवति ।
तथा हि—कस्यचिज्जायते

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 416 स्कैन

३६४ मीमांसादर्शनम् [ सू०
प्रदानानि जपो होमो मातृयज्ञादयस्तथा ।
शुक्रध्वजमहोध्यात्रा देवतायतनेषु च ॥ ३३५
कन्यकानां च सर्वासां चतुर्थ्याद्युपवासकाः ।
प्रदीपप्रतिपद्दानमोदकापूपपायसाः ॥ ३३६
अनग्निपक्वमाघसप्तमीपौर्णमासीफाल्गुनोप्रतिपद्वसन्तोत्सवादीनां नियमक्रिया-
प्रमाणं न शास्त्रादृते किंचिदस्ति ।
स्मृतिकाराश्चाऽऽचारश्चैव साधूनाम्, देशजातिकुलधर्माश्चाऽऽम्नायैरविरुद्धाः
प्रमाणमिति

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 417 स्कैन

७ ] प्रथमाध्याये तृतीयपादः ३६५
प्रत्यक्षवेदविहितधर्मक्रियया हि लब्धशिष्टत्वव्यपदेशा यत्परम्पराप्राप्तमन्यदपि
धर्मबुद्ध्या कुर्वन्ति। तदपि स्वर्ग्यत्वाद्धर्मरूपमेव।
तद्यथा शुश्रुवान्विद्वाननूचानश्च वैदिकः।
पुनस्तल्लक्षितो वेदे तेनैवाध्ययनादिषु ॥ ३४०
तेनाहोरात्रपौर्वापर्यवदनादित्वाद् वेदतदर्थानामितरेतराश्रयत्वाप्रसङ्गः।

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें