मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 410, कुल 804 में से
संदर्भ में पढ़ें३५८ मीमांसादर्शनम् [ सू०
येषां पदार्थधर्मत्वादौर्बल्यं पूर्वनिश्चितम् ।
न तेषां श्रुत्यवष्टम्भात्तत्पश्चादपगच्छति ॥ २९३
पदार्थत्वेन येषां च वलीयस्त्वं निरूपितम् ।
न स्मृतेर्दुर्बलत्वेन पुनस्तदपनीयते ॥ २९४
नित्यमेवाप्रमाणं यत्तदेवं बाधमर्हति ।
आपेक्षिकाप्रमाणं तु स्यात्प्रमाणमपेक्षया ॥ २९५
न च प्रमेयदौर्बल्यबलीयस्त्वनिबन्धनम् ।
प्राप्तं स्मृतिप्रमाणत्वं प्रमाणस्थेन बाध्यते ॥ २९६
न च प्रमेयदौर्बल्ये सत्यपि श्रुतिबाधनम् ।
तावता मन्दतेजस्त्वात्स्मृतिस्तां नैव बाधते ॥ २९७
एतदेव श्रुतेः पश्चाद् बहु यत्र स्मृतिर्वृथा ।
महास्मृत्याऽपि या काचिन्न शक्या बाधितुं श्रुतिः ॥ २९८
युगपत्प्राप्तिहेतुश्च विरोधस्तुल्यकार्ययोः ।
इह तु द्वयमप्येतन्नास्ति तेनाविरुद्धता ॥ २९९
कालेयत्ताक्रमाणां हि सर्वान्ते प्राप्तिरिष्यते ।
सुजघन्यप्रमाणोऽपि पदार्थः पूर्वमश्नुते ॥ ३००
प्राप्तेषु हि पदार्थेषु क्रमः पश्चादपेक्षते ।
यदा प्राप्तेष्वसौ क्लृप्तः केन पश्चाद्विरुध्यते ॥ ३०१
परिमाणमपि त्वार्थमविस्मरणसिद्धये ।
स्वयमालोच्यते प्राज्ञैः स्मार्तैः सह तदिष्यते ॥ ३०२
न केनचित्प्रमाणेण पदार्थेयत्ता परिच्छिद्यते । तत्र यदि तेन विनाऽन्ये
समस्तपदार्थस्मृतिहेतवो न स्युः, तत एतदप्येकं कारणमिति परिमाणमपि
स्थाप्येत । तस्यामपि त्ववस्थायां यथा श्रौतमात्रपरिमाणमसमाप्य, समाख्यापर्यन्त-
प्रापितपदार्थगतपरिमाणावधारणमाश्रीयते, तथा स्मृत्याचारपर्यन्तावगतपरि-
माणमाश्रयिष्यत इति निर्दोषम् ।
कालस्याङ्गत्त्वोपपादनम्
कालोऽपि च प्रयोगाङ्गं सर्वान्ते सोऽपि गृह्यते ।
स्मार्तैः सह ससाहित्यमाशुत्वं वा प्रपत्स्यते ॥ ३०३
कालो ह्ययं प्रधानस्य सर्वाङ्गसहितस्य यः ।
अङ्गैरविप्रकृष्टत्वमीदृशस्यैव चोद्यते ॥ ३०४