सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 399, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 399

५ ] प्रथमाध्याये तृतीयपादः ३४७
भा० वि०—विषयमाह—आचन्तेत्यादिना । यद्यप्यत्र कर्तव्यमात्रमनूद्या-
चमनादिविधायकानामुदाहरणत्वं प्रतीयते, तथापि पुरुषार्थाचमनादिस्मृतीना-
मप्यविरोधे, विरोधे च प्रमाणत्वाप्रमाणत्वयोर्निरूपितत्वात् क्रत्वर्थाचमनादि-
विशेषविषयाणामेवोदाहरणत्वमिति मन्तव्यम् । तत्र श्रुत्यर्थाबाधकत्वबाधकत्वाभ्यां
सन्देहमाह—किमेतानीति । इति विचार्यत इति शेषः, विरुद्धान्येताविरुद्धानीत्येवं
सन्देहः, न कर्तव्यानि, कार्याणीति तु तत्फलनिर्देशः, अत्र विरोधाविरोधमात्रं
विचार्यम्, अप्रामाण्यप्रमाणते तु पूर्वाधिकरणाभ्यामेव सिध्यत इति भावः ।
तदनेन यदि विरोधादप्रामाण्यम् तर्ह्याचमनादिस्मृतीनामपि क्रमादिश्रुतिविरोधाद-
प्रामाण्यं स्यादित्याशङ्कयाविरोधप्रतिपादनात् अधिकरणसङ्गतिस्सूचिता ।
यद्वा क्रमकालादिश्रुतिविरोधमङ्गीकृत्य तद्विरुद्धान्याचमनादीनि न कर्तव्यानि
उत धर्मविरोधेऽपि धर्मिभिः पदार्थैरविरुद्धानि कर्तव्यानीति विचार्यत इत्यर्थः ।
इह तूत्सृष्टस्य विरोधादप्रामाण्यस्य प्रमेयबलीयस्त्वेनापवादात् सङ्गतिः, विचार-
फलं च आचमनादीनां क्रत्वङ्गत्वसिद्धिः, अत्राप्याचारपक्षे क्रत्वङ्गपदार्थविष-
याणामाचाराणां क्रमाद्यविरोधं विरोधेऽपि वा प्रमेयबलीयस्त्वेनाप्रामाण्यापवादं
वक्तुमारम्भः, सिद्धान्तनिरासेन पूर्वपक्षं दर्शयितुं तदनुवादपरं सूत्रं—तस्येति ।
चेदितिभागं व्याचष्टे—इति चेदिति । इति शब्दार्थं दर्शयन् अवशिष्टं व्याचष्टे—
तैरिति । न विरुध्यते न बाध्यत इत्यर्थः । यथैव हि श्रुत्यादिभिः समाख्यापर्यन्तैः
प्रापितान् पदार्थानादाय क्रमादीनां प्रवृत्तिः, तथा स्मृत्याचारप्राप्तानपीति, न
स्मार्तैराचमनादिभिः अनुष्ठीयमानैर्वैदिकं किंचिदपि हीयत इति भावः । अबाध-
फलमाह-तस्मादिति । क्रमादिभिरविरुद्धानि, विरोधेऽपि वा तैः पदार्थैरविरुद्धानि
कर्तव्यानीति भावः ॥ ५ ॥
त० वा०—शिष्टाकोपे-एवं तावत्पुरुषार्थस्मृतीनामविरोधे विरोधे च प्रमाण-
त्वाप्रमाणत्वे निरूपिते । संप्रति तु क्रत्वर्थानां यज्ञोपवीतोदकाचमनदक्षिणहस्ता-
चरणस्मृतीनां बहुश्रुत्यर्थमध्यपातिनीनां विरोधाविरोधमात्रमेव विचार्यते ।
तन्निर्णये तु कृते, पूर्वाधिकरणाभ्यां प्रमाणत्वाप्रमाणत्वसिद्धिः ।
कथं पुनर्वरुद्धत्वं कथं वा न विरुद्धता ।
श्रुत्यर्थविगुणत्वेन तदभावेन चेष्यते ॥ २७८
यदि यज्ञोपवीतादीनि क्रतुमनुप्रवेश्यमानानि चोदकप्रयोगवचनाभ्यां न परि-
गृह्यन्ते, निराक्रियन्ते वा, ततो विरोधः । यदि पुनरानुगुण्यात्प्रकरणादिपठित-
वत्स्मृत्यनुमितवाक्यसंयोगेन क्रतुमनुप्रविशन्ति, न च पूर्वगृहीतं किंचिद्बाधन्ते, ततो
न विरुद्धानीति ।